यतीन्द्राष्टकम् (अनन्तानन्दाचार्यकृइतम्)

श्रीअनन्तानन्दाचार्यकृतं यतीन्द्राष्टकम्
नमो भगवते श्रीमत्सुशीलानन्ददायिने ।
राघवानन्दशिष्याय यतीन्द्राय नमो नमः ॥ १॥

नमो भगवते श्रीमत्सूनवे पुण्यसद्मनः ।
आचार्यसार्वभौमाय यतीन्द्राय नमो नमः ॥ २॥

नमो भगवते श्रीमद्रामानन्दाय धीमते ।
आनन्दभाष्यकाराय यतीन्द्राय नमो नमः ॥ ३॥

नमो भगवते श्रीमद्वैष्णवधर्मरक्षिणे ।
विजेत्रेऽनन्तसिद्धानां यतीन्द्राय नमो नमः ॥ ४॥

नमो भगवते श्रीमद्रामभक्तिप्रचारिणे ।
सम्प्रदायाब्धिचन्द्राय यतीन्द्राय नमो नमः ॥ ५॥

नमो भगवते श्रीमद्विशिष्टाद्वैतवादिने ।
वादिवारणसिंहाय यतीन्द्राय नमो नमः ॥ ६॥

नमो भगवते श्रीमद्रामाय गुणसिन्धवे ।
तीर्थराजेऽवतीर्णाय यतीन्द्राय नमो नमः ॥ ७॥

नमो भगवते श्रीमद्वेदतत्त्वार्थभाषिणे ।
निगमागमरक्षित्रे यतीन्द्राय नमो नमः ॥ ८॥

इति श्रीस्वामी अनन्तानन्दाचार्यकृतं यतीन्द्राष्टकं सम्पूर्णम् ।

Encoded and proofread by Mrityunjay Pandey