यतीन्द्राष्टाक्ष्हरस्तोत्रम्

यतीन्द्राष्टाक्षरस्तोत्रम्
पुण्यसद्यसुतः पुण्यः सुशीलानन्दवर्धनः ।
यः श्रीरामावतारः स यतीन्द्रः शरणं मम ॥ १।
यः श्रीमद्राघवानन्दाचार्यशिष्यो जगदुरुः ।
रामब्रह्मोपदेष्टा स यतीन्द्रः शरणं मम ॥ २॥

वेदार्न्ताशेक्षको यः श्रीवैष्णवधर्मरक्षकः ।
सम्प्रदायाब्धिचन्द्रः स यतीन्द्रः शरणं मम ॥ ३॥

विशिष्टाद्वैतसिद्वान्तरक्षादक्षः सुदेशिकः ।
बोधायनानुयायी स यतीन्द्रः शरणं मम ॥ ४॥

वादिवारणशार्दूलः सुधीर्दिग्विजयो महान् ।
आनन्दभाष्यकर्ता स यतीन्द्रः शरणं मम ॥ ५॥

सिद्घेदेवैनृपालीर्यः पण्डितेन्द्रेश्च पूजितः ।
सित्ष्यव्धिदिव्यदेहः स यतीन्द्रः शरणं मम ॥ ६॥

रामभक्तिप्रदानेन सद्भक्तिमुक्तिदश्च यः ।
रामानन्दो महाचार्यो यतीन्द्रः शरणं मम ॥ ७॥

वैष्णव भाष्यकार श्री वैष्णावाचार्यनिर्मितम् ।
यतीन्दराष्टाक्षरस्तोत्रं सर्वभीतिविनाशकम् ॥ ८॥

इति यतीन्द्राष्टाक्षरस्तोत्रं सम्पूर्णम् ।