सङ्गति-मणि-माला

००

श्रीमद्-वेङ्कट-शेषार्य-महा-देशिक-विरचिता ॥
सङ्गति-मणिमाला ॥

श्रीमच्-छठारेश् चरम-प्रबन्ध–
गाथा-सहस्रे दशकं प्रतीष्टा
सुसङ्गतत्वावह-चित्र-पद्य-
शताभिरंया मणि-मालिकेयम् ॥

०१

श्रियः पतिं श्री-शठ-जित् स्व-योगाद्
यथा-तथत्वाद् अनुभूय चास्य ।
बाह्याद्य्-अधृष्यां परतां च जानन्
प्रेण्णाऽस्य दास्ये स्व-मनो ऽनुशास्ति ॥ १

तद्-एक-भोगैर् बहुभिस् सहानु-
बुभूषया तद्-भजनं जनानाम् ।
महा-फलं तत्र च भक्ति-योगं
हेतुं क्रमं चोपदिदेश तस्य ॥ २

आप्ताखिलेष्टः कथम् अस्मद्-आदि-
निहीन-लभ्यः स इहेति शङ्काम् ।
निरस्य सोऽनाश्रित-दुर्लभः स्वं
समाश्रितानां सुलभो ऽभ्यधायि ॥ ३

सौलभ्य-चिन्ता-कबली-कृतात्मा
वियोग-योगान् निज-मन्तु-शान्त्यै ।
अन्यापदेशाद् घटकी चकार
पत्युः प्रिया-भाव-गतो गुरून् स्वान् ॥ ४

सर्वेश्वरे स्वार्त्त्य्-असहे प्रदर्श्य
सर्वेश्वरत्वादिकम् आगते ऽपि ।
स्वीय-स्तवाश्लेषणतो ऽत्यवद्यं
मत्वा स्व-नैच्यात् ददृशे सुशीलम् ॥ ५

“सौशील्य-दृष्ट्यास्य समाहितस्, तं
कथं जनोऽयं त्यजती"ति चित्ते ।
कृतानुकम्पः सुलभेन धूप-
दीपादिना तत्-सुगमत्वम् ऊचे ॥ ६

अहो परा धार्मिकता - त्व् अनन्य-
प्रयोजनैस् तुल्यम् इतोऽन्य-कामैः ।
सहास्य संश्लिष्यत इत्य् अथापि
स्व्-आराध-तत्-सेवन-सौख्यम् ऊचे ॥ ७

ऐश्वर्यम् अस्यैव हि विस्ततार
परं पुरा प्रस्तुतम् आश्रितानाम् ।
जन्माद्य् अनालोच्य समं च सर्वैः
संश्लेषणाद् आर्जवम् अप्य् अवादीत् ॥ ८

प्रत्यङ्ग-संश्लेषणम् एत्य तस्य
सात्ंय-प्रदाऽऽनन्दथुतां क्रमेण ।
अङ्गेषु संश्लेषणम् अप्य् अवादीत्
शठारिर् ईशस्य निजेषु हृष्टः ॥ ९

इत्थं तदीयानुभवैक-हेतुं
निश्चित्य चित्तं, तद् अपि प्रशस्य
तेनैव साकं कथयन् शठारिर्
मुमोद चादौ शतके ऽन्त्य-पङ्क्तौ ॥ १०

०२

इति हृद्-अनुभवस्याधिक्यतो बाह्य-योग-
स्पृह इह तद्-अलाभात् विह्वलो वस्तु तत् तत् ।
स्व-सम-विरह-जान् तत्-तद्-गुणान् प्रेक्ष्य पृच्छन्
विलपति शठवैरी प्रेयसी गोपिकेव ॥ १

अथ हरिर् अददत् संश्लेषम् अस्मै, ततस् तत्-
शुभ-गुण-गण-भोगस्, तत्-परत्वं जनेभ्यः ।
अपि विभव-दशायाम् अन्वयेनान्यथा ऽपि
प्रथितम् इह पुराणैः सेतिहासः प्रवक्ति ॥ २

( मालिनी)
अलभत हरि-योगानन्दम् अन्यादृशं, तद्- गुण-गण-रतिर् ऊचे, तत्-परत्वं प्रसङ्गात् ।
अथ निजम् अनुभोक्तुं मोदम् इच्छन् स-युग्भिर्
जगति तु तद्-अलाभान् मुक्त-योगेच्छुर् आस्ते ॥ ३

(मालिनी )
“परम-पद-जनानां सङ्ग-तृष्णेयम्, एतत् भवति कृति-सहस्रे पूरिते काल+++(य्)+++” इत्थम्।
भगवति स-विलम्बे सोढुम् एतन् न शक्तः
विलपति शठ-वैरी प्रेयसी-मातृ-वाचा ॥ ४

( मालिनी)
इति विलपनम् अस्याकर्ण्य तूर्णं स नाथः
करि-वर-परिरक्षा-कान्दिशीकः पुरस्तात् ।
निज-वपुषि सुभूषा-हेति-रूपैर् बभासे
सह परिजन-बृन्दैस् तत्र तुष्टः प्रवक्ति ॥ ५

( मालिनी)
शठ-रिपु-परिरम्भाद् उज्ज्वलं प्रेक्ष्य वर्म
स्व-कम्, अथ मुदिते ऽस्मिन्, नैच्य-वाक् सोऽप्य् अभूत् (+हि??)।
चकित-हृदि च देवे, विप्रयोग-प्रभीतौ
अ-भय-वचनम् अस्मै स प्रदत्ते तदात्वे ॥ ६

( मालिनी)
अभय-वचन-काले प्रीतिर् अस्याभवद् या
शठ-रिपु-विषया सा तज्-जनेष्व् अप्य् अथा ऽभूत्
इदम् अभिनिरीक्ष्य प्रीति-पूर्णो मुनीन्द्रः
स्विक-जन-रतिम् एनं द्वादशाख्याभिर् ऊचे ॥ ७

( मालिनी)
निज-जन-कुल-जेऽपि प्रेम तीव्रं दधानं
समकथयद् अथैनं द्वादशाख्याभिर् एवम् ।
अ-मृत-वितरणेनाप्य् अस्य मोक्ष-प्रदत्वं
निरुपधि च परत्वं तेन तुष्टः प्रवक्ति ॥ ८

( मालिनी )
अथ च सकुलम् एनं मोक्ष-सौख्यं प्रणेतुं
कृत-मतिम् अपि देवं “मे मुदे नेयम् अर्थ्या ।
चरण-कमल-सेवा मोक्ष-वासो मुदे ते
भवतु म” इति गोप्यं प्राह मोक्ष-स्वरूपम् ॥ ९

( मालिनी)
विवृतम् इति तु मोक्षं सम्प्रदातुं वनाद्रौ
शुभ-सविध-पदे तं प्रेक्ष्य तिष्ठन्तम् ईशम् ।
तम् अपि गिरिम् अथैतत्-पार्श्व-मार्गादि सर्वं
पठति वकुल-मालः प्राप्य-कोटि-प्रविष्टम् ॥ १०

०३

( प्रभद्रकम् )
वनगिरि-मूर्धनि स्थितम् अभीक्ष्य पुष्पित-
द्रुमम् इव सुन्दरं विकच-धी-दवीयसीम्+++(=दूराम्)+++ ।
तनु-सुषमाम् अथास्य करुणा-प्रभावतो
बहु-तृण-गोचरां+++(=??)+++ वदति विस्मितो मुनिः ॥ १

( प्रभद्रकम् )
वनगिरि-सुन्दराङ्ग-सुषमां यथेप्सितं
पिहित-मुखस् सुधाब्धि-तट-गः पिपासितः
इव निज-भोग-कुण्ठन-करेन्द्रियैर् हृतो
न भजति यच् “च्युतो ऽहम्” इति खिद्यते ततः ॥ २

( प्रभद्रकम् )
निरवधिता निजात्म-गुण-गा हि रोधिनी
विकच-धियाम् अपीप्सित-सृतौ रतेर् इति ।
वृष-गिरिम् उत्तरं भजति तेन सान्वितः
स्तन-रत-बालको व जननी-स्तनान्तरम् ॥ ३

( प्रभद्रकम् )
सम-विध-सेवया+++(=??-)+++ वृष-गिरीशम् अर्चिता,
स्थिति-युतम्+++(=??)+++ अत्र यत् पृथग् अयं हि नैक्षत
किम् अपि विभूति-विग्रह-गुणेषु तस्य तद्
बहु-मुख-विस्मयश् चरति वाङ्मयार्चनम् ॥ ४

( प्रभद्रकम् )
इति तु विभूति-विग्रह-गुणान् हरेर् वदन्
मुदम् अतुलाम् अवाप्य च, जनान् हरौ तदा ।
अ-कृत-रतीन् समीक्ष्य वसु-धा-भरान् ब्रुवन्,
विकृतिम् उपेयुषो हरि-रतेः प्रशंसति ॥ ५

( प्रभद्रकम् )
“पर” इति दूर-गास् सुलभतां न जानते
“क्रुध इह नोऽवकाश” इति तेष्व् असौ घृणी
अतिसुलभा च या प्रतिगृहं हरिं स्थितं
प्रपदन-तुल्यतां गतिषु वक्ति सङ्गतम् ॥ ६

( प्रभद्रकम् )
अतिसुलभार्चया युत-हरौ रतो ऽथ तत्-
चरण-ग-रेखया च समतां दधन् नृणाम् ।
व्यवहितम् अन्वयं च वहतः परं वदन्
निज-पुरुषार्थ-पर्वसु शठारिर् एधते ॥ ७