१
सौक्षम्योपेत-वियद्-धुताशन-मरुत्-तोय-क्षिति-व्याप्तिमत्-
श्रेष्ठत्वावह-शब्द-दाह-बलिता-शैत्य-क्षमा-रूपिणः ।
ईशस्याधिपदाम्बु-जन्म-कुरुकाधीशा शठारातिना
प्रोक्ते पूर्ण-पदार्थ-लक्ष्म दशकं मोक्षः सहस्रे त्विदम् ॥ १
समीप-स्थ-तटाक-श्री-
कुरुका-शठ-जित्-कृतौ ।
इदं सुन्दर-सन्दर्भे
सहस्रे दशकं पठ ॥ २
देवेष्व् आनम्य हृष्टेष्व् अथ कृत-मथनं वारिधौ वीचि-पूर्णे
प्रोद्दिश्य +उपान्त-लीला-वन-शुभ-कुरुकाधीशितुः श्री-शठारेः ।
कैङ्कर्ये ऽस्मिन् सहस्रे रसवति दशकं चैतदाधीतवन्तश्
छेत्स्यन्त्य् आरुह्य नित्यैः परम-दिवि निजां क्रूर-संसार-काराम् ॥ ३
निस्सीम-श्री-सकल-भुवन-स्थायि-सर्वेश-कृष्णं
सत्-केदारावृत-सुकुरुकाधीट्-शठार्याप्ततोक्ते ।
निस्सीमान्तादिक-दश-शते त्व् ईदृशीनां दशानां
गाथानां सत्-पठन-सुलभा मोक्ष-साम्राज्य-लक्ष्मीः ॥ ४
“अत्याश्चर्य-गुणातिचित्र-चरित स्वामिन्! महन्न्” इत्य् अती-
वाशां प्राप्य कृपावशाद् भगवतस् तद्-भाक्-शठ-द्वेषिणः।
एतद्-भक्ति-विशिष्ट-गीति-रसिक-क्षीरोपम-द्राविडी-
सार-ज्ञेड्य-सहस्र-वर्ति-दशकाध्येतुर् न दुःखं भवेत् ॥ ५
शठारिणा ऽवद्य-युगो+++(=??)+++ विहीनं
रमा-धवं प्रत्युदिते सहस्रे ।
अ-दोषम् एतद् दशकं समर्था
अध्येतुम् अत्रोद्भवनं न यान्ति ॥ ६
अन्तर्-विशद्-भ्रमर–पीत-लसत्–तुलस्य्-
आपीडाङ्घ्रि–संश्रित–कनत्+++(=प्रीतिकर)+++-कुरुका-शठारेः । सुश्लिष्ट-सूक्ति-ललिते दशकं सहस्रे
विद्रावयेज् जनन-दुःखम् इदं विमथ्य ॥ ७
जलोपम-स्वभावस्य
गुणासक्त्या शठारिणा ।
प्रोक्ते सहस्रे दशकं
कृतम् एतद् विचारितम् ॥ ८
मूर्धन्य् एवास्मदीये स्थिति-सुखमयतो+++(=??)+++ देव-देवस्य कृष्ण-
स्याप्त-प्राप्तोपकर्तुर् हृदय-परिसरत्-प्रीति-विज्ञापयित्रा ।
प्रोक्ते गाथासहस्रे त्व् इह शुभ-कुरुकाधीट् शठारातिना ऽस्मिन्
विज्ञप्ते स्वोपकर्त्रे निरुपम-दशके शेखरं तन्-महाङ्घ्री +++(अन्वयः??)+++॥ ९
तन्-नील-रत्नम् अमरेक्षणम् आत्मनीनं+++(=आत्मने हितं)+++
किञ्चिद् विभूषणम् अदः कुरुकाधिनेतुः ।
कैङ्कर्य-वाचिक-सहस्र इमाः सुभक्त्या
विद्या फलेद् दश सतृष्णम् अधीयते चेत् ॥ १०
२
३
आश्चर्या अपि यद्-गता, न हि तथा सज्-ज्ञान-वेदोदिते
कैङ्कर्यान्वित-नैक-वास-विपुलां +++(→कुरुकां ←)+++ शास्त्रा शठारातिना ।
नत्वोक्ते कुरुकाम् अ-संशय-धिया पङ्क्तिस् सहस्रे ऽमुका
नादाढ्य-त्रि-जले जगत्य् उदय-दा, छिन्नां विधत्ते जनिम् ॥ १
सर्वात्माखिल-लोक-शेषि-विषये व्याप्तैः परं कोकिलैः
आरामैर् निबिडां सुरम्य-कुरुकां +++(←)+++ शास्त्रा शठारातिना ।
क्लृप्ते ऽदुष्ट-पदाढ्य-गान-महिते माला-सहस्रे स्थिता
हन्याद् आत्मनि मांसलं वपुर् इयं पङ्क्तिः प्ररूढं दृढम् ॥ २
विस्तीर्याङ्घ्रियुगं समस्त-भुवनं सङ्क्रान्तवन्तं प्रभुं
प्रोद्दिश्य +आयत-वृक्ष-षण्ड-कुरुका-राजच्–छठारीरिते ।
निस्तुल्यं दशकं सहस्र-गणिते सम्यक् पठन्तो जगन्-
मान्याः प्राप्य सुरम्य-सम्पदम् अथ स्युस् ते सुखस्यास्पदम् ॥ ३
सङ्घी-भूत–षड्-अङ्घ्रि–घोष-विलसच्–छीत-स्रजं वारिद-
श्रीकं प्रान्त-लसत्–स्व्-अरण्य-कुरुका-भास्वच्-छठारीरिते । गाथा-गीति-सहस्रके च दशकं त्व् अत्राद्वितीये ऽतुलं
शक्ता गातुम्, उपेत्य भोग-महतिं यूथानुभाव्यास्+++(=??)+++ सुरैः ॥ ४
“प्राप्यत्व-प्रापकत्वे भगवत” इति दृढान् सम्परिष्कृत्य दासान्
+++(इदं→)+++ शक्तं नेतुं स्व-दास्यं प्रति सुर-गणपं मे ऽच्युतं सद्-गुणाढ्यम् ।
नाथं शीतर्द्ध-सस्य-क्षिति-शुभ-कुरुकाऽधीट्-शठारि-प्रणीते
ऽद्वैतीके सहस्रे दशकम् इदम् अघं भूरि भस्मी करोति ॥ ५
चक्षुर्-दृष्टेर् अ-शक्यं, सुखम् अमल-मनस्-सुग्रहं, स्वर्ग-भाजाम्
ईशं, मृत्-प्राय-लोक-स्थित-निखिल-जनानुग्रहेप्सां दधानम् ।
सद्-गानाक्रीड-पाण्ड्य-क्षिति-पति-कुरुका-धीट्-शठाराति-सूक्ते
सद्-गाने ऽस्मिन् सहस्रे प्रभवति दशभिर् भक्तिर् एभिः पठन्तु ॥ ६
हन्तुं शतम् आप्तोद्धति, पञ्चस्व् अनुकम्पा-
कार्य् उत्तमम् उद्यत्-कुरुकेशश्+++(=अन्वयः??-)+++ शठ-हर्तुः ।
दास्ये ऽङ्घ्रि-निबद्धे ऽत्र सहस्रे दशके तद्-
भक्तोपरि पूर्णे ऽभ्यसने ऽत्राजनि-सिद्धिः ॥ ७