அருளிச்செயல்கள் அனைத்துக்கும் பொதுவான தனியன்கள்
॥ सर्वदिव्य-प्रबन्ध-साधारण-मुखपद्यानि ॥
रामानुजदयापात्रं
ज्ञानवैराग्यभूषणम् ।
श्रीमद्वेङ्कटनाथार्यं
वन्दे वेदान्तदेशिकम् ॥ १ ॥
लक्ष्मीनाथसमारम्भां
नाथयामुनमध्यमाम्
अस्मदाचार्यपर्यन्तां
वन्दे गुरुपरम्पराम् ॥ २ ॥
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-
व्यामोहतस् तदितराणि तृणाय मेने ।
अस्मद्गुरोर् भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ३ ॥
माता पिता युवतयस्तनया विभूतिः
सर्वं यद् एव नियमेन मद्-अन्वयानाम् ।
आद्यस्य नः कुलपतेर् वकुलाभिरामं
श्रीमत्तदङ्घ्रि-युगलं प्रणमामि मूर्ध्ना ॥ ४ ॥
भूतं सरश्च महदाह्वय-भट्टनाथ-
श्रीभक्तिसार-कुलशेखर-योगिवाहान् ।
भक्ताङ्घ्रिरेणु-परकाल-यतीन्द्र-मिश्रान्
श्रीमत्-पराङ्कुश-मुनिं प्रणतोऽस्मि नित्यम् ॥ ५ ॥