॥ श्रीमते लक्ष्मीहयवदनपरब्रह्मणे नमः ॥ श्रीमते वकुलभूषण महागुरवे नमः ॥ ॥ श्रीमते रामानुजाय नमः ॥ श्रीमते वात्स्यवरददेशिकाय नमः ॥ ॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥ श्रीमते सुन्दरार्यमहादेशियाय नमः ॥
॥ प्रतिबिम्बलहरी ॥
[ श्रीमद्वेङ्कट-शेषार्य-महादेशिकविरचिता ]
( तत्र प्रस्तावना )
कल्याणं कोऽपि कल्पद्रुः करोतु करुणाकृतिः । वटाक्षैः पुनरुक्तश्रीः रुक्मिणीसत्यभामयोः ॥१॥
वन्दे वन्दारुवृन्दायानन्दसन्दोहदं गिरा । मन्देतरदयाकन्दं तं देवं हयकन्धरम् ॥ २ ॥
श्रीशं श्रियं शठारातिं तदीयां द्रमिडश्रुतिम् । तद्व्याख्यास् तत्कृतश्चाहं प्रणमाम्यखिलान् गुरून् ॥ ३ ॥
तातपादानहं वन्दे वात्स्यान् वरददेशिकान् ।
यानन्वगृण्हन् वेदान्तरामावरजयोगिनः ॥ ४॥
श्रीसुन्दरार्य गुरुवर्यतयावतीयं नादृक्समस्तजनता जनितापहर्तुः । चित्ते स्थितस्य मम रङ्गपतेः प्रसत्यं कुर्वेऽनुबिम्बलहरीं द्रमिडश्रुतीनाम् ॥ ५ ॥
दयन्तां देशिकाः पूर्वे ते ते दिव्याश्च सूरयः । द्रमिडोपनिषद्गाथा संस्कृतीकरणाय मे ॥ ६॥ क्वाहं मन्दमतिः क्वचातिगहनस्वान्ताः शठारेगिरः
कालक्षेपधिया यतेऽत्र न तु तत्सर्वस्वलेखेछया । यद्यप्यस्वरसंव मत्कृतिरियं पूर्णेतरत्वात्तथाऽपि-
अत्यन्तादरणक्षमार्भकवचस्सारस्यसारस्पृशाम् ॥ ७ ॥
( इति प्रस्तावना)