मेघ-मूलम्

श्रीः
श्रीमते रामानुजाय नमः
श्रीमते निगमान्तमहादेशिकाय नमः
द्रमिडोपनिषत्तात्पर्यरत्नावलिः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
सारः सारस्वतानां शठरिपुफणितिः शान्तिशुद्धान्तसीमा
मायामायामिनीभिः स्वगुणविततिभिर् बन्धयन्तीं धयन्ती ।
पारम् पारम्परीतो भवजलधिभवन्मज्जनानां जनानाम्
प्रत्यक्प्रत्यक्षयेन्नः प्रतिनियतरमासन्निधानं निधानम् ॥ 1 ॥
प्रज्ञाख्ये मन्थशैले प्रथितगुणरुचिं नेत्रयन् सम्प्रदायं
तत्तल्लब्धिप्रसक्तैर् अनुपधि विबुधैर् अर्थितो वेङ्कटेशः ।
तल्पं कल्पान्तयूनः शठजिदुपनिषद्दुग्धसिन्धुं विमथ्नन्
ग्रथ्नाति स्वादुगाथालहरिदशशतीनिर्गतं रत्नजातम् ॥ 2 ॥
पाञ्चालीगात्रशोभाहृतहृदयवधूवर्गपुम्भावनीत्या
पत्यौ पद्मासहाये प्रणयिनि भजतः प्रेयसीपारतन्त्र्यम् ।
भक्तिः शृङ्गारवृत्त्या परिणमति मुनेर् भावबन्धप्रथिम्ना
योगात् प्रागुत्तरावस्थितिरिह विरहो देशिकास्तत्र दूताः ॥ 3 ॥
भाषा गीतिः प्रशस्ता भगवति वचनाद् राजवच्चोपचारात्
सा चागस्त्यप्रसूता त्विह परिजगृहे भूमिकाभेदयोग्या ।
यत्तत्कृत्यं श्रुतीनाम् मुनिगणविहितैः सेतिहासैः पुराणैस्
तत्रासौ सत्त्वसीम्नः शठमथनमुनेः सम्हिता सार्वभौमी ॥ 4 ॥
आदौ शारीरकार्थक्रममिह विशदं विंशतिर् वक्ति साग्रा
सङ्क्षेपोऽसौ विभागम् प्रथयति च ऋचां चारुपाठोपपन्नम् ।
सम्यक् गीतानुबद्धं सकलमनुगतं सामशाखासहस्रं
सम्लक्ष्यं साभिधेयैर् यजुरपि दशकैर् भात्यथर्वा रसैश्च ॥ 5 ॥
प्राच्ये सेवानुगुण्यात् प्रभुमिह शतकेऽमंस्त मुक्तेरुपायम्
मुक्तप्राप्यं द्वितीये मुनिरनुबुबुधे भोग्यताविस्तरेण ।
प्राप्यत्वोपायभावौ शुभसुभगतनोरित्यवादीत् तृतीये
ऽनन्यप्राप्यश्चतुर्थे समभवदितरैरप्यनन्याद्युपायः ॥ 6 ॥
देवः श्रीमान् स्वसिद्धेः करणमिति वदन्ने एकमर्थं सहस्रे
सेव्यत्वादीन् दशार्थान् पृथगिह शतकैर् वक्ति तत्स्थापनार्थान् ।
ऐकैकश्यात् परत्वादिषु दशकगुणेष्वायतन्ते तथा ते
तत्तद्गाथागुणानामनुविदधति तत्पङ्क्तयः पङ्क्तिसङ्ख्याः ॥ 7 ॥
सेव्यत्वाद् भोग्यभावात् शुभतनुविभवात् सर्वभोग्याधिकत्वात्
श्रेयस्तद्धेतुदानात् श्रितविवशतया स्वाश्रितानिष्टहृत्त्वात् ।
भक्तच्छन्दानुवृत्तेर् निरुपधिकसुहृद्भावतः सत्पदव्यां
साहाय्याच्च स्वसिद्धेः स्वयमिह करणं श्रीधरः प्रत्यपादि ॥ 8॥
ब्रूते गाथासहस्रम् मुरमथनगुणस्तोमगर्भम् मुनीन्द्रः
प्रत्येकं चात्र गाथाः प्रथितविभुगुणाः स्पष्टमध्यक्षयामः ।
तत्रासङ्कीर्णतत्तद्दशकगुणशतस्थापनौचित्ययुक्तान्
ऐदम्पर्यावरुद्धान् अगणितगुणितान् तद्गुणान् उद्गृणीमः ॥ 9 ॥
इच्छासारथ्यसत्यापितगुणकमलाकान्तगीतान्तसिध्य–
च्छुद्धान्ताचारशुद्धैर् इयमनघगुणग्रन्थिबन्धानुबद्धा ।
तत्तादृक्ताम्रपर्णीतटगतशठजिद्दृष्टसर्वीयशाखा–
गाथातात्पर्यरत्नावलिरखिलभयोत्तारिणी धारणीया ॥ 10 ॥
शतकम् 1
निस्सीमोद्यद्गुणत्वाद् अमितरसतयाऽनन्तलीलास्पदत्वात्
स्वायत्ताशेषसत्तास्थितियतनभिदावैभवाद् वैश्वरूप्यात् ।
त्र्यक्षब्रह्मात्मभावात् सदसदवगतेः सर्वतत्त्वेषु पूर्तेः
पश्यन् योगी परं तत्पदकमलनतावन्वशादात्मचित्तम् ॥1-1॥
स्वामित्वात् सुस्थिरत्वान् निखिलनिरुपधिस्वात्मविद्ग्राह्यभावात्
तादृक्सर्वानुकूल्याच् च्यवनवदितरप्राप्यवैषम्यवत्त्वात् ।
सर्वत्राप्यक्षिपातात् शुभविभवतया मानसाद्यर्च्यभावात्
सङ्कोचोन्मोचकत्वाज् जगदयनतयोपादिशत् सर्वयोग्यम् ॥ 1-2 ॥
बन्धार्हत्वात् स्वभक्तैर् अधिकतरगुणानन्तदिव्यावतारात्
सर्वेष्वासक्तिमत्त्वान् नतसुगमतया स्वप्रबोधप्रदत्वात् ।
ख्याताभिख्यादिचिह्नात् स्वरुचिवितरणात् सर्वकालाश्रयत्वात्
शर्वादेः स्वाङ्गदानात् प्रहितपदतयाऽनन्तसौलभ्यमाह ॥ 1-3 ॥
त्राणे बद्धध्वजत्वात् शुभनयनतया स्वार्थलाभेऽर्थिभावात्
तिम्यन्मेघस्वभावाज् जगदुपजननस्थापनातिप्रियत्वात् ।
कारुण्याप्तत्वयोगाद् अनुगतमहिषीसन्निधेः सङ्गदैर्घ्यान्
नानाबन्धैः स्वरक्षावहिततमतया क्षाम्यतीत्याह कृष्णम् ॥ 1-4 ॥
सद्ध्रीभव्यान् सुवाचः सुचरितसुभगान् कृष्णसारूप्यसौम्यान्
स्वाहारोदारशीलान् तनुधृतभगवल्लक्ष्मणो बाल्यगुप्तान् ।
छात्रस्वच्छन्दस्ववृत्तीन् अभिगतशिशिरान् अन्तरङ्गोक्तियोग्यान्
आचार्यान् कृष्णलब्धाववृणुत शठजित् प्रेयसीदूतनीत्या ॥ 1-5 ॥
क्षुद्राह्वानाभिमुख्यान् निजमहिमतिरस्कारकार्चाप्रियत्वात्
सर्वत्राप्यङ्घ्रिदानात् सविधशयनतः स्वाङ्घ्रिसक्तैकरस्यात् ।
गोपाद्याप्तेरशेषेक्षणविषयतया भक्तवस्तुप्रसक्तेः
श्लिष्यन्नाशव्यपोहात् तदहितशमनात्प्राह नाथं सुशीलम् ॥ 1-6 ॥
अक्रीतैरर्च्यभावाद् अनियतविविधाभ्यर्चनाद् अल्पतुष्टेः
प्रह्वावर्ज्येशभावात् स्वविषयनियतेष्वादरात् स्वादुभूम्ना ।
पादासक्तप्रसक्तेः सकृदुपसदने मोक्षणाद् धर्मसौस्थ्यात्
क्षिप्रक्षिप्ताहितत्वात् सुकरभजनताम् माधवस्याभ्यधत्त ॥ 1-7 ॥
सच्चित्ताकर्षहेतोरघशमननिधेर्नित्यभोग्यामृतस्य
त्यागे हेतूज्झितस्य प्रवहदुपकृतेर्दुस्त्यजस्वानुभूतेः ।
त्यागाकाङ्क्षानिरोदधुः श्रितहृदयपृथक्कारनित्याक्षमस्य
स्वात्मश्लिष्टस्य गायच्छ्रमहरयशसः सेवनं स्वाद्ववोचत् ॥ 1-8॥
सूरीणां स्वैरसेव्ये स्वयमवतरति क्षुद्रदिव्यैकनेत्रे
गोपाद्यर्थं धृताद्रौ श्रिततनुरसिके वामनीभावदृश्ये ।
सच्चित्तानन्यवृत्तौ विभवसमतनौ स्वायुधारूढहस्ते
नीचोच्चग्राह्यपादे निरुपधिमृजुतां नीरवर्णे जगाद ॥ 1-9 ॥
पर्यन्तेऽत्के च दृष्टं स्वविरहविधुरं डिम्भवत्पार्श्वलीनं
चित्ते क्लृप्तप्रवेशम् भुजशिखरगतं तालुसिम्हासनस्थम् ।
चक्षुर्मध्ये निविष्टं स्थितमलिकतटे मस्तके तस्थिवांसम्
प्रत्याहारोक्तरीत्या विभुमनुबुभुजे सात्म्यभोगप्रदानात् ॥ 1-10 ॥
विष्वग्विक्रान्तिदृश्यं विगणनसुलभं व्यक्तपूर्वोपकारं
स्वान्तस्वैकाग्र्यहेतुं स्वयमुदयजुषम् बन्धमात्रोपयातम् ।
चिन्तास्तुत्यादिलक्ष्यं नतजनसततश्लेषिणं दर्शितार्चं
स्मृत्यै चित्ते मिषन्तं स्ववितरणमहौदार्यतुष्टोऽभ्यचष्ट ॥ 1-11 ॥
आदावित्थम् परत्वादखिलसमतया भक्तसौलभ्यभूम्ना
निःशेषागःसहत्वात् कृपणसुघटनात् शक्यसम्राधनत्वात् ।
स्वादु स्वोपासनत्वात् प्रकृतिऋजुतया सात्म्यभोगप्रदत्वाद्
अव्याजोदारभावाद् अमनुत शतके माधवं सेवनीयम् ॥ 1-12 ॥
शतकम् 2
निद्राविच्छेदकत्वाद् अरतिजननतोऽजस्रसङ्क्षोभकत्वाद्
अन्वेष्टुम् प्रेरकत्वाद् विलयवितरणात् कार्श्यदैन्यादिकृत्त्वात् ।
चित्ताक्षेपाद् विसञ्जीकरणत उपसंशोषणावर्जनाभ्यां
दृष्टास्वादस्य शौरेः क्षणविरहदशादुस्सहत्वं जगाद ॥ 2-1 ॥
पूर्णैश्वर्यावतारम् भवदुरितहरं वामनत्वे महान्तं
नाभीपद्मोत्थविश्वं तदनुगुणदृशं कल्पतल्पीकृताब्धिम् ।
सुप्तं न्यग्रोधपत्रे जगदवनधियं रक्षणायावतीर्णं
रुद्रादिस्तुत्यलीलं व्यवृणुत ललितोत्तुङ्गभावेन नाथम् ॥ 2-2 ॥
चित्रास्वादानुभूतिम् प्रियमुपकृतिभिर् दास्यसारस्यहेतुं
स्वात्मन्यासार्हकृत्यम् भजदमृतरसम् भक्तचित्तैकभोग्यम् ।
सर्वाक्षप्रीणनार्हं सपदि बहुफलस्नेहमास्वाद्यशीलं
सभ्यैः साध्यैः समेतं निरविशदनघाशेषनिर्वेशमीशम् ॥ 2-3॥
प्रह्लादार्थे नृसिम्हं क्षपितविपदुषावल्लभं क्षिप्तलङ्कं
क्ष्वेलप्रत्यर्थिकेतुं श्रमहरतुलसीमालिनं धैर्यहेतुम् ।
त्राणे दत्तावधानं स्वरिपुहतिकृताश्वासनं दीप्तहेतिं
सत्प्रेक्षारक्षितारं व्यसननिरसनं व्यक्तकीर्तिं जगाद ॥ 2-4 ॥
स्वप्राप्त्या सिद्धकान्तिं सुघटितदयितं विस्फुरत्तुङ्गमूर्तिम्
प्रीत्युन्मेषातिभोग्यं नवघनसुरसं नैकभूषादिदृश्यम् ।
प्रख्यातप्रीतिलीलं दुरभिलपरसं सद्गुणामोदहृद्यं
विश्वव्यावृत्तिचित्रं व्रजयुवतिगणख्यातनीत्याऽन्वभुङ्क्त ॥ 2-5 ॥
स्वास्वादख्यापकत्वात् श्रितनियतदृशेर् नैकभोगप्रदानात्
त्यागानर्हप्रकाशात् स्थिरपरिचरणस्थापनात् पापभङ्गात् ।
दुस्साधार्थस्य सिद्धेर् विरहभयकृतेर् दुर्विभेदात्मयोगान्
नित्यानेकोपकारात् स्वविरहचकितम् प्रेक्षताम्भोरुहाक्षम् ॥ 2-6 ॥
सर्वादिः सर्वनाथस् त्रिभुवनजननीवल्लभः स्वाश्रितार्थी
विष्वग्व्याप्त्याऽतिदीप्तः विमतनिरसनः स्वाङ्घ्रिसद्भक्तिदायी ।
विश्वाप्त्यै वामनाङ्गः स्वविभवरसदः स्वान्तनिर्वाहयोग्यः
स्वार्थेहो बन्धमोक्ता स्वजनहिततया द्वादशाख्याभिरूचे ॥ 2-7 ॥
प्राप्याकारोपपत्त्या जनिपरिहरणाद् विश्वसृष्ट्यादिशक्तेर्
निस्सीमानन्ददेशान्वयत उपजगौ रक्षणार्थावतारात् ।
सुप्रख्यातानुभावाद् विविधविहरणाद् व्याप्तिवैचित्र्यवत्त्वाद्
भक्तैर् द्राग्दृश्यभावाद् अखिलफलकृतेर् मुक्तिसौख्यम् मुकुन्दे ॥ 2-8 ॥
श्रद्धेयस्वाङ्घ्रियोगं शुभमतिकरदं स्तोत्रसामर्थ्यहेतुं
स्वार्थीकारोपकारं स्मृतिरसशमितान्यादरम् प्रीतिवश्यम् ।
प्राप्तौ कालाक्षमत्वप्रदममृतरसध्यानमात्मार्पणार्हं
वैमुख्याद्वारयन्तं वृतपरिचरणं चक्रपाणिं जगाद ॥ 2-9 ॥
दीप्ताश्चर्यस्वभावम् मुखरितजलजं वर्षुकाम्भोदवर्णं
शैलच्छत्राभिगुप्ताश्रितमतिविलसद्धेतिमापीतगव्यम् ।
सम्रम्भोत्क्षिप्तभूमिम् प्रणमदनुगुणम् पूतनाचेतनान्तम्
पूर्वाचार्यं श्रुतीनां शुभसविधगिरिस्थानतो निर्विवेश ॥ 2-10 ॥
इत्यब्रूतात्यसह्यक्षणविरहतया मानुषत्वे परत्वात्
सर्वास्वादत्वभूम्ना व्यसनहरतया स्वाप्तिसम्प्रीतिमत्त्वात् ।
वैमुख्यत्रासयोगान् निजसुहृदवनान् मुक्तिसारस्यदानात्
कैङ्कर्योद्देश्यभावात् शुभनिलयतया चातिभोग्यं द्वितीये ॥ 2-11 ॥
शतकम् 3
सुश्लिष्टाकल्पमङ्गैर् अनुपमसुषमं वक्ति निस्सीमदीप्तिं
स्वान्तस्वादुस्वदेहं सुखभजनपदम् मण्डिताङ्गम् महिष्या ।
स्तोत्रातिक्रान्तकीर्तिम् मलिनिमरहितौज्ज्वल्यमिष्टौपवाह्यं
वीताश्चर्यत्रिणेत्रप्रभृतिसुरनुतिं चित्रसौन्दर्यविद्धम् ॥ 3-1 ॥
स्रष्टा क्रान्ता च लोकान् हृतधरणिभरोऽनन्यभोग्याङ्घ्रियुग्मश्
चित्तोद्यन्नीलरूपः निरवधिरसद स्वाङ्घ्रिरध्यक्षमूर्तिः ।
नित्योपास्यस्वपादः निखिलवसुमतीगोपनस्वाङ्घ्रिवृत्तिर्
मुष्णन् मूर्तिप्रतीत्या यमपरवशताम् प्रैक्षि लोकैकनाथः ॥ 3-2 ॥
स्थानोत्कर्षात् सुदीप्तं श्रमहरवपुषं स्वाङ्गपर्याप्तभूषं
तेजिष्ठं नीचयोगात् प्रणमितभुवनम् पावनं सन्नतानाम् ।
प्राप्त्यर्हस्थानमम्हःप्रशमनविषयम् बन्धविच्छेदिपादम्
भेजे शीघ्राभियानक्षमशुभवसतिं लम्भितार्चाभिमुख्यः ॥ 3-3 ॥
भूतैस्तत्कार्यभूतैः शुभनिजवपुषा दीप्तिमद्भिः पदार्थैः
पथ्यास्वादोपपन्नैः श्रुतिमुखसुभगाशेषशब्दप्रपञ्चैः ।
नानाकारैः पुमर्थैर् जगदधिपतिभिश् चेतनाचेतनौघैर्
जुष्टं दोषैरदुष्टं निखिलतनुतया सम्प्रतुष्टाव तुष्टः ॥ 3-4 ॥
ग्राहग्रस्तेभमोक्षे सुररिपुदमने गोकुलत्राणकार्ये
गोदार्थोक्षावमर्दे सदहितमथने सिन्धुपर्यङ्कयोगे ।
क्षोणीभारव्यपोहे क्षितिधरवसतौ निर्जराराध्यतायां
विश्वारम्भे च शौरेः शुभतनुसुषमोन्मादकत्वं जगाद ॥ 3-5 ॥
पद्माक्षीम् पापहन्त्रीम् मणिरुचिम् अमराधीशचिन्त्याङ्घ्रिपद्मां
तत्तादृक्कुन्तलश्रीसुघटितमकुटाम् भावुकप्राप्यपादाम् ।
शुद्धास्वाद्यस्वभावां यमभटमथनीम् भक्तधीवृत्तिभव्यां
नीचोच्चाभीष्टवृत्तिं हरितनुमवदन् निर्मलार्चानुरक्तः॥ 3-6 ॥
स्फीतालोकातिभूम्ना पृथुबहुभुजया दिव्यमाल्यास्त्रभाजा
सद्वस्त्राकल्पक्लृप्त्या त्रिदशरसकृता रक्षणौन्मुख्यवत्या ।
मुक्तैरुत्तंसिताङ्र्घ्या स्थिरधृतरमया श्यामया नित्यसत्या
शौरेः कान्त्या जितानां स्वबहुमतजनस्वामितामन्वमंस्त ॥ 3-7 ॥
चित्ताकृष्टिप्रवीणैर् अभिलपनसुखैः स्पर्शवाञ्छां दुहानैर्
आतन्वानैर् दिदृक्षां श्रुतिहितसहितैर् आत्मनित्यादरार्हैः ।
विश्लेषाक्रोशकृद्भिः स्मरदरतिकरैर् दत्तसायुज्यसङ्गैः
कुर्वाणैर् बाललौल्यम् मिलितगुणगणैर् नित्यदृश्याङ्गमाह ॥ 3-8 ॥
रम्यस्थानादियोगाद् अमितविभवतः सत्पथप्रापकत्वात्
सम्यक्सायुज्यदानाद् अनघवितरणात् सर्वशेषित्वचिह्नात् ।
प्रख्याताख्यासहस्रैर् अवतरणरसैर् भुक्तिमुक्त्याभिमुख्यात्
त्रैलोक्योत्पादनाच्च स्तुतिविषयतनुं व्याहरन्निन्दितान्यः ॥ 3-9॥
प्रादुर्भावानुभावात् परिजनविभवात् पावनालङ्क्रियत्वाज्
जैत्रव्यापारयोगाद् अघटितघटनाद् देवभावप्रसिद्धेः ।
आश्चर्यक्रीडनत्वात् सरसिजनिलयानन्दनाच् छन्दवृत्तेर्
ऐश्वर्यव्यक्तिमत्वाद् अघशमनतनुं केशवं व्याजहार ॥ 3-10 ॥
एवं सौन्दर्यभूम्ना तनुविहितजगत्कृत्यसौभाग्ययोगात्
स्वेच्छासेव्याकृतित्वान् निखिलतनुतयोन्माददानार्हकान्त्या ।
लभ्यार्चावैभवत्वाद् गुणरसिकगुणोत्कर्षणाद् अक्षकृष्ट्या
स्तुत्यत्वात् पापभङ्गात् शुभसुभगतनुम् प्राह नाथं तृतीये ॥ 3-11 ॥
शतकम् 4
श्रीमान्नारायणः स्वाम्यनुगुणमकुटः वीरदामाङ्कमौलिर्
दुर्दान्तारातिहन्ताऽद्भुतनियततनुः कल्पपाथोधितल्पः ।
विश्वाद्यं ज्योतिरुर्वीधरफणिशयनो वेदरूपस्वकेतुर्
निर्धूताशेषदोषः प्रभुरथ कथितः सुस्थिरैश्वर्यसीमा ॥ 4-1 ॥

शैत्यात् सौगन्ध्यभूम्ना रुचिरुचिरतया पोषणादाभिरूप्यात्
सन्दर्भात् पुष्प सङ्गान् महिततुलसिकामालया शङ्खतश्च ।
चक्राधीशस्य योगाद् वटदलशयनाद्यर्हणीयापदानैः
सम्पन्नानेकभोग्यं निरविशदजितं कृष्णमूर्तिं शठारिः ॥ 4-2 ॥
चेतोगन्धानुलेपः स्तुतिवचनकृतस्रक्पटोऽञ्जल्युपात्ता–
लङ्कारः प्राणवासी कलितवरशिरोभूषणश्चेतनेन ।
शीर्ष्णा सत्पादपीठः स्वतनुसदनतामात्मरूपे वितन्वन्
अन्योन्यात्मत्वयोगात् प्रभुरगणि मिथःश्लिष्टभावोऽथ तेन ॥ 4-3 ॥
भूम्याद्यैः सागराद्यैर् ज्वलनशशिमुखैर् वस्तुभिर्वत्सपूर्वैर्
नृत्यद्भिः स्वैश्च लोकादिभिरथ पृथिवीक्षिद्भिरात्मीयदासैः ।
सौलभ्यैश्वर्यवर्गैरपि च गुणगणैर् वासुदेवो वियोगे
स्वीयैस्तुल्यैश्च भक्तान् व्यथयति मधुहेत्यब्रवीत् कारिसूनुः ॥ 4-4 ॥
आपन्नानन्यबन्धौ सरसिजनिलयावल्लभे सान्द्रमोदे
भक्ताघध्वंसशीले तदुचितसमयाश्वासदानप्रवीणे ।
कर्पूरालेपशोभे समधिकरहिते तोषके सर्वपूर्णे
कृष्णे स्तुत्यादिभाजां शठरिपुरवदद् धन्यतां निन्दितान्यः ॥ 4–5 ॥
इच्छासारथ्ययोगात् प्रहरणनवनात् श्रीतुलस्याढ्यमौलेः
स्तुत्याङ्घ्र्योः पादधूल्या स्वजनभजनतत्पादधूलीनमोभिः ।
तन्मूलस्वाङ्घ्रिनुत्या तदितरभजनत्यागपूर्वोपसत्त्या
देवम् प्राचिख्यपत् स्वप्रणयिषु भिषजं केसरस्रग्विभूषः ॥ 4–6 ॥
आपद्बन्धुत्वदीप्तं निरवधिकमहानन्ददं क्रान्तलोकं
दुर्दर्शं देवतानाम् पितरमनुपधिं सर्वभूतान्तरस्थम् ।
पूर्णज्ञनैकमूर्तिं ध्रुतशुभतुलसीं चक्रनाथं श्रुतीनां
विश्रान्तिस्थानमीशं विशदबहुगुणम् प्राह खिन्नः शठारिः ॥ 4–7 ॥
दुश्शीलो मांसचक्षुर् निरवधिदुरितो वीतलज्जो विलोलः
प्रेक्षाहीनोऽन्यसङ्गात् कृतमपि लघयन् श्रीशमन्तर्दधानः ।
कर्मज्ञानादिशून्यः निरुपधिविहितां ज्ञानदृष्टिं विनिन्दन्
प्रख्याप्यैवं स्वदोषान् पतिगुणरसिकस् तद्दिद्रुक्षां चचक्षे ॥ 4–7 ॥
सौन्दर्यादौ स्वकीये हृदि च खनिकरे पूर्णतायां च कान्तौ
सम्यग्ज्ञाने प्रकाशे वलयरशनयः वर्ष्मणि स्वस्वरूपे ।
स्यादिष्णोर्यद्युपेक्षा तदिदमखिलमून्मूलनीयं तदीयैर्
इत्यूचे कारिसूनुस् तदुपरि कथयंस्तं शिवाद्याश्रिताङ्गम् ॥ 4-8 ॥
कारुण्यादब्धिमाथी तदुपरि शयितस् तत्समानाङ्गवर्णः
ख्यातौदार्यः स्वदाने रुचिरमणिरुचिर् वेषतोऽतीव भोग्यः ।
आत्मत्वेनानुभाव्यः दुरधिगमपदः बन्धमोक्षस्वतन्त्रः
स्वान्यप्रेमोपरोधी स्वदत इह विभुस् तत्पदोत्कण्ठिताय ॥ 4-9 ॥
तापैः सम्बन्धि दुःखैः स्वविभवमरणैस् तापकृद्भोग्यसङ्गैर्
दुर्गत्याज्ञातिवृत्तेर् अनितरविधुतेरण्डकारानिरोधात् ।
प्रह्वीभावोज्झितत्वात् प्रलघुसुखपरिष्वङ्गतश्चातिशोच्यं
विश्वं द्रष्टुं न शक्तो निजपदनयने नाथति स्म स्वनाथम् ॥ 4-9 ॥
स्वानां निर्वाहकत्वाद् अहिपतिशयनाद् अब्धिवर्णस्वभावाद्
अत्यन्तोदारभावाद् वलभिदुपलवद् दर्शनीयत्वयोगात् ।
सन्मौलित्वात् तुलस्या प्रियकरणमुखैरण्डसृष्टौ पटुत्वात्
सुप्रापत्वादिभिस् तम् फलमतुलमवैद् भेजुषामेष नाथम् ॥ 4-9 ॥
कल्पान्तेऽपि स्थितत्वात् सकलसुरगण स्रष्टृभावाज् जनानां
रक्षाद्यापादकत्वात् शिवविधिभरणात् सर्वदेवात्मभावात् ।
तत्तत्कर्मानुरूपम् फलवितरणतो वैनतेयध्वजत्वान्
मार्कण्डेयावनादेः प्रभुमथ शठजित् प्राह सर्वामरोच्चम् ॥ 4-10 ॥
नित्यैश्वर्यं तु तुर्ये सहजबहुलसद्भोग्यमन्योन्यसक्तं
क्लेशापादिस्वतुल्यं स्वजनकृतकृतार्थीकृतिं स्नेहिवैद्यम् ।
सम्युक्तं सद्गुणौघैः स्वजनपरिहृतोपेक्ष्यमिष्टार्थरूपं
श्रेष्ठं निश्शेषभोग्यादमनुत शतके देवतासार्वभौमम् ॥ 4-11 ॥
शतकम् 5
चक्रस्फायत्करत्वात् स्वजनवशतया रक्षणोद्युक्तभावाद्
भव्यत्वात् स्वात्मदानाद् विमलतनुतया श्रीगजेन्द्रावनाच्च ।
नानाबन्धुत्वयोगाद् विपदि सखितया व्याजमात्राभिलाषात्
कारुण्याधीनवृत्तिं कमलदृशमवैत् कारिसूनुः कृतार्थः ॥ 5-1 ॥
पाथोधिप्रौढकान्तौ सरसतुलसिकालङ्कृतौ धातृभावे
वैकुण्ठत्वे च चक्रप्रहरणवशितादेवतास्थापनादौ ।
स्वानामच्यावनादौ सकलनियमने सकलकर्मेज्यभावे
नित्यासक्तैः स्वभक्तैर् जगदघशमनम् प्राह कृष्णं शठारिः ॥ 5-2 ॥
ज्योतीरूपाङ्गकत्वात् सरसिजनयनाविष्टविध्वंसकत्वान्
मेघौघश्यामलत्वात् श्रितसरसतया उत्कृष्टसौलभ्ययोगात् ।
रक्षायां सावधानात् सुभगतनुतया सोपकारास्त्रवत्त्वात्
स्वानाम् प्रेमातिमात्रं जनयति भगवानित्यवादीत् शठारिः ॥ 5-3 ॥
आपद्बन्धुत्वकीर्त्या यदुकुलजननाद् धीरवीरत्वकीर्त्या
लोकानां विक्रमाच्च आश्रितदुरितहृतेर् अद्भुतैश्चेष्टितैश्च ।
चक्राद्यस्त्रान्वितत्वात् कमलनयनसम्पदा वामनत्वात्
क्षीराब्धौ शेषशायी जगदवनमहादीक्षितोऽज्ञायि तेन ॥ 5-4 ॥
शङ्खाद्यैर् यज्ञसूत्रादिभिरपि च तथा शार्ङ्गमुख्यैस् तुलस्या
बिम्बोष्ठाद्यैः सुनासाव्रतति निरवधि ज्योतिरूर्जस्विमूर्त्या ।
नेत्राब्जाद्यैरशेषाभरणसुषमया स्वैश्च भक्तैर्मनोज्ञः
देवः स्वानामजस्रं स्मृतिविषयतया भाति चेत्यभ्यधायि ॥ 5-5 ॥
स्रष्ट्रुत्वाद्यैर् जगत्याः सकलविधकलावर्तकत्वेन भूता
न्तर्यामित्वेन कृत्युद्धरणपरतया भूभरापाकृतेश्च ।
शैलेन्द्रोद्धाराणाद्यैः स्वजनहिततया ब्रह्मरुद्रेन्द्रभावाद्
दुष्कर्मोन्मूलनाद्यैः प्रभुरनिशमहम्बुद्धिबोध्योಽन्वभावि ॥ 5-6 ॥
सर्पाधीशेशयत्वाद् अरिदरभरणात् सानुकम्पत्वयोगात्
सत्साहाय्यादशेषान्तरनिलयतया भूसमुद्धृत्युदन्तैः ।
सर्वेषां तातभावाद् इतरजनदुराधर्षतादेः शरण्यं
दीनानाम् प्राह विष्णुं शठजनमथनो देवतासार्वभौमम् ॥ 5-7 ॥
निस्सौहित्यामृतत्वात् स्ववशजनितया अनन्यभावप्रदानान्
मर्यादातीतकीर्त्या नलिननयनतो नायकत्वात् सुराणाम् ।
सर्वश्रैष्ठ्यादियोगाद् अनितरगतिताद्यावहासन्नभावाद्
दास्ये स्वे स्थापयेत् स्वान् हरिरिति शठजित् स्थापयामास कृष्णम् ॥ 5-8 ॥
स्वामित्वात् संश्रितानाम् उपकरणरसात् स्वेष्टसंश्लेषकत्वात्
सर्वास्वादत्वभूम्ना कपटवटुतया दारुणापत्सखत्वात् ।
दिव्यस्थानोपसत्त्या भ्रमदरिभरणाच्चापि नारायणत्वाद्
अत्यासन्नः श्रितानाम् भवति हरिरिति प्राह कारेस्तनूजः ॥ 5-9 ॥
प्रादुर्भावादिवृत्तैर् वृषगणदमनात् पूतनाशातनाद्यैर्
मोहार्थम् बौद्धकृत्यैर् गिरिवरभजनस्वीकृतेः स्थानभेदैः ।
तेजोध्वान्तादिभावाज् जलनिधिशयनाद् भिक्षणाद्यैस्त्रिपद्याः
पीयूषस्पर्शनाद्यैः शिथिलयति हरिः स्वीयहृच्चेत्यथोचे ॥ 5-10 ॥
इत्थं कारुण्यनिघ्नं दुरितहरजनम् प्रेम तीव्रं दुहानं
लोकानां रक्षितारं स्मृतिविषयमहम्भावनागोचरं च ।
दीनानां सच्छरण्यं स्वरसकृतनिजप्रेष्यतावाञ्छमूचे
प्राप्तं शक्तिपदं श्रीपतिमिह शतके श्रेयसामेकहेतुम् ॥ 5-11 ॥
शतकम् 6
चक्रित्वात् स्वामिभावाद् विपदि सखितया बिम्बदृश्याधरत्वाद्
अब्धिश्यामात्मकान्त्या धृततुलसितया निर्जराधीशभावात् ।
रक्ताभास्याङ्घ्रिभावात् पृथुमकुटतया आश्चर्यचर्याविशेषैर्
लङ्काध्वंसाच्च कृष्णं शठजिदकथयद् देशिकद्वारगम्यम् ॥ 6-1 ॥
पूर्णत्वाद् गोपनारीजनसुलभतया लोलनादम्बुराशेर्
न्यग्रोधाग्रेशयत्वाद् अरिसुभगतया श्रीमहीवल्लभत्वात् ।
निर्दोषोत्तुङ्गभावान् निरवधिक यशस्सद्वशीकारिद्रुक्त्वान्
मोक्षस्पर्शेच्छया च स्वयमभिसरतीत्याह कृष्णं शठारिः ॥ 6-2 ॥
सम्पद्दारिद्र्यभावाद् असुखसुखकृतेः पत्तनग्रामभावात्
पुण्यापुण्यादिभावात् कपटऋजुतया सर्वलोकादिभावात् ।
दिव्यादिव्याङ्गवत्त्वात् सुरदितिजगणस्निग्धशत्रुत्वकीर्त्या
छायाच्छायादिभावाद् अघटितघटनम् प्राह कृष्णं शठारिः॥ 6-3 ॥
रासक्रीडादिकृत्यैर् विविधमुरलिकावादनैर् मल्लभङ्गैर्
गोपीबन्धार्हभावाद् व्रजजननमुखैः कंसदैत्यादिभङ्गैः ।
प्रादुर्भावैर् निहीनेष्वसुरभुजवनच्छेदमुख्यैश् चरित्रैर्
आकर्षेत् सर्वचित्तं हरिरिति कथयामास कारेरपत्यम् ॥ 6-4 ॥
शङ्खाच्चक्रादितश्च त्रिदशसुरतया सिन्धुशायित्वभूम्ना
देवानां स्वामिभावाद् अतिसुभगतयाऽलङ्कृतेः कुन्दभङ्गात् ।
तद्वच्चोदारभावाद् अरुणसरसिजाक्षत्वचिह्नाभिधानैः ।
देवीभिः सेव्यभावाद् अतिसुलभतया स्वेष्वतिस्निग्धभावाद्
बन्धुभ्यः स्वान् मुरारिर् विघटयति हठादित्यवोचत् शठारिः ॥ 6-5 ॥
पारम्याद्यैश्च पञ्चायुधविधृतिमुखैर् ब्रह्मणः स्रष्ट्रुभावात्
प्रादुर्भावैश्च सर्वान्तरनिलयतयाऽहम्ममेत्यादिधैर्यं
चातुर्यादीनि नॄणामपहरति हरिश् चेत्यभाणीत् शठारिः ॥ 6-6 ॥
पारम्याद् भव्यभावात् स्रगभिहितिमुखैः श्रीशतैश्वर्यभूम्ना
स्नेहित्वादाभिरूप्यात् श्रितपरवशतासर्वलोकेशताद्यैः ।
धृत्यादेरादिहेतुम् मुरमथनमथ व्याहरत् संश्रितानां
वेदानागस्त्यभाषावपुष उदधरत् श्रेयसे देहिनां यः ॥ 6-7 ॥
लोकस्रष्टृत्वशक्त्याऽऽयुधसुभगतया जिष्णुसारथ्ययोगात्
स्रग्भ्राड्देवेशभावाद् गरुडरथतया स्वाश्रिते पक्षपातात् ।
कान्त्या साम्राज्ययोगाद् अवतरणदशास्पष्टपारम्यतश्च
स्वीयायत्तस्वभूतिद्वयमथ कथयामास देवं शठारिः ॥ 6-8 ॥
सर्वात्मत्वाज् जगत्याः क्रमणत उत सम्रक्षणाद् विष्टपानां
शत्रुध्वंसात् परत्वाद्यभिमतदशया पञ्चधाऽवस्थितत्वात् ।
निर्वाहादण्डकोट्या बुधदयिततया सर्वशीर्ष्ण्यङ्घ्रिदानान्
मोक्षेच्छोत्पादकत्वात् हरिमथ शठजिद् वक्त्यनर्हद्वियोगम् ॥ 6-9 ॥
आपत्सम्रक्षणादर्युपकरणतया मेघसाम्यादिभूम्ना
स्वानां विश्वासदानात् सुरगणभजनाद् दिव्यदेशोपसत्त्या ।
प्राप्याप्राप्यत्वयोगात् स्वजनविजनयोः सत्प्रपत्तव्यभावाद्
ऊचे नाथं शरण्यं श्रुतिशतविदितं वेङ्कटेशं शठारिः ॥ 6-10 ॥
इत्थं सद्वारगम्यं स्वयमितम् असहस्थायिनां योजनार्हं
कर्षन्तं स्वैश् चरितैर् विघटितविजनं स्वान्वितस्तेयदक्षम् ।
धृत्यादीनां निदानं घटकवशमहाभूतियुग्मं शठारिर्
वैघट्यस्याप्यनर्हम् प्रपदनसुलभम् प्राह षष्ठे शरण्यम् ॥ 6-11 ॥
शतकम् 7
निस्सङ्ख्याश्चर्ययोगाद् अतिमधुरतयाऽथो जगत्कारणत्वान्
न्यग्रोधार्हत्वभूम्ना त्रिदशपतितया वाङ्मनस्सन्निधानात् ।
पीयूषस्पर्शनाद्यैरखिलपतितया लोकसम्रक्षणाद्यैः
शाठ्याशङ्कां सहेत त्रितनुरसुरहेत्याह चिञ्चान्तिकस्थः ॥ 7-1 ॥
श्रीरङ्गे सन्निधानान् निखिलजगदनुस्रष्टृताद्यैः शुचित्वाद्
विध्वस्तानिष्टभावाद् उरगशयनतः पुंसु कर्मानुरूपम् ।
शर्माशर्मप्रदानाज् जलदतनुतयोपक्रियातत्परत्वात्
स्वामी स्वानां विगर्हामुपशमयति चेत्याह धीमान् शठारिः ॥ 7-2 ॥
पद्माक्षत्वेन हृत्स्थः परमखनिलयः स्वोपकारी विगर्ज–
च्छङ्खोनिष्टप्रहर्ताऽऽदरविलसनकृद् रक्षकोऽबोधिदृश्यः ।
आपत्सम्रक्षकः श्रीमकरवरलसत्कुण्डलः स्वाङ्गकान्त्या
स्वेषु स्वं गोप्तृभावम् प्रकटयति हरिश् चेत्यशंसत् शठारिः ॥ 7-3 ॥
विक्रान्त्या विष्टपानाम् अमृतमथनतश् चोद्धृतेर्भूतधात्र्याः
कल्पे लोकादनाच्च क्षितिभरहरणाद् दैत्यराजप्रहारात् ।
लङ्कासङ्कोचकत्वाद् असुरभुजवनच्छेदनाद् लोकसृष्टेर्
धृत्या गोवर्धनाद्रेः स्फुटजगदवनप्रक्रियं श्रीशमाह ॥ 7-4 ॥
साकेते मुक्तिदानात् स्थिरचरजनुषां सर्वशो रक्षकत्वाच्
चैद्ये सायुज्यदानाज् जगदुदयकृतेर् उद्धृतेर् भूमिदेव्याः ।
याञ्चार्थं वामनत्वात् शिवभजकमुनेर् मोक्षदानाद्युदन्तैः
स्नेहं सर्वाश्रयं स्वम् प्रकटयति हरिश् चेत्यथाज्ञायि तेन ॥ 7-5 ॥
नाभीपद्मोज्ज्वलत्वाद् विधिशिवभजनीयाङ्घ्रिभावाद् गवां च
त्राणाद्यैः सर्वभूतान्तरनियमनतः संश्रिते भव्यभावात् ।
ब्रह्माद्यापद्विमोक्षाद् असुरनिरसनात् त्रातरक्षोऽनुजत्वात्
स्वीयाक्रन्दापहारी भवति च भगवान् इत्यवादीत् शठारिः ॥ 7-6 ॥
दृग्भ्याम् पद्माकृतिभ्याम् अमरतरुलतानासिकातोऽधरेण
भ्रूचापेन स्मितेनाप्यथ मकरलसत्कुण्डलाभ्यां विशिष्टः ।
फालेनार्धेन्दुभासाऽमलमुखशशिना नेत्रशोभादिभाजा
श्रीमान् देवः किरीटी स्मृतिविशदतनुर् भाति चेत्यभ्यधायि ॥ 7-7 ॥
भूतैश्चन्द्रार्यमाद्यैः सकलयुगगतैर् वस्तुभिश् चेतनाद्यैः
स्वैर्लोकानां नियत्या स्मरणतदितरोत्पादनान् माननाद्यैः ।
दुर्ज्ञेयत्वात् स्वभाजाम् बहुशुभकरणाद् वेदसम्वेद्यभावात्
श्रीमानाश्चर्यनानाविभव इति ततः श्रीधरः प्रत्यपादि ॥ 7-8 ॥
स्वामित्वाश्चर्यभावादपि च करुणया दत्तवाग्जृम्भणत्वाद्
उज्जीवापादकत्वा अघटितघटनाशक्तिवैकुण्ठयोगात् ।
शुद्धस्वान्तत्व चक्रायुध जलधिसुतावल्लभत्वात् पितृत्वात्
स्वे स्तोत्रे विष्णुरप्रत्युपकृतिविषये स्वान् युनक्तीत्यगायत् ॥ 7-9 ॥
वैकुण्ठे नित्ययोगात् श्रितविवशतया अनन्तकीर्त्युज्ज्वलत्वात्
शेषे शायित्व रुक्मिण्यभिमतसुरजिद्बाणदोःखण्डनाद्यैः ।
ग्राहग्रस्तेभरक्षाभिरुचितविषये सन्निधानात् शुचित्वात्
स्तोतॄणां दुःखजातं विघटयति हरिस् तीर्थपादोऽभ्यदायि ॥ 7-10 ॥
शाठ्याशङ्कासहिष्णुम् प्रशमितजनतागर्हणं स्पष्टरक्षं
व्याकुर्वन्तं स्वरक्षाक्रममखिलजनस्नेहितां दर्शयन्तम् ।
स्वीयाक्रन्दच्छिदोत्कं स्मरणसुविशदं विस्मयार्हद्विभूतिं
स्तोत्रे युञ्जन्तमाह स्तुतिकृदघहरं सप्तमेऽनिष्टचोरम् ॥ 7-11 ॥
शतकम् 8
श्र्याद्यैः पत्न्यादिमत्त्वाद् रघुयदुकुलयोरुद्भवात् स्वाश्रितेच्छा–
धीनेहाविग्रहत्वात् सकलचिदचितामन्तरात्मत्वभूम्ना ।
स्वामित्वात् स्वाश्रितावेध्यखिलगुणतया ज्ञानिनामप्यदुःख–
स्थानेच्छापादनाद्यैर् हरिरकथि परं दर्शनेच्छोः सुदृश्यः ॥ 8-1 ॥
तार्क्ष्योद्यद्वाहनत्वात् शुभनयनतया नीलमेघाकृतित्वाद्
आश्चर्योच्चेष्टितत्वाद् दुरवधरतया योगिभिर् निर्जरैश्च ।
स्वेषु व्यामुग्धभावात् प्रतिहतिविरहाद् दुर्जनादृश्यभावान्
निस्सङ्गानां जनानां सुलभतम इति प्राह नाथः शठारिः ॥ 8-2 ॥
श्रीभूमिनायकत्वाद् अरिसुरकरतया कल्पसिन्धौ शिशुत्वात्
श्रीस्थाने सन्निधानात् सुरहितकरणात् श्रीनिवासत्वयोगात् ।
विक्रान्त्या विष्टपानां विधिदुरधिगमात् स्वेषु सौलभ्यभूम्ना
चैकाकी स्वाश्रितानां विहरणसमये श्रीधरः प्रत्यपादि ॥ 8-3 ॥
दुर्दान्तेभेन्द्रभङ्गात् शुभनिलयतया साम्यतश् चेतरेषां
स्वायत्तत्वेन भानात् श्रितहृदि सततं देवतद्द्वेषिसङ्घे ।
मित्रामित्रत्वयोगाज् जगदुदयकृतेर् देवतात्मत्वमुख्यैः
श्रीमान् वैकुण्ठनाथः श्रितविहितसमग्रत्वभूमाऽन्वभाषि ॥ 8-4 ॥
आश्चर्येहान्वितत्वात् शुभमकुटतया स्वामितोऽब्धौ शयित्वाज्
जीमूतश्यामलत्वात् श्रितसुलभतया पद्मसूर्योपमाङ्गात् ।
सारथ्यात् पाण्डुसूनोर् अवनिभरहृतेर् अन्तरात्मत्वयोगाज्
जीवापेक्षाप्रतीक्षो भवति तदवने श्रीधरश् चेत्यभाणि ॥ 8-5 ॥
भातत्वात् श्रीतुलस्या श्रितहृदि शयनात् श्रीद्धवक्षस्कभावाद्
आश्चर्योपक्रियत्वात् सुरगणभजनाद् वैरिविध्वंसकत्वात् ।
गोविन्दत्वाद् अशेषाभिमतविषयतोऽभीष्टसच्चित्तकत्वात्
सर्वाकाराद्भुतत्वात् स्वपदवितरणे सज्ज इत्याह कृष्णम् ॥ 8-6 ॥
भव्यत्वाद् रक्षकत्वात् त्रिजगदधिककारुण्यतो गोपभावान्
नीलाश्माद्रिप्रभत्वात् स्वजनकृतनिजात्मप्रदानप्रभुत्वात् ।
मन्दस्मित्या स्थितत्वात् हृदि सुकृतिषु चातर्कितानुग्रहत्वात्
स्वानां चित्तानपायात् स्वजनहृदि रतो माधवश् चेत्यवोचत् ॥ 8-7 ॥
प्रासाधित्येन भानात् हृदि च विभुतयाऽलम् महिम्ना परत्वान्
माधुर्याद् देहदेह्यादिषु च गततया स्वस्वरूपप्रकाशात् ।
अन्त्यस्मृत्याऽऽप्यभावात् स्वपरमपुरुषैक्यभ्रमध्वंसकत्वाज्
ज्ञानाज्ञानप्रदत्वात् प्रकटयति हरिः पुंसि दास्यं स्वमूचे ॥ 8-8 ॥
वैलक्षण्यात् स्वमूर्तेर् मकुटमुखमहाभूषणैर् भूषितत्वात्
स्वार्हानेकायुधत्वात् प्रलयसखितयोज्जीवने कर्षकत्वात् ।
भव्यत्वाद्यैश्च सम्पन्निरवधिकतयाऽऽश्चर्यचेष्टत्वयोगान्
निष्ठां दास्ये स्वकीये प्रकटयति हरिश् चेत्यथाज्ञायि तेन ॥ 8-9 ॥
व्यामुग्धत्वात् स्वकीयेष्वमलघनरुचा वामनत्वेन चाप–
द्बन्धुत्वाश्चर्यभावाद् अहितनिरसनाद् लोकसृष्ट्यादिशक्तेः ।
अब्धौ शायित्वयोगात् श्रितदुरितहृतेश् चातसीपुष्पकान्त्या
त्वाकृष्टेः स्वीयदास्यावधि विशदयतीत्याह नाथः स्वदास्यम् ॥ 8-10 ॥
इत्थं सूरिर्दिदृक्षोर् दृशिविषयं निस्पृहैरेव लभ्यं
स्वानां विश्लेषभोग्यं श्रितविहितसमग्रत्वभूतिं शठारिः ।
स्वापेक्षासव्यपेक्षं स्ववितरणपरं हृद्गतं स्पष्टयन्तं
दास्यं स्वं तस्य निष्ठां तदवधिमपि चाप्यष्टमे स्वेष्टवश्यम् ॥ 8-11 ॥
शतकम् 9
आपद्बन्धुत्वकीर्त्या दृढमतिजननाद् दैत्यनाशाय भूमौ
जातत्वात्त्द् उत्तरस्याम् पुरि मधुरपदालङ्कृतायां दयाब्धेः ।
बन्धोः कृष्णस्य पादाश्रयणमिह विना नो सहायः पुमर्थो
रक्षासामर्थ्यहानेर् भविन इति हितं कारिसूनुर् बभाषे ॥ 9-1 ॥
लक्ष्मीसम्बन्धभूम्ना मितधरणितया पद्मनेत्रत्वयोगात्
स्थित्याद्यैः स्वैश् चरित्रैः स्वहृदपहरणात् श्रीगजेन्द्रावनाच्च ।
तार्क्ष्यांसौ चाधिरुह्यारिगणनिरसनाद् देवदुष्प्रापताद्यैर्
दुष्कर्मोन्मूलनाद्यैः सुचिरकृतदयः माधवश् चेत्यवोचत् ॥ 9-2 ॥
नैकश्रीनामवत्वाज् जगदुदयसुसन्थापनाद्यैर् हरित्वाद्
दानान् मोक्षस्य हेयप्रतिभटघटकश्रेणिसम्पत्तिमत्त्वात् ।
प्रह्लादाह्लादकत्वाद् वृषगिरिकटके सन्निधानादिकृत्यैः
शर्वादेः स्वाङ्गदानाद् अकथि यदुपतिः शीलरत्नाकरोऽसौ ॥ 9-3 ॥
लक्ष्मीवक्षस्कभावात् स्वजनसुलभता पर्वतोद्धारणाद्यैर्
दुर्ज्ञेयत्वात् सुरादेर् अखिलपतितया नाकिनां वृद्धभावात् ।
स्वेषां हृद्वासितायाः स्वजनवशतया तत्र चासक्तिभूम्ना
स्वस्वामित्वादिबन्धाज् जगदवति हरिश् चेत्यभाणीत् शठारिः ॥ 9-4 ॥
प्राणत्वाद् अद्भुतत्वाद् अपि च सुविदितत्वेन भव्यत्वयोगाद्
लक्ष्मीवक्षस्कभावाद् रघुकुलजननान् नीलरत्नाभमूर्त्या ।
कृष्णत्वाद् अब्जद्रुक्त्वात् परमपतितया चेश्वरं संश्रितानाम्
ऊचे धीमान् शठारिः स्वगुणगरिमसंस्मारकं सर्वदर्शी ॥ 9-5 ॥
आश्चर्येहान्वितत्वाद् अखिलपतितया चान्तरात्मत्वभूम्ना
अशक्ये शक्तत्वभूम्ना जलदतनुतया भव्यताकर्षकत्वात् ।
औदार्यादेर्विशिष्टादपि च भवभ्रुतां रक्षणे तीव्रसङ्गाद्
विस्मर्तुं नैव शक्यो हरिरिति शठजित् कंसजेतारमाह ॥ 9-6 ॥
रम्यत्वात् श्रीतुलस्या श्रितजनसहितत्वेन पद्माक्षतायाः
स्वामित्वात् सत्परञ्ज्योतिरिति कथनतः श्रीधरत्वातिकीर्त्या ।
पुष्पश्यामत्वभूम्ना रथचरणमुखस्वायुधत्वाद्युदन्तैः
शौरेर् धीमान् शठारिर् घटकमुखसुविस्रम्भणीयत्वमाह ॥ 9-7 ॥
वल्लीमध्यैत्वयोगाज् जगति सुविदित श्रीवचोवाच्यभावाद्
भूम्याद्यैश्वर्ययोगाद् अवतरणदशासाहचर्यात् स्वाभर्तुः ।
सन्धातृत्वात् सुबोधप्रददुरितहरत्वात् समासन्नभावाद्
लक्ष्म्याः कान्तं शठारिः प्रथयति च सुमज्जानिभावेन नाथम् ॥ 9-8 ॥
पद्माक्षत्वप्रसिद्ध्या जगदवनतया भव्यताद्यैश्च सार–
ग्राहित्वाद् वेणुनादैर् हृषितजनतया स्वाङ्गदानादजादेः ।
श्यामत्वाद् गव्यचोरत्वत उत सरसस्मेरचेष्टत्वभूम्ना
नः कूटस्थोऽत्र सिद्ध्युन्मुखसमयतया ख्यापयामास कृष्णम् ॥ 9-9 ॥
सर्वश्रैष्ठ्यात् स्वकीयैरपि जगदवनाद् दण्डषण्डाधिपत्यान्
नीलाया वल्लभत्वाद् अमृतवितरणाद् भक्तसुस्निग्धभावात् ।
दासानां सत्यभावाद् अतिसुजनतयाऽथो जगत्कारणत्वात्
श्रीमान् वेलाप्रतीक्षो भवभयहरणे चेत्यभाणीत् शठारिः ॥ 9-10 ॥
इत्थं सर्वैकबन्धुं चिरकृतकरुणं शीलसिन्धुम् पतित्वात्
सम्बन्धाद्रक्षितारं स्वगुणगरिमसंस्मारकम् प्राह कृष्णम् ।
विस्मर्तुं चाप्यशक्यं घटकमुखसुविस्रम्भणीयं सुमत्या
लक्ष्म्याश्लिष्टं विसिद्ध्युन्मुखसमयमनेहः प्रतीक्षं सुमित्रम् ॥ 9-11 ॥
शतकम् 10

दैत्यानां नाशकत्वाद् विधृततुलसिकामौलिभावाज् जयित्वात्
सर्पाधीशेशयत्वान् निरवधिकपरञ्ज्योतिरुल्लास्यभावात् ।
लोकानां स्रष्ट्रुभावाद् दशरथसुतता श्रान्तिहारित्वमुख्यैर्
आकारैः सद्गतिः स्याज् जलदतनुरुचिश्चेति तेनाभ्यदायि ॥ 10-1 ॥
ऊचे श्रीकेशवत्वाद्भुतचरितखगाधीशकेतुत्वयोगाद्
आसन्नत्वात् पतित्वाद् अमरपरिषदाम् आदिभूतत्वभूम्ना ।
व्यापारैः सृष्टिमुख्यैरपि च भुजगशायित्वमुख्यैश् चरित्रैर्
अध्वक्लेशापहर्ता भवति च भगवानित्यनन्यः शठारिः ॥ 10-2 ॥
अम्भोजाक्षत्वकीर्त्या यदुकुलजतया चात्मनः श्यामलत्वाद्
गोविन्दत्वात् प्रियोद्यद्वचनपरतया चक्रराजायुधत्वात् ।
श्रीनीलाश्मप्रभत्वाद् अतिसुभगतया गोपिनिर्वाहकत्वाद्
अस्थानस्नेहशङ्कास्पदरस उदितः श्रीपतिः कारिजेन॥ 10-3 ॥
श्रीमद्दामोदरत्वाद् अमरपरिषदामप्यगम्यत्वभूम्ना
चक्राधीशायुधत्वाद् वटदलशयनान् नागराजेशयत्वात् ।
मोक्षस्पर्शोन्मुखत्वात् परमपुरुषता माधवत्वादियोगाद्
दुष्प्रापोऽयम् भजद्भिः सुगम इति दृढम् माधवं सोऽभ्यधत्त ॥ 10-4 ॥
नाम्नां सङ्कीर्तनेन स्वपरिबृढतया भावनातोऽनुवेलं
संस्मृत्या पुष्पदानाध्ययननिवचनैः स्तोत्रनृत्यादिकृत्यैः।
धर्मैर्वर्णाश्रमोक्तैर् बहुविधभजनप्रक्रियो दीर्घबन्धुः
श्रीमन्नारायणश्चेत्यकथयदखिलद्रामिडब्रह्मदर्शी॥ 10-5 ॥
चक्रित्वात् केशवत्वादिभिरपि च तथा श्रीशनारायणत्वात्
स्नेहित्वात् पाण्डवानाम् अभिमततुलसीपूजनीयत्वभावात् ।
अम्भोजाक्षत्वगोविन्दत उत सुयशः श्रीपतित्वादिभावैः
श्रीमान् तीव्रोद्यमोऽयं स्वपदवितरणे चेति तेनाभ्यधायि ॥ 10-6 ॥
अत्याश्चर्यस्वभावात् हृदयगततया स्वस्तुतौ प्रेरकत्वात्
स्वामित्वात् सर्वभूतान्तरनुगततया स्वस्तुतौ कर्तृभावात् ।
आपद्बन्धुत्वयोगाद् बहुविधसविधस्थानवत्त्वेन देवः
श्रीमानत्यादरः स्यात् स्वजनपरिकरेष्वित्यथो सञ्जगाद ॥ 10-7 ॥
लक्ष्मीकान्तत्वयोगाद् विपदि सखितया दिव्यदेशस्थितत्वान्
मोक्षोद्योगात् तदर्थं कृतशपथतया सर्वतः सन्निधानात् ।
दृष्ट्यन्तःसन्निवासाद् अतिवितरणतः स्वस्वभावप्रकाशात्
स्वामित्वात् तुष्यतीत्थं स्वयमनुपधितः श्रीपतिश्चेत्यगायि ॥ 10-8 ॥
स्वामित्वात् श्रीशनारायण इति यशसा विक्रमाद्विष्टपानां
श्रीमत्त्वाच् चक्रवत्त्वाज् जलनिधिशयनाच्चापि गोविन्दभावात् ।
वैकुण्ठस्वामिभावादपि च निजजनान् अर्चिराद्याख्यगत्या
स्वं लोकम् प्रापयेत् श्रीपतिरिति कथयां श्रीशठारिर् बभूव ॥ 10-9 ॥
ब्रह्मेशान्तःप्रवेशाज् जलनिधिसुतया सन्निरोद्धव्यभावाद्
दिव्यश्रीविग्रहत्वाद् अखिलतनुतयाऽतृप्तपीयूषभावात् ।
पद्माबन्धुत्व भूम्युद्धरणकरणतः पुण्यपापेशितृत्वान्
मुक्तेर्दाताऽनुभाव्यो हरिरिति शठजिद्दर्शयन् मुक्तिमापः ॥ 10-10 ॥
एवं स्वानां गतिं व्यध्वजदुरितहरास्थानशङ्कार्हरागं
सुप्रापम् भक्तिभाजाम् बहुविधभजनप्रक्रियं श्रीशठारिः।
तीव्रोद्योगं स्वदाने स्वजनतनुकृतात्यादरम् प्राह चात्र
स्वेच्छातुष्टं सुखार्चिर्मुखसरणिमुखम् मोक्षदम् मुक्तभोग्यम् ॥ 10-11 ॥
इत्थं सेव्यं सुभोग्यं शुभसुभगतनुं सर्वभोग्यप्रकृष्टं
श्रेयस्तद्देतुभूतम् प्रपदनसुलभं स्वश्रितानिष्टजिष्णुम् ।
भक्तच्छन्दानुरक्तं निरुपधिसुहृदं सत्पदव्यां सहायं
श्रीशम् प्राह स्वसिद्धेः स्वयमिह करणं स्वप्रबन्धे शठारिः ॥
आद्ये स्वीयप्रबन्धे शठजिदभिदधे संसृतेर्दुस्सहत्वं
द्वैतीयीके स्वरूपाद्यखिलमथ हरेरन्वभूत्स्पष्टदृष्टम् ।
तार्तीयीके स्वकीयाम् भगवदनुभवे स्फोरयामास तीव्राम्
आशां तुर्ये यथेष्टम् भगवदनुभवादाप मुक्तिं शठारिः ॥
श्रीमान्सीमातिलङ्घि स्थिरतरकरुणः सर्ववित्सर्वशक्तिः
स्वामी सर्वस्य जन्तोस्स्वचरणयुगलस्वीकृतास्माकभारः ।
किं नः कृत्यं स्वहेतोः किमिह न सुलभं का विपत्तिर्भवित्री
कस्यान्यस्याधमर्णा वयमिति विदुषामाह तुङ्गत्वमन्ते ॥
शास्त्रे देहातिरिक्तात्मनि तदधिपतौ तत्प्रसादाद्युपाये
तस्मान्निश्श्रेयसाप्तौ तदपचरणतोऽनन्ततापाभिभूते ।
तद्भक्तानाम् प्रभावे तदुपसदनतः स्वान्तकालुष्यशान्तौ
सारं वेद्यं स्ववेदे सकलमकथयत्सानुकम्पः शठारिः ॥
इत्थं सत्सम्प्रदायक्रमसमधिगताशेषवर्णार्हवेद–
श्रद्धाशुद्धाशयानामघटयदनघं कौतुकं वेङ्कटेशः ।
सम्यक्त्वे तस्य साक्षाच्छठरिपुरथ वा सर्वसाक्षी स साक्षी
सावद्यत्वेऽपि सोढुम् प्रभवति भजतामप्रकम्प्यानुकम्पः ॥
श्लोकः श्लोकत्वमभ्यागत इति नयतः शुद्धबोधार्णवोद्यन्
नानाकल्लोलनाथानुभवरसपरीवाहतः श्राव्यवेदात् ।
वेदान्ताचार्यकश्रीबहुमतबहुविद्वेङ्कटेशोद्धृतेयं
रम्या तात्पर्यरत्नावलिरनघगुणा रञ्जनी रङ्गभर्तुः ॥
इति कवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य वेदान्ताचार्यस्य कृतिषु
द्रमिडोपनिषत्तात्पर्यरत्नावलिः समाप्ता
वेदान्ताचार्य तिरुवडिगले शरणम्