विश्वास-प्रस्तुतिः
दैध्यानां नाशकत्वाद् विधृततुलसिकामौलिभावाज् जयित्वात्
सर्पाधीशेशयत्वान् निरवधिकपरञ्ज्योतिरुल्लास्यभावात् ।
लोकानां स्रष्टृभावाद् दशरथसुतता श्रान्तिहारित्वमुख्यैर्
आकारैः सद्गतिः स्याज् जलदतनुरुचिश्चेति तेनाभ्यधायि ॥ (10-1) 114
मूलम्

ऊचे श्रीकेशवत्वाद्भुतचरितखगाधीशकेतुत्वयोगाद्
आसन्नत्वात् पतित्वाद् अमरपरिषदाम् आदिभूतत्वभूम्ना ।
व्यापारैः सृष्टिमुख्यैरपि च भुजगशायित्वमुख्यैश् चरित्रैर्
अध्वक्लेशापहर्ता भवति च भगवानित्यनन्यः शठारिः ॥ (10-2) 115

अम्भोजाक्षत्वकीर्त्या यदुकुलजतया चात्मनः श्यामलत्वाद्
गोविन्दत्वात् प्रियोद्यद्वचनपरतया चक्रराजायुधत्वात् ।
श्रीनीलाश्मप्रभत्वाद् अतिसुभगतया गोपनिर्वाहकत्वाद्
अस्थानस्नेहशङ्कास्पदरस उदितः श्रीपतिः कारिजेन ॥ (10-3) 116

श्रीमद्दामोदरत्वाद् अमरपरिषदामप्यगम्यत्वभूम्ना
चक्राधीशायुधत्वाद् वटदलशयनान् नागराजेशयत्वात् ।
मोक्षस्पर्शोन्मुखत्वात् परमपुरुषता माधवत्वादियोगाद्
दुष्प्रापोऽयं भजद्भिः सुगम इति दृढं माधवं सोऽभ्यधत्त ॥ (10-4) 117

नाम्नां सङ्कीर्तनेन स्वपरिबृढतया भावनातोऽनुवेलं
संस्मृत्या पुष्पदानाध्ययननिवचनैः स्तोत्रनृत्तादिकृत्यैः ।
धर्मैर्वर्णाश्रमोक्तैर् बहुविधभजनप्रक्रियो दीर्घबन्धुः
श्रीमान्नारायणश्चेत्यकथयदखिलद्रामिडब्रह्मदर्शी ॥ (10-5) 118

चक्रित्वात् केशवत्वादिभिरपि च तथा श्रीशनारायणत्वात्
स्नेहित्वात् पाण्डवानाम् अभिमततुलसीपूजनीयत्वभावात् ।
अम्भोजाक्षत्वगोविन्दत उत सुयशः श्रीपतित्वादिभावैः
श्रीमान् तीव्रोद्यमोऽयं स्वपदवितरणे चेति तेनाभ्यधायि ॥ (10-6) 119

अत्याश्चर्यस्वभावात् हृदयगततया स्वस्तुतौ प्रेरकत्वात्
स्वामित्वात् सर्वभूतान्तरनुगततया स्वस्तुतौ कर्तृभावात् ।
आपद्बन्धुत्वयोगाद् बहुविधसविधस्थानवत्त्वेन देवः
श्रीमानत्यादरः स्यात् स्वजनपरिकरेष्वित्यथो सञ्जगाद ॥ (10-7) 120

लक्ष्मीकान्तत्वयोगाद् विपदि सखितया दिव्यदेशस्थितत्वान्
मोक्षोद्योगात् तदर्थं कृतशपथतया सर्वतः सन्निधानात् ।
दृष्ट्यन्तःसन्निवासाद् अतिवितरणतः स्वस्वभावप्रकाशात्
स्वामित्वात् तुष्यतीत्थं स्वयमनुपधितः श्रीपतिश्चेत्यगायि ॥ (10-8) 21

स्वामित्वात् श्रीशनारायण इति यशसा विक्रमाद्विष्टपानां
श्रीमत्त्वाच् चक्रवत्त्वाज् जलनिधिशयनाच्चापि गोविन्दभावात् ।
वैकुण्ठस्वामिभावादपि च निजजनान् अर्चिराद्याख्यगत्या
स्वं लोकं प्रापयेत् श्रीपतिरिति कथयां श्रीशठारिर् बभूव ॥ (10-9) 122

ब्रह्मेशान्तःप्रवेशाज् जलनिधिसुतया सन्निरोद्धव्यभावाद्
दिव्यश्रीविग्रहत्वाद् अखिलतनुतयाऽतृप्तपीयूषभावात् ।
पद्माबन्धुत्व भूम्युद्धरणकरणतः पुण्यपापेशितृत्वान्
मुक्तेर्दाताऽनुभाव्यो हरिरिति शठजिद्दर्शयन् मुक्तिमाप ॥ (10-10) 123

एवं स्वानां गतिं व्यध्वजदुरितहरास्थानशङ्कार्हरागं
सुप्रापं भक्तिभाजां बहुविधभजनप्रक्रियं श्रीशठारिः ।
तीव्रोद्योगं स्वदाने स्वजनतनुकृतात्यादरं प्राह चात्र
स्वेच्छातुष्टं सुखार्चिर्मुखसरणिमुखं मोक्षदं मुक्तभोग्यम् ॥ (10) 124

इत्थं सेव्यं सुभोग्यं शुभसुभगतनुं सर्वभोग्यप्रकृष्टं
श्रेयस्तद्धेतुभूतं प्रपदनसुलभं स्वाश्रितानिष्टजिष्णुम् ।
भक्तच्छन्दानुरक्तं निरुपधिसुहृदं सत्पदव्यां सहायं
श्रीशं प्राह स्वसिद्धेः स्वयमिह करणं स्वप्रबन्धे शठारिः ॥ 125

आद्ये स्वीयप्रबन्धे शठजिदभिदधे संसृतेर्दुस्सहत्वं
द्वैतीयीके स्वरूपाद्यखिलमथ हरेरन्वभूत्स्पष्टदृष्टम् ।
तार्तीयीके स्वकीयां भगवदनुभवे स्फोरयामास तीव्राम्
आशां तुर्ये यथेष्टं भगवदनुभवादाप मुक्तिं शठारिः ॥ 126

श्रीमान्सीमातिलङ्घि स्थिरतरकरुणः सर्ववित्सर्वशक्तिः
स्वामी सर्वस्य जन्तोस्स्वचरणयुगळस्वीकृतास्माकभारः ।
किं नः कृत्यं स्वहेतोः किमिह न सुलभं का विपत्तिर्भवित्री
कस्यान्यस्याधमर्णा वयमिति विदुषामाह तुङ्गत्वमन्ते ॥ 127

शास्त्रे देहातिरिक्तात्मनि तदधिपतौ तत्प्रसादाद्युपाये
तस्मान्निश्श्रेयसाप्तौ तदपचरणतोऽनन्ततापाभिभूते ।
तद्भक्तानां प्रभावे तदुपचेतनतः स्वान्तकालुष्यशान्तौ
सारं वेद्यं स्ववेदे सकलमकथयत्सानुकम्पः शठारिः ॥ 128

इत्थं सत्सम्प्रदायक्रमसमधिगताशेषवर्णार्हवेद-
श्रद्धाशुद्धाशयानामघटयदनघं कौतुकं वेङ्कटेशः ।
सम्यक्त्वे तस्य साक्षाच्छठरिपुरथ वा सर्वसाक्षी स साक्षी
सावद्यत्वेऽपि सोढुं प्रभवति भजतामप्रकम्प्यानुकम्पः ॥ 129

शोकः श्लोकत्वमभ्यागत इति नयतः शुद्धबोधार्णवोद्यत्-
नानाकल्लोलनाथानुभवरसपरीवाहतः श्राव्यवेदात् ।
वेदान्ताचार्यकश्रीबहुमतबहुविद्वेङ्कटेशोद्धृतेयं
रम्या तात्पर्यरत्नावलिरनघगुणा रञ्जनी रङ्गभर्तुः ॥ 130