०९

विश्वास-प्रस्तुतिः

आपद्बन्धुत्वकीर्त्या दृढमतिजननाद् दैत्यनाशाय भूमौ
जातत्वाद् उत्तरस्यां पुरि मधुरपदालङ्कृतायां दयाब्धेः ।
बन्धोः कृष्णस्य पादाश्रयणमिह विना नो सहायः पुमर्थो
रक्षासामर्थ्यहानेर् भविन इति हितं कारिसूनुर् बभाषे ॥ (9-1) 103

मूलम्

लक्ष्मीसम्बन्धभूम्ना मितधरणितया पद्मनेत्रत्वयोगात्
स्थित्याद्यैः स्वैश् चरित्रैः स्वहृदपहरणात् श्रीगजेन्द्रावनाच्च ।
तार्क्ष्यांसौ चाधिरुह्यारिगणनिरसनाद् देवदुष्प्रापताद्यैर्
दुष्कर्मोन्मूलनाद्यैः सुचिरकृतदयः माधवश् चेत्यवोचत् ॥ (9-2) 104

नैकश्रीनामवत्त्वाज् जगदुदयसुसंस्थापनाद्यैर् हरित्वाद्
दानान् मोक्षस्य हेयप्रतिभटघटकश्रेणिसम्पत्तिमत्त्वात् ।
प्रह्लादाह्लादकत्वाद् वृषगिरिकटके सन्निधानादिकृत्यैः
शर्वादेः स्वाङ्गदानाद् अकथि यदुपतिः शीलरत्नाकरोऽसौ ॥ (9-3) 105

लक्ष्मीवक्षस्कभावात् स्वजनसुलभता पर्वतोद्धारणाद्यैर्
दुर्ज्ञेयत्वात् सुरादेर् अखिलपतितया नाकिनां वृद्धभावात् ।
स्वेषां हृद्वासितायाः स्वजनवशतया तत्र चासक्तिभूम्ना
स्वस्वामित्वादिबन्धाज् जगदवति हरिश् चेत्यभाणीत् शठारिः ॥ (9-4) 106

प्राणत्वाद् अद्भुतत्वाद् अपि च सुविधितत्वेन भव्यत्वयोगाद्
लक्ष्मीवक्षस्कभावाद् रघुकुलजननान् नीलरत्नाभमूर्त्या ।
कृष्णत्वाद् अब्जदृक्त्वात् परमपतितया चेश्वरं संश्रितानाम्
ऊचे धीमान् शठारिः स्वगुणगरिमसंस्मारकं सर्वदर्शी ॥ (9-5) 107

आश्चर्येहान्वितत्वाद् अखिलपतितया चान्तरात्मत्वभूम्ना
अशक्ये शक्तत्वभूम्ना जलदतनुतया भव्यताकर्षकत्वात् ।
औदार्यादेर्विशिष्टादपि च भवभृतां रक्षणे तीव्रसङ्गाद्
विस्मर्तुं नैव शक्यो हरिरिति शठजित् कंसजेतारमाह ॥ (9-6) 108

रम्यत्वात् श्रीतुलस्या श्रितजनसहितत्वेन पद्माक्षतायाः
स्वामित्वात् सत्परञ्ज्योतिरिति कथनतः श्रीधरत्वातिकीर्त्या ।
पुष्पश्यामत्वभूम्ना रथचरणमुखस्वायुधत्वाद्युदन्तैः
शौरेर् धीमान् शठारिर् घटकमुखसुविस्रम्भणीयत्वमाह ॥ (9-7) 109

वल्लीमध्यत्वयोगाज् जगति सुविधित श्रीवचोवाच्यभावाद्
भूम्याद्यैश्वर्ययोगाद् अवतरणदशासाहचर्यात् स्वभर्तुः ।
सन्धातृत्वात् सुबोधप्रददुरितहरत्वात् समासन्नभावाद्
लक्ष्म्याः कान्तं शठारिः प्रथयति च सुमज्जानिभावेन नाथम् ॥ (9-8) 110

पद्माक्षत्वप्रसिद्ध्या जगदवनतया भव्यताद्यैश्च सार-
ग्राहित्वाद् वेणुनादैर् हृषितजनतया स्वाङ्गदानादजादेः ।
श्यामत्वाद् गव्यचोरत्वत उत सरसस्मेरचेष्टत्वभूम्ना
नः कूटस्थोऽत्र सिद्ध्युन्मुखसमयतया ख्यापयामास कृष्णम् ॥ (9-9) 111

सर्वश्रैष्ठ्यात् स्वकीयैरपि जगदवनाद् अण्डषण्डाधिपत्यान्
नीलाया वल्लभत्वाद् अमृतवितरणाद् भक्तसुस्निग्धभावात् ।
दासानां सत्यभावाद् अतिसुजनतयाऽथो जगत्कारणत्वात्
श्रीमान् वेलाप्रतीक्षो भवभयहरणे चेत्यभाणीत् शठारिः ॥ (9-10) 112

इत्थं सर्वैकबन्धुं चिरकृतकरुणं शीलसिन्धुं पतित्वात्
सम्बन्धाद्रक्षितारं स्वगुणगरिमसंस्मारकं प्राह कृष्णम् ।
विस्मर्तुं चाप्यशक्यं घटकमुखसुविस्रम्भणीयं सुमत्या
लक्ष्म्याश्लिष्टं स्वसिद्ध्युन्मुखसमयमनेहःप्रतीक्षं सुमित्रम् ॥ (9) 113