०८

विश्वास-प्रस्तुतिः

श्र्याद्यैः पत्न्यादिमत्त्वाद् रघुयदुकुलयोरुद्भवात् स्वाश्रितेच्छा-
धीनेहाविग्रहत्वात् सकलचिदचितामन्तरात्मत्वभूम्ना ।
स्वामित्वात् स्वाश्रितावेध्यखिलगुणतया ज्ञानिनामप्यदुःख-
स्थानेच्छापादनाद्यैर् हरिरकथि परं दर्शनेच्छोः सुदृश्यः ॥ (8-1) 92

मूलम्

तार्क्ष्योद्यद्वाहनत्वात् शुभनयनतया नीलमेघाकृतित्वाद्
आश्चर्योच्चेष्टितत्वाद् दुरवधरतया योगिभिर् निर्जरैश्च ।
स्वेषु व्यामुग्धभावात् प्रतिहतिविरहाद् दुर्जनादृश्यभावान्
निस्सङ्गानां जनानां सुलभतम इति प्राह नाथं(थः) 1 शठारिः ॥ (8-2) 93

श्रीभूमीनायकत्वाद् अरिसुकरतया कल्पसिन्धौ शिशुत्वात्
श्रीस्थाने सन्निधानात् सुरहितकरणात् श्रीनिवासत्वयोगात् ।
विक्रान्त्या विष्टपानां विधिदुरधिगमात् स्वेषु सौलभ्यभूम्ना
चैकाकी स्वाश्रितानां विहरणसमये श्रीधरः प्रत्यपादि ॥ (8-3) 94

दुर्दान्तेभेन्द्रभङ्गात् शुभनिलयतया साम्यतश् चेतरेषां
स्वायत्तत्वेन भानात् श्रितहृदि सततं देवतद्द्वेषिसङ्घे ।
मित्रामित्रत्वयोगाज् जगदुदयकृतेर् देवतात्मत्वमुख्यैः
श्रीमान् वैकुण्ठनाथः श्रितविहितसमग्रत्वभूमाऽन्वभाषि ॥ (8-4) 95

आश्चर्येहान्वितत्वात् शुभमकुटतया स्वाम्यतोऽब्धौ शयित्वाज्
जीमूतश्यामलत्वात् श्रितसुलभतया पद्मसूर्योपमाङ्गात् ।
सारथ्यात् पाण्डुसूनोर् अवनिभरहृतेर् अन्तरात्मत्वयोगाज्
जीवापेक्षाप्रतीक्षो भवति तदवने श्रीधरश् चेत्यभाणि ॥ (8-5) 96

भात्वात् श्रीतुलस्या श्रितहृदि शयनात् श्रीद्धवक्षस्कभावाद्
आश्चर्योपक्रियत्वात् सुरगणभजनाद् वैरिविध्वंसकत्वात् ।
गोविन्दत्वाद् अशेषाभिमतविषयतोऽभीष्टसच्चित्तकत्वात्
सर्वाकाराद्भुतत्वात् स्वपदवितरणे सज्ज इत्याह कृष्णम् ॥ (8-6) 97

भव्यत्वाद् रक्षकत्वात् क्षिजगदधिककारुण्यतो गोपभावान्
नीलाश्माद्रिप्रभत्वात् स्वजनकृतनिजात्मप्रधानप्रभुत्वात् ।
मन्दस्मित्या स्थितत्वात् हृदि सुकृतिषु चातर्कितानुग्रहत्वात्
स्वानां चित्तानपायात् स्वजनहृदि रतो माधवश् चेत्यवोचत् ॥ (8-7) 98

प्रासाधित्येन भानात् हृदि च विभुतयाऽलं महिम्ना परत्वान्
माधुर्याद् देहदेह्यादिषु च गततया स्वस्वरूपप्रकाशात् ।
अन्त्यस्मृत्याऽऽप्यभावात् स्वपरमपुरुषैक्यभ्रमध्वंसकत्वाज्
ज्ञानाज्ञानप्रदत्वात् प्रकटयति हरिः पुंसि दास्यं स्वमूचे ॥ (8-8) 99

वैलक्षण्यात् स्वमूर्तेर् मकुटमुखमहाभूषणैर् भूषितत्वात्
स्वार्हानेकायुधत्वात् प्रलयसखितयोज्जीवने कर्षकत्वात् ।
भव्यत्वाद्यैश्च सम्पन्निरवधिकतयाऽऽश्चर्यचेष्टत्वयोगान्
निष्ठां दास्ये स्वकीये प्रकटयति हरिश् चेत्यथाज्ञायि तेन ॥ (8-9) 100

व्यामुग्धत्वात् स्वकीयेष्मवलघनरुचा वामनत्वेन चाप-
द्बन्धुत्वाश्चर्यभावाद् अहितनिरसनाद् लोकसृष्ट्यादिशक्तेः (द्युदन्तैः) 1 ।
अब्धौ (वार्धौ) 1 शायित्वयोगात् श्रितदुरितहृतेश् चातसीपुष्पकान्त्या
त्वाकृष्टेः स्वीयदास्यावधि विशदयतीत्याह नाथः स्वदास्यम् ॥ (8-10) 101

इत्थं सूरिर्दिदृक्षोर् दृशिविषयमथो (अवैत्) 1 निस्स्पृहैरेव लभ्यं
स्वानां विश्लेषभोग्यं श्रितविहितसमग्रत्वभूतिं शठारिः ।
स्वापेक्षासव्यपेक्षं स्ववितरणपरं हृद्गतं स्पष्टयन्तं
दास्यं स्वं तस्य निष्ठां तदवधिमपि चाप्यष्टमे स्वेष्टवश्यम् ॥ (8) 102