०७

विश्वास-प्रस्तुतिः

निस्सङ्ख्याश्चर्ययोगाद् अतिमधुरतयाऽथो जगत्कारणत्वान्
न्यग्रोधार्हत्वभूम्ना त्रिदशपतितया वाङ्मनस्सन्निधानात् ।
पीयूषस्पर्शनाद्यैरखिलपतितया लोकसंरक्षणाद्यैः
शाठ्याशङ्कां सहेत त्रितनुरसुरहेत्याह चिञ्चा(न्ता)न्तिकस्थः ॥ (7-1) 81

मूलम्

श्रीरङ्गे सन्निधानान् निखिलजगदनुस्रष्टृताद्यैः शुचित्वाद्
विध्वस्तानिष्टभावाद् उरगशयनतः पुंसु कर्मानुरूपम् ।
शर्माशर्मप्रधानाज् जलदतनुतयोपक्रियातत्परत्वात्
स्वामी स्वानां विगर्हामुपशमयति चेत्याह धीमान् शठारिः ॥ (7-2) 82

पद्माक्षत्वेन हृत्स्थः परमखनिलयः स्वोपकारी विगर्ज-
च्छङ्खोऽनिष्टप्रहर्ताऽऽदरविलसनकृद् रक्षकोऽम्भोधिदृश्यः ।
आपत्संरक्षकः श्रीमकरवरलसत्कुण्डलः स्वाङ्गकान्त्या
स्वेषु स्वं गोप्तृभावं प्रकटयति हरिश् चेत्यशंसत् शठारिः ॥ (7-3) 83

विक्रान्त्या विष्टपानाम् अमृतमथनतश् चोद्धृतेर्भूतधात्र्याः
कल्पे लोकादनाच्च क्षितिभरहरणाद् दैत्यराजप्रहारात् ।
लङ्कासङ्कोचकत्वाद् असुरभुजवनच्छचेतनाद् लोकसृष्टेर्
धृत्या गोवर्धनाद्रेः स्फुटजगदवनप्रक्रियं श्रीशमाह ॥ (7-4) 84

साकेते मुक्तिदानात् स्थिरचरजनुषां सर्वशो रक्षकत्वाच्
चैद्ये सायुज्यदानाज् जगदुदयकृतेर् उद्धृतेर् भूमिदेव्याः ।
याच्ञार्थं वामनत्वात् शिवभजकमुनेर् मोक्षदानाद्युदन्तैः
स्नेहं सर्वाश्रयं स्वं प्रकटयति हरिश् चेत्यथाज्ञायि तेन ॥ (7-5) 85

नाभीपद्मोज्ज्वलत्वाद् विधिशिवभजनीयाङ्घ्रिभावाद् गवां च
त्राणाद्यैः सर्वभूतान्तरनियमनतः संश्रिते भव्यभावात् ।
ब्रह्माद्यापद्विमोक्षाद् असुरनिरसनात् त्रातरक्षोऽनुजत्वात्
स्वीयाक्रन्दापहारी भवति च भगवान् इत्यवादीत् शठारिः ॥ (7-6) 86

दृग्भ्यां पद्माकृतिभ्याम् अमरतरुलतानासिकातोऽधरेण
भ्रूचापेन स्मितेनाप्यथ मकरलसत्कुण्डलाभ्यां विशिष्टः ।
फालेनार्धेन्दुभासाऽमलमुखशशिना नेत्रशोभादिभाजा
श्रीमान् देवः किरीटी स्मृतिविशदतनुर् भाति चेत्यभ्यधायि ॥ (7-7) 87

भूतैश्चन्द्रार्यमाद्यैः सकलयुगगतैर् वस्तुभिश् चेतनाद्यैः
स्वैर्लोकानां नियत्या स्मरणतदितरोत्पादनान् माननाद्यैः ।
दुर्ज्ञेयत्वात् स्वभाजां बहुशुभकरणाद् वेदसंवेद्यभावात्
श्रीमानाश्चर्यनानाविभव इति ततः श्रीधरः प्रत्यपादि ॥ (7-8) 88

स्वामित्वाश्चर्यभावादपि च करुणया दत्तवाग्जृम्भणत्वाद्
उज्जीवापादकत्वाद् अघटितघटनाशक्तिवैकुण्ठयोगात् ।
शुद्धस्वान्तत्व चक्रायुध जलधिसुतावल्लभत्वात् पितृत्वात्
स्वे स्तोत्रे विष्णुरप्रत्युपकृतिविषये स्वान् युनक्तीत्यगायत् ॥ (7-9) 89

वैकुण्ठे नित्ययोगात् श्रितविवशतया अनन्तकीर्त्युज्ज्वलत्वात्
शेषे शायित्व रुक्मिणण्यभिमतसुरजिद्बाणदोःखण्डनाद्यैः ।
ग्राहग्रस्तेभरक्षाभिरुचितविषये सन्निधानात् शुचित्वात्
स्तोतॄणां दुःखजातं विघटयति हरिस् तीर्थपादोऽभ्यधायि ॥ (7-10) 90

शाठ्याशङ्कासहिष्णुं प्रशमितजनतागर्हणं स्पष्टरक्षं
व्याकुर्वन्तं स्वरक्षाक्रममखिलजनस्नेहितां दर्शयन्तम् ।
स्वीयाक्रन्दच्छिदोत्कं स्मरणसुविशदं विस्मयार्हद्विभूतिं
स्तोत्रे युञ्जन्तमाह स्तुतिकृदघहरं सप्तमेऽनिष्टचोरम् ॥ (7) 91