विश्वास-प्रस्तुतिः
चक्रित्वात् स्वामिभावाद् विपदि सखितया बिम्बदृश्याधरत्वाद्
अब्धिश्यामात्मकान्त्या धृततुलसितया निर्जराधीशभावात् ।
रक्ताभास्याङ्घ्रिभावात् पृथुमकुटतया आश्चर्यचर्याविशेषैर्
लङ्काध्वंसाच्च कृष्णं शठजिदकथयद् देशिकद्वारगम्यम् ॥ (6-1) 70
मूलम्

पूर्णत्वाद् गोपनारीजनसुलभतया लोलनादम्बुराशेर्
न्यग्रोधाग्रेशयत्वाद् अरिसुभगतया श्रीमहीवल्लभत्वात् ।
निर्दोषोत्तुङ्गभावान् निरवधिकयशस्सद्वशीकारिदृक्त्वान्
मोक्षस्पर्शेच्छया च स्वयमभिसरतीत्याह कृष्णं शठारिः ॥ (6-2) 71

सम्पद्दारिद्र्यभावाद् असुखसुखकृतेः पत्तनग्रामभावात्
पुण्यापुण्यादिभावात् कपटऋजुतया सर्वलोकादिभावात् ।
दिव्यादिव्याङ्गवत्त्वात् सुरदितिजगणस्निग्धशत्रुत्वकीर्त्या
छायाच्छायादिभावाद् अघटितघटनं प्राह कृष्णं शठारिः ॥ (6-3) 72

रासक्रीडादिकृत्यैर् विविधमुरलिकावादनैर् मल्लभङ्गैर्
गोपीबन्धार्हभावाद् व्रजजननमुखैः कंसदैत्यादिभङ्गैः ।
प्रादुर्भावैर् निहीनेष्वसुरभुजवनच्छेदमुख्यैश् चरित्रैर्
आकर्षेत् सर्वचित्तं हरिरिति कथयामास कारेरपत्यम् ॥ (6-4) 73

शङ्खाच्चक्रादितश्च त्रिदशसुरतया सिन्धुशायित्वभूम्ना
तद्वच्चोदारभावाद् अरुणसरसिजाक्षत्वचिह्नाभिधानैः ।
देवीभिः सेव्यभावाद् अतिसुलभतया स्वेष्वतिस्निग्धभावाद्
बन्धुभ्यः स्वान् मुरारिर् विघटयति हठादित्यवोचत् शठारिः ॥ (6-5) 74

पारम्याद्यैश्च पञ्चायुधविधृतिमुखैर् ब्रह्मणः स्रष्टृभावाद्
देवानां स्वामिभावाद् अतिसुभगतयाऽलङ्कृतेः कुन्दभङ्गात् ।
प्रादुर्भावैश्च सर्वान्तरनिलयतयाऽहम्ममेत्यादिधैर्यं
चातुर्यादीनि नॄणामपहरति हरिश् चेत्यभाणीत् शठारिः ॥ (6-6) 75

पारम्याद् भव्यभावात् स्रगभिहितिमुखैः श्रीशतैश्वर्यभूम्ना
स्नेहित्वादाभिरूप्यात् श्रितपरवशतासर्वलोकेशताद्यैः ।
धृत्यादेरादिहेतुं मुरमथनमथ व्याहरत् संश्रितानां
वेदानागस्त्यभाषावपुष उदधरत् श्रेयसे देहिनां यः ॥ (6-7) 76

लोकस्रष्टृत्वशक्त्याऽऽयुधसुभगतया जिष्णुसारथ्ययोगात्
स्रग्भ्राड्देवेशभावाद् गरुडरथतया स्वाश्रिते पक्षपातात् ।
कान्त्या साम्राज्ययोगाद् अवतरणदशास्पष्टपारम्यतश्च
स्वीयायत्तस्वभूतिद्वयमथ कथयामास देवं शठारिः ॥ (6-8) 77

सर्वात्मत्वाज् जगत्याः क्रमणत उत संरक्षणाद् विष्टपानां
शत्रुध्वंसात् परत्वाद्यभिमतदशया पञ्चधाऽवस्थितत्वात् ।
निर्वाहादण्डकोट्या बुधदयिततया सर्वशीर्ष्ण्यङ्घ्रिदानान्
मोक्षेच्छोत्पादकत्वात् हरिमथ शठजिद् वक्त्यनर्हद्वियोगम् ॥ (6-9) 78

आपत्संरक्षणादर्युपकरणतया मेघसाम्यादिभूम्ना
स्वानां विश्वासदानात् सुरगणभजनाद् दिव्यदेशोपसत्त्या ।
प्राप्याप्राप्यत्वयोगात् स्वजनविजनयोः सत्प्रपत्तव्यभावाद्
ऊचे नाथं शरण्यं श्रुतिशतविधितं वेङ्कटेशं शठारिः ॥ (6-10) 79

इत्थं सद्द्वारगम्यं स्वयमितम् असहस्थायिनां योजनार्हं
कर्षन्तं स्वैश् चरित्रैर् विघटितविजनं स्वान्वितस्तेयदक्षम् ।
धृत्यादीनां निदानं घटकवशमहाभूतियुग्मं शठारिर्
वैघट्यस्याप्यनर्हं प्रपदनसुलभं प्राह षष्ठे शरण्यम् ॥ (6) 80