विश्वास-प्रस्तुतिः
चक्रस्फायत्करत्वात् स्वजनवशतया रक्षणोद्युक्तभावाद्
भव्यत्वात् स्वात्मदानाद् विमलतनुतया श्रीगजेन्द्रावनाच्च ।
नानाबन्धुत्वयोगाद् विपदि सखितया व्याजमात्राभिलाषात्
कारुण्याधीनवृत्तिं कमलदृशमवैत् कारिसूनुः कृतार्थः ॥ (5-1) 59
मूलम्

पाथोधिप्रौढकान्तौ सरसतुलसिकालङ्कृतौ दातृभावे
वैकुण्छत्वे च चक्रप्रहरणवशितादेवतास्थापनादौ ।
स्वानामच्यावनादौ सकलनियमने सर्वकर्मेज्यभावे
नित्यासक्तैः स्वभक्तैर् जगदघशमनं प्राह कृष्णं शठारिः ॥ (5-2) 60

ज्योतीरूपाङ्गकत्वात् सरसिजनयनाविष्टविध्वंसकत्वान्
मेघौघश्यामलत्वात् श्रितसरसतया उत्कृष्टसौलभ्ययोगात् ।
रक्षायां सावधानात् सुभगतनुतया सोपकारास्त्रवत्त्वात्
स्वानां प्रेमातिमात्रं जनयति भगवानित्यवादीत् शठारिः ॥ (5-3) 61

आपद्बन्धुत्वकीर्त्या यदुकुलजननाद् धीरवीरत्वकीर्त्या
लोकानां विक्रमाच्च आश्रितदुरितहृतेर् अद्भुतैश्चेष्टितैश्च ।
चक्राद्यस्त्रान्वितत्वात् कमलनयनतासम्पदा वामनत्वात्
क्षीराब्धौ शेषशायी जगदवनमहाजीक्षितोऽज्ञायि तेन ॥ (5-4) 62

शङ्खाद्यैर् यज्ञसूत्रादिभिरपि च तथा शार्ङ्गमुख्यैस् तुलस्या
बिम्बोष्ठाद्यैः सुनासाव्रतति निरवधि ज्योतिरूर्जस्विमूर्त्या ।
नेत्राब्जाद्यैरशेषाभरणसुषुमया स्वैश्च भक्तैर्मनोज्ञः
देवः स्वानामजस्रं स्मृतिविषयतया भाति चेत्यभ्यधायि ॥ (5-5) 63

स्रष्टृत्वाद्यैर् जगत्याः सकलविधकलावर्तकत्वेन भूता-
न्तर्यामित्वेन कृत्युद्धरणपरतया भूभरापाकृतेश्च ।
शैलेन्द्रोद्धारणाद्यैः स्वजनहिततया ब्रह्मरुद्रेन्द्रभावाद्
दुष्कर्मोन्मूलनाद्यैः प्रभुरनिशमहम्बुद्धिबोध्योऽन्वभावि ॥ (5-6) 64

सर्पाधीशेशयत्वाद् अरिदरभरणात् सानुकम्पत्वयोगात्
सत्साहाय्यादशेषान्तरनिलयतया भूसमुद्धृत्युदन्तैः ।
सर्वेषां तातभावाद् इतरजनदुराधर्षतादेः शरण्यं
दीनानां प्राह विष्णुं शठजनमथनो देवतासार्वभौमम् ॥ (5-7) 65

निस्सौहित्यामृतत्वात् स्ववशजनितया अनन्यभावप्रधानान्
मर्यादातीतकीर्त्या नलिननयनतो नायकत्वात् सुराणाम् ।
सर्वश्रैष्ठ्यादियोगाद् अनितरगतिताद्यावहासन्नभावाद्
दास्ये स्वे स्थापयेत् स्वान् हरिरिति शठजित् स्थापयामास कृष्णम् ॥ (5-8) 66

स्मामित्वात् संश्रितानाम् उपकरणरसात् स्वेष्टसंश्लेषकत्वात्
सर्वास्वादत्वभूम्ना कपटवटुतया दारुणापत्सखत्वात् ।
दिव्यस्थानोपसत्त्या भ्रमदरिभरणाच्चापि नारायणत्वाद्
अत्यासन्नः श्रितानां भवति हरिरिति प्राह कारेस्तनूजः ॥ (5-9) 67

प्रादुर्भावादिवृत्तैर् वृषगणदमनात् पूतनाशातनाद्यैर्
मोहार्थं बुद्धकृत्यैर् गिरिवरभजनस्वीकृतेः स्थानभेदैः ।
तेजोध्वान्तादिभावाज् जलनिधिशयनाद् भिक्षणाद्यैस्त्रिपद्याः
पीयूषस्पर्शनाद्यैः शिथिलयति हरिः स्वीयहृच्चेत्यथोचे ॥ (5-10) 68

इत्थं कारुण्यनिघ्नं दुरितहरजनं प्रेम तीव्रं दुहानं
लोकानां रक्षितारं स्मृतिविषयमहम्भावनागोचरं च ।
दीनानां सच्छरण्यं स्वरसकृतनिजप्रेष्यतावाञ्छमूचे
प्राप्तं शक्तिप्रदं श्रीपतिमिह शतके श्रेयसामेकहेतुम् ॥ (5) 69