विश्वास-प्रस्तुतिः
श्रीमान्नारायणः स्वाम्यनुगुणमकुटः वीरदामाङ्कमौलिर्
दुर्दान्तारातिहन्ताऽद्भुतनियततनुः कल्पपाथोधितल्पः ।
विश्वाद्यं ज्योतिरुर्वीधरफणिशयनो वेदरूपस्वकेतुर्
निर्धूताशेषदोषः प्रभुरथ कथितः सुस्थिरैश्वर्यसीमा ॥ (4-1) 45
मूलम्

शैत्यात् सौगन्ध्यभूम्ना रुचिरुचिरतया पोषणादाभिरूप्यात्
सन्दर्भात् पुष्पसङ्गान् महिततुलसिकामालया शङ्खतश्च ।
चक्राधीशस्य योगाद् वटदलशयनाद्यर्हणीयापदानैः
सम्पन्नानेकभोग्यं निरविशदजितं कृष्णमूर्तिं शठारिः ॥ (4-2) 46

चेतोगन्धानुलेपः स्तुतिवचनकृतस्रक्पटोऽञ्जल्युपात्ता-
लङ्कारः प्राणवासी कलितवरशिरोभूषणश्चेतनेन ।
शीर्ष्णा सत्पादपीठः स्वतनुचेतनतामात्मरूपे वितन्वन्
अन्योन्यात्मत्वयोगात् प्रभुरगणि मिथःश्लिष्टभावोऽथ तेन ॥ (4-3) 47

भूम्याद्यैः सागराद्यैर् ज्वलनशशिमुखैर् वस्तुभिर्वत्सपूर्वैर्
नृत्यद्भिः स्वैश्च लोकादिभिरथ पृथिवीक्षिद्भिरात्मीयदासैः ।
सौलभ्यैश्वर्यवर्गैरपि च गुणगणैर् वासुदेवो वियोगे
स्वीयैस्तुल्यैश्च भक्तान् व्यथयति मधुहेत्यब्रवीत् कारिसूनुः ॥ (4-4) 48

आपन्नानन्यबन्धौ सरसिजनिलयावल्लभे सान्द्रमोदे
भक्ताघध्वंसशीले तदुचितसमयाश्वासदानप्नवीणे ।
कर्पूरालेपशोभे समधिकरहिते दोषके सर्वपूर्णे
कृष्णे स्तुत्यादिभाजां शठरिपुरवदद् धन्यतां निन्दिधान्यः ॥ (4-5) 49

इच्छासारथ्ययोगात् प्रहरणनवनात् श्रीतुलस्याढ्यमौलेः
स्तुत्याङ्घ्र्योः पादधूल्या स्वजनभजनतत्पादधूलीनमोभिः ।
तन्मूलस्वाङ्घ्रिनुत्या तदितरभजनत्यागपूर्वोपसत्त्या
देवं प्राचिख्यपत् स्वप्रणयिषु भिषजं केसरस्रग्विभूषः ॥ (4-6) 50

आपद्बन्धुत्वदीप्तं निरवधिकमहानन्ददं क्रान्तलोकं
दुर्दर्शं देवतानां पितरमनुपधिं सर्वभूतान्तरस्थम् ।
पूर्णज्ञानैकमूर्तिं धृतशुभतुलसिं चक्रनाथं श्रुतीनां
विश्रान्तिस्थानमीशं विशदबहुगुणं प्राह खिन्नः शठारिः ॥ (4-7) 51

दुश्शीलो मांसचक्षुर् निरवधिदुरितो वीतलज्जो विलोलः
प्रेक्षाहीनोऽन्यसङ्गात् कृतमपि लघयन् शीलमन्तर्दधानः ।
कर्मज्ञानादिशून्यः निरुपधिविहितां ज्ञानदृष्टिं विनिन्दन्
प्रख्याप्यैवं स्वदोषान् पतिगुणरसिकस् तद्दिदृक्षां चचक्षे ॥ (4-7) 52

सौन्दर्यादौ स्वकीये हृदि च खनिकरे पूर्णतायां च कान्तौ
सम्यग्ज्ञाने प्रकाशे वलयरशनयोर् वर्ष्मणि स्वस्वरूपे ।
स्याद्विष्णोर्यद्युपेक्षा तदिदमखिलमुन्मूलनीयं तदीयैर्
इत्यूचे कारिसूनुस् तदुपरि कथयंस्तं शिवाद्याश्रिताङ्गम् ॥ (4-8) 53

कारुण्यादब्धिमाथी तदुपरि शयितस् तत्समानाङ्गवर्णः
ख्यातौदार्यः स्वदाने रुचिरमणिरुचिर् वेषतोऽतीव भोग्यः ।
आत्मत्वेनानुभाव्यः दुरधिगमपदः बन्धमोक्षस्वतन्त्रः
स्वान्यप्रेमोपरोधी स्वदत इह विभुस् तत्पदोत्कण्ठिताय ॥ (4-9) 54

तापैः सम्बन्धिदुःखैः स(स्व)विभवमरणैस् तापकृद्भोग्यशङ्कैर्
दुर्गत्याऽऽज्ञातिवृत्तेर् अनितरविधुतेरण्डकारानिरोधात् ।
प्रह्वीभावोज्झितत्वात् प्रलघुसुखपरिष्वङ्गतश्चातिशोच्यं
विश्वं द्रष्टुं न शक्तो निजपदनयने नाथति स्म स्वनाथम् ॥ (4-9) 55

स्वानां निर्वाहकत्वाद् अहिपतिशयनाद् अब्धिवर्णस्वभावाद्
अत्यन्तोदारभावाद् वलभिदुपलवद् दर्शनीयत्वयोगात् ।
सन्मौलित्वात् तुलस्या प्रियकरणमुखैरण्डसृष्टौ पटुत्वात्
सुप्रापत्वादिभिस् तं फलमतुलमवैद् भेजुषामेष नाथम् ॥ (4-9) 56

कल्पान्तेऽपि स्थितत्वात् सकलसुरगणस्रष्टृभावाज् जनानां
रक्षाद्यापादकत्वात् शिवविधिभरणात् सर्वदेवात्मभावात् ।
तत्तत्कर्मानुरूपं फलवितरणतो वैनतेयध्वजत्वान्
मार्कण्डेयावनादेः प्रभुमथ शठजित् प्राह सर्वामरोच्चम् ॥ (4-10) 57

नित्यैश्वर्यं तु तुर्ये सहजबहुलसद्भोग्यमन्योन्यसक्तं
क्लेशापादिस्वतुल्यं स्वजनकृतकृतार्थीकृतिं स्नेहिवैद्यम् ।
संयुक्तं सद्गुणौघैः स्वजनपरिहृतोपेक्ष्यमिष्टार्थरूपं
श्रेष्ठं निश्शेषभोग्यादमनुत शतके देवतासार्वभौमम् ॥ (4) 58