विश्वास-प्रस्तुतिः
सुश्लिष्टाकल्पम् अङ्गैर् अन्-उपम-सुषमं वक्ति निस्सीम-दीप्तिं
स्वान्त-स्वादु–स्व-देहं सुख-भजन-पदं मण्डिताङ्गं महिष्या ।
स्तोत्रातिक्रान्त-कीर्तिं मलिनिम-रहितौज्ज्वल्यम् इष्टौपवाह्यं
वीताश्चर्य–त्रि-णेत्र–प्रभृति-सुर-नुतिं चित्र-सौन्दर्य-विद्धम् ॥ (3-1) 34
मूलम्
सुश्लिष्टाकल्पमङ्गैर् अनुपमसुषमं वक्ति निस्सीमदीप्तिं
स्वान्तस्वादुस्वदेहं सुखभजनपदं मण्डिताङ्गं महिष्या ।
स्तोत्रातिक्रान्तकीर्तिं मलिनिमरहितौज्ज्वल्यमिष्टौपवाह्यं
वीताश्चर्यत्रिणेत्रप्रभृतिसुरनुतिं चित्रसौन्दर्यविद्धम् ॥ (3-1) 34
विश्वास-प्रस्तुतिः
स्रष्टा क्रान्ता च लोकान्, हृत-धरणि-भरो, ऽनन्य-भोग्याङ्घ्रि-युग्मश्
चित्तोद्यन्-नील-रूपः निरवधि-रस-द–स्वाङ्घ्रिर् अध्यक्ष-मूर्तिः ।
नित्योपास्य-स्व-पादः निखिल-वसुमती-गोपन-स्वाङ्घ्रि-वृत्तिर्
मुष्णन् मूर्ति-प्रतीत्या यम-पर-वशतां, प्रैक्षि लोकैक-नाथः ॥ (3-2) 35
मूलम्
स्रष्टा क्रान्ता च लोकान् हृतधरणिभरोऽनन्यभोग्याङ्घ्रियुग्मश्
चित्तोद्यन्नीलरूपः निरवधिरसद स्वाङ्घ्रिरध्यक्षमूर्तिः ।
नित्योपास्यस्वपादः निखिलवसुमतीगोपनस्वाङ्घ्रिवृत्तिर्
मुष्णन् मूर्तिप्रतीत्या यमपरवशतां प्रैक्षि लोकैकनाथः ॥ (3-2) 35
विश्वास-प्रस्तुतिः
स्थानोत्कर्षात् सु-दीप्तं, श्रम-हर-वपुषं, स्वाङ्ग-पर्याप्त-भूषं,
तेजिष्ठं नीच-योगात् प्रणमित-भुवनं पावनं सन्नतानाम् ।
प्राप्त्यर्हस्थानमंहःप्रशमनविषयं बन्धविच्छेदिपादं
भेजे शीघ्राभियानक्षमशुभवसतिं लम्भितार्चाभिमुख्यः ॥ (3-3) 36
मूलम्
स्थानोत्कर्षात् सुदीप्तं श्रमहरवपुषं स्वाङ्गपर्याप्तभूषं
तेजिष्ठं नीचयोगात् प्रणमितभुवनं पावनं सन्नतानाम् ।
प्राप्त्यर्हस्थानमंहःप्रशमनविषयं बन्धविच्छेदिपादं
भेजे शीघ्राभियानक्षमशुभवसतिं लम्भितार्चाभिमुख्यः ॥ (3-3) 36
विश्वास-प्रस्तुतिः
भूतैस् तत्-कार्य-भूतैः, शुभ-निज-वपुषा, दीप्तिमद्भिः पदार्थैः,
पथ्याऽऽस्वादोपपन्नैः, श्रुति-मुख-सुभगाशेष-शब्द-प्रपञ्चैः ।
नानाकारैः पुम्-अर्थैर् जगद्-अधिपतिभिश् चेतनाचेतनौघैर्
जुष्टं, दोषैर् अदुष्टं, निखिल-तनुतया सम्प्रतुष्टाव तुष्टः ॥ (3-4) 37
मूलम्
भूतैस्तत्कार्यभूतैः शुभनिजवपुषा दीप्तिमद्भिः पदार्थैः
पथ्यास्वादोपपन्नैः श्रुतिमुखसुभगाशेषशब्दप्रपञ्चैः ।
नानाकारैः पुमर्थैर् जगदधिपतिभिश् चेतनाचेतनौघैर्
जुष्टं दोषैरदुष्टं निखिलतनुतया सम्प्रतुष्टाव तुष्टः ॥ (3-4) 37
विश्वास-प्रस्तुतिः
ग्राह-ग्रस्तेभ-मोक्षे, सुर-रिपु-दमने, गो-कुल-त्राण-कार्ये
गोदार्थोक्षावमर्दे+++(=??)+++ सद्-अहित-मथने सिन्धु-पर्यङ्क-योगे ।
क्षोणी-भार-व्यपोहे क्षिति-धर-वसतौ निर्जराराध्यतायां
विश्वारम्भे च शौरेः शुभ-तनु-सुषमोन्मादकत्वं जगाद ॥ (3-5) 38
मूलम्
ग्राहग्रस्तेभमोक्षे सुररिपुदमने गोकुलत्राणकार्ये
गोदार्थोक्षावमर्दे सदहितमथने सिन्धुपर्यङ्कयोगे ।
क्षोणीभारव्यपोहे क्षितिधरवसतौ निर्जराराध्यतायां
विश्वारम्भे च शौरेः शुभतनुसुषमोन्मादकत्वं जगाद ॥ (3-5) 38
विश्वास-प्रस्तुतिः
पद्माक्षीं पाप-हन्त्रीं मणि-रुचिम् अमराधीश-चिन्त्याङ्घ्रि-पद्मां
तत्-तादृक्-कुन्तल-श्री–सुघटित-मकुटां भावुक-प्राप्य-पादाम् ।
शुद्धास्वाद्य-स्वभावां यम-भट-मथनीं भक्त-धी-वृत्ति-भ(ा)व्यां
नीचोच्चाभीष्ट-वृत्तिं हरि-तनुम् अवदन् निर्मलार्चानुरक्तः ॥ (3-6) 39
मूलम्
पद्माक्षीं पापहन्त्रीं मणिरुचिम् अमराधीशचिन्त्याङ्घ्रिपद्मां
तत्तादृक्कुन्तलश्रीसुघटितमकुटां भावुकप्राप्यपादाम् ।
शुद्धास्वाद्यस्वभावां यमभटमथनीं भक्तधीवृत्तिभ(ा)व्यां
नीचोच्चाभीष्टवृत्तिं हरितनुमवदन् निर्मलार्चानुरक्तः ॥ (3-6) 39
विश्वास-प्रस्तुतिः
स्फीतालोकातिभूम्ना पृथु-बहु-भुजया दिव्य-माल्यास्त्र-भाजा
सद्-वस्त्राकल्प-कॢप्त्या त्रि-दश–रस-कृता रक्षणौन्मुख्य-वत्या ।
मुक्तैर् उत्तंसिताङ्घ्र्या स्थिर-धृत-रमया श्यामया नित्य-सत्या+++(=??)+++
शौरेः कान्त्या जितानां स्व-बहु-मत-जन–स्वामिताम् अन्वमंस्त ॥ (3-7) 40
मूलम्
स्फीतालोकातिभूम्ना पृथुबहुभुजया दिव्यमाल्यास्त्रभाजा
सद्वस्त्राकल्पकॢप्त्या त्रिदशरसकृता रक्षणौन्मुख्यवत्या ।
मुक्तैरुत्तंसिताङ्घ्र्या स्थिरधृतरमया श्यामया नित्यसत्या
शौरेः कान्त्या जितानां स्वबहुमतजनस्वामितामन्वमंस्त ॥ (3-7) 40
विश्वास-प्रस्तुतिः
चित्ताकृष्टि-प्रवीणैर् अभिलपन-सुखैः स्पर्श-वाञ्छां दुहानैर्
आतन्वानैर् दिदृक्षां श्रुति-हित-सहितैर् आत्म-नित्यादरार्हैः ।
विश्लेषाक्रोश-कृद्भिः स्मरद्-अरति-करैर् दत्त-सायुज्य-शङ्कैः
कुर्वाणैर् बाल-लौल्यं मिलित-गुण-गणैर् नित्य-दृश्याङ्गम् आह ॥ (3-8) 41
मूलम्
चित्ताकृष्टिप्रवीणैर् अभिलपनसुखैः स्पर्शवाञ्छां दुहानैर्
आतन्वानैर् दिदृक्षां श्रुतिहितसहितैर् आत्मनित्यादरार्हैः ।
विश्लेषाक्रोशकृद्भिः स्मरदरतिकरैर् दत्तसायुज्यशङ्कैः
कुर्वाणैर् बाललौल्यं मिलितगुणगणैर् नित्यदृश्याङ्गमाह ॥ (3-8) 41
विश्वास-प्रस्तुतिः
रम्यस्थानादियोगाद् अमितविभवतः सत्पथप्रापकत्वात्
सम्यक्सायुज्यदानाद् अनघवितरणात् सर्वशेषित्वचिह्नात् ।
प्रख्याताख्यासहस्रैर् अवतरणरसैर् भुक्तिमुक्त्याभिमुख्यात्
त्रैलोक्योत्पादनाच्च स्तुतिविषयतनुं व्याहरन्निन्दिधान्यः ॥ (3-9) 42
मूलम्
रम्यस्थानादियोगाद् अमितविभवतः सत्पथप्रापकत्वात्
सम्यक्सायुज्यदानाद् अनघवितरणात् सर्वशेषित्वचिह्नात् ।
प्रख्याताख्यासहस्रैर् अवतरणरसैर् भुक्तिमुक्त्याभिमुख्यात्
त्रैलोक्योत्पादनाच्च स्तुतिविषयतनुं व्याहरन्निन्दिधान्यः ॥ (3-9) 42
विश्वास-प्रस्तुतिः
प्रादुर्भावानुभावात् परिजनविभवात् पावनालङ्क्रियत्वाज्
जैत्रव्यापारयोगाद् अघटितघटनाद् देवभावप्रसिद्धेः ।
आश्चर्यक्रीडनत्वात् सरसिजनिलयानन्दनाच् छन्दवृत्तेर्
ऐश्वर्यव्यक्तिमत्त्वाद् अघशमनतनुं केशवं व्याजहार ॥ (3-10) 43
मूलम्
प्रादुर्भावानुभावात् परिजनविभवात् पावनालङ्क्रियत्वाज्
जैत्रव्यापारयोगाद् अघटितघटनाद् देवभावप्रसिद्धेः ।
आश्चर्यक्रीडनत्वात् सरसिजनिलयानन्दनाच् छन्दवृत्तेर्
ऐश्वर्यव्यक्तिमत्त्वाद् अघशमनतनुं केशवं व्याजहार ॥ (3-10) 43
विश्वास-प्रस्तुतिः
एवं सौन्दर्यभूम्ना तनुविहितजगत्कृत्यसौभाग्ययोगात्
स्वेच्छासेव्याकृतित्वान् निखिलतनुतयोन्माददानार्हकान्त्या ।
लभ्यार्चावैभवत्वाद् गुणरसिकगुणोत्कर्षणाद् अक्षकृष्ट्या
स्तुत्यत्वात् पापभङ्गात् शुभसुभगतनुं प्राह नाथं तृतीये ॥ (3) 44
मूलम्
एवं सौन्दर्यभूम्ना तनुविहितजगत्कृत्यसौभाग्ययोगात्
स्वेच्छासेव्याकृतित्वान् निखिलतनुतयोन्माददानार्हकान्त्या ।
लभ्यार्चावैभवत्वाद् गुणरसिकगुणोत्कर्षणाद् अक्षकृष्ट्या
स्तुत्यत्वात् पापभङ्गात् शुभसुभगतनुं प्राह नाथं तृतीये ॥ (3) 44