विश्वास-प्रस्तुतिः
निद्रा-विच्छेदकत्वाद् अ-रति-जननतो ऽजस्र-सङ्क्षोभकत्वाद्
अन्वेष्टुं प्रेरकत्वाद् विलय-वितरणात् कार्श्य-दैन्यादि-कृत्त्वात् ।
चित्ताक्षेपाद् विसञ्ज्ञी-करणत, उपसंशोषणावर्जनाभ्यां
दृष्टास्वादस्य शौरेः क्षण-विरह-दशा-दुस्-सहत्वं जगाद ॥ (2-1) 23
मूलम्
निद्राविच्छेदकत्वाद् अरतिजननतोऽजस्रसङ्क्षोभकत्वाद्
अन्वेष्टुं प्रेरकत्वाद् विलयवितरणात् कार्श्यदैन्यादिकृत्त्वात् ।
चित्ताक्षेपाद् विसञ्ज्ञीकरणत उपसंशोषणावर्जनाभ्यां
दृष्टास्वादस्य शौरेः क्षणविरहदशादुस्सहत्वं जगाद ॥ (2-1) 23
विश्वास-प्रस्तुतिः
पूर्णैश्वर्यावतारं भव-दुरित-हरं वामनत्वे महान्तं,
नाभी-पद्मोत्थ-विश्वं तद्-अनुगुण-दृशं, कल्प-तल्पी-कृताब्धिम् ।
सुप्तं न्यग्रोध-पत्रे, जगद्-अवनधियं रक्षणायावतीर्णं
रुद्रादि-स्तुत्य-लीलं व्यवृणुत ललितोत्तुङ्ग-भावेन नाथम् ॥ (2-2) 24
मूलम्
पूर्णैश्वर्यावतारं भवदुरितहरं वामनत्वे महान्तं
नाभीपद्मोत्थविश्वं तदनुगुणदृशं कल्पतल्पीकृताब्धिम् ।
सुप्तं न्यग्रोधपत्रे जगदवनधियं रक्षणायावतीर्णं
रुद्रादिस्तुत्यलीलं व्यवृणुत ललितोत्तुङ्गभावेन नाथम् ॥ (2-2) 24
विश्वास-प्रस्तुतिः
चित्रास्वादानुभूतिं प्रियम् उपकृतिभिर् दास्य-सारस्य-हेतुं
स्वात्म-न्यासार्ह-कृत्यं भजद्-अमृत-रसं भक्त-चित्तैक-भोग्यम् ।
सर्वाक्ष-प्रीणनार्हं स-पदि बहु-फल-स्नेहम् आस्वाद्य-शीलं
सभ्यैः साध्यैः समेतं निरविशद् अनघाशेष-निर्वेशम् ईशम् ॥ (2-3) 25
मूलम्
चित्रास्वादानुभूतिं प्रियमुपकृतिभिर् दास्यसारस्यहेतुं
स्वात्मन्यासार्हकृत्यं भजदमृतरसं भक्तचित्तैकभोग्यम् ।
सर्वाक्षप्रीणनार्हं सपदि बहुफलस्नेहमास्वाद्यशीलं
सभ्यैः साध्यैः समेतं निरविशदनघाशेषनिर्वेशमीशम् ॥ (2-3) 25
विश्वास-प्रस्तुतिः
प्रह्लादार्थे नृसिंहं, क्षपित-विपद्-उषा-वल्लभं क्षिप्त-लङ्कं,
क्ष्वेल+++(=कम्प)+++-प्रत्यर्थि-केतुं, श्रम-हर-तुलसी-मालिनं धैर्य-हेतुम् ।
त्राणे दत्तावधानं, स्व-रिपु-हति-कृताश्वासनं, दीप्त-हेतिं,
सत्-प्रेक्षा-रक्षितारं, व्यसन-निरसनं, व्यक्त-कीर्तिं जगाद ॥ (2-4) 26
मूलम्
प्रह्लादार्थे नृसिंहं क्षपितविपदुषावल्लभं क्षिप्तलङ्कं
क्ष्वेलप्रत्यर्थिकेतुं श्रमहरतुलसीमालिनं धैर्यहेतुम् ।
त्राणे दत्तावधानं स्वरिपुहतिकृताश्वासनं दीप्तहेतिं
सत्प्रेक्षारक्षितारं व्यसननिरसनं व्यक्तकीर्तिं जगाद ॥ (2-4) 26
विश्वास-प्रस्तुतिः
स्व-प्राप्त्या सिद्ध-कान्तिं सुघटित-दयितं विस्फुरत्-तुङ्ग-मूर्तिं
प्रीत्य्-उन्मेषातिभोग्यं नव-घन-सु-रसं नैक-भूषादि-दृश्यम् ।
प्रख्यात-प्रीति-लीलं दुर्-अभिलप-रसं सद्-गुणामोद-हृद्यं
विश्व-व्यावृत्ति-चित्रं व्रज-युवति-गण-ख्यात-नीत्या ऽन्वभुङ्क्त ॥ (2-5) 27
मूलम्
स्वप्राप्त्या सिद्धकान्तिं सुघटितदयितं विस्फुरत्तुङ्गमूर्तिं
प्रीत्युन्मेषातिभोग्यं नवघनसुरसं नैकभूषादिदृश्यम् ।
प्रख्यातप्रीतिलीलं दुरभिलपरसं सद्गुणामोदहृद्यं
विश्वव्यावृत्तिचित्रं व्रजयुवतिगणख्यातनीत्याऽन्वभुङ्क्त ॥ (2-5) 27
विश्वास-प्रस्तुतिः
स्वास्वाद-ख्यापकत्वात्, श्रित-नियत-दृशेर्, नैक-भोग-प्रदानात्,
त्यागानर्ह-प्रकाशात्, स्थिर-परिचरण-स्थापनात्, पाप-भङ्गात् ।
दुस्-साधार्थस्य सिद्धेर्, विरह-भय-कृतेर् दुर्-विभेदात्म-योगान्
नित्यानेकोपकारात्, स्व-विरह-चकितं प्रैक्षताम्भोरुहाक्षम् ॥ (2-6) 28
मूलम्
स्वास्वादख्यापकत्वात् श्रितनियतदृशेर् नैकभोगप्रदानात्
त्यागानर्हप्रकाशात् स्थिरपरिचरणस्थापनात् पापभङ्गात् ।
दुस्साधार्थस्य सिद्धेर् विरहभयकृतेर् दुर्विभेदात्मयोगान्
नित्यानेकोपकारात् स्वविरहचकितं प्रैक्षताम्भोरुहाक्षम् ॥ (2-6) 28
विश्वास-प्रस्तुतिः
सर्वादिः, सर्वनाथस्, त्रि-भुवन-जननी-वल्लभः, स्वाश्रितार्थी,
विष्वग्-व्याप्त्य्-आतिदीप्तः, विमत-निरसनः, स्वाङ्घ्रि-सद्-भक्ति-दायी ।
विश्वाप्त्यै वामनाङ्गः, स्व-विभव-रस-दः, स्वान्त-निर्वाह-योग्यः,
स्वार्थेहो, बन्ध-मोक्ता, स्व-जन-हिततया द्वा-दशाख्याभिर् ऊचे ॥ (2-7) 29
मूलम्
सर्वादिः सर्वनाथस् त्रिभुवनजननीवल्लभः स्वाश्रितार्थी
विष्वग्व्याप्त्यातिदीप्तः विमतनिरसनः स्वाङ्घ्रिसद्भक्तिदायी ।
विश्वाप्त्यै वामनाङ्गः स्वविभवरसदः स्वान्तनिर्वाहयोग्यः
स्वार्थेहो बन्धमोक्ता स्वजनहिततया द्वादशाख्याभिरूचे ॥ (2-7) 29
विश्वास-प्रस्तुतिः
प्राप्याकारोपपत्त्या जनि-परिहरणाद् विश्व-सृष्ट्यादि-शक्तेर्
निस्सीमानन्द-देशान्वयत उपजगौ रक्षणार्थावतारात् ।
सुप्रख्यातानुभावाद् विविध-विहरणाद् व्याप्ति-वैचित्र्यवत्त्वाद्
भक्तैर् द्राग्-दृश्य-भावाद् अखिल-फल-कृतेर् मुक्ति-सौख्यं मुकुन्दे ॥ (2-8) 30
मूलम्
प्राप्याकारोपपत्त्या जनिपरिहरणाद् विश्वसृष्ट्यादिशक्तेर्
निस्सीमानन्ददेशान्वयत उपजगौ रक्षणार्थावतारात् ।
सुप्रख्यातानुभावाद् विविधविहरणाद् व्याप्तिवैचित्र्यवत्त्वाद्
भक्तैर् द्राग्दृश्यभावाद् अखिलफलकृतेर् मुक्तिसौख्यं मुकुन्दे ॥ (2-8) 30
विश्वास-प्रस्तुतिः
श्रद्धेय-स्वाङ्घ्रि-योगं शुभ-मति-कर-दं स्तोत्र-सामर्थ्य-हेतुं
स्वार्थी-कारोपकारं स्मृति-रस-शमिधान्यादरं+++(=??)+++ प्रीति-वश्यम् ।
प्राप्तौ कालाक्षमत्व-प्रदम् अ-मृत–रस-ध्यानम् आत्मार्पणार्हं
वैमुख्याद् वारयन्तं वृत-परिचरणं चक्र-पाणिं जगाद ॥ (2-9) 31
मूलम्
श्रद्धेयस्वाङ्घ्रियोगं शुभमतिकरदं स्तोत्रसामर्थ्यहेतुं
स्वार्थीकारोपकारं स्मृतिरसशमिधान्यादरं प्रीतिवश्यम् ।
प्राप्तौ कालाक्षमत्वप्रदममृतरसध्यानमात्मार्पणार्हं
वैमुख्याद्वारयन्तं वृतपरिचरणं चक्रपाणिं जगाद ॥ (2-9) 31
विश्वास-प्रस्तुतिः
दीप्ताश् चर्य-स्वभावं मुखरित-जल-जं वर्षुकाम्भो-द-वर्णं
शैल-च्छत्राभिगुप्ताश्रितम् अति-विलसद्-धेतिम् आपीत-गव्यम् ।
संरम्भोत्क्षिप्त-भूमिं प्रणमद् अनुगुणं पूतनाचेतनान्तं
पूर्वाचार्यं श्रुतीनां शुभ-सविध-गिरि-स्थानतो निर्विवेश ॥ (2-10) 32
मूलम्
दीप्ताश्चर्यस्वभावं मुखरितजलजं वर्षुकाम्भोदवर्णं
शैलच्छत्राभिगुप्ताश्रितमतिविलसद्धेतिमापीतगव्यम् ।
संरम्भोत्क्षिप्तभूमिं प्रणमदनुगुणं पूतनाचेतनान्तं
पूर्वाचार्यं श्रुतीनां शुभसविधगिरिस्थानतो निर्विवेश ॥ (2-10) 32
विश्वास-प्रस्तुतिः
इत्य् अब्रूत+अत्यसह्य-क्षण-विरहतया मानुषत्वे परत्वात्
सर्वास्वादत्व-भूम्ना व्यसन-हरतया स्वाप्ति-सम्प्रीतिमत्त्वात् ।
वैमुख्य-त्रास-योगान् निज-सुहृद-वनान् मुक्ति-सारस्य-दानात्
कैङ्कर्योद्देश्य-भावात् शुभ-निलयतया चातिभोग्यं द्वितीये ॥ (2) 33
मूलम्
इत्यब्रूतात्यसह्यक्षणविरहतया मानुषत्वे परत्वात्
सर्वास्वादत्वभूम्ना व्यसनहरतया स्वाप्तिसम्प्रीतिमत्त्वात् ।
वैमुख्यत्रासयोगान् निजसुहृदवनान् मुक्तिसारस्यदानात्
कैङ्कर्योद्देश्यभावात् शुभनिलयतया चातिभोग्यं द्वितीये ॥ (2) 33