विश्वास-प्रस्तुतिः
निस्-सीमोद्यद्-गुणत्वाद् अमित-रसतया ऽनन्त-लीलास्पदत्वात्
स्वायत्ताशेष-सत्ता-स्थिति-यतन-भिदा-वैभवाद् वैश्व-रूप्यात् ।
त्र्य्-अक्ष–ब्रह्मात्म-भावात्, सद्–अ-सद्-अवगतेः सर्व-तत्त्वेषु पूर्तेः
पश्यन् योगी परं तत्-पद-कमल-नताव् अन्वशाद् आत्म-चित्तम् ॥ (1-1) 11
मूलम्
निस्सीमोद्यद्गुणत्वाद् अमितरसतया अनन्तलीलास्पदत्वात्
स्वायत्ताशेषसत्तास्थितियतनभिदावैभवाद् वैश्वरूप्यात् ।
त्र्यक्षब्रह्मात्मभावात् सदसदवगतेः सर्वतत्त्वेषु पूर्तेः
पश्यन् योगी परं तत्पदकमलनतावन्वशादात्मचित्तम् ॥ (1-1) 11
विश्वास-प्रस्तुतिः
स्वामित्वात् सु-स्थिरत्वात् निखिल-निरुपधि-स्वात्म-विद्-ग्राह्य-भावात्
तादृक्-सर्वानुकूल्याच् च्यवनवद्-इतर-प्राप्य-वैषम्यवत्त्वात् ।
सर्वत्राप्य् अक्षि-पातात् शुभ-विभवतया मानसाद्य्-अर्च्य-भावात्
सङ्कोचोन्मोचकत्वाज् जगद्-अयनतयोपादिशत् सर्व-योग्यम् ॥ (1-2) 12
मूलम्
स्वामित्वात् सुस्थिरत्वान् निखिलनिरुपधिस्वात्मविद्ग्राह्यभावात्
तादृक्सर्वानुकूल्याच् च्यवनवदितरप्राप्यवैषम्यवत्त्वात् ।
सर्वत्राप्यक्षिपातात् शुभविभवतया मानसाद्यर्च्यभावात्
सङ्कोचोन्मोचकत्वाज् जगदयनतयोपादिशत् सर्वयोग्यम् ॥ (1-2) 12
विश्वास-प्रस्तुतिः
बन्धार्हत्वात् स्व-भक्तैर्, अधिकतर-गुणानन्त-दिव्यावतारात्
सर्वेष्व् आसक्तिमत्त्वात्, नत-सुगमतया स्व-प्रबोध-प्रदत्वात् ।
ख्याताभिख्यादि-चिह्नात् स्व-रुचि-वितरणात् सर्व-कालाश्रयत्वात्
शर्वादेः स्वाङ्ग-दानात्, प्रहित-पदतया ऽनन्त-सौलभ्यम् आह ॥ (1-3) 13
मूलम्
बन्धार्हत्वात् स्वभक्तैर् अधिकतरगुणानन्तदिव्यावतारात्
सर्वेष्वासक्तिमत्त्वान् नतसुगमतया स्वप्रबोधप्रदत्वात् ।
ख्याताभिख्यादिचिह्नात् स्वरुचिवितरणात् सर्वकालाश्रयत्वात्
शर्वादेः स्वाङ्गदानात् प्रहितपदतयाऽनन्तसौलभ्यमाह ॥ (1-3) 13
विश्वास-प्रस्तुतिः
त्राणे बद्ध-ध्वजत्वात् शुभ-नयनतया स्वार्थ-लाभे ऽर्थिभावात्
तिम्यन्+++(=क्लिद्यन्)+++-मेघ-स्वभावाज् जगद्-उपजनन-स्थापनाति-प्रियत्वात् ।
कारुण्याप्तत्व-योगाद् अनुगत-महिषी-सन्निधेः सङ्ग-दैर्घ्यान्
नाना-बन्धैः स्व-रक्षा-वहिततमतया क्षाम्यतीत्य् आह कृष्णम् ॥ (1-4) 14
मूलम्
त्राणे बद्धध्वजत्वात् शुभनयनतया स्वार्थलाभेऽर्थिभावात्
तिम्यन्मेघस्वभावाज् जगदुपजननस्थापनातिप्रियत्वात् ।
कारुण्याप्तत्वयोगाद् अनुगतमहिषीसन्निधेः सङ्गदैर्घ्यान्
नानाबन्धैः स्वरक्षावहिततमतया क्षाम्यतीत्याह कृष्णम् ॥ (1-4) 14
विश्वास-प्रस्तुतिः
सद्-ध्री-भव्यान् सु-वाचः सु-चरित–सु-भगान् कृष्ण-सारूप्य-सौम्यान्
स्व्-आहारोदार-शीलान् तनु-धृत–भगवल्-लक्ष्मणो बाल्य-गुप्तान् ।
छात्र-च्छन्द-स्व-वृत्तीन् अभिगत-शिशिरान्+++(→तापहरान्)+++ अन्तरङ्गोक्ति-योग्यान्
आचार्यान् कृष्ण-लब्धाव् अवृणुत शठजित् प्रेयसी-दूत-नीत्या ॥ (1-4) 15 +++(5)+++
मूलम्
सद्-ध्रीभव्यान् सुवाचः सुचरितसुभगान् कृष्णसारूप्यसौम्यान्
स्वाहारोदारशीलान् तनुधृतभगवल्लक्ष्मणो बाल्यगुप्तान् ।
छात्रच्छन्दस्ववृत्तीन् अभिगतशिशिरान् अन्तरङ्गोक्तियोग्यान्
आचार्यान् कृष्णलब्धाववृणुत शठजित् प्रेयसीदूतनीत्या ॥ (1-4) 15
विश्वास-प्रस्तुतिः
क्षुद्राह्वानाभिमुख्यान् निज-महिम–तिरस्-कारकार्चा-प्रियत्वात्
सर्वत्राप्य् अङ्घ्रि-दानात्, स-विध-शयनतः+++(=??)+++ स्व्-आङ्घ्रि-सक्तैक-रस्यात् ।
गोपाद्य्-आप्तेर्, अशेषेक्षण-विषयतया, भक्त-वस्तु-प्रसक्तेः
श्लिष्यन् नाश-व्यपोहात् तद्-अहित-शमनात् प्राह नाथं सुशीलम् ॥ (1-5) 16
मूलम्
क्षुद्राह्वानाभिमुख्यान् निजमहिमतिरस्कारकार्चाप्रियत्वात्
सर्वत्राप्यङ्घ्रिदानात् सविधशयनतः स्वाङ्घ्रिसक्तैकरस्यात् ।
गोपाद्याप्तेर् अशेषेक्षणविषयतया भक्तवस्तुप्रसक्तेः
श्लिष्यन्नाशव्यपोहात् तदहितशमनात् प्राह नाथं सुशीलम् ॥ (1-5) 16
विश्वास-प्रस्तुतिः
अ-क्रीतैर् अर्च्य-भावाद् अ-नियत-विविधाभ्य्-अर्चनाद् अल्प-तुष्टेः
प्रह्वा-वर्ज्येश-भावात्, स्व-विषय-नियतेष्व् आदरात्, स्वादु-भूम्ना ।
पादासक्त-प्रसत्तेः+++(←सद्)+++, सकृद्-उपचेतने मोक्षणाद् धर्मसौस्थ्यात्
क्षिप्र-क्षिप्ताहितत्वात् सु-कर-भजनतां माधवस्याभ्यधत्त ॥ (1-6) 17
मूलम्
अक्रीतैरर्च्यभावाद् अनियतविविधाभ्यर्चनाद् अल्पतुष्टेः
प्रह्वावर्ज्येशभावात् स्वविषयनियतेष्वादरात् स्वादुभूम्ना ।
पादासक्तप्रसत्तेः सकृदुपचेतने मोक्षणाद् धर्मसौस्थ्यात्
क्षिप्रक्षिप्ताहितत्वात् सुकरभजनतां माधवस्याभ्यधत्त ॥ (1-6) 17
विश्वास-प्रस्तुतिः
सच्-चित्ताकर्ष-हेतोर् अघ-शमन-निधेर् नित्य-भोग्यामृतस्य
त्यागे हेतूज्झितस्य, प्रवहद्-उपकृतेर् दुस्त्यज-स्वानुभूतेः ।
त्यागाकाङ्क्षा-निरोद्धुः श्रित-हृदय-पृथक्-कार-नित्याक्षमस्य
स्वात्म-श्लिष्टस्य गायच्-छ्रम-हर-यशसः सेवनं स्वाद्व् अवोचत् ॥ (1-7) 18
मूलम्
सच्चित्ताकर्षहेतोरघशमननिधेर्नित्यभोग्यामृतस्य
त्यागे हेतूज्झितस्य प्रवहदुपकृतेर्दुस्त्यजस्वानुभूतेः ।
त्यागाकाङ्क्षानिरोद्धुः श्रितहृदयपृथक्कारनित्याक्षमस्य
स्वात्मश्लिष्टस्य गायच्छ्रमहरयशसः सेवनं स्वाद्ववोचत् ॥ (1-7) 18
विश्वास-प्रस्तुतिः
सूरीणां स्वैर-सेव्ये, स्वयम् अवतरति, क्षुद्र-दिव्यैक-नेत्रे
गोपाद्यर्थं धृताद्रौ, श्रित-तनु-रसिके, वामनी-भाव-दृश्ये ।
सच्-चित्तानन्य-वृत्तौ, विभव-समतनौ, स्वायुधारूढ-हस्ते
नीचोच्च-ग्राह्य-पादे निरुपधिम् ऋजुतां नीर-वर्णे जगाद ॥ (1-8) 19
मूलम्
सूरीणां स्वैरसेव्ये स्वयमवतरति क्षुद्रदिव्यैकनेत्रे
गोपाद्यर्थं धृताद्रौ श्रिततनुरसिके वामनीभावदृश्ये ।
सच्चित्तानन्यवृत्तौ विभवसमतनौ स्वायुधारूढहस्ते
नीचोच्चग्राह्यपादे निरुपधिमृजुतां नीरवर्णे जगाद ॥ (1-8) 19
विश्वास-प्रस्तुतिः
पर्यन्ते ऽत्के+++(=अङ्गे)+++ च दृष्टं, स्वविरह-विधुरं, डिम्भवत् पार्श्वलीनं,
चित्ते कॢप्त-प्रवेशं, भुज-शिखर-गतं, तालु-सिंहासनस्थम् ।
चक्षुर्-मध्ये निविष्टं, स्थितम् अलिक+++(=भाल)+++-तटे, मस्तके तस्थिवांसं,
प्रत्याहारोक्त-रीत्या विभुम् अनुबुभुजे सात्म्य-भोग-प्रदानात् ॥ (1-9) 20 +++(5)+++
मूलम्
पर्यन्तेऽत्के च दृष्टं स्वविरहविधुरं डिम्भवत्पार्श्वलीनं
चित्ते कॢप्तप्रवेशं भुजशिखरगतं तालुसिंहासनस्थम् ।
चक्षुर्मध्ये निविष्टं स्थितमलिकतटे मस्तके तस्थिवांसं
प्रत्याहारोक्तरीत्या विभुमनुबुभुजे सात्म्यभोगप्रदानात् ॥ (1-9) 20
विश्वास-प्रस्तुतिः
विष्वग्-विक्रान्ति-दृश्यं, विगणन-सु-लभं, व्यक्त-पूर्वोपकारं,
स्वान्त-स्वैकाग्र्य-हेतुं, स्वयम् उदय-जुषं, बन्ध-मात्रोपयातम् ।
चिन्ता-स्तुत्य्-आदि-लक्ष्यं नत-जन-सतत-श्लेषिणं दर्शितार्चं
स्मृत्यै चित्ते मिषन्तं+++(←छले)+++ स्व-वितरण-महौदार्य-तुष्टो ऽभ्यचष्ट ॥ (1-10) 21
मूलम्
विष्वग्विक्रान्तिदृश्यं विगणनसुलभं व्यक्तपूर्वोपकारं
स्वान्तस्वैकाग्र्यहेतुं स्वयमुदयजुषं बन्धमात्रोपयातम् ।
चिन्तास्तुत्यादिलक्ष्यं नतजनसततश्लेषिणं दर्शितार्चं
स्मृत्यै चित्ते मिषन्तं स्ववितरणमहौदार्यतुष्टोऽभ्यचष्ट ॥ (1-10) 21
विश्वास-प्रस्तुतिः
आदाव् इत्थं परत्वाद्, अखिल-समतया, भक्त-सौलभ्य-भूम्ना,
निःशेषागः-सहत्वात्, कृपण-सुघटनात्, शक्य-संराधनत्वात् ।
स्वादु-स्वोपासनत्वात्, प्रकृति-ऋजुतया, सात्म्य-भोग-प्रदत्वात्,
अव्याजोदार-भावात्, अमनुत शतके माधवं सेवनीयम् ॥ (1) 22 +++(5)+++
मूलम्
आदावित्थं परत्वादखिलसमतया भक्तसौलभ्यभूम्ना
निःशेषागःसहत्वात् कृपणसुघटनात् शक्यसंराधनत्वात् ।
स्वादु स्वोपासनत्वात् प्रकृतिऋजुतया सात्म्यभोगप्रदत्वाद्
अव्याजोदारभावाद् अमनुत शतके माधवं सेवनीयम् ॥ (1) 22