द्रमिडोपनिषत्-सारः

विश्वास-प्रस्तुतिः

सेवा-योग्योऽतिभोग्यः शुभ-सु-भग-तनुः, सर्व-भोग्यातिशायी
श्रेयस्–तद्-धेतु-दाता प्रपदन-सुलभो ऽनिष्ट-विध्वंस-शीलः ।
भक्त-च्छन्दानुवर्ती निरुपधिक-सुहृत्, सत्-पदव्यां सहायः
श्रीमान् सर्वोचितायाम् उपनिषदि मिषत्य् एष गाथा-शतैर् नः ॥ 1

मूलम्

सेवायोग्योऽतिभोग्यः शुभसुभगतनुः सर्वभोग्यातिशायी
श्रेयस्तद्धेतुदाता प्रपदनसुलभोऽनिष्टविध्वंसशीलः ।
भक्तच्छन्दानुवर्ती निरुपधिकसुहृत्सत्पदव्यां सहायः
श्रीमान् सर्वोचितायामुपनिषदि मिषत्येष गाथाशतैर्नः ॥ 1

विश्वास-प्रस्तुतिः

आद्ये पश्यन्न् उपायं, प्रभुम् इह परम-प्राप्य-भूतं द्वितीये,
कल्याणोदार-मूर्तेर् द्वितयम् इदम् इति प्रेक्षमाणस् तृतीये ।
ऐश्वर्यादेश् चतुर्थे, विष-मधु-तुलया+++(=??)+++ ऽनन्य-भोग्यत्वम् इच्छन्
षड्भिः स्वां पञ्चमाद्यैर् अनितर-गतिताम् आचचक्षे मुनीन्द्रः ॥ 2

मूलम्

आद्ये पश्यन्नुपायं प्रभुमिह परमप्राप्यभूतं द्वितीये
कल्याणोदारमूर्तेर् द्वितयमिदमिति प्रेक्षमाणस्तृतीये ।
ऐश्वर्यादेश्चतुर्थे विषमधुतुलयाऽनन्यभोग्यत्वमिच्छन्
षड्भिः स्वां पञ्चमाद्यैरनितरगतितामाचचक्षे मुनीन्द्रः ॥ 2

विश्वास-प्रस्तुतिः

परं निर्वैषम्यं सुलभम् अपराध-प्रसहनं
सुशीलं स्व्-आराधं स-रस-भजनं स्व्-आर्जवगुणम् ।
सुसात्म्य-स्वानन्द-प्रदम् अन्-अघ-विश्राणन-परं
मुकुन्दं निध्यायन् मुनिर् अधिजगावाद्यशतके ॥ (1) 3

मूलम्

परं निर्वैषम्यं सुलभमपराधप्रसहनं
सुशीलं स्वाराधं सरसभजनं स्वार्जवगुणम् ।
सुसात्म्यस्वानन्दप्रदमनघविश्राणनपरं
मुकुन्दं निध्यायन्मुनिरधिजगावाद्यशतके ॥ (1) 3

विश्वास-प्रस्तुतिः

द्विकाभ्यां द्व्यष्टाङ्घ्रिर्दुरधिगमनीतिस्थपुटिता
यदन्त्या मीमांसा श्रुतिशिखरतत्त्वं व्यवृणुत ।
तदादौ गाथाभिर् मुनिरधिकविंशाभिरिह नः
कृती सारग्राहं व्यतरदिह सङ्गृह्य कृपया ॥ 4

मूलम्

द्विकाभ्यां द्व्यष्टाङ्घ्रिर्दुरधिगमनीतिस्थपुटिता
यदन्त्या मीमांसा श्रुतिशिखरतत्त्वं व्यवृणुत ।
तदादौ गाथाभिर् मुनिरधिकविंशाभिरिह नः
कृती सारग्राहं व्यतरदिह सङ्गृह्य कृपया ॥ 4

विश्वास-प्रस्तुतिः

परत्वाद्यैरित्थं परिचरणसक्तो गुणगणैः
प्रभुं सेवायोग्यं प्रथमशतके वीक्ष्य वरदम् ।
तमेव स्वात्यर्थप्रियमथ च भोक्तुं व्यवसितो
वरेण्यत्वं तस्य प्रथमवरणीयं प्रथयति ॥ 5

मूलम्

परत्वाद्यैरित्थं परिचरणसक्तो गुणगणैः
प्रभुं सेवायोग्यं प्रथमशतके वीक्ष्य वरदम् ।
तमेव स्वात्यर्थप्रियमथ च भोक्तुं व्यवसितो
वरेण्यत्वं तस्य प्रथमवरणीयं प्रथयति ॥ 5

विश्वास-प्रस्तुतिः

द्वितीयेऽतिक्लेशक्षणविरहमुत्तुङ्गललितं
मिलत्सर्वास्वादं व्यसनशमनं स्वाप्तिमुदितम् ।
स्ववैमुख्यत्रस्तं स्वजनसुहृदं मुक्तिरसदं
स्वकैङ्कर्योद्देश्यं सुभगसविधस्थं निरदिशत् ॥ (2) 6

मूलम्

द्वितीयेऽतिक्लेशक्षणविरहमुत्तुङ्गललितं
मिलत्सर्वास्वादं व्यसनशमनं स्वाप्तिमुदितम् ।
स्ववैमुख्यत्रस्तं स्वजनसुहृदं मुक्तिरसदं
स्वकैङ्कर्योद्देश्यं सुभगसविधस्थं निरदिशत् ॥ (2) 6

विश्वास-प्रस्तुतिः

उपायत्वैकान्तं प्रथममिह सेव्यत्वमुदितं
ततश्च प्राप्यत्वौपयिकमतिभोग्यत्वमवदत् ।
द्वयं तत्स्वासाधारणतनुविशिष्टस्य गणयन्
तृतीये विश्वेशं शुभसुभगरूपं कथयति ॥ 7

मूलम्

उपायत्वैकान्तं प्रथममिह सेव्यत्वमुदितं
ततश्च प्राप्यत्वौपयिकमतिभोग्यत्वमवदत् ।
द्वयं तत्स्वासाधारणतनुविशिष्टस्य गणयन्
तृतीये विश्वेशं शुभसुभगरूपं कथयति ॥ 7

विश्वास-प्रस्तुतिः

अनीदृक्सौन्दर्यं तनुविहितसर्गादिसुभगं
स्वसेवार्थाकारं प्रगुणवपुषं मोहनतनुम् ।
अपश्यल्लभ्यार्चाविभवमतिदास्यावहतनुं
सदादृश्यं स्तुत्याकृतिमघविरुद्धाकृतिमिह ॥ (3) 8

मूलम्

अनीदृक्सौन्दर्यं तनुविहितसर्गादिसुभगं
स्वसेवार्थाकारं प्रगुणवपुषं मोहनतनुम् ।
अपश्यल्लभ्यार्चाविभवमतिदास्यावहतनुं
सदादृश्यं स्तुत्याकृतिमघविरुद्धाकृतिमिह ॥ (3) 8

विश्वास-प्रस्तुतिः

श्रियः कान्तोऽनन्तः शुभतनुवुशिष्टः फलमसौ
फलावाप्तेर्हेतुः स्वयमिति च निर्धार्य शतकैः ।
इदानीं बुद्धिस्थक्रमत इह युक्त्या मुनिवरः
फलत्वं तस्यैव द्रढयति तदन्येषु विमुखः ॥ 9

मूलम्

श्रियः कान्तोऽनन्तः शुभतनुवुशिष्टः फलमसौ
फलावाप्तेर्हेतुः स्वयमिति च निर्धार्य शतकैः ।
इदानीं बुद्धिस्थक्रमत इह युक्त्या मुनिवरः
फलत्वं तस्यैव द्रढयति तदन्येषु विमुखः ॥ 9

विश्वास-प्रस्तुतिः

स्थिरैश्वर्यं तुर्ये सहजबहुभोग्यं निरविशन्
मिथः श्लिष्टं क्लेशावहसहिततुल्यं निजजनम् ।
कृतार्थीकुर्वन्तं प्रणयिभिषजं सद्बहुगुणं
स्वहेयस्वोपेक्ष्यं स्वमतफलमुच्चैः स्ववगतम् ॥ (4) 10

मूलम्

स्थिरैश्वर्यं तुर्ये सहजबहुभोग्यं निरविशन्
मिथः श्लिष्टं क्लेशावहसहिततुल्यं निजजनम् ।
कृतार्थीकुर्वन्तं प्रणयिभिषजं सद्बहुगुणं
स्वहेयस्वोपेक्ष्यं स्वमतफलमुच्चैः स्ववगतम् ॥ (4) 10

विश्वास-प्रस्तुतिः

उपायत्वं यत्तत् प्रथमशतकेऽभाव्यत विभोर्
अनन्योपायस्तद् द्रढयति परं पञ्चममुखैः ।
निरीहस्तत्रादौ निरवधिक निर्हेतुकदया-
सरित्स्रोतःपद्मं शरणयति नाथस्य चरणम् ॥ 11

मूलम्

उपायत्वं यत्तत् प्रथमशतकेऽभाव्यत विभोर्
अनन्योपायस्तद् द्रढयति परं पञ्चममुखैः ।
निरीहस्तत्रादौ निरवधिक निर्हेतुकदया-
सरित्स्रोतःपद्मं शरणयति नाथस्य चरणम् ॥ 11

विश्वास-प्रस्तुतिः

दयानिघ्नं भक्तैरघविमथनं प्रेमजनकं
जगद्रक्षादीक्षं स्मृतिजुषम् अहम्भावविषयम् ।
शरण्यं दीनानां स्वरसकृत दास्याभ्युपगमं
प्रचख्यौ तं प्राप्तं प्रशकनकृतं पञ्चमशते ॥ (5) 12

मूलम्

दयानिघ्नं भक्तैरघविमथनं प्रेमजनकं
जगद्रक्षादीक्षं स्मृतिजुषम् अहम्भावविषयम् ।
शरण्यं दीनानां स्वरसकृत दास्याभ्युपगमं
प्रचख्यौ तं प्राप्तं प्रशकनकृतं पञ्चमशते ॥ (5) 12

विश्वास-प्रस्तुतिः

अनाद्यन्तानन्दस्वरसकरुणाकन्दजनितः
प्रणेतुर्व्यापारः प्रपदनविपाकार्ह उदितः ।
तमाचार्योपज्ञं चिरविरहितस्वात्मघटन-
स्फुरच्छक्तिं षष्ठे मुनिरशरणो याति शरणम् ॥ 13

मूलम्

अनाद्यन्तानन्दस्वरसकरुणाकन्दजनितः
प्रणेतुर्व्यापारः प्रपदनविपाकार्ह उदितः ।
तमाचार्योपज्ञं चिरविरहितस्वात्मघटन-
स्फुरच्छक्तिं षष्ठे मुनिरशरणो याति शरणम् ॥ 13

विश्वास-प्रस्तुतिः

गुरुद्वारोपेयं स्वयमभिगतं वैरिघटकं
चरित्रैः कर्षन्तं परविघटनं स्वान्वितहरम् ।
निदानं धृत्यादेर् घटकवशभूतिद्वयमगाद्
अनर्हद्वैघट्यं त्वविकलशरण्यस्थितिमिह ॥ (6) 14

मूलम्

गुरुद्वारोपेयं स्वयमभिगतं वैरिघटकं
चरित्रैः कर्षन्तं परविघटनं स्वान्वितहरम् ।
निदानं धृत्यादेर् घटकवशभूतिद्वयमगाद्
अनर्हद्वैघट्यं त्वविकलशरण्यस्थितिमिह ॥ (6) 14

विश्वास-प्रस्तुतिः

तदेवं षष्ठान्ते विहितसविशेषप्रपदनः
फलालाभात् खिन्नस्त्वरितहृदयः सप्तमशते ।
अनिष्टोपन्यासप्रभृतिभिरनिष्टप्रशमने
स्वतःसिध्यच्छीलं प्रभुमभिमुखं सम्मुखयति ॥ 15

मूलम्

तदेवं षष्ठान्ते विहितसविशेषप्रपदनः
फलालाभात् खिन्नस्त्वरितहृदयः सप्तमशते ।
अनिष्टोपन्यासप्रभृतिभिरनिष्टप्रशमने
स्वतःसिध्यच्छीलं प्रभुमभिमुखं सम्मुखयति ॥ 15

विश्वास-प्रस्तुतिः

सहन् शाठ्याशङ्काम् उपशमितगर्हः प्रकटयन्
स्वगोप्तृत्वं गुप्तिक्रमम् अखिलजन्तुप्रणयिताम् ।
श्रिताक्रन्दच्छेत्ता स्मरणविशदश् चित्रविभवः
स्तुतौ युञ्जन् स्तोतृव्यसनजिद् अदर्शि प्रभुरिह ॥ (7) 16

अथानिष्टान् पुंसां स्वयमुपजिहीर्षन्नपि विभुस्
तदिच्छां बाह्येषु प्रशमयितुकामः क्रमवशात् ।
निजेच्छासंसिद्धत्रिविधचिदचिद्वस्तुविततिः
श्रितेच्छावैचित्रीवश इति वदत्यष्टमशते ॥ 17

मूलम्

अथानिष्टान् पुंसां स्वयमुपजिहीर्षन्नपि विभुस्
तदिच्छां बाह्येषु प्रशमयितुकामः क्रमवशात् ।
निजेच्छासंसिद्धत्रिविधचिदचिद्वस्तुविततिः
श्रितेच्छावैचित्रीवश इति वदत्यष्टमशते ॥ 17

विश्वास-प्रस्तुतिः

दिदृक्षायां दृश्यः प्रभुरगणि निस्सङ्गसुलभः
स्वविश्लेषैकान्तः श्रितविहितपौष्कल्यविभवः ।
अपेक्षासापेक्षः स्ववितरणसज्जः हृदि रतः
स्वदास्यं तन्निष्ठां तदवधिमपीह प्रकटयन् ॥ (8) 18

मूलम्

दिदृक्षायां दृश्यः प्रभुरगणि निस्सङ्गसुलभः
स्वविश्लेषैकान्तः श्रितविहितपौष्कल्यविभवः ।
अपेक्षासापेक्षः स्ववितरणसज्जः हृदि रतः
स्वदास्यं तन्निष्ठां तदवधिमपीह प्रकटयन् ॥ (8) 18

विश्वास-प्रस्तुतिः

अभीष्टं विश्वस्मिन् विषमफलकाङ्क्षिण्यविषमं
प्रयच्छन्तं दृष्ट्वा परमपुरुषार्थैकरसिकः ।
निरस्धान्यापेक्षो निखिलजगदीशस्य नवमे
निदानं सिद्धीनां निरुपधि सुहृत्त्वं गणयति ॥ 19

मूलम्

अभीष्टं विश्वस्मिन् विषमफलकाङ्क्षिण्यविषमं
प्रयच्छन्तं दृष्ट्वा परमपुरुषार्थैकरसिकः ।
निरस्धान्यापेक्षो निखिलजगदीशस्य नवमे
निदानं सिद्धीनां निरुपधि सुहृत्त्वं गणयति ॥ 19

विश्वास-प्रस्तुतिः

अभाव्येको बन्धुश् चिरकृतदयः शीलजलधिः
स्वसम्बन्धाद् गोप्ता स्वगुणगरिमस्मारणपरः ।
अशक्यो विस्मर्तुं घटकमुखविस्रम्भविषयः
सुमज्जानिः सिद्ध्युन्मुखसमय इच्छन्नवसरम् ॥ (9) 20

मूलम्

अभाव्येको बन्धुश् चिरकृतदयः शीलजलधिः
स्वसम्बन्धाद् गोप्ता स्वगुणगरिमस्मारणपरः ।
अशक्यो विस्मर्तुं घटकमुखविस्रम्भविषयः
सुमज्जानिः सिद्ध्युन्मुखसमय इच्छन्नवसरम् ॥ (9) 20

विश्वास-प्रस्तुतिः

उदन्तैरित्येवं निरुपधिकसौहार्दपिशुनैर्
उदन्यामुद्वेलामुपजनितवन्तं निजपदे ।
त्रिवर्गातिक्रान्तस्थिरनगरघण्टापथगतेः
सहायीकुर्वाणश् चरमशतके विन्दति मुनिः ॥ 21

मूलम्

उदन्तैरित्येवं निरुपधिकसौहार्दपिशुनैर्
उदन्यामुद्वेलामुपजनितवन्तं निजपदे ।
त्रिवर्गातिक्रान्तस्थिरनगरघण्टापथगतेः
सहायीकुर्वाणश् चरमशतके विन्दति मुनिः ॥ 21

विश्वास-प्रस्तुतिः

गतिं व्यध्वक्लेशच्छिदमपदशङ्कास्पदरसं
भजद्भिः सुप्रापं विविधभजनप्रक्रियमिह ।
फले तीव्रोद्योगं स्वविषयकृतात्यादरमगाद्
यदृच्छातुष्टं सत्सरणिमपुनर्जन्मसयुजम् ॥ (10) 22

मूलम्

गतिं व्यध्वक्लेशच्छिदमपदशङ्कास्पदरसं
भजद्भिः सुप्रापं विविधभजनप्रक्रियमिह ।
फले तीव्रोद्योगं स्वविषयकृतात्यादरमगाद्
यदृच्छातुष्टं सत्सरणिमपुनर्जन्मसयुजम् ॥ (10) 22

विश्वास-प्रस्तुतिः

परं प्राप्यं पश्यन्परिचरणहेतुं विगणयन्
परिष्कुर्वन्नाज्ञामनितरशरण्यः शरणयन् ।
अनिष्टप्रध्वंसप्रभृतिषु निदानं च कथयन्
मुहुर्देवं लक्ष्म्यासहितमिह भेजे मुनिवरः ॥ 23

मूलम्

परं प्राप्यं पश्यन्परिचरणहेतुं विगणयन्
परिष्कुर्वन्नाज्ञामनितरशरण्यः शरणयन् ।
अनिष्टप्रध्वंसप्रभृतिषु निदानं च कथयन्
मुहुर्देवं लक्ष्म्यासहितमिह भेजे मुनिवरः ॥ 23

विश्वास-प्रस्तुतिः

पुरा शोकः श्लोकोऽभवदिति नयादित्युपनिषन्
मुनेः पुण्यश्लोकादजनि परभक्तैः परिणतिः ।
व्यपोह्य स्वं भावं परिचरणसन्तानकलिकाम्
अपीक्षद्योगी यस्तमनुमतनुकारुण्यविवशः ॥ 24

मूलम्

पुरा शोकः श्लोकोऽभवदिति नयादित्युपनिषन्
मुनेः पुण्यश्लोकादजनि परभक्तैः परिणतिः ।
व्यपोह्य स्वं भावं परिचरणसन्तानकलिकाम्
अपीक्षद्योगी यस्तमनुमतनुकारुण्यविवशः ॥ 24

विश्वास-प्रस्तुतिः

सतामित्थं सारं द्रमिडनिगमस्यान्वकथयद्
बहूनां विद्यानां बहुमतिपदं वेङ्कटपतिः ।
दिशासौधश्रेणी दृढघटितजैत्रध्वजपटी
परामर्शभ्रश्यत्प्रतिमतनिराबाधनिगमः ॥ 25

मूलम्

सतामित्थं सारं द्रमिडनिगमस्यान्वकथयद्
बहूनां विद्यानां बहुमतिपदं वेङ्कटपतिः ।
दिशासौधश्रेणी दृढघटितजैत्रध्वजपटी
परामर्शभ्रश्यत्प्रतिमतनिराबाधनिगमः ॥ 25

विश्वास-प्रस्तुतिः

मनुव्यासप्राचेतसपरिषदर्हा क्वचिदियं
सुधासिक्ता सूक्तिः स्वयमुदयमन्विच्छति जने ।
निरिन्ध्युः के विन्द्याचलविकटसन्ध्यानटजटा-
परिभ्रान्ता पङ्गोरुपरि यदि गङ्गा निपतति ॥ 26

मूलम्

मनुव्यासप्राचेतसपरिषदर्हा क्वचिदियं
सुधासिक्ता सूक्तिः स्वयमुदयमन्विच्छति जने ।
निरिन्ध्युः के विन्द्याचलविकटसन्ध्यानटजटा-
परिभ्रान्ता पङ्गोरुपरि यदि गङ्गा निपतति ॥ 26