विश्वास-प्रस्तुतिः - १०-१
आद्ये अन्तिमस्य शतकस्य मुनिः स्वयात्रां
निश्चित्य वर्त्मनि सहायम् अपेक्षमाणः ।
आप्तं हितज्ञम् अहितच्छिदम् अम्बुजाक्षम्
मोहूरधीशमुरवैरिणम् आश्रयत् सः ॥ १०-१ ॥
मूलम् - १०-१
आद्ये अन्तिमस्य शतकस्य मुनिः स्वयात्रां
निश्चित्य वर्त्मनि सहायम् अपेक्षमाणः ।
आप्तं हितज्ञम् अहितच्छिदम् अम्बुजाक्षम्
मोहूरधीशमुरवैरिणम् आश्रयत् सः ॥ १०-१ ॥
विश्वास-प्रस्तुतिः - १०-२
वैकुण्ठम् एत्य करणीयम् अशेषदास्यम्
अत्रैव केवलम् अनन्तपुरे विधित्सन् ।
प्राप्यत्वम् अन्यदुरितौघ निवर्तनं च
प्राचीकशत् तनुभृतां शठजिद् द्वितीये ॥ १०-२ ॥
मूलम् - १०-२
वैकुण्ठम् एत्य करणीयम् अशेषदास्यम्
अत्रैव केवलम् अनन्तपुरे विधित्सन् ।
प्राप्यत्वम् अन्यदुरितौघ निवर्तनं च
प्राचीकशत् तनुभृतां शठजिद् द्वितीये ॥ १०-२ ॥
विश्वास-प्रस्तुतिः - १०-३
गोपीवियुक्तम् अपि गोचपलं वियुक्तं
दास्यं तमप्य् अचिरमेव हरिं निजेष्टम् ।
स्वोपेक्षकं तम् अतिशङ्क्य मुनिः स तेन
विस्रम्भितो विपुलतृष्णतया तृतीये ॥ १०-३ ॥
मूलम् - १०-३
गोपीवियुक्तम् अपि गोचपलं वियुक्तं
दास्यं तमप्य् अचिरमेव हरिं निजेष्टम् ।
स्वोपेक्षकं तम् अतिशङ्क्य मुनिः स तेन
विस्रम्भितो विपुलतृष्णतया तृतीये ॥ १०-३ ॥
विश्वास-प्रस्तुतिः - १०-४
आसक्तिनिश्चययुतः स्वफलागमस्य
स्वार्थात् परार्थपरधीर् अनुकम्पया सः ।
उज्जीवनाय जगताम् उपदिष्टपूर्वाम्
भक्तिं हरौ फलयुतां निजगाद तुर्ये ॥ १०-४ ॥
मूलम् - १०-४
आसक्तिनिश्चययुतः स्वफलागमस्य
स्वार्थात् परार्थपरधीर् अनुकम्पया सः ।
उज्जीवनाय जगताम् उपदिष्टपूर्वाम्
भक्तिं हरौ फलयुतां निजगाद तुर्ये ॥ १०-४ ॥
विश्वास-प्रस्तुतिः - १०-५
कृष्णस्य पादयुगलम् प्रतिभावनीयं
जिज्ञासितं जगति भक्तिसमुत्सुकानाम् ।
प्राप्तौ त्वरातिशयवान् मितसूक्तिजालैर्
भक्तेः शरीरमपि पञ्चमतो जगाद ॥ १०-५ ॥
मूलम् - १०-५
कृष्णस्य पादयुगलम् प्रतिभावनीयं
जिज्ञासितं जगति भक्तिसमुत्सुकानाम् ।
प्राप्तौ त्वरातिशयवान् मितसूक्तिजालैर्
भक्तेः शरीरमपि पञ्चमतो जगाद ॥ १०-५ ॥
विश्वास-प्रस्तुतिः - १०-६
वैकुण्ठधामनि विवेशयिषुं स्वमीशं
तच्च स्वकीयविधिनैव विधातुकामम् ।
पश्यन् मुनिः प्रमुदितोऽनुबभूव षष्ठे
वाञ्छाधिकाः स्वविषयोपकृतीस् तदीयाः ॥ १०-६ ॥
मूलम् - १०-६
वैकुण्ठधामनि विवेशयिषुं स्वमीशं
तच्च स्वकीयविधिनैव विधातुकामम् ।
पश्यन् मुनिः प्रमुदितोऽनुबभूव षष्ठे
वाञ्छाधिकाः स्वविषयोपकृतीस् तदीयाः ॥ १०-६ ॥
विश्वास-प्रस्तुतिः - १०-७
अस्मिन् उपैम्य् अमुम् इति स्वशरीरलोल-
तद्दोषमुग्धमपि तत्त्यजने स्वयाज्ञाम् ।
सार्थां चिकीर्षुम् अधिगम्य हरिं तदीये
शीले मुनिः स खलु सप्तमतो ममज्ज॥ १०-७ ॥
मूलम् - १०-७
अस्मिन् उपैम्य् अमुम् इति स्वशरीरलोल-
तद्दोषमुग्धमपि तत्त्यजने स्वयाज्ञाम् ।
सार्थां चिकीर्षुम् अधिगम्य हरिं तदीये
शीले मुनिः स खलु सप्तमतो ममज्ज॥ १०-७ ॥
विश्वास-प्रस्तुतिः - १०-८
व्यामोहम् आत्मनि विलोक्य विभोर् अवेलम्
अत्यादरे मयि कथं त्वमनादरः प्राक् ।
हेतुं वद उचितम् इह इत्यनुपृच्छ्य चैनं
दत्तोत्तरो मुनिर् अनेन च अष्टमे अभूत् ॥ १०-८ ॥
मूलम् - १०-८
व्यामोहम् आत्मनि विलोक्य विभोर् अवेलम्
अत्यादरे मयि कथं त्वमनादरः प्राक् ।
हेतुं वद उचितम् इह इत्यनुपृच्छ्य चैनं
दत्तोत्तरो मुनिर् अनेन च अष्टमे अभूत् ॥ १०-८ ॥
विश्वास-प्रस्तुतिः - १०-९
सत्कारम् अध्वनि सुरैरपि सन्निकृष्टे
प्रत्युद्गतिम् परमधाम्नि जनैस् तदीयैः ।
तत्र स्थितिं सुखमयीं च हरिप्रियाणाम्
आसादितो मुनिरभून् नवमे शठारिः॥ १०-९ ॥
मूलम् - १०-९
सत्कारम् अध्वनि सुरैरपि सन्निकृष्टे
प्रत्युद्गतिम् परमधाम्नि जनैस् तदीयैः ।
तत्र स्थितिं सुखमयीं च हरिप्रियाणाम्
आसादितो मुनिरभून् नवमे शठारिः॥ १०-९ ॥
विश्वास-प्रस्तुतिः
तद्दर्शनं च मनसैव न चक्षुषा इति
भक्त्यायुतः परमया भगवान् शठारिः ।
पद्माज्ञया भगवतः परिहृत्य मान्द्यं
स्वाभीष्टम् अच्युतपदं दशमे प्रपेदे ॥ १०–१० ॥
मूलम्
तद्दर्शनं च मनसैव न चक्षुषा इति
भक्त्यायुतः परमया भगवान् शठारिः ।
पद्माज्ञया भगवतः परिहृत्य मान्द्यं
स्वाभीष्टम् अच्युतपदं दशमे प्रपेदे ॥ १०–१० ॥