०९

विश्वास-प्रस्तुतिः

आद्ये चकार नवमे शतके शठारिस्
तत् शेषतानुभवसन्मतिसम्मतेन ।
निश्चित्य सर्वविधबन्धुतया तमीशम्
आपत्सखम् प्रणमत इति परोपदेशम् ॥ ९–१ ॥

मूलम्

आद्ये चकार नवमे शतके शठारिस्
तत् शेषतानुभवसन्मतिसम्मतेन ।
निश्चित्य सर्वविधबन्धुतया तमीशम्
आपत्सखम् प्रणमत इति परोपदेशम् ॥ ९–१ ॥

विश्वास-प्रस्तुतिः

बन्धुत्वतः स्वमनुकम्पितवन्तम् आदौ
आसन्नधाम्नि भुजगाधिपतौ शयानम् ।
स्वापेक्षितम् मुनिरयाचत तं द्वितीये
तस्य एकरूपशयनेपि च दुःखितोभूत् ॥ ९–२ ॥

मूलम्

बन्धुत्वतः स्वमनुकम्पितवन्तम् आदौ
आसन्नधाम्नि भुजगाधिपतौ शयानम् ।
स्वापेक्षितम् मुनिरयाचत तं द्वितीये
तस्य एकरूपशयनेपि च दुःखितोभूत् ॥ ९–२ ॥

विश्वास-प्रस्तुतिः

नारायणे मयि सति स्वभरार्थचिन्ता
नार्हा तव इति विभुना बहुमानभाजा ।
आविष्कृतां निरवधिं निजशीलवत्ताम्
अन्यादृशीम् अनुबभूव मुनिस् तृतीये ॥ ९–३ ॥

मूलम्

नारायणे मयि सति स्वभरार्थचिन्ता
नार्हा तव इति विभुना बहुमानभाजा ।
आविष्कृतां निरवधिं निजशीलवत्ताम्
अन्यादृशीम् अनुबभूव मुनिस् तृतीये ॥ ९–३ ॥

विश्वास-प्रस्तुतिः

शीलाधिकश्रियम् उरः स्थलतो दधानोप्य्
आत्मेप्सितं न दिशत्यत्य् अतिमात्र खिन्नः ।
लब्ध्वा ततः कमपि तस्य कृपाकटाक्षम्
आद्राक्षम् ईशम् इति स प्रजहर्ष तुर्ये ॥ ९–४ ॥

मूलम्

शीलाधिकश्रियम् उरः स्थलतो दधानोप्य्
आत्मेप्सितं न दिशत्यत्य् अतिमात्र खिन्नः ।
लब्ध्वा ततः कमपि तस्य कृपाकटाक्षम्
आद्राक्षम् ईशम् इति स प्रजहर्ष तुर्ये ॥ ९–४ ॥

विश्वास-प्रस्तुतिः

आलोकनं च तदचाक्षुषम् इत्यथार्तः
दृष्ट्वा च तत् स्मरणहेतुपदार्थजातम् ।
आसन्नहानिकतया आवसितः सुसक्तः
दुःखेन दुःसहतरेण स पञ्चमेऽभूत् ॥ ९–५ ॥

मूलम्

आलोकनं च तदचाक्षुषम् इत्यथार्तः
दृष्ट्वा च तत् स्मरणहेतुपदार्थजातम् ।
आसन्नहानिकतया आवसितः सुसक्तः
दुःखेन दुःसहतरेण स पञ्चमेऽभूत् ॥ ९–५ ॥

विश्वास-प्रस्तुतिः

स्वस्यात्मताम् अगणयन् स्वयमर्थयित्वा
स्वम् प्राप्य हर्षविवशो हरिरित्यधस्तात् ।
यत् शीलम् अन्वभवद् अस्य तदेव दैवात्
संस्मृत्य स दृतमना व्यसनी च षष्ठे ॥ ९–६ ॥

मूलम्

स्वस्यात्मताम् अगणयन् स्वयमर्थयित्वा
स्वम् प्राप्य हर्षविवशो हरिरित्यधस्तात् ।
यत् शीलम् अन्वभवद् अस्य तदेव दैवात्
संस्मृत्य स दृतमना व्यसनी च षष्ठे ॥ ९–६ ॥

विश्वास-प्रस्तुतिः

स्वीयं वियोगिजन हन्तृ निजाभिरूप्यं
विस्मृत्य संश्रितजनैर् वसतः सहैव ।
अर्चाहरेः क्वचन तत्प्रतिबोधनाय
दूतीचकार विहगान् अधिसप्तमं सः ॥ ९–७ ॥

मूलम्

स्वीयं वियोगिजन हन्तृ निजाभिरूप्यं
विस्मृत्य संश्रितजनैर् वसतः सहैव ।
अर्चाहरेः क्वचन तत्प्रतिबोधनाय
दूतीचकार विहगान् अधिसप्तमं सः ॥ ९–७ ॥

विश्वास-प्रस्तुतिः

ईशे समाजिगमिषत्य् अपि दूतवाक्यैस्
तावद् विलम्बम् असहन् मुनिर् अस्य भौमम् ।
देवीजुषः कमपि देशविशेषम् आराद्
यायां कदा इत्य् अवधिम् अर्थयद् अष्टमेन ॥ ९–८ ॥

मूलम्

ईशे समाजिगमिषत्य् अपि दूतवाक्यैस्
तावद् विलम्बम् असहन् मुनिर् अस्य भौमम् ।
देवीजुषः कमपि देशविशेषम् आराद्
यायां कदा इत्य् अवधिम् अर्थयद् अष्टमेन ॥ ९–८ ॥

विश्वास-प्रस्तुतिः

स्वप्राप्तिकालम् अविभावयत्य् इन्दिरेशे
कृष्णे गवाम् अवनधर्मिणि गोपिकानाम् ।
सायं समागमविलम्बिनि योऽवसाद
आसीत् स एव नवमे स्फुरितः शठारेः ॥ ९–९ ॥

मूलम्

स्वप्राप्तिकालम् अविभावयत्य् इन्दिरेशे
कृष्णे गवाम् अवनधर्मिणि गोपिकानाम् ।
सायं समागमविलम्बिनि योऽवसाद
आसीत् स एव नवमे स्फुरितः शठारेः ॥ ९–९ ॥

विश्वास-प्रस्तुतिः

प्राप्तिप्रदानसमयोयम् इति प्रकाश्य
स्वस्य प्रियम् महति कृष्णपुरे वसन्तम् ।
ईशं यथाशकनम् आश्रयत इति हर्षाद्
अन्योपदेशम् अकरोद् दशमे मुनीन्द्रः ॥ ९–१० ॥

मूलम्

प्राप्तिप्रदानसमयोयम् इति प्रकाश्य
स्वस्य प्रियम् महति कृष्णपुरे वसन्तम् ।
ईशं यथाशकनम् आश्रयत इति हर्षाद्
अन्योपदेशम् अकरोद् दशमे मुनीन्द्रः ॥ ९–१० ॥