विश्वास-प्रस्तुतिः
आद्येऽष्टमस्य शतकस्य यथेष्टसिद्धिम्
अप्राप्य खिन्नमतिर् आश्रितपारतन्त्र्यम् ।
सर्वेश्वरत्वम् अपि शङ्कितवान् शठारिर्
ईशस्य तेन पुनरेव विबोधितश्च ॥ ८–१ ॥
मूलम्
आद्येऽष्टमस्य शतकस्य यथेष्टसिद्धिम्
अप्राप्य खिन्नमतिर् आश्रितपारतन्त्र्यम् ।
सर्वेश्वरत्वम् अपि शङ्कितवान् शठारिर्
ईशस्य तेन पुनरेव विबोधितश्च ॥ ८–१ ॥
विश्वास-प्रस्तुतिः
सम्प्रापकेपि च विभौ निजवाञ्छितार्थ
प्राप्तेर् विघात इतरेषु च पाशलेशः ।
स्वन्येति शङ्कितमनाः स्वहितेपि वर्गे
स्वस्मिन् अपि प्रवणताम् मुमुचे द्वितीये ॥ ८–२ ॥
मूलम्
सम्प्रापकेपि च विभौ निजवाञ्छितार्थ
प्राप्तेर् विघात इतरेषु च पाशलेशः ।
स्वन्येति शङ्कितमनाः स्वहितेपि वर्गे
स्वस्मिन् अपि प्रवणताम् मुमुचे द्वितीये ॥ ८–२ ॥
विश्वास-प्रस्तुतिः
प्रेमाधिकेन विवशः सुकुमारमूर्तेः
क्षेमाय खिन्नहृदयः पुरुषोत्तमस्य ।
तद्दर्शित आत्मपरनित्यमुमुक्षुमुक्तैः
किञ्चित् समाहितमनाः शठजित् तृतीये ॥ ८–३ ॥
मूलम्
प्रेमाधिकेन विवशः सुकुमारमूर्तेः
क्षेमाय खिन्नहृदयः पुरुषोत्तमस्य ।
तद्दर्शित आत्मपरनित्यमुमुक्षुमुक्तैः
किञ्चित् समाहितमनाः शठजित् तृतीये ॥ ८–३ ॥
विश्वास-प्रस्तुतिः
क्षेमं स्वशौर्यम् अधिकं विमतैर् अधृष्यं
ग्रामं च कञ्छन निजावसथायमानम् ।
तत्र द्विजान् अरिजितः स्वसमान् प्रदर्श्य
निर्भीर् अकारि नितरां स मुनिश् चतुर्थे ॥ ८–४ ॥
मूलम्
क्षेमं स्वशौर्यम् अधिकं विमतैर् अधृष्यं
ग्रामं च कञ्छन निजावसथायमानम् ।
तत्र द्विजान् अरिजितः स्वसमान् प्रदर्श्य
निर्भीर् अकारि नितरां स मुनिश् चतुर्थे ॥ ८–४ ॥
विश्वास-प्रस्तुतिः
सुक्षेम सुन्दरतनुम् परिलिप्सुरीशं
शोचन्मुनिर् दहनलीढ इवातितप्तः ।
एह्य् एवम् इत्युपगतस्य बहुप्रकारान्
आख्याय शौरिर् अधिपञ्चमम् आजुहाव ॥ ८–५ ॥
मूलम्
सुक्षेम सुन्दरतनुम् परिलिप्सुरीशं
शोचन्मुनिर् दहनलीढ इवातितप्तः ।
एह्य् एवम् इत्युपगतस्य बहुप्रकारान्
आख्याय शौरिर् अधिपञ्चमम् आजुहाव ॥ ८–५ ॥
विश्वास-प्रस्तुतिः
सद्यः स्व सङ्गमकृतौ भविता न सात्म्या
प्रीतिः समेति हरिराप्तुमनाः शनैर् माम् ।
वैकुण्ठतोऽधिगतवान् मतिमित्यवन्यां
स्थानः क्वचिद् बहुमतिं विधदे स षष्ठे ॥ ८–६ ॥
मूलम्
सद्यः स्व सङ्गमकृतौ भविता न सात्म्या
प्रीतिः समेति हरिराप्तुमनाः शनैर् माम् ।
वैकुण्ठतोऽधिगतवान् मतिमित्यवन्यां
स्थानः क्वचिद् बहुमतिं विधदे स षष्ठे ॥ ८–६ ॥
विश्वास-प्रस्तुतिः
मद्विप्रयोगम् असहन् स्वयमेव चार्थी
मामल्पकैकनिलयम् बहुमन्यमानः ।
शौरिः समाश्लिषद् इदम् मतिविभ्रमः किम्
इत्यात्मनो मुदम् अभाषत सप्तमेन ॥ ८–७ ॥
मूलम्
मद्विप्रयोगम् असहन् स्वयमेव चार्थी
मामल्पकैकनिलयम् बहुमन्यमानः ।
शौरिः समाश्लिषद् इदम् मतिविभ्रमः किम्
इत्यात्मनो मुदम् अभाषत सप्तमेन ॥ ८–७ ॥
विश्वास-प्रस्तुतिः
स्वायोग्यतातिनिवर्तन लोलुपेन
श्रीकौस्तुभेन कमलास्तनतोपि तुल्यम् ।
आत्मैकशेषम् अवबोधितम् ईश्वरेण
स्वस्य स्वरूपम् अवदन् मुनिर् अष्टमे सः ॥ ८–८ ॥
मूलम्
स्वायोग्यतातिनिवर्तन लोलुपेन
श्रीकौस्तुभेन कमलास्तनतोपि तुल्यम् ।
आत्मैकशेषम् अवबोधितम् ईश्वरेण
स्वस्य स्वरूपम् अवदन् मुनिर् अष्टमे सः ॥ ८–८ ॥
विश्वास-प्रस्तुतिः
अन्यार्हताश्रवणमप्यथ शेषतायाः
सोढुं न शक्यते इति स्वदशाविशेषम् ।
अन्यापदेशम् अवलम्ब्य तदोपयुक्तं
नारायणैकपरधीर् नवमे जगाद ॥ ८–९ ॥
मूलम्
अन्यार्हताश्रवणमप्यथ शेषतायाः
सोढुं न शक्यते इति स्वदशाविशेषम् ।
अन्यापदेशम् अवलम्ब्य तदोपयुक्तं
नारायणैकपरधीर् नवमे जगाद ॥ ८–९ ॥
विश्वास-प्रस्तुतिः
तां शेषताम् अपि तदीय तदीय सीमा
शेषत्व पर्यवसिताम् पुरुषार्थ सीमाम् ।
आविष्कृताम् भगवता मुनिर् आत्मरुच्याम्
आचष्ट धिक् कृततदन्य पुमर्थम् अन्त्ये ॥ ८–१० ॥
मूलम्
तां शेषताम् अपि तदीय तदीय सीमा
शेषत्व पर्यवसिताम् पुरुषार्थ सीमाम् ।
आविष्कृताम् भगवता मुनिर् आत्मरुच्याम्
आचष्ट धिक् कृततदन्य पुमर्थम् अन्त्ये ॥ ८–१० ॥