विश्वास-प्रस्तुतिः
आद्ये मुनिः स शतकस्य तु सप्तमस्य
तस्मिन् अपि प्रपदने विफले विषण्णः ।
ईशेन पातितम् इव स्वम् अवेक्ष्य गर्ते
तस्मै स्वभीतिम् अवदद् विषयेन्द्रियेभ्यः॥ ७–१ ॥
मूलम्
आद्ये मुनिः स शतकस्य तु सप्तमस्य
तस्मिन् अपि प्रपदने विफले विषण्णः ।
ईशेन पातितम् इव स्वम् अवेक्ष्य गर्ते
तस्मै स्वभीतिम् अवदद् विषयेन्द्रियेभ्यः॥ ७–१ ॥
विश्वास-प्रस्तुतिः
आत्मप्रबन्धम् असमाप्य हितं जनानाम्
आत्मेष्टम् अक्षमतया हरिणा प्रदातुम् ।
श्रीरङ्गिणाप्यसुशकप्रशमार्थचिन्ताम्
भूयस्तराम् अरतिमाप मुनिर् द्वितीये ॥ ७–२ ॥
मूलम्
आत्मप्रबन्धम् असमाप्य हितं जनानाम्
आत्मेष्टम् अक्षमतया हरिणा प्रदातुम् ।
श्रीरङ्गिणाप्यसुशकप्रशमार्थचिन्ताम्
भूयस्तराम् अरतिमाप मुनिर् द्वितीये ॥ ७–२ ॥
विश्वास-प्रस्तुतिः
श्रीरङ्गभर्तुर् अशरण्यशरण्य भाव
प्रस्तावलब्धध्रुतिर् अस्य गतौ स भूयः।
स्वस्मिन् हितप्रियतरेतर निर्विशेषम्
आसीद् आवार्य बहुलाभिरुचिस् तृतीये ॥ ७–३ ॥
मूलम्
श्रीरङ्गभर्तुर् अशरण्यशरण्य भाव
प्रस्तावलब्धध्रुतिर् अस्य गतौ स भूयः।
स्वस्मिन् हितप्रियतरेतर निर्विशेषम्
आसीद् आवार्य बहुलाभिरुचिस् तृतीये ॥ ७–३ ॥
विश्वास-प्रस्तुतिः
आतन्वता हितमथात्मदशानुरूपम्
आविष्कृतान् अनुपमान् पुरुषोत्तमेन ।
आत्मापदानविभवान् अतिलोभनीयान्
अध्यक्षयन् शठजिद् अन्वभवच् चतुर्थे॥ ७–४ ॥
मूलम्
आतन्वता हितमथात्मदशानुरूपम्
आविष्कृतान् अनुपमान् पुरुषोत्तमेन ।
आत्मापदानविभवान् अतिलोभनीयान्
अध्यक्षयन् शठजिद् अन्वभवच् चतुर्थे॥ ७–४ ॥
विश्वास-प्रस्तुतिः
आत्मैक रक्षणपरान् अवतार हेतून्
अन्यादृशान् गुणगणान् अपहाय शौरेः ।
अन्यत् कथम् मतिमताम् अवबोधनीयम्
इत्यान्यपर्यम् अलुनाद् अधिपञ्चमं सः ॥ ७–५ ॥
मूलम्
अध्यक्षयन् शठजिद् अन्वभवच् चतुर्थे॥ ७–४ ॥
आत्मैक रक्षणपरान् अवतार हेतून्
अन्यादृशान् गुणगणान् अपहाय शौरेः ।
अन्यत् कथम् मतिमताम् अवबोधनीयम्
इत्यान्यपर्यम् अलुनाद् अधिपञ्चमं सः ॥ ७–५ ॥
विश्वास-प्रस्तुतिः
तादृग्गुण प्रविशदानुभवप्रवृद्ध-
स्वापेक्षिताभिरुचितार्ति महार्णवः सन् ।
प्राप्यं शरण्यमपि वीक्ष्य कदानुगः स्याम्
अङ्घ्र्योस् तव इति विललाप मुनिः स षष्ठे ॥ ७–६ ॥
मूलम्
तादृग्गुण प्रविशदानुभवप्रवृद्ध-
स्वापेक्षिताभिरुचितार्ति महार्णवः सन् ।
प्राप्यं शरण्यमपि वीक्ष्य कदानुगः स्याम्
अङ्घ्र्योस् तव इति विललाप मुनिः स षष्ठे ॥ ७–६ ॥
विश्वास-प्रस्तुतिः
तत्प्रार्थितानधिगमेऽपि च भावनाया
भूम्नः पुरः स्थितमिवाननम् अच्युतस्य ।
आलोकयन् अपि करेण न संस्पृशन् सः
पीडाम् अवापमहतीम् अथ सप्तमेन ॥ ७–७ ॥
मूलम्
तत्प्रार्थितानधिगमेऽपि च भावनाया
भूम्नः पुरः स्थितमिवाननम् अच्युतस्य ।
आलोकयन् अपि करेण न संस्पृशन् सः
पीडाम् अवापमहतीम् अथ सप्तमेन ॥ ७–७ ॥
विश्वास-प्रस्तुतिः
सङ्गं निवर्त्य मम संसृतिमण्डले मां
संस्थापयन् कथम् असीत्यनुचोदितेन ।
आश्चर्यलोकतनुताम् अपि दर्शयित्वा
विस्मारितः किल शुचं हरिणाऽष्टमेन ॥ ७–८ ॥
मूलम्
सङ्गं निवर्त्य मम संसृतिमण्डले मां
संस्थापयन् कथम् असीत्यनुचोदितेन ।
आश्चर्यलोकतनुताम् अपि दर्शयित्वा
विस्मारितः किल शुचं हरिणाऽष्टमेन ॥ ७–८ ॥
विश्वास-प्रस्तुतिः
पृष्टः फलं स्ववसतेरिह दुःशकायाः
स्वेन प्रबन्धरचनाम् फलमाह शौरिः ।
अन्येषु सत्स्वपि तदा स्वम् अपेक्षमाणम्
अप्रत्युपक्रियम् अमुं नवमे जगौ सः ॥ ७–९ ॥
मूलम्
पृष्टः फलं स्ववसतेरिह दुःशकायाः
स्वेन प्रबन्धरचनाम् फलमाह शौरिः ।
अन्येषु सत्स्वपि तदा स्वम् अपेक्षमाणम्
अप्रत्युपक्रियम् अमुं नवमे जगौ सः ॥ ७–९ ॥
विश्वास-प्रस्तुतिः
आनन्दम् आकलयितुं कमलासखस्य
संश्राव्य तत्करुणया स्वकृतम् प्रबन्धम् ।
अर्हे तदादरणशालिनि दिव्यदेशे
यात्रामनोरथम् असौ दशमे चकार ॥ ७–१० ॥
मूलम्
आनन्दम् आकलयितुं कमलासखस्य
संश्राव्य तत्करुणया स्वकृतम् प्रबन्धम् ।
अर्हे तदादरणशालिनि दिव्यदेशे
यात्रामनोरथम् असौ दशमे चकार ॥ ७–१० ॥