०६

विश्वास-प्रस्तुतिः

आद्ये तु षष्ठशतकस्य मुनिस्तथार्तो
नारीसमाधिम् अधिगम्य निजाम् अवस्थाम् ।
अर्चा हरिं कमपि पक्षिभिर् अन्तिकस्थैर्
आपन्नरक्षणसदीक्षम् अबोधयत् सः ॥ ६–१ ॥

मूलम्

आद्ये तु षष्ठशतकस्य मुनिस्तथार्तो
नारीसमाधिम् अधिगम्य निजाम् अवस्थाम् ।
अर्चा हरिं कमपि पक्षिभिर् अन्तिकस्थैर्
आपन्नरक्षणसदीक्षम् अबोधयत् सः ॥ ६–१ ॥

विश्वास-प्रस्तुतिः

तावद्विलम्बम् असहन् प्रणयेन रोषात्
कृष्णं समागतम् अपि त्वरया विनिन्द्य ।
तेन स्वसङ्गममनोरथिना द्वितीये
सान्त्वोक्तिभिः समनुनीय समाहितोऽभूत् ॥ ६–२ ॥

मूलम्

तावद्विलम्बम् असहन् प्रणयेन रोषात्
कृष्णं समागतम् अपि त्वरया विनिन्द्य ।
तेन स्वसङ्गममनोरथिना द्वितीये
सान्त्वोक्तिभिः समनुनीय समाहितोऽभूत् ॥ ६–२ ॥

विश्वास-प्रस्तुतिः

कोपम् मम प्रणयजम् प्रशमय्य कृष्णः
स्वाधीनताम् अतनुत इति स विस्मयः सः ।
स्वीयां विरुद्धजगदाक्रुतितां च तेन
सन्दर्शितम् अनुबभूव मुनिस् तृतीये ॥ ६–३ ॥

मूलम्

कोपम् मम प्रणयजम् प्रशमय्य कृष्णः
स्वाधीनताम् अतनुत इति स विस्मयः सः ।
स्वीयां विरुद्धजगदाक्रुतितां च तेन
सन्दर्शितम् अनुबभूव मुनिस् तृतीये ॥ ६–३ ॥

विश्वास-प्रस्तुतिः

आनन्द शीतलितवागनुसन्दधीय
कृष्णस्य वीर्यचरितान्य् अहमादरेण ।
इत्थम् पुरास्वयम् अपेक्षितवान् मुनिस् तद्
लब्ध्वा समोऽस्ति न मम इत्य् अवदच् चतुर्थे ॥ ६–४ ॥

मूलम्

आनन्द शीतलितवागनुसन्दधीय
कृष्णस्य वीर्यचरितान्य् अहमादरेण ।
इत्थम् पुरास्वयम् अपेक्षितवान् मुनिस् तद्
लब्ध्वा समोऽस्ति न मम इत्य् अवदच् चतुर्थे ॥ ६–४ ॥

विश्वास-प्रस्तुतिः

तस्यापि मानसतयाऽनुभवस्य बाह्य-
संश्लेषणैकपरचित्तमनःशरीरः ।
आत्मानुरक्तजनम् आत्मनि निःस्पृहत्वं
निन्येऽधिपञ्चमम् अतिप्रवणोच्युते सः ॥ ६–५ ॥

मूलम्

तस्यापि मानसतयाऽनुभवस्य बाह्य-
संश्लेषणैकपरचित्तमनःशरीरः ।
आत्मानुरक्तजनम् आत्मनि निःस्पृहत्वं
निन्येऽधिपञ्चमम् अतिप्रवणोच्युते सः ॥ ६–५ ॥

विश्वास-प्रस्तुतिः

तस्मान् मुनिः प्रवणता विभवात् परस्मिन्
पुंस्येव पुङ्खितमतिः पुरुषार्थसारे ।
स्वस्य स्वकीयविषयेष्व् अखिलेषु षष्ठे
स्वीयत्वबुद्धिर् अवशाद् गलिता इत्यवोचत्॥ ६–६ ॥

मूलम्

तस्मान् मुनिः प्रवणता विभवात् परस्मिन्
पुंस्येव पुङ्खितमतिः पुरुषार्थसारे ।
स्वस्य स्वकीयविषयेष्व् अखिलेषु षष्ठे
स्वीयत्वबुद्धिर् अवशाद् गलिता इत्यवोचत्॥ ६–६ ॥

विश्वास-प्रस्तुतिः

कृष्णेन धारयितृपोषकभोग्ययोगी
प्राप्तौ अतित्वरितधीर् अखिलान् विहाय ।
स्यादप्यलब्ध फल इत्यवहीयमानः
पार्श्वस्थितैर्मुनिरभूद् अधिसप्तमं सः ॥ ६–७ ॥

मूलम्

कृष्णेन धारयितृपोषकभोग्ययोगी
प्राप्तौ अतित्वरितधीर् अखिलान् विहाय ।
स्यादप्यलब्ध फल इत्यवहीयमानः
पार्श्वस्थितैर्मुनिरभूद् अधिसप्तमं सः ॥ ६–७ ॥

विश्वास-प्रस्तुतिः

अप्येवम् आत्मफलदानविलम्बवन्तम्
आलोक्य शौरिम् अथ यत्र च कुत्र चापि ।
आवेद्य मत् स्थितिम् अधीनविभूतियुग्माः
स्यात इत्य् अयाचत सतः मुनिर् अष्टमेन॥ ६–८ ॥

मूलम्

अप्येवम् आत्मफलदानविलम्बवन्तम्
आलोक्य शौरिम् अथ यत्र च कुत्र चापि ।
आवेद्य मत् स्थितिम् अधीनविभूतियुग्माः
स्यात इत्य् अयाचत सतः मुनिर् अष्टमेन॥ ६–८ ॥

विश्वास-प्रस्तुतिः

आलोकनेपि विषयस्य भृशं विभग्नः
रूपे हरेः सकललोकमये निराशः ।
अप्राकृते वपुषि लोलमनास् तमुच्चैर्
आकारयत् प्रलपितैर् नवमे शठारिः ॥ ६–९ ॥

मूलम्

आलोकनेपि विषयस्य भृशं विभग्नः
रूपे हरेः सकललोकमये निराशः ।
अप्राकृते वपुषि लोलमनास् तमुच्चैर्
आकारयत् प्रलपितैर् नवमे शठारिः ॥ ६–९ ॥

विश्वास-प्रस्तुतिः

आर्तेस् तथागततया मुनिर् अब्जवासाम्
आश्रित्य सङ्घटनकर्मणि जागरूकाम् ।
आवेद्य चाधिदशमं स्वम् अकिञ्चनत्वं
श्री वेङ्कटेशचरणौ शरणम् प्रपेदे ॥ ६–१० ॥

मूलम्

आर्तेस् तथागततया मुनिर् अब्जवासाम्
आश्रित्य सङ्घटनकर्मणि जागरूकाम् ।
आवेद्य चाधिदशमं स्वम् अकिञ्चनत्वं
श्री वेङ्कटेशचरणौ शरणम् प्रपेदे ॥ ६–१० ॥