०५

विश्वास-प्रस्तुतिः

आद्ये मुनिः स शतकस्य तु पञ्चमस्य
श्रेयः स्वकीयहितबोधनम् ईक्षमाणः।
एतद्विरोधि बहुलस्य ममात्र हेतुः
शौरेः कृपैव महतीति शशंस भूयः ॥ ५–१ ॥

मूलम्

आद्ये मुनिः स शतकस्य तु पञ्चमस्य
श्रेयः स्वकीयहितबोधनम् ईक्षमाणः।
एतद्विरोधि बहुलस्य ममात्र हेतुः
शौरेः कृपैव महतीति शशंस भूयः ॥ ५–१ ॥

विश्वास-प्रस्तुतिः

आत्मोपदेशविभवैः शमिताघबृन्दम्
आरब्ध वैष्णवसमृद्धि समिध्यमानम् ।
आलोकयन् क्षितितलं कलिनाप्यधृष्यम्
आशास्त मङ्गलम् अमुष्य मुनिर् द्वितीये ॥ ५–२ ॥

मूलम्

आत्मोपदेशविभवैः शमिताघबृन्दम्
आरब्ध वैष्णवसमृद्धि समिध्यमानम् ।
आलोकयन् क्षितितलं कलिनाप्यधृष्यम्
आशास्त मङ्गलम् अमुष्य मुनिर् द्वितीये ॥ ५–२ ॥

विश्वास-प्रस्तुतिः

पूर्वानुसम्हित मनोहर शौरिमूर्तेः
संश्लेषलोलहृदयस् तदलाभखिन्नः ।
लाभे स्वयत्नमपि कर्तुम् इयेष दुःखाद्
भार्यादशां च परिगृह्य मुनिस् तृतीये ॥ ५–३ ॥

मूलम्

पूर्वानुसम्हित मनोहर शौरिमूर्तेः
संश्लेषलोलहृदयस् तदलाभखिन्नः ।
लाभे स्वयत्नमपि कर्तुम् इयेष दुःखाद्
भार्यादशां च परिगृह्य मुनिस् तृतीये ॥ ५–३ ॥

विश्वास-प्रस्तुतिः

तां च त्वरां विदधती सकलेन्द्रियाणाम्
आच्छादिका सविधगांश्च विसञ्ज्ञयन्ती ।
वेलातिगा विरहिणीत्व जुषो मुनेस्तु
मोहाह्वया रजनिर् अभ्युदिता चतुर्थे ॥ ५–४ ॥

मूलम्

तां च त्वरां विदधती सकलेन्द्रियाणाम्
आच्छादिका सविधगांश्च विसञ्ज्ञयन्ती ।
वेलातिगा विरहिणीत्व जुषो मुनेस्तु
मोहाह्वया रजनिर् अभ्युदिता चतुर्थे ॥ ५–४ ॥

विश्वास-प्रस्तुतिः

तादृक् स्वमोहगलने सति भावनाया
भूम्ना हरेर् अवयवाभरणादिदृष्ट्या ।
प्रत्यक्षतस् तदनुभूत्यानवाप्तितश्च
प्रीत्या शुचा मुनिरयुज्यत पञ्चमे सः ॥ ५–५ ॥

मूलम्

तादृक् स्वमोहगलने सति भावनाया
भूम्ना हरेर् अवयवाभरणादिदृष्ट्या ।
प्रत्यक्षतस् तदनुभूत्यानवाप्तितश्च
प्रीत्या शुचा मुनिरयुज्यत पञ्चमे सः ॥ ५–५ ॥

विश्वास-प्रस्तुतिः

शोकं च तम् परिजिहीर्षुर् इवाखिलानां
सर्गादि कर्तुर् अनुकाररसेन शौरेः ।
तस्य प्रवृत्तिर् अखिलाचरिता मयेति
तद्भावभावितमना मुनिराह षष्ठे ॥ ५–६ ॥

मूलम्

शोकं च तम् परिजिहीर्षुर् इवाखिलानां
सर्गादि कर्तुर् अनुकाररसेन शौरेः ।
तस्य प्रवृत्तिर् अखिलाचरिता मयेति
तद्भावभावितमना मुनिराह षष्ठे ॥ ५–६ ॥

विश्वास-प्रस्तुतिः

एवं च सो ऽनधिगताभिमतस् तदाप्तौ
नारायणाद् इतरसाधनशून्यतां स्वाम् ।
तस्मै निवेद्य तदुपायधियैव किञ्चिद्
आश्वस्तवान् अथ मुनिः किल सप्तमेन ॥ ५–७ ॥

मूलम्

एवं च सो ऽनधिगताभिमतस् तदाप्तौ
नारायणाद् इतरसाधनशून्यतां स्वाम् ।
तस्मै निवेद्य तदुपायधियैव किञ्चिद्
आश्वस्तवान् अथ मुनिः किल सप्तमेन ॥ ५–७ ॥

आश्वास लब्धधृतिना मनसा समेत्य श्रीकुम्भघोणशयम् अप्रतिमाभिरूप्यम् । आलोक्य सान्त्वनवचः परिरम्भणादीन्
विश्वास-प्रस्तुतिः

अप्राप्तवान् मुनिर् अखिद्यत सोऽष्टमेन ॥ ५–८ ॥
अन्यम् मुनिः प्रतिहतस् तत एव खेदाद्
गन्तुम् प्रवृत्तमनसापि तु दिव्यदेशम् ।
तद्भोग्यताम् अभिदधत् तदधीशपादौ
यायां कदा इत्यकथयन् नवमे सदैन्यम्॥ ५–९ ॥

मूलम्

अप्राप्तवान् मुनिर् अखिद्यत सोऽष्टमेन ॥ ५–८ ॥
अन्यम् मुनिः प्रतिहतस् तत एव खेदाद्
गन्तुम् प्रवृत्तमनसापि तु दिव्यदेशम् ।
तद्भोग्यताम् अभिदधत् तदधीशपादौ
यायां कदा इत्यकथयन् नवमे सदैन्यम्॥ ५–९ ॥

विश्वास-प्रस्तुतिः

आर्चां च मौननियताम् अपहाय शौरेर्
आलापभोग्यविभवे पुनरागतोऽसौ ।
चित्तस्य तद्गुणगणस्मरणे निजस्य
शैथिल्यविघ्नशमनं तम् अयाचतन्त्ये ॥ ५–१० ॥

मूलम्

आर्चां च मौननियताम् अपहाय शौरेर्
आलापभोग्यविभवे पुनरागतोऽसौ ।
चित्तस्य तद्गुणगणस्मरणे निजस्य
शैथिल्यविघ्नशमनं तम् अयाचतन्त्ये ॥ ५–१० ॥