विश्वास-प्रस्तुतिः
आद्ये चतुर्थशतके दशके शठारिस्
तुष्टस्तथा परहितं दयया विवृण्वन् ।
राज्यस्वरात्मपरिभोगचलाल्पभावौ
सम्यक् प्रसाध्य हरिमेव पुमर्थमाह॥ ४–१ ॥ ॥
मूलम्
आद्ये चतुर्थशतके दशके शठारिस्
तुष्टस्तथा परहितं दयया विवृण्वन् ।
राज्यस्वरात्मपरिभोगचलाल्पभावौ
सम्यक् प्रसाध्य हरिमेव पुमर्थमाह॥ ४–१ ॥ ॥
विश्वास-प्रस्तुतिः
तम् पूरुषार्थम् इतरार्थरुचेर् निवृत्त्या
सान्द्रस्पृहासमयदेशविदूरगत्या च ।
ईप्सुः शुचा तदनवाप्तिभुवा द्वितीये
स्त्रीभावनां समधिगम्य मुनिर् मुमोह ॥ ४–२ ॥
मूलम्
तम् पूरुषार्थम् इतरार्थरुचेर् निवृत्त्या
सान्द्रस्पृहासमयदेशविदूरगत्या च ।
ईप्सुः शुचा तदनवाप्तिभुवा द्वितीये
स्त्रीभावनां समधिगम्य मुनिर् मुमोह ॥ ४–२ ॥
विश्वास-प्रस्तुतिः
प्रीतः परं हरिर् अमुष्य तथा स्वभावाद्
एतन्मनोवचनदेहकृतक्रियाभिः ।
स्रक् चन्दनप्रमुखसर्वविधस्वभोगः
संश्लिष्टवान् इदम् उवाच मुनिस् तृतीये ॥ ४–३ ॥
मूलम्
प्रीतः परं हरिर् अमुष्य तथा स्वभावाद्
एतन्मनोवचनदेहकृतक्रियाभिः ।
स्रक् चन्दनप्रमुखसर्वविधस्वभोगः
संश्लिष्टवान् इदम् उवाच मुनिस् तृतीये ॥ ४–३ ॥
विश्वास-प्रस्तुतिः
तेन प्रहर्षम् अतिमात्रभवं स्वकीयं
सात्म्यं विधातुम् अथ दूरगते मुकुन्दे ।
सम्बन्धिनश्च सदृशांश्च विलोक्य शौरेर्
भ्राम्यन् तमेव मुनिर् आर्तिम् अगाच् चतुर्थे॥ ४–४ ॥
मूलम्
तेन प्रहर्षम् अतिमात्रभवं स्वकीयं
सात्म्यं विधातुम् अथ दूरगते मुकुन्दे ।
सम्बन्धिनश्च सदृशांश्च विलोक्य शौरेर्
भ्राम्यन् तमेव मुनिर् आर्तिम् अगाच् चतुर्थे॥ ४–४ ॥
विश्वास-प्रस्तुतिः
आनन्द निर्भरम् अधीनविभूतियुक्तं
वैकुण्ठनाथम् अथ वीक्ष्य मुनिः स्तुवन् सः ।
नान्यः समोस्ति मम नाप्य् अनवाप्यम् अद्य
इत्यानन्दपूरम् आधिपञ्चमम् आससाद ॥ ४–५ ॥
मूलम्
आनन्द निर्भरम् अधीनविभूतियुक्तं
वैकुण्ठनाथम् अथ वीक्ष्य मुनिः स्तुवन् सः ।
नान्यः समोस्ति मम नाप्य् अनवाप्यम् अद्य
इत्यानन्दपूरम् आधिपञ्चमम् आससाद ॥ ४–५ ॥
विश्वास-प्रस्तुतिः
स्वप्नोपमाद् अनुभवाद् अमुतोऽप्य् अलब्ध
स्वापेक्षिते शठजिति व्यसनाद् विसञ्ज्ञे ।
ये क्षुद्रदेवमुखतः परिहर्तुकामास्
ते वारितास् तदुचितज्ञगिरैव षष्ठे ॥ ४–६ ॥
मूलम्
स्वप्नोपमाद् अनुभवाद् अमुतोऽप्य् अलब्ध
स्वापेक्षिते शठजिति व्यसनाद् विसञ्ज्ञे ।
ये क्षुद्रदेवमुखतः परिहर्तुकामास्
ते वारितास् तदुचितज्ञगिरैव षष्ठे ॥ ४–६ ॥
विश्वास-प्रस्तुतिः
तद्भेषजात् स हरिनामकथाप्रसङ्गात्
सञ्ज्ञामुपेत्य मुनिर् उद्भटदुःखबोधः ।
आपत्सखत्वमुखवाचकतस् तमुच्चैर्
आक्रुश्य वाञ्छितम् अयाचत सप्तमेन ॥ ४–७ ॥
मूलम्
तद्भेषजात् स हरिनामकथाप्रसङ्गात्
सञ्ज्ञामुपेत्य मुनिर् उद्भटदुःखबोधः ।
आपत्सखत्वमुखवाचकतस् तमुच्चैर्
आक्रुश्य वाञ्छितम् अयाचत सप्तमेन ॥ ४–७ ॥
विश्वास-प्रस्तुतिः
एवं रुदन् अपि शठारिर् अलब्धकामः
स्वोपेक्षणैकपरताम् अवधार्य शौरेः ।
तत् शेषतादि रहिते सकले स्वकीये
स्वस्मिन् अपि स्फुरितनिस्पृहतःअष्टमे अभूत् ॥ ४–८ ॥
मूलम्
एवं रुदन् अपि शठारिर् अलब्धकामः
स्वोपेक्षणैकपरताम् अवधार्य शौरेः ।
तत् शेषतादि रहिते सकले स्वकीये
स्वस्मिन् अपि स्फुरितनिस्पृहतःअष्टमे अभूत् ॥ ४–८ ॥
विश्वास-प्रस्तुतिः
शोचन् मुनिः स्वसदृशं च सहायम् इच्छन्
लोकं विलोक्य विपरीतरुचिं विषण्णः ।
अत्रत्यवासम् असहन् हरिणा स्ववासं
वैकुण्ठke प्रकटितं नवमे ददर्श ॥ ४–९ ॥
मूलम्
शोचन् मुनिः स्वसदृशं च सहायम् इच्छन्
लोकं विलोक्य विपरीतरुचिं विषण्णः ।
अत्रत्यवासम् असहन् हरिणा स्ववासं
वैकुण्ठke प्रकटितं नवमे ददर्श ॥ ४–९ ॥
विश्वास-प्रस्तुतिः
बन्धे समेऽपि हरिणा निखिलात्मराशेः
संसारहेतुम् इतरत्र परत्वबोधम् ।
वेदेतिहासमुखतः परिहृत्य शौरेर्
अर्चातनोः स दशमे व्यवृणोत् परत्वम् ॥ ४–१० ॥
मूलम्
बन्धे समेऽपि हरिणा निखिलात्मराशेः
संसारहेतुम् इतरत्र परत्वबोधम् ।
वेदेतिहासमुखतः परिहृत्य शौरेर्
अर्चातनोः स दशमे व्यवृणोत् परत्वम् ॥ ४–१० ॥