विश्वास-प्रस्तुतिः - ३-८
आद्ये तृतीयशतकस्य वनाद्रि-भर्तुर्
आपाद-मौल्य्-अवयवाभरणाभिरूप्यम् ।
ब्रह्मादि-वाग्-अविषयं च महा-प्रभावं
सौन्दर्य-मग्न-हृदयः शठजित् शशंस ॥ ३–१ ॥
मूलम्
आद्ये तृतीयशतकस्य वनाद्रिभर्तुर्
आपादमौल्यवयवाभरणाभिरूप्यम् ।
ब्रह्मादिवागविषयं च महाप्रभावं
सौन्दर्यमग्नहृदयः शठजित् शशंस ॥ ३–१ ॥
विश्वास-प्रस्तुतिः - ३-८
सङ्कोचित-स्व-करणः स हरिं यथेष्टम्
भुञ्जे न चाहम् इति भिन्न-मतिः शठारिः ।
आश्वासितश् च हरिणा स्व-महत्तयैव
“भोगेष्व् अ-शक्तिर्” इति तत् कथितं द्वितीये ॥ ३–२ ॥
मूलम्
सङ्कोचितस्वकरणः स हरिं यथेष्टम्
भुञ्जे न चाहमिति भिन्नमतिः शठारिः ।
आश्वासितश्च हरिणा स्वमहत्तयैव
भोगेष्व् अशक्तिरिति तत्कथितं द्वितीये ॥ ३–२ ॥
विश्वास-प्रस्तुतिः - ३-८
सर्वत्र सर्व-समये सकलास्व् अवस्थास्व्
अभ्यर्थयन् निखिल-दास्य-रसान् मुनीन्द्रः।
श्री-वेङ्कटाद्रि-निलयस्य परस्य पुंसः
निस्सीम-शील-गुणम् अप्य् अवदत् तृतीये ॥ ३–३
मूलम्
सर्वत्र सर्वसमये सकलास्व् अवस्थास्व्
अभ्यर्थयन् निखिलदास्यरसान् मुनीन्द्रः।
श्रीवेङ्कटाद्रिनिलयस्य परस्य पुंसः
निस्सीमशीलगुणमप्य् अवदत् तृतीये ॥ ३–३
विश्वास-प्रस्तुतिः - ३-८
सर्वं जगत् समवलोक्य विभोः शरीरं
तद्-वाचिनश् च सकलान् अपि शब्द-राशीन् ।
तान् भूत-भौतिक-मुखान् कथयन् पदार्थान्
दास्यं चकार वचसा च?? मुनिश् चतुर्थे॥ ३–४ ॥
मूलम्
सर्वं जगत् समवलोक्य विभोः शरीरं
तद्वाचिनश्च सकलानपि शब्दराशीन् ।
तान् भूतभौतिकमुखान् कथयन् पदार्थान्
दास्यं चकार वचसव मुनिश्चतुर्थे॥ ३–४ ॥
विश्वास-प्रस्तुतिः - ३-८
पूर्वेण दास्य-विधिना पुरुषार्थ-सीम्ना
हर्ष-प्रकर्ष-विवशः खलु पञ्चमे सः ।
आनन्दनैर् अविकृतान् विनिनिन्द मूर्खान्,
शौरेर् गुणैस् तु विकृतान् प्रशशंस भूयः ॥ ३–५ ॥
मूलम्
पूर्वेण दास्यविधिना पुरुषार्थसीम्ना
हर्षप्रकर्षविवशः खलु पञ्चमे सः ।
आनन्दनैर् अविकृतान् विनिनिन्द मूर्खान्
शौरेर् गुणैस्तु विकृतान् प्रशशंस भूयः ॥ ३–५ ॥
विश्वास-प्रस्तुतिः - ३-८
तान् निन्दितान् अपि विहातुम् असाव् अशक्तः
शौरेर् दुरासदतया विमुखान् विचार्य ।
अर्चावतार-सुलभत्वम् उवाच तेषाम्
एवं च तेषु विमुखेषु शुशोच षष्ठे ॥ ३–६ ॥
मूलम्
तान् निन्दितानपि विहातुमसौ अशक्तः
शौरेर् दुरासदतया विमुखान् विचार्य ।
अर्चावतार सुलभत्वम् उवाच तेषाम्
एवं च तेषु विमुखेषु शुशोच षष्ठे ॥ ३–६ ॥
विश्वास-प्रस्तुतिः - ३-८
तत् शोक-शान्ति-विधये हरिणा प्रसादाद्
आविष्कृतान् स्व-गुण-चेष्टित-भोग-शीलान् ।
आलोक्य वैष्णव-जनान् मुनिर् आत्म-नाथान्
आख्याय तान् अतिजहर्ष च सप्तमे सः॥ ३–७ ॥
मूलम्
तत् शोकशान्तिविधये हरिणा प्रसादाद्
आविष्कृतान् स्वगुणचेष्टितभोगशीलान् ।
आलोक्यवैष्णवजनान् मुनिर् आत्मनाथान्
आख्याय तान् अतिजहर्ष च सप्तमे सः॥ ३–७ ॥
विश्वास-प्रस्तुतिः - ३-८
अत्युत्कटैर् इह मनोरथजालपूरैर्
नीतो मुनिर्भगवता सह सङ्गकामः ।
सर्वेन्द्रियैर् अपि च किङ्करभावसक्तः
श्री कान्तमेव सुगुणाम्बुधिम् आप्तुम् ऐच्छत् ॥ ३.८ ॥
मूलम्
अत्युत्कटैर् इह मनोरथजालपूरैर्
नीतो मुनिर्भगवता सह सङ्गकामः ।
सर्वेन्द्रियैर् अपि च किङ्करभावसक्तः
श्री कान्तमेव सुगुणाम्बुधिम् आप्तुम् ऐच्छत् ॥ ३.८ ॥
विश्वास-प्रस्तुतिः - ३-८
षष्ठे बहिर्नयनतो हरिमाप्तुमाशा
जातामुनेरथ तदीय जनावलोकात् ।
उत्तम्भितास्वकरणैरपि कामयन्ती
शोकातिरेक जननी पुनरष्टमेऽभूत् ॥ ३-८॥
मूलम् - ३-८
षष्ठे बहिर्नयनतो हरिमाप्तुमाशा
जातामुनेरथ तदीय जनावलोकात् ।
उत्तम्भितास्वकरणैरपि कामयन्ती
शोकातिरेक जननी पुनरष्टमेऽभूत् ॥ ३-८॥
विश्वास-प्रस्तुतिः
अन्यस्तवेन विषयान् अधिगन्तुम् इच्छून्
आलोक्य विस्मृतनिजव्यसनो दयालुः ।
तस्मान् निवार्य मनुजान् विफलः स शौरेर्
अन्येष्वनर्हकरणं नवमे स्वमाख्यत् ॥ ३–९ ॥
मूलम्
अन्यस्तवेन विषयान् अधिगन्तुम् इच्छून्
आलोक्य विस्मृतनिजव्यसनो दयालुः ।
तस्मान् निवार्य मनुजान् विफलः स शौरेर्
अन्येष्वनर्हकरणं नवमे स्वमाख्यत् ॥ ३–९ ॥
विश्वास-प्रस्तुतिः
भूयोऽवतीर्य भुवि दिव्यवपुः स्वकीयम्
प्रत्यक्षयन्तम् अखिलांश्च गुणान् अनन्तम् ।
स्तुत्वा मुनिः स्वचरितार्थतया न किञ्चिद्
दुःखम् मम इत्यतितरां दशमे तुतोष॥ ३–१० ॥
मूलम्
भूयोऽवतीर्य भुवि दिव्यवपुः स्वकीयम्
प्रत्यक्षयन्तम् अखिलांश्च गुणान् अनन्तम् ।
स्तुत्वा मुनिः स्वचरितार्थतया न किञ्चिद्
दुःखम् मम इत्यतितरां दशमे तुतोष॥ ३–१० ॥