विश्वास-प्रस्तुतिः
पूर्वानुभूत-मुर-वैरि-गुणाभिवृद्ध–
तद्–बाह्य-सङ्गम–रुचिस् तद्-अ-लाभ-खिन्नः ।
सर्वान् अपि स्व-सम-दुःखिन एव भावान्
आह द्वितीय-शतकस्य शठारिर् आद्ये ॥ २–१ ॥
मूलम्
पूर्वानुभूतमुरवैरिगुणाभिवृद्ध-
तद्बाह्यसङ्गमरुचिस् तदलाभखिन्नः ।
सर्वानपि स्वसमदुःखिन एव भावान्
आह द्वितीयशतकस्य शठारिर् आद्ये ॥ २–१ ॥
विश्वास-प्रस्तुतिः
संश्लिष्य दुःख-शमनान् मुदितः प्रसङ्गात्
तन्-मूलम् अब्-ज-नयनस्य महेश्वरत्वम् ।
आहान्वयाद् इतरतो ऽपि मनुष्य-भावे +++(अवतारैः)+++
पौराणिकोक्त-नयतः शठ-जिद् द्वितीये ॥ २–२ ॥
मूलम्
संश्लिष्य दुःखशमनान् मुदितः प्रसङ्गात्
तन्मूलम् अब्जनयनस्य महेश्वरत्वम् ।
आहान्वयाद् इतरतोपि मनुष्यभावे
पौराणिकोक्तनयतः शठजिद् द्वितीये ॥ २–२ ॥
विश्वास-प्रस्तुतिः
अन्तस्-स्थ-सर्व-रसम् अम्बु-ज-लोचनस्य
संयोग-रूपम् अवगाह्य सुखामृताब्धिम् ।
तद्-देशिक-प्रथम-सूरि-गणैः कदा स्यात्
सङ्गो मम इत्य कथयत् स मुनिस् तृतीये ॥ २–३ ॥
मूलम्
अन्तस्स्थसर्वरसम् अम्बुजलोचनस्य
सम्योगरूपम् अवगाह्य सुखामृताब्धिम् ।
तद्देशिकप्रथमसूरिगणैः कदा स्यात्
सङ्गो मम इत्य कथयत् स मुनिस् तृतीये ॥ २–३ ॥
विश्वास-प्रस्तुतिः
तत्-प्रार्थितानधिगमेन समुत्थितार्तिर्
अग्रे हरेः पर-मुखेन यथा विधेयम् ।
आर्तेर् निवेदनम् अपाकरणार्थनं च
मूर्च्छां तथा मुनिर् अगान् महतीं चतुर्थे ॥ २–४ ॥
मूलम्
तत्प्रार्थितानधिगमेन समुत्थितार्तिर्
अग्रे हरेः परमुखेन यथा विधेयम् ।
आर्तेर् निवेदनम् अपाकरणार्थनं च
मूर्च्छां तथा मुनिरगान् महतीं चतुर्थे ॥ २–४ ॥
विश्वास-प्रस्तुतिः
आगम्य सूरि-सहितः समपाकृतार्तिः
अत्युज्ज्वलन् मरकताचल-सन्निभाङ्गः।
ईशः प्रफुल्ल-कमलाक्षि-कराङ्घ्रिर् आसीत्
तत् पञ्चमे स कथयन् मुनिर् आननन्द ॥ २–५ ॥
मूलम्
अत्युज्ज्वलन् मरकताचलसन्निभाङ्गः।
ईशः प्रफुल्लकमलाक्षिकराङ्घ्रिर् आसीत्
तत् पञ्चमे स कथयन् मुनिराननन्द ॥ २–५ ॥
विश्वास-प्रस्तुतिः
“नीचं च माम् अधिगतो ऽयम्” इति स्व-सूक्त्या
जातां हरेः स्व-विरहागमने ऽतिशङ्काम् ।
षष्ठे निरस्य दृढ-सङ्ग-गिरा शठारिर्
आत्मान्वयिष्व् अपि तद् आदरतो अभ्यनन्दत् ॥ २–६ ॥
मूलम्
नीचं च माम् अधिगतो ऽयमिति स्वसूक्त्या
जातां हरेः स्वविरहागमने अतिशङ्काम् ।
षष्ठे निरस्य दृढसङ्गगिरा शठारिर्
आत्मान्वयिष्वपि तदादरतो अभ्यनन्दत् ॥ २–६ ॥
विश्वास-प्रस्तुतिः
“ते केशवाभिमतताम् अभजन्त हन्त
ये मामका” इति वदन् अधिसप्तमं सः ।
तस्य स्वरूप-गुण-चेष्टित-वाचि-नाम-
भूत-द्वि-षट्क-मुखरो मुमुदे मुनीन्द्रः ॥ २–७ ॥
मूलम्
ते केशवाभिमतताम् अभजन्त हन्त
ये मामका इति वदन् अधिसप्तमं सः ।
तस्य स्वरूपगुणचेष्टितवाचिनाम
भूतद्विषट्कमुखरो मुमुदे मुनीन्द्रः ॥ २–७ ॥
विश्वास-प्रस्तुतिः
आत्मान्वयिष्व् अपि हरेः प्रियताम् अवेक्ष्य
सर्वात्मनः स्वजनयन् मुनिर् अष्टमेन ।
मोक्ष-प्रदत्वम् उपदिश्य तद्-आभिमुख्य+
+अलाभात् स्वलाभम् अधिकम् बहु मन्यते स्म ॥ २–८ ॥
मूलम्
भूतद्विषट्कमुखरो मुमुदे मुनीन्द्रः ॥ २–७ ॥
आत्मान्वयिष्वपि हरेः प्रियताम् अवेक्ष्य
सर्वात्मनः स्वजनयन् मुनिर् अष्टमेन ।
मोक्षप्रदत्वम् उपदिश्य तदाभिमुख्य
अलाभात् स्वलाभम् अधिकम् बहुमन्यते स्म ॥ २–८ ॥
विश्वास-प्रस्तुतिः
मोक्षादरं स्फुटम् अवेक्ष्य मुनेर् मुकुन्दे
मोक्षम् प्रदातुम् अ-सदृक्ष-फलम् प्रवृत्ते ।
आत्मेष्टम् अस्य पदकिङ्करतैकरूपम्
मोक्षाख्यवस्तु नवमे निरणायि तेन ॥ २–९ ॥
मूलम्
मोक्षादरं स्फुटम् अवेक्ष्य मुनेर् मुकुन्दे
मोक्षम् प्रदातुम् असदृक्षफलम् प्रवृत्ते ।
आत्मेष्टमस्य पदकिङ्करतैकरूपम्
मोक्षाख्यवस्तु नवमे निरणायितेन ॥ २–९ ॥
विश्वास-प्रस्तुतिः
एतन् निजार्थितम् इहैव हरिः प्रदातुम्
आसेदिवान् वन-मही-धरम् इत्य् अवेक्ष्य ।
प्राप्यं तम् एव च तद्-अन्वयिनं च सर्वम्
प्राचीकशत् स दशमे दशके मुनीन्द्रः॥ २–१० ॥
मूलम्
एतन्निजार्थितम् इहैव हरिः प्रदातुम्
आसेदिवान् वनमहीधरम् इत्यवेक्ष्य ।
प्राप्यं तमेव च तदन्वयिनं च सर्वम्
प्राचीकशत् स दशमे दशके मुनीन्द्रः॥ २–१० ॥