विश्वास-प्रस्तुतिः
तत्रादिमे तु शतके दशके तद्-आद्ये
सम्यग्-गुणाकृति-विभूति-समेतम् ईशम्।
नाध्यक्षयन् परम् अनुग्रहतस् तदीयात्
तद्-दास्य-योजित-मनाः शठ-जिद् बभूव ॥ १-१
मूलम्
तत्रादिमे तु शतके दशके तदाद्ये
सम्यग्गुणाकृतिविभूतिसमेतम् ईशम् ।
अध्यक्षयन् परमनुग्रहतस् तदीयात्
तद्दास्ययोजितमनाः शठजिद् बभूव ॥ १–१ ॥
विश्वास-प्रस्तुतिः
संसारिणो ऽप्य् अनुजिघ्रुक्षुर् असौ दयालुर्
अल्पास्थिरेतर-पुम्-अर्थ-रुचिम् निरस्यन् ।
तत्-त्याग-पूर्व–हरि-भक्ति-सुधाम् बुधानाम्
उद्दीपिनीम् उपदिदेश मुनिर् द्वितीये ॥ १-२
मूलम्
संसारिणोप्य् अनुजिघृक्षुर् असौ दयालुर्
अल्पास्थिरेतरपुमर्थरुचिं निरस्यन् ।
तत्त्यागपूर्वहरिभक्तिसुधाम् बुधानाम्
उद्दीपिनीम् उपदिदेश मुनिर् द्वितीये ॥ १–२ ॥
विश्वास-प्रस्तुतिः
दूर-स्थम् अप्य् अथ मुनिः कमला-सहायम्
ऐच्छैः समुद्भव-शतैः सुलभी-भवन्तम् ।
आख्याय भक्तिम् अपि तत्र विधाय तस्य
सेवाम् चकाङ्क्ष करण-त्रयतस् तृतीये ॥ १-३
मूलम्
दूरस्थम् अप्यथ मुनिः कमलासहायम्
ऐच्छैः समुद्भवशतैः सुलभीभवन्तम् ।
आख्याय भक्तिमपि तत्र विधाय तस्य
सेवां चकाङ्क्ष करणत्रयतस् तृतीये ॥ १–३ ॥
विश्वास-प्रस्तुतिः
तत्-काङ्क्षितानधिगमेन मुनिर् विषण्णः
प्राप्तो दशाञ् च हरि-भुक्त-वियुक्त-नार्याः ।
सर्वापराध-सहताम् अवबोध्य दूतैः
शौरेः स्व-दोष-परताम् अलुनाच् चतुर्थे॥ १-४
मूलम्
तत्काङ्क्षितानधिगमेन मुनिर् विषण्णः
प्राप्तो दशां च हरिभुक्तवियुक्तनार्याः।
सर्वापराधसहताम् अवबोध्य दूतैः
शौरेः स्वदोषपरताम् अलुनाच् चतुर्थे ॥ १–४ ॥
विश्वास-प्रस्तुतिः
स्वालिङ्गनादि-सबले पुरुषोत्तमे ऽपि
स्वायोग्यताम् अभिदधद् विमुखश् शठारिः ।
त्रैविक्रमादि-चरितम् प्रतिबोध्य तेन
नीतस् स्व-शील-वशताम् अथ पञ्चमे ऽभूत् ॥ ५
मूलम्
स्वालिङ्गनादि चपले पुरुषोत्तमेपि
स्वायोग्यताम् अभिदधन् विमुखः शठारिः ।
त्रैविक्रमादिचरितम् प्रतिबोध्यतेन
नीतः स्वशीलवशताम् अथ पञ्चमे अभूत् ॥ १–५ ॥
विश्वास-प्रस्तुतिः
दास्येषु देश-समयाङ्ग-कर्तृ-
द्रव्यादिना न नियमः पुरुषोत्तमस्य ।
भक्तिः परम् बहु मता, तत एव सो ऽयं
स्व्-आराध इत्य् उपदिदेश मुनिस् तु षष्ठे ॥ १–६ ॥
मूलम्
दास्येषु देशसमयाङ्गकर्तृ
द्रव्यादिना न नियमः पुरुषोत्तमस्य ।
भक्तिः परम् बहुमता तत एव सोयं
स्वाराध इत्युपदिदेश मुनिस्तु षष्ठे ॥ १–६ ॥
विश्वास-प्रस्तुतिः
पुंसः, श्रियः, प्रणयिनः, पुरुषार्थ-सीम्नः
निन्दन् फलान्तरपरान् निरवद्य-गन्धात् ।
तद्-रस्यतार्ह-गुण-जात-समर्थनेन
तत्-सेवनं सरसम् आह स सप्तमेन ॥ १–७ ॥
मूलम्
पुंसः श्रियः प्रणयिनः पुरुषार्थसीम्नः
निन्दन् फलान्तरपरान् निरवद्यगन्धात् ।
तद्रस्यतार्हगुणजातसमर्थनेन
तत्सेवनं सरसमाह स सप्तमेन ॥ १–७ ॥
विश्वास-प्रस्तुतिः
कौटिल्यवत्सु करण-त्रितये ऽपि जन्तुष्व्
आत्मीयम् एव करण-त्रितयैक-रूप्यम् ।
सन्दर्श्य तान् अपि हरिः स्व-वशी-करोति
इत्य् आचष्ट सान्द्र-करुणो मुनिर् अष्टमेन ॥ १–८ ॥
मूलम्
कौटिल्यवत्सु करणत्रितयेपि जन्तुष्व्
आत्मीयमेव करणत्रितयैकरूप्यम् ।
सन्दर्श्य तानपि हरिः स्ववशीकरोत्य्
इत्याचष्ट सान्द्रकरुणो मुनिर् अष्टमेन ॥ १–८ ॥
विश्वास-प्रस्तुतिः
आत्मार्जवानुभव-कौतुकिनो ऽस्य शौरिर्
आत्मोपभोग-रुचिम् अभ्यधिकाम् दधानः ।
देव्य्-आदिवद् रसयिता, क्रमतो ऽखिलाङ्गान्य्
आशिश्रयत् तद् अवदत् नवमे शठारिः ॥ १–९ ॥
मूलम्
आत्मार्जवानुभवकौतुकिनो ऽस्य शौरिर्
आत्मोपभोगरुचिम् अभ्यधिकां दधानः ।
देव्यादिवद्रसयिता क्रमतो ऽखिलाङ्गानि
+आशिश्रयत् तदवदन् नवमे शठारिः ॥ १–९ ॥
विश्वास-प्रस्तुतिः
इत्थं श्रियः-पति-कृत–स्व-समस्त-देह-
संश्लेष-लक्षण-फलस्य सु-दुर्-लभस्य ।
भक्त्य्-आदिवत् स्व-गणने ऽपि च तत्-प्रसादान्
निर्हेतुकत्वम् अवदत् दशमे शठारिः ॥ १–१० ॥
मूलम्
इत्थं श्रियःपतिकृतस्वसमस्तदेह
संश्लेषलक्षणफलस्य सुदुर्लभस्य ।
भक्त्यादिवत् स्वगणनेपि च तत्प्रसादान्
निर्हेतुकत्वम् अवदद् दशमे शठारिः ॥ १–१० ॥