विश्वास-प्रस्तुतिः
यश् चकार सकलार्थ-सम्पदां
व्यञ्जनीं द्रमिड-वेद-सङ्गतिम् ।
तं द्वितीय-शठ-कोपम् अन्वहं
स्तौमि सुन्दर-वराह्वयम् मुनिम् ॥ १ ॥
मूलम्
यश्चकार सकलार्थसम्पदां
व्यञ्जनीं द्रमिडवेदसङ्गतिम् ।
तं द्वितीयशठकोपमन्वहं
स्तौमि सुन्दरवराह्वयम् मुनिम् ॥ १ ॥
विश्वास-प्रस्तुतिः
आचार्योदितपद्धत्या द्रामिडाम्नायसङ्गतिम् ।
अभिधास्ये विशेषज्ञैर् आदराद् गृह्यताम् इह ॥ २ ॥
मूलम्
आचार्योदितपद्धत्या द्रामिडाम्नायसङ्गतिम् ।
अभिधास्ये विशेषज्ञैर् आदराद् गृह्यताम् इह ॥ २ ॥
विश्वास-प्रस्तुतिः
श्रीमान् गुणाम्बु-निधिर् अवाप्त-समस्त-कामः
शौरिः शठारिम् अनुजन्म-परिभ्रमन्तम् ।
आकस्मिकेक्षण-वशाद् अतिनित्य-मुक्तम्
बृन्दा-तृणी-करण-शक्ति-धरश् चकार ॥ ३ ॥
मूलम्
श्रीमान् गुणाम्बुनिधिर् अवाप्तसमस्तकामः
शौरिः शठारिम् अनुजन्मपरिभ्रमन्तम् ।
आकस्मिकेक्षणवशाद् अतिनित्यमुक्तम्
बृन्दातृणीकरणशक्तिधरश् चकार ॥ ३ ॥
विश्वास-प्रस्तुतिः
आद्ये वयस्य् अपि ततो ऽनुभवन् मुरारिम्
अ-स्तन्य-पान-रसिकः शठजिन् मुनीन्द्रः ।
आस्थाय मौनम् अवधीर्य च लोक-वृत्तम्
आषोडशाब्दम् अतिवाहितवान् दिनानि ॥ ४ ॥
मूलम्
आद्ये वयस्यपि ततोऽनुभवन् मुरारिम्
अस्तन्यपानरसिकः शठजिन् मुनीन्द्रः ।
आस्थाय मौनम् अवधीर्य च लोकवृत्तम्
आषोडशाब्दम् अतिवाहितवान् दिनानि ॥ ४ ॥
विश्वास-प्रस्तुतिः
ये राघवे भरत-लक्ष्मण-जानकीनां,
ये घोष-मुग्ध-सु-दृशाम् अपि नन्द-सूनौ ।
भावा रसैक-वपुषः प्रथिताः शठारिस्
तान् एव वा तद्-अधिकान् उत तत्र लेभे ॥ ५ ॥
मूलम्
ये राघवे भरतलक्ष्मणजानकीनां
ये घोषमुग्धसुदृशामपि नन्दसूनौ ।
भावा रसैकवपुषः प्रथिताः शठारिस्
तानेव वा तदधिकान् उत तत्र लेभे ॥ ५ ॥
विश्वास-प्रस्तुतिः
प्रह्लाद-नारद-प्रमुख-प्रभवा च भक्तिः
स्नेहस् तथा दशरथार्जुन-बान्धवोत्थैः ।
सर्वे च ते शठ-जितः पुरुषे परस्मिन्
आनन्दने पद-जुषाम् अतिमात्रम् आसन् ॥ ६ ॥
मूलम्
प्रह्लादनारदप्रमुखप्रभवा च भक्तिः
स्नेहस्तथा दशरथार्जुनबान्धवोत्थैः ।
सर्वे च ते शठजितः पुरुषे परस्मिन्
आनन्दने पदजुषाम् अतिमात्रम् आसन् ॥ ६ ॥
विश्वास-प्रस्तुतिः
इत्थं हरेर् अनुभवामृत-वारि-राशिर्
अन्तर् मुनेः शठ-रिपोर् अ-मितः शरीरे ।
सूक्त्या बहिः परिवहन् सुतरां जगन्ति
सद्यः सिषेच घन-संसरणानलानि ॥ ७ ॥+++(4)+++
मूलम्
इत्थं हरेर् अनुभवामृतवारिराशिर्
अन्तर्मुनेः शठरिपोर् अमितः शरीरे ।
सूक्त्या बहिः परिवहन् सुतरां जगन्ति
सद्यः सिषेच घनसंसरणानलानि ॥ ७ ॥
विश्वास-प्रस्तुतिः
माता-पितृ-प्रभृतितोऽपि च वत्सलत्वात्
सर्वोपकार-चपलात् शठ-जिन्-मुनीन्द्रात् ।
वेदश् चतुर्-विधतया विदितः स साक्षाद्
आविर्बभूव हि निबन्ध-चतुष्टयात्मा ॥ ८ ॥
मूलम्
मातापितृप्रभृतितोऽपि च वत्सलत्वात्
सर्वोपकारचपलात् शठजिन्मुनीन्द्रात् ।
वेदश् चतुर्विधतया विदितः स साक्षाद्
आविर्बभूव हि निबन्धचतुष्टयात्मा ॥ ८ ॥
विश्वास-प्रस्तुतिः
शब्दस्य संस्कृततया यदि गौरवं स्याद्
बौद्धादि-शास्त्र-वचसाम् अपि तत्-प्रसङ्गः ।
वाच्येन चेत् कथितम् उत्तम-वाच्यम् एषु
भाषा निकर्ष इह तेन न शक्यशङ्कः ॥ ९ ॥+++(5)+++
मूलम्
शब्दस्य संस्कृततया यदि गौरवं स्याद्
बौद्धादिशास्त्रवचसामपि तत्प्रसङ्गः ।
वाच्येन चेत् कथितमुत्तमवाच्यम् एषु
भाषा निकर्ष इह तेन न शक्यशङ्कः ॥ ९ ॥
विश्वास-प्रस्तुतिः
पुंस्त्वं नियम्य पुरुषोत्तमता-विशिष्टे
स्त्री-प्राय-भाव-कथनाज् जगतो ऽखिलस्य ।
पुंसां च रञ्जक-वपुर् गुणवत्तया ऽपि
शौरेः शठारि-यमिनो ऽजनि कामिनीत्वम् ॥ १० ॥
मूलम्
पुंस्त्वं नियम्य पुरुषोत्तमताविशिष्टे
स्त्रीप्रायभावकथनाज् जगतोऽखिलस्य ।
पुंसां च रञ्जकवपुर् गुणवत्तयापि
शौरेः शठारियमिनोऽजनि कामिनीत्वम् ॥ १० ॥
विश्वास-प्रस्तुतिः
या प्रीतिर् अस्ति विषयेष्व् अ-विवेक-भाजां
सैका ऽच्युते भवति भक्ति-पदाभिधेया ।
भक्तिस् तु काम इह तत्-कमनीय-रूपे+++(5)+++
तस्मान् मुनेर् अजनि कामुक-वाक्य-भङ्गी ॥ ११ ॥
मूलम्
या प्रीतिरस्ति विषयेष्वविवेकभाजां
सैकाच्युते भवति भक्तिपदाभिधेया ।
भक्तिस्तु काम इह तत्कमनीयरूपे
तस्मान् मुनेर् अजनि कामुकवाक्यभङ्गी ॥ ११ ॥
विश्वास-प्रस्तुतिः
यश् चेतसैव विशदानुभवः परस्मिन्
संश्लेष एष गुण-रत्न-महाम्बु-राशौ ।
विच्छित्तिर् अस्य विरहस् त्व् इह याऽङ्गसङ्ग-+
+अलाभ-व्यथा विरचिता मुनि-पुङ्-गवस्य ॥ १२ ॥
मूलम्
यश्चेतसैव विशदानुभवः परस्मिन्
संश्लेष एष गुणरत्नमहाम्बुराशौ ।
विच्छित्तिर् अस्य विरहस्त्व् इह या आङ्गसङ्ग+
+अलाभव्यथाविरचिता मुनिपुङ्गवस्य ॥ १२ ॥
विश्वास-प्रस्तुतिः
तत्रार्थयद् भव-शमम् प्रथमे प्रबन्धे
शौरेर् गुणं शठ-जिद् अन्वभवद् द्वितीये ।
तृष्णाम् अवर्धयत भोक्तुम् इमं तृतीये
यावन् मनो-रथम्, अलब्ध+++(←लुङ्)+++ फलं चतुर्थे ॥ १३ ॥
मूलम्
तत्रार्थयद् भवशमम् प्रथमे प्रबन्धे
शौरेर् गुणं शठजिद् अन्वभवद् द्वितीये ।
तृष्णाम् अवर्धयत भोक्तुमिमं तृतीये
यावन्मनोरथम् अलब्धफलं चतुर्थे ॥ १३ ॥
विश्वास-प्रस्तुतिः
कैङ्कर्यम् अस्य, नियमावधि, वैर्य्-उपायं
तत्-स्वी-क्रिया–विषय-बन्ध–निराशके च ।
शीलं हरेर्, अधिगताधिगमं शठारिस्
तुर्य-प्रबन्ध-शतकैर् दशभिर् जगाद ॥ १४ ॥
मूलम्
कैङ्कर्यम् अस्य नियमावधि वैर्युपायं
तत् स्वीक्रियाविषयबन्ध निराशके च ।
शीलं हरेर् अधिगताधिगमं शठारिस्
तुर्यप्रबन्धशतकैर् दशभिर् जगाद ॥ १४ ॥