श्रीकल्किर्नारसिंहार्यो भगवान् महाविष्णुर्विभवावतारः ॥11 eft: 11 श्रीपiकुशपरकालयतिवरेभ्यो नमः । श्रीमद्वरवरमुनये नमः । श्रीवादिभीर महागुरवे नमः ।
॥ सहस्रगाथारत्नावली ॥
( श्रीशठा रिमुनिविरचितस्य द्राविडदिव्यप्रबन्धस्य
तिरुवायमोलियायिरम्
इत्यस्य संस्कृतपद्यात्मक - परिवृत्तिरूपा । )
१
१
॥ सहस्रगाथारत्नावली ॥ प्रथमशतके – प्रथमदशकम् ( उयर्वर उयर्नलम् ), ( अस्मिन् दशके श्रीशठारिर्भगवतः कल्याणगुणान् परत्वादिमाहात्म्यं च प्रतिपादयति । ) १. उयर्वर उयर्नलम् —
…
२. मननकमलमर- मालिन्यं मनसः प्रहत्य सकलं नित्यप्रबुद्धोज्ज्वला- द्योगध्यानबलात् प्रमातुमपि यरशक्यो न चान्येन्द्रियैः । एवं यश्चिदचिद्विलक्षणतया भाति त्रिकालेष्वपि ज्ञानानन्दनिधिस्समाधिकदरिद्रोऽयं किलात्मा मम ॥
- इलनदुवुडयनिदु- भ तस्यायं प्रभुरस्ति नास्य तु किलेत्येवं न वक्तुं स्वयं शक्यो यः पृथिवीतले च गगने यद्रूप्यरूप्यस्ति च । तत्सर्वं च जडाजडं वहति यस्संयुक्त एवाखिलै- स्सत्यं भाति पृथक्च, विष्णुममितानन्दं तमेकं नुमः ॥ नामवनिवनुवन्- सर्व भाति स एव यद्वयमसावेषोऽप्ययं सा स्वयं चैत्रेयं किल काऽपि च स्वयममी तेऽपीति चेने तथा ! सहस्रगाथारत्नावली तवेदं यददश्च किञ्च सकलं यन्नश्वराण्यप्यहो ! तानीमानि तथाऽप्यमूनि सदसद्वस्तूनि भान्यागतम् ॥ ५. अवरवर तमतमदु- ते ते स्वस्वमतिस्वभावमनुसृत्यैवेष्टदेवानुगाः नाना साधनसंयुताः किल तथा देवाश्च तेऽपीश्वराः । तेषामीश्वर एव सर्वजगतामन्तर्नियन्ता स्वयं विष्णुर्भाति फलप्रदोऽत्र सततं कर्मानुसारेण च ॥ ६. नित्रनरिरुन्दनर तिष्ठन्तोऽप्युपवेशिनोऽपि शयिताः सञ्चारशीलाश्च ते नोत्तिष्ठन्ति च नोपवेशिन इमे सुप्ता न सञ्चारिणः । एवं नैकविधस्वभावसहितास्सर्वेश्वरो भात्यहो । नित्यं चैकविधस्वभाव इति यत्सत्यं प्रमाणैस्स्थिरैः ॥ ७. तिडविशुम्बेरिवलि- आकाशाग्न्यनिलोदकावनितलेष्वेतेषु विस्तारिणां वस्तूनां च दृढस्वरूपमखिलं प्राप्यापि चान्तस्थितः । आत्मा तेषु च वस्तुषु स्वयमयं गुप्तोऽभितस्सर्वग- सर्वाण्यति च देव एव हि परं ज्योतिश्श्रुतिश्लाघितः ॥ ८. शुरररिवरुनिलै- ब्रह्माद्यैरपि नैव वेद्यमिति यन्मूलं परं सर्वत- श्वाकाशादिपदार्थजातमखिलं चाश्नन् पराणां परः । दग्ध्वा चापि पुरत्रयं सुरगणानुद्बोधयन् यरिशवो ब्रह्मा वेति विभाति विश्वमयमेवाश्नन्निहोत्पादयन् ॥ ९. उलनेनिलुलन्- अस्तीत्येव वदेद्य दे स्वयमयं नास्तीति चेदप्यहो ! भाति श्रीपतिरस्य रूपमखिलं विश्वात्मकं रूपधृत् । PREAPT प्रथमशतकम् । यच्चारूपमिदं च तस्य हि हरेश्वारूपमंशात्मक सत्त्वासत्त्वयुतं स्वयं द्विविधमप्याविश्य भात्यव्ययः ॥ १०. परन्द तण परवैयुल्- सर्वत्रायतशीतवारिधिकणेष्वाविश्य चाणुत्वत- सर्व चापि महाण्डमण्डलमयं त्वाक्रम्य भूम्ना स्वयम् । एवं भूमितले च भाति नभसि व्याप्य स्थितस्सर्वतो भास्वद्वस्तुषु गुप्त एव हि हरिस्संहारकर्ताऽप्यसौ ॥ ११. करविशुम्पेरिवलि- सूक्ष्माकाशतलानल|निलजलावन्यात्मकास्तद्गुणा- इश्लाघ्याश्शब्दसुतापशक्तिधरताशैत्यानि चाधारता । एवं सर्वविधात्मकस्य परमस्यास्यैव पादाम्बुजे साहसे दशकं शठारिरचिते चैतत्स्वभक्तयाऽर्पितम् ॥
- (0) -
२
अथ प्रथम शतके द्वितीयदशकम् [वीडुमिन् मुत्तवुम् ] ( भगवति सर्वैः प्रपत्तिः कर्तव्येत्युच्यते । १. बीडुमिन मुत्तवुम् - अन्यत्सर्वं परित्यज्य श्री मोक्षप्रदे हरौ समर्पयत चात्मानं यूयं सर्वे मुमुक्षवः ॥ २. मिन्निन्निलैयिल – नित्यस्याप्यात्मनो देहास्तटितोऽप्यतिनश्वराः । अत एव स्वयं यूयं नित्यं स्मरत माधवम् ॥ ३. नीर् नुमदु— अहं ममेति सर्वं च प्रहृत्यैव समूलकम् । भजध्वं स्वामिनं विष्णुं । नात्मनः पूर्तिरीदृशी ॥ ४. इल्लवुमुललदुम्- सहस्रगाथारलावली । तस्य रूपं न सन्नासदप्रमेयसुखात्मकम् । तस्माद्विषयसम्बन्धं परित्यज्य भजाद्य तम् ॥ ५. अत्तदु पत्तेनिल् त्यक्ते विषयसम्बन्धे मुक्तिस्वात्मानुभूतये । मुक्तिं तां च परित्यज्य कैङ्कर्यार्थं भजाच्युतम् ॥ ६. पत्तिलनीशनुम् - नाथोऽपि सर्वलोकानां निस्सङ्गो भाति माधवः । एकरूपोऽस्ति सर्वत्र ! निस्सङ्गस्तं भजानिशम् ॥ ७. अडंगेलिल् सम्पत्तु- ऐश्वर्यं सर्वमालोक्य रम्यं तस्य विभूतिगम् । ईशस्येत्येव मत्वा त्वं तत्र चैकीभवानिशम् ॥ ८. उल्लमुरै शेयल- मनोवाक्कायरूपं च सार्थकं करणत्रयम् । मत्वा त्वं भघ निस्सङ्गस्सतस्सर्वेश्वरे भव || ९. ओडुंगववन् कण्— आश्रिते च त्वया तस्मिन्नश्यन्ति प्रतिबन्धकाः । शरीरत्यागकालन्तु प्रतीक्षस्व ततः परम् ॥ १०. एण् पेरुक्कन्नलत्तु- अमितानन्द–सद्वस्तु-कल्याणगुणवारिधेः । श्रीमन्नारायणस्यैव पादाब्जं दृढमाश्रय ॥ ११. शेडतेन कुरुकूर्- रम्ये तटाकभूयिष्ठे कुरुकानगरे प्रभोः । शठकोपस्य दिव्योतिसाहस्रे दशकं त्विदम् || " प्रथमेशतकम् । अथ प्रथमशतके
३
३. तृतीयदशकम् [पडैयडियव ] ( सर्वेश्वरं भगवन्तं नीचतमश्चेतनः कथं प्राप्नुयादिति स्वय माशङ्कय स्वभक्तानां विषये भगवतस्सौलभ्यकाष्ठां प्रतिपादयति ।) १. पत्तुढैयडियव - भक्तानां सुलभोऽस्ति दुर्लभतमस्त्वन्यात्मनामद्भुत- श्रीकान्तः परमः प्रभुश्च किल नः प्राप्यो न चान्यैरसौ । मन्थोद्यन्नवनीतचौर्यविधया चोलूखले बन्धभा- ग्वक्षः पार्श्वतले, भयाद्विलपतस्सौलभ्यकाष्ठाऽस्य का ? ॥ २. एलिवरुमियल्विनन् – नानाजन्मसु च स्वयं किल विशन्नैयत्यहीनोऽस्थिरः कल्याणाम्बुधिरप्यनादिनिधनः प्रत्यक्षतेजोनिधिः । मोक्षज्ञानफलप्रदश्च सततं साकल्यतश्वेश्वरो लोकानामुपकारकोऽस्ति दयया स्वीयोऽपि बाह्योऽस्स्यसौ ॥ ३. अमेवुडैयर नेरि— पूर्ण धर्ममवाप्तुमुत्तमगतिं प्राप्ताश्च सर्ग लयं कर्तुं च प्रभवोऽमरास्तदितरे ये चेतनाचेतनाः । सर्वेऽपि स एव भाति भगवान्नारायण श्रीधरः पूर्णस्सिद्ध इहास्य जन्मचरिते मायान्तु को बेति वा ? ॥ ४. यारुमोर् निकैमैयन् — नाथोऽयं मम नामरूपशतसाहस्रावली भृत्स्वयं भात्येकस्सुविलक्षणस्त्विति विदुर्नैवं बुधा नास्तिकाः । जानन्त्येव किला स्तिकास्तु तमिमं विद्याविहीना अहो ! रूपं नाम च नास्य माति किल भातीत्येव वादो महान् ॥ २१० ५. पिणक्करवरुवकै- सहस्रगाथारत्नावली | एवं षट्समयैश्व वादसरणिर्नश्येदिति श्रीघरो वेदान्तार्थ सुधारसं हि भगवान् कल्याणशीलोऽब्रवीत् । आदिश्वान्तविवर्जितः किल हरिस्तद्भक्तिमार्गं शुभं - प्राप्यानन्यपरायणाश्च भवत प्रध्वस्तकर्माशयाः ॥ ६६. उण ण - ज्ञातृत्वात्सततं च चिन्तनपरास्सर्वासु दिक्षु स्वयं ज्ञानस्य प्रसरं विरच्य च जड़ाद्व्यावृत्तिमेतां निबार । निश्चित्य श्रवणात्पुनश्च मननाद्योगाच्च मध्यस्थिति विष्णोर्विस्य नास्त्रिमूर्तिषु हृदा वाचा भजध्वं परम् ॥ ७. ओनेनप्पलवेन- एकाने तयाऽपि संशयकरान् नारायणं तं चतु- वक्त्रं रुद्रमिमान् विचिन्त्य बहुधा यूयं हृदि श्रीधरम् । तं प्राप्तुं सहसाऽप्यनन्यहृदया नारायणं स्वामिनं यावच्चायुरिदं न नश्यति तदा भक्तिं कुरुध्वं पराम् ॥ ८. मालु निवडु नमपलमै चेतोदोषहरा वयं यदि हरेश्श्रीशस्य पादद्वयं प्राप्तास्सन्तततापकारिदुरितावल्यास्तु नाशो भवेत् । इष्टार्थेषु न रिक्तता किल भवेत् 1 कायस्य विश्लेषतो निर्याणेऽन्तिमकालतोऽपि भजनं विष्णोर्भवेत्सार्थकम् ॥ ९. वलत्तनन् तिरिपुरमेरित्तवन्- ब्रह्मा चापि चतुर्मुखस्स्वजगता नाभीपुढे वर्तते रुद्रश्च त्रिपुरान्तकः किल हरेः पार्श्व श्रितो दक्षिणम् । प्रत्यक्षोऽपि भवेन्निजे तु जगति स्वस्यावतारादसौ ! यद्युच्येत हरेः प्रभावजलधिर्भूयानगाधोऽद्भुतः ॥ ! प्रथमशतकम् । १०. तुयकरुमतियिल नजानतल
- दिव्यज्ञानयुतान् सुरानपि च यस्सम्मोहयत्यञ्जसा मायाभिर्दिवि चासिताम्बुदनिभस्त्रैलोक्यमानप्रभुः । तस्यैवाङ्घ्रिसरोजयुग्ममनिशं भक्तया स्मरन्ः कीर्तयन् संश्लिष्यापि नमेयमित्यहह! में वाञ्छा स्वयं वर्धते ॥ ११. अमरर कलू तोलुदेल देवानामपि सेव्यमच्युतमिमं पाथोधिमन्थप्रभुं स्तोतुं श्रीहरिमेव दिव्यकुरुकापुर्यां शठारिर्मुनिः । कैङ्कर्यं किल वाचिक व्यतनुत श्रीसूक्तिसाहस्रत- स्तत्रेदं दशकं तनोति पठतां मुक्तिं च सूरींन्द्रता -10° प्रथमशतके.
४
४. चतुर्थदशकम् ( अरिय मडनाराय - ) ( अत्र श्रीशठार्भिगवतो नायिका स्वयमिति मत्वा तदीयं क्षमागुणं परिशील्य पक्षिगणद्वारा स्वसन्देशान्
- अञ्जिरैय मडनाराय्- प्रेषयति । ) नित्यं चोपकृतिप्रसक्तहृदया त्वं हे ! बलांकाइये! मत्ता नायकसङ्गमात्किल कृपां वं हन्त । कृत्वा मयि ॥ ब्रूतीभूय सनायकाऽद्य गरुडारूढं प्रभुं याहि मे बन्धे तत्र धृताऽसि चेन्न हि भयं, साह्यन्तु मे त्वं कुरु ॥ २. एनुशेय्य तामरैक्कण पेरुमानाकु यूयं वाग्मिन एवं कोकिलगणा दूता भवन्तो ममः श्रीकान्तं प्रभुमम्बुजाक्षमुचितामुक्तिं वदेतैव चेत् । (१) बलाका नारे | १४ १२ सहस्रगाथारत्नावली | हानिः का मम पापतो यदि पुरा तत्पादसेवामहं न प्राणं किमिहाधुनाऽपि च तथा विश्लेषवान् दुर्विधैः ॥ ३. विदियिनाल पेडैमणनकुम् क्रान्तासङ्गमभाग्यवैभवयुता हंसाः स्वयं मन्दगा यूयं वामनमेव वञ्चकममुं दृष्ट्वा मदीयां दशाम् । ब्रूत - स्त्री किल का चिदद्य दुरितं किं मे महदुस्सहं हा ! हा ! हन्त ! न नश्यतीति नितरां चित्तेऽस्ति सम्मोहिता ॥ ४. एनी मैं कण्डरङ्गि विश्लेषासहतां विलोक्य च मम स्वैरं कृपावानसौ नासीस्कि मयि नीलमेघसुतनुश्वत्येव वाचं मम । यूयं के चन पक्षिणोऽद्य मम सद्भावोऽपि तस्मिन् विभौ कान्ते नैव हि तिष्ठतीति वचनं ब्रूथैव वा! नैव वा ॥ ५. नल्किन्तान् कान्तलिक्कुम्— रक्षित्वा स्वयमेव सप्त भुवनान्यास्ते जगन्नायकः किं मह्यं वत नैव भाति कृपया नारायणः पापतः । दृष्ट्वा तं बद सुन्दराकृतिधरे! क्षेत्रेषु सञ्चारिणि प्रीत्या त्वं कुरुकाख्यपक्षिणि बचः किञ्चित्सबाप्पान्तु माम् !! ६. अरुलात नीररुलि— रम्यस्वोचितपत्रझंकृतियुतस्त्वं भृङ्ग ! दृष्ट्वा हरि नाभं भक्तकृपालुचक्रधरमेवेदं वचो मे वद । निष्कारुण्यगुणोऽसि जातु कृपया तस्यास्तु जीवावधौ तद्वीध्यां गरुडं च ते गमय भो! देवेति, किं मेऽस्त्यघम् ॥ ७. एन् पिलै कोप्पदुपोल- मत्संवर्धित! हे शुक ! त्वमधुना श्रीकान्तमेवं वद शो मेऽस्ति हि दुस्सहोऽयमधुना ! बाप्पार्द्रवस्त्राऽस्म्यहम् | (१) केचन पक्षिणः – मकत्रिल्कल् । प्रथमशतकम् । भागांस्येव मम स्मरेत्किमु हरिः कारुण्यसिन्धुर्न किं किं तादृङ्मम वर्धतेऽद्य दुरितं पात्रं दयाया न किम्! ॥ ८. नीपलैये शिरुपूवाय् - दूतीभूय मम त्वमद्य पतंग ! प्राप्तो न तं मूढधी- र्विष्णुं मे प्रभुमिन्दिरेशमनघं नावेदयो मे दशाम् । अत्यन्तार्तिकरीमिमां किल! ततो वर्णोऽद्य देहे मम क्षीणोऽस्त्यन्तिमकाल एवमितरांस्त्वं पोषकान्मार्गय || ९. नाबाद मलर् नाडि मध्ये सञ्चरसि त्वमद्य सहसा गत्वाऽद्य भो मारुते ! श्रीशंतं वद किञ्चिदेव वचनं नारायणं मे प्रभुम् । तत्पादाब्जयुगे प्रसून रचने भाग्यं न मे पाप्मतो ! विश्लेषेऽत्र विषण्णताऽस्ति हि ततस्त्वं मे वपुर्नाशय ॥ १०. उबलालि पिरप्पु वीडुयिर्- भो भो ! मानस! मे गभीर! बहुधा संसारचक्रस्य वै मोक्षस्यात्मगणस्य भोग्यकरणावल्याश्च निर्वाहकम् । तं क्षीरार्णवशायिनं यदि हरिं पश्येस्स्वयं चक्रिणं त्वं ब्रह्मद्य दशां मम प्रियसमागत्यै च मां मा त्यज ॥ ११. अलवियत्र वेलुलकत्तवर्- उत्तुङ्गामितसप्तलोकसरणेर्नाथं च कृष्णं हरिं दिव्यज्ञानबलाद्भजन् हि कुरुका पुर्याश्शठारिः प्रभुः । साहस्रं व्यतनोच्च वृत्तरचनैरन्तादिपद्यावलीं तत्रेदं दशकं तु भक्तपठितं दिव्यं पदं प्रापयेत् ॥ (१) पूवै - - पक्षिविशेष । १३ १४ सहस्रगाथारलविली | प्रथमशतके
५
५. पञ्चमदशकम् (वलवेलुलकिम्मुदलाय - ) (ईश्वरस्स्वसौशील्यात् - शठारिविश्लेषमसहमानस्तं स्वसन्निधिं प्रापयतिस्मेति वदति 1) १. वलवे कुल किन्मुदलाय- मूलं सप्तजगत्ततेश्च मनसा सूरीन्द्रनाथं स्मरन् देहेऽहं शिथिलेन्द्रियश्च वचसा पापी वदाम्येव हि । धूर्त त्वं नवनीतचोर इति च स्मेराननां तां प्रियां नीलां प्राप्तुमहो वृषानपि विभो सप्तावधी श्वेत्यपि ॥ २. निनैन्दु नैन्दु करैन्दुरुकि- देवास्ते मुनयोऽपि हन्त बहवस्सर्वे स्वयं चेतसा स्मृत्वा त्वद्गुणसन्ततिं शिथिलितस्वाङ्गा द्रवीभूय च । मालातीर्थसुगन्धधूपसहितास्त्वां चेन्नमन्त्यच्युतं; मायिन्! सर्वपदार्थमूल! मलिनं किं स्यान्न ते वैभवम् ॥ ३. मायोनिकला नडैकत्त- देवादींश्च मुनीन् बहूनपि सृजः त्वं सर्वजन्तूनपी त्येवं तं चतुराननं प्रथमतस्सृष्ट्वाऽप्यगम्यो मतेः । लोकानप्यखिलान् स्वपादतलतस्सृष्ट्वा स्वयं मातृव- द्वारसल्याम्बुधिरेव सर्वजगतामत्यद्भुतस्वाकृतिः ॥ ४. तानोरुरुवे तनिवित्ताय् — मूलं सर्वजगत्ततेरपि हरिर्यस्त्वेकमूर्तिः प्रभु- स्सङ्कल्पाद्बहुधा भवन् विजयते देवाश्च मूर्तित्रयम् । एवं ते मुनयोऽपि मानवगणास्तिर्यङ्मुखास्स्थावरा- सर्व च स्वयमेव चाब्धिशयनो वैकुण्ठराण्मे प्रभुः ॥ ५. मानेयूनोक्कि मडवाले- प्रथमशतकम् । लक्ष्मीं तो मृगलोचनां शुभगुणां धृत्वा स्वयं वक्षसिं श्रीमन् ! चापमिव स्वयं किल हरे ! कुब्जामृजूकृत्य ताम् । गोविन्दो मधुसूदनो मणिनिभस्त्वं ज्योतिषां भास्वर- स्त्वत्पादाब्जयुगं कथं बत! सुधास्यन्दि त्वधी प्राप्नुयाम्! ॥ ६. विनैयेनू विनै तीर्मरुन्दानाय्य – पापिष्ठस्य च पापशान्तिविधये दिव्यौषधात्माऽसि भो ! देवानामपि सर्वतः परिवृढस्त्वं केशवोऽसि प्रभो ! | गोपानां कुलमूलनायक ! विभो ! मायामयो माधव ! त्वं वै सप्ततरुच्छिदेव बहुधा त्वामाश्रये श्रीधर ! | ७. अडियंन् शिरिय जानत्तन्- अल्पज्ञोऽस्मि हि दास एष महतां तं ज्ञानिनां दुर्लभं श्रीकृष्णं तुलसीस्रगश्चितमपि श्रीशं भवार्तिच्छिदम् । द्रष्टुं हा! बत! कामयेऽद्य मनसा मूढोऽस्मि पापी स्वयं ! किं वेतः परमस्ति मौढ्यमधिकं दृष्टं श्रुतं वा कश्चित् ॥ ८. उण्ढायुलकेल् मुन्नमे – मायाचेष्टित! पूर्वमेव हि भवान् भुङ्क्ते स्म लोकानिमान् सप्तापि स्वयमुद्गिरन्नपि पुनर्जातो मनुष्यात्मना । एवं किं नवनीतभुक्पुनरभू: ? पूर्वोक्तमृद्भक्षणा च्छेषं किं द्रवयेस्सितत्वहतये दिव्यौषधं किं घृतम् ? | ९. मायोम् तीय वलवलै- मायां तामपि पूतनां विषमयी हन्तुं स्वयं निर्मलो बालोऽसौ विषमिश्रमप्यमृतवत्स्तन्यं महात्माऽपिबत् । देवानामपि देवमेव कमलाकान्तञ्च सर्वात्मनां वात्सल्याम्बुनिधि प्रभुं मम विभुं संश्रित्य जीवाम तम् ॥ १५ १६ १०. शा विरुवल्विनैकलुम् सहस्रगाधारत्नावली । पूर्णज्योतिर्मयोऽसौ हरिरिह परितश्चोपरिष्टादधश्च व्याप्यास्ते चाप्रमेयस्सकलचिंदचितामन्तरात्मा परात्मा । मन्नाथो द्वन्द्वकर्मप्रतिहृतिमुखतो मेऽत्र सगँ प्रहत्य स्वस्मिंश्वित्तं मदीयं भुवि दिवि च सदा स्थापयम्मां वृणोति ॥ २१. माले मायप्पेरुमाने- सर्वोत्कृष्टोऽसि मायिन् ! परमपुरुष ! हे माधवेत्येव मुग्ध- स्तस्येशस्य प्रसादादवहितहृदयर श्रीशठारिर्महात्मा । साहस्रं चाह शस्यं द्रविडबुधवरैर्गानलोलैश्च भक्तै- स्तत्रेदं रत्नरूपं दशकमपि विदन् वीतदुःखस्सुखी स्यात् ॥ प्रथमशतके
६
६. षष्टदशकम् (परिवदिलीशनैप्पाडि -) (ईश्वरस्य कल्याणगुणानीशानजानानाश्चेतना नरकं प्राप्नु- बन्तीति करुणया श्रीशठारि:- ‘नायं दुराराधस्सर्वेषा मुज्जीवनाय सुलभ : ’ इति चेतनान् बोधयति ॥ १. परिवदिलीशनैप्पारि- सङ्गाय पूर्णविभवं निरवद्यमीशं ज्ञानादिपूर्तिमपि चेत्परिलब्धुकामाः । यूयं त्वनन्यशरणा भवताद्य बाथं धूपं च पुष्पमपि तत्र समर्प्य तीर्थेः ॥ २. मधुवार्तष्णन्तुलायान्- सुस्वादुगन्धतुलसीघरमप्रमेयं वेदैश्व वेद्यमनघं पुरुषं पुराणम् । आरा यामि कथमित्यपि माऽस्तु चिन्ता ! सर्व करोम्यहमितीह हि दास्यकृत्यम् ॥ प्रथमशतकम् । १७ ३. ईडुमेडुप्पु मिलीशन्- त्यागे परिग्रहविधौ च नृणां समानं नैव त्यजेन्मम मनः किल तं प्रभुं मे । गानं न हि त्यजति मे रसना च तस्य प्रेम्णा ममाद्य किल नृत्यति देहयष्टिः ॥ ४. अप्णङ्गेनवाडुमेवङ्गम्– आविष्टबत्किल वर्ममं नृत्यतीदं सम्यक्प्रणम्य मम नाथमयं हि देवैः । स्तव्योऽस्ति सूरितिलकैरपि सम्भ्रमेण श्रीशस्य सद्गुणगणावलिरीदृशी हि ॥ ५. कोल्कै कोठामैयिलादान्- स्वीकारधिक्कृत्तिविहीनमरागवैरं सुस्वादु चेदममृतं किल नित्यभोग्यम् । वस्तु प्रयोजनपरानपि चाप्यनन्यान् सम्यग्विविच्य सुलभं परभक्तिभाजाम् || ६. अमुदममर कलकीन्द - अमुदममरकलकीन्द- यश्चामृतं तु वितरन्नमरान् प्रतुष्टान् कुर्वन्महोज्ज्वलसुदर्शनभृत्परात्मा । कल्लोलवैभवविशालसुधाब्धिशायी तत्रामृताच्च मधुरान्नितरां हि भोग्यः ॥ ७. नील् कडल्शूल्- विस्तीर्णवारिधिवृतां नगरीं च लङ्कां शास्तुर्भुजानपि शिरांसि च यश्चकर्त । ३ AU . सहस्रगाथास्लावली । तत्पादपद्मयुगलं शिरसा प्रणम्य प्रेम्णा स्वयं तरतं कालमद्दास्बुराशिम् ॥ ८. कलिमिन् तोण्डीर्लू- भक्ता अनन्यशरणा भवताद्य यूयं त्यक्त्वाऽन्यसक्तिममुमेव हरिं भजध्वम् । तस्मादनादिदुरितावलिविघ्नमालां • हत्वा स एव तनुते परमां गतिं वः ॥ ९. तरुमवरुम् पयनाय - यश्चाद्वितीयविभवः प्रभुरप्रमेयो विष्णुश्श्रियः पतिरुदारफलप्रदोऽस्ति । सत्यं समस्तदुरितानि च युग्मरूपा- प्रयुच्छेदयेत्स्वयमयं प्रतिबन्धकानि ॥ १०. कडिवार तीयविनैकलू- एवं महादुरितवारिधिशोषणं य- श्रीमान् करोति च स एव हरिः परात्मा । नित्यं चकास्ति हि महोज्ज्वलतार्क्ष्यकेतु- इश्रीदिव्यमङ्गलशुभाश्रयदिव्यमूर्तिः ॥ ११. मादवन् पाल शडकोपन् - श्रीमाधवस्तुतिपरं किल दोषहीनं साहस्रमाह शुभमेव शठारिसूरिः । तत्रापि दिव्यदशकं तदिदं तु भक्तया ये ये पठन्ति ननु ते भवबन्धमुक्ताः ॥ :0: प्रथमशतकम् । प्रथमशतके
७
७. सप्तमदशकम् (पिरवित्तयरर - ) ( स्वाराध्यस्य भगवत आराधनं सुखरूपमिति प्रतिपादयति । ) १. पिरवित्तयरर – आत्मावलोकनपरा भवबन्धमुक्तयै तेजः प्रभावभरिता अपि धार्मिकाप्रयम् । श्रीचक्रपाणिमनघं परमं पवित्र प्राप्यं च हन्त । ननु साधनमामनन्ति २. वैप्पाम् मरुन्दामडियरे- भक्तान्न पापसरणिष्वपि चेन्द्रियाणां प्रच्यावयेदयमिहाच्युत इन्दिरेशः । दिव्यौषधं च निधिरस्ति समस्तलोका- नानन्दयन् प्रभुरहो मम गोपबालः || ३. आयर कोलुन्दाय् - गोपालबालमपि गोपवशं निबद्धं माणिक्यभासमिह मायिसुधारसं मे । आपीयं सन्ततमहं हतवान् प्रमोहं मायाभवं प्रकृतिजं मम दुस्सहं तम् ॥ ४. मयर्वरवेन्मनत्ते– मोहं प्रणाश्य मम यो हृदि नित्यवास ज्ञानादिवृद्धिकृदसौ महसां च राशिः । देवाधिदेवमपि मेऽनुमतिं दधानं चेतोहरं मम कथं बत ! सन्त्यजेयम् १९२० ५. विडयेनो एन् विलक्कै- सहस्रगाथारत्नावली | ज्ञानप्रदीपमिह मे हृदि सम्प्रविश्य सञ्जीवयन्तमपि मे प्रभुमद्भूतैस्तैः । वृत्चैश्च हन्त ! तरुणीरपि गोपिकास्ताः जित्वा विटायितममुं तु कथं त्यजेयम् ॥ ६. पिरान पेरुनिलङ्कीण्डवन्- स्वामी रोद्धरणकृतुलसीवृतश्री- मौलिप्रभूषितशिरा मम नायकोऽसौ । मायामयो यदि भवेद्वत ! गन्तुकाम- स्सायच्छदं कथमहं तमिहानुमन्ये ! ॥ •. यानो टूटि येन्नुरुत्वमेनिलन्— नाहं स्वयं तमिह मय्यनुमत्य कुर्वे ! सोऽयं स्वयं मम मनोऽपि च वञ्चयित्वा ॥ देहे प्रविश्य मम चात्मनि सङ्गतस्सन् किं मां च दूरमनुमन्यत एव गन्तुम् ॥ ८. एम्नं नेकिल्किलम्- मां दूरतस्स्वयमसौ यदि सन्त्यजेन्मे चित्तं तथाऽपि न वियोजयितुं क्षमस्स्यात् । नीलां सुदीर्घशुभवृत्तभुजां प्रहृष्ट- स्संश्चिप्य भाति यदसौ दिवि सूरिनाथः ॥ ९. अमरर मुलमुक्लाकिय- सूरीन्द्रनाथमपि चादिविभुं सुराणां दिव्यामृतप्रदममुं किल गोपबालम् । आत्मा मम स्वयमुपेत्य च सम्प्रविश्य स्वैरं विहृत्य मिलितोऽस्ति ! कथं त्यजेत्तम् ! | प्रथमशतकम् । १०. अकलिलकलुम् अणुकिलणुकुम् विश्लेषिणं किल वियोजयति स्वयं य- स्संश्लेषिसङ्गतिरतो ऽसुलभोऽस्ति वीरः । मन्नायकोऽप्रतिभटस्स्वगुणैरनन्तै- स्सङ्कीर्त्य तं ननु दिवानिशमस्म्यतृप्तः || १४. कुडैन्दु वण्डुण्णुम् तुलायमुडियानै- भृङ्गावृतार्द्रतुलसीधरमौलिटी स्तुत्वा शठारिमुनिराह शुभं सहस्रम् । तत्रेदमस्ति दशकं शुभमार्तिमालां सर्वां च हन्ति जगतां सहसैव दिव्यम् ॥ प्रथमशतके
८
- ८. अष्टमदशकम् (ओडुम् पुकलेरि)
- ( भार्जवगुणोपेतो भगवानाश्रितसंश्लेषं स्वयमेव करोतीति निरूपयति । )
- १. ओडुम् पुल्लेरि-
- आरु गरुडं भाति दिव्यां च तुलसीं वहन् । नित्यसूरिवरैर्नित्यं सेव्योऽस्ति दिवि माधवः ॥
- २. अम्मानायू -
- ३. कण्णावान्
- सर्वेश्वरोऽप्यसौ केशिहन्ता कृष्णोऽब्जलोचनः आश्रितार्थं स्वयं जातस्सर्वमाहात्म्यशोभितः ॥
- देवानामपि मर्त्यानां चक्षुर्यो वेङ्कटाचले ।
- सूरीणामपि सेव्योऽसौ भाति रम्ये सुशीतले ||
- ४. वेप्पैयोनेडु तु-
- धृत्वा महाद्विमप्येष निरायासोऽस्ति वीर्यवान् । आपद्वन्धुर्मम स्वामी ! स्मराम्यस्य यशस्सदा ॥
- २१
- २२
- ५. वैकलुम वेष्णेय्-
- सहस्रगाथारलावली
- नवनीतं सदा भुङ्क्ते स्वयं बाहू प्रसार्य यः । स मे वपुषि संसक्तो भाति सत्योऽनृतं त्यजन् ॥
- 4. कलन्देनावि-
- संलिप्य मम चात्मानं कृत्वा स्वीयं मम प्रभुः । सर्वेन्द्रियहरो भाति वामनो धरणीं भजन् ॥
- ७. कोण्डानेविडै-
- सप्तर्षभप्रहतीऽसौ सप्तलोकीं च भक्षयन् । परमे धानि च स्थित्वा मम चित्तानुगः प्रभु
- ८. आमानानायन्
- गोपवेषधरोऽप्येष स्वयं मत्स्यवराहवत् । अवतीर्णोऽभवन्मह्यमवतारा असङ्ख्यकाः ॥
- ९. शक्करम् -
- शङ्खचक्रधरो भाति रम्ये मुजयुगे स्वयम् । मम प्रभुरसौ दीप्रस्सर्वतोऽप्यवतारतः ॥
- १०. नादन मारुडो-
- ईश्वरस्सर्वलोकांश्च पादेनाक्रम्य रक्षिता । सुशीलो भाति मन्नाथो वेदसागरकीर्तितः ॥
- ११. मीर पुरे वण्ण-
- रक्षितुर्निम्नगान् विष्णोरार्जवं कीर्तयन्मुनिः । शठारिराह साहस्रं ! तत्रेदं दशकं शुभम् ॥
- प्रथमशतकम् ।
- प्रथमशतके
९
९. नवमदशकम् ( इवैयुमर्वैयुमुवैयुम् ) ( अत्र शठारिस्स्वविषये भगवता कृतं सर्वावयवसंश्लेषं वर्णयति ॥ १. इवैयुम वैयुमुवैयुम - सर्वाचेतनसन्ततिं निकटतोऽदूरेऽपि दूरे स्थिता- मेवं चेतनसन्ततिं च सकलां स्वस्मिन् विधायापि यः । सृष्ट्वा चापि पुनस्स रक्षण परस्सर्वान्तरात्मा स्वयं स्वामी कृष्णविभुर्ममामृतरसरश्रीशोऽस्ति चाग्रे मम ॥ २. शूललू पलपल क्लान्- कुर्वंस्तामवतारसन्ततिमपि स्वेच्छाबलात्प्राक्तने काले दिव्यवराहमूर्तिरवनीमुद्धृत्य यः केशवः । मन्नाथः किल हैंस्तिगृङ्गभिदसौ देवैरवेद्यस्स्वयं गंम्भीरामृतवारिधौ महति यश्शेते स पार्श्वेऽस्ति मे ॥ ३. अरुकलिलाय पेरुम्शीर p नित्यानन्तसु निर्मलात्मविभवस्सूरीन्द्रनाथस्स्वयं चादिर्नीलमणिप्रभस्सुरुचिराम्भोजाक्षियुग्मो हरिः । दीव्यत्पक्ष गरुत्मदाश्रय इह श्रीदेव्युपेतस्स्वयं संश्लिष्याद्य मया सहाद्भुतरसं दत्वा न मान्तु त्यजेत् ॥ ४. उडनमर् कादल मकलिर्- संश्लेषैकरसाश्च यस्य कमला भूमिश्च नीला स्वयं ! यस्यासीदुदरे जगत्त्यमपि ! स्वामी शयानोऽम्बुधौ मायी यो वटवृक्षपत्रशयितः कृष्णः प्रभुश्श्रीधर- स्सोऽयं भाति हि पार्श्वतो मम तनौ नित्यं यशोदासुतः || ५. ओक्कलै वैत्तु मुलैप्पाल्- रुद्रश्चापि चतुर्मुखश्शतमुखस्सर्वेऽपि चोत्पादिता येनेरोन स एव मायिहृदयां तां स्तन्यदां चावधीत् । २३ २४ सहस्रपाथारत्नावली | तद्दुर्भावहरो हरिर्विषमयं स्तन्यं निपीय स्वयं स्वामी चाद्भुतवैभवस्त्र भगवानास्ते हृदब्जे मम ॥ ६. मायनेन्ने अनुललानू - मायी मे हृदयस्थितः किमितरैरेवंविधस्स्यादसौ ! देहे चात्मनि मे शरीर्यनिलवयात्माऽपि दूरेऽसताम् । भक्तानां सुलभश्च दृप्तमनसां चिन्ताद्यतीतस्स्वयं शुद्धस्संशयमोहकृच्च जगतां बाहूपरिष्ठो मम ॥ ७. तोलिणै मेलुम् नन्मार्पिन्मेलुम्- बाहूनासुपरि प्रियोरसि शुभे मौलिस्थले चोज्ज्वले पादाम्भोजयुगे च रम्यतुलसीमालाञ्चितश्श्रीधरः । स्वामी निस्समवैभवस्स्व महसा दीप्रस्वमूर्तिस्सदा संश्लिष्यापि मया सहानवरतं जिह्वां प्रविष्टो मम ॥ ८. नाविमुले निद्रुमलरुम् विद्यास्वप्यखिलासु चात्मतनुरूपोऽयं स्वयं वज्जनि- ध्वंसादेरपि कारणं च कुसुमावल्या चतुर्बाहुभृत् । वैरिध्वंसकचक्रशङ्खमृदसौ नीलोत्पलश्यामलः पद्माक्षोऽद्य चकास्ति चोज्ज्वलतमो मन्नेत्रयुग्मे हरिः ॥ ९. कमलक्कण्णनेनू कण्णिनुलानू- पद्माक्षो मम नेत्रगोचरतया भाति स्वयं ! यश्च मां कृत्वा दिव्यकटाक्षपात्रमपि में पचेन्द्रियाणां प्रभुः । आविर्भाव्य सरोजसम्भवमजं फालाक्षयुक्तं विधिं देवानप्यमलांश्च लोकसरणि सृष्ट्वा ललाटेऽस्ति मे | १०. नेत्तियुक् निनेन्नैयालुम्- भक्तानां शिरसि प्रयुक्तचरणं मौलौ तुलस्याऽञ्चितं कृष्णं देवमिमं भजन्ति हि सुरास्सर्वेऽपि भक्तया स्वयम् । प्रथमशतकम् । रुद्रश्चन्द्रकलाधरोऽपि च चतुर्वक्त्रोऽपि चेन्द्रादयः ! प्रत्यक्षो मम मस्तकेंऽद्य नितरां भाति स्वयं तादृशः ॥ ११. उच्चियुलले निर्कुम् देवदेवकु - एवं मस्तकसुप्रतिष्ठितमिमं देवाधिदेवं हरि कृष्णं प्रेमभरेण शंसितुमयं भक्तश्शठारिर्मुनिः । साहस्रं कुरुकेश्वरस्समतनोद्भक्ता निवेद्य स्वयं तत्रेदं दशकं वहन्ति शिरसा तत्पादयुग्मं सदा || -O’ ૨૫ अथ प्रथमशतके
१०
१०. दशमदशकम् (पोरुमानीलपडै) ( तादृशसंश्लेषहेतुं विचार्य स्वस्याऽकिञ्चनत्वादीश्वरस्य निर्हेतुकमुपकर्तृत्वं प्रतिपादयति । ) १. पोरुमानी पडै- दिव्यायुधात्मक सुचक सुशङ्खधारी श्रीमत्पदाम्बुजयुगं जगतां सुसेव्यम् । कर्तुं निजं किल विलक्षणवामनात्मा संवृद्ध नीलमणिरस्ति ममाक्षियुग्मे ॥ २. कण्णुले निर्कुम कादम्मैया- यः पञ्चभूतजगदात्मक एव नाथ- स्तं प्राप्य भक्तिभरिता यदि सोऽस्ति दृश्यः । सञ्चिन्तयन्ति यदि तं स तदाऽपि वश्य- स्स्याद्भक्तियुक्तमनसां ! किमितोऽस्ति कृत्यम् ? ૨૬ ३. एम्बिराने- सहस्रगाथारावली 1 हे ! भव्य ! मानस ! भजाद्य मम प्रभुं तं नाथं च मत्पितृपितामहतत्पितॄणाम् । पद्माक्षमेव मयि दिव्यकटाक्षयुक्तं लक्ष्मीञ्च वक्षसि दुधानमुदात्तरूपाम् ॥ ४. अमे चल्लै बल्लै- सन्मानस ! त्वमिह भासि सुसाधु ! साधु ! त्वां प्राप्य किं न तु भजाम ? किमस्त्यसाध्यम् ! | लक्ष्मीपतिं सततयौवनशालिनं तं देवं भज त्वमनिशं मम यावदायुः || ५. कण्डाये ने— हे मानस ! त्वमिह पश्यसि सिद्धिमेतां - मत्कर्मणान्तु परितोऽपि विनैव चिन्ताम् । भुक्त्वा च सप्तभुवनानि पदत्रयेण त्रातारमेव जयतां त्वमपश्य एवम् ॥ ६. नीयुम् नानुम् - हे ! चित्त ! मातृवदसौ पितृवच्च नाथो लोकेऽपि नीलमणिवर्ण इहाबतीर्णः । स्वामी ममास्ति हि ! विलोक्य दशां किलैता- मद्यावयोर्न किल दुःखलवं च कुर्यात् ॥ एन्दैये येत्रम्- यं सूरिवर्यनिवहाः परमं भजन्ते स्वस्वामिनं स्वपितरं दिवि चिन्तयन्तः । तं मानसे मम कथं बत ! पापशील- स्स्वस्वामिनं स्वपितरं च वृधाsत्र मन्ये! ॥ ८. शेल्बनारणनेमू शोर्केहलुम्- प्रथमशतकम् । बाष्पावलिर्मम किल प्रवहत्यहो ! श्री. - नारायणेति वचनं तु निशम्य नेत्रात् । चित्रं ! कथं न्विदमसौ मयि सादरोऽस्ति श्रीमान् दिवानिशमतो न निअं त्यजेन्माम् ॥ ९. नम्बियै तेन कुरुङ्गडिनिन्- श्रीमत्कुरङ्गनगर स्थितमच्युतं तं सम्पूर्ण वैभवमुदारसुवर्णमूर्तिम् । सूरीन्द्रनाथमपि चादि परं च तेजः किं वा वदन्मम विभुं बत विस्मरेयम् ॥ १०. मरप्पुम् आनमुम्- विस्मर्तुमप्यहह वेत्तुमहं न शक्तों यद्विस्मरेदयमिति स्वयमेव मत्वा | श्री पुण्डरीकनयनो मम भाति चित्ते ! रत्नं कथं मणिनिभं मम विस्मरेयम् ? || ११. मणियै वानवर कण्णनै- माणिक्यवर्णमपि सूरिवरेन्द्रनाथं कृष्णं तमप्रतिमसुन्दरमूर्तिमीशम् । स्तोतुं शठारिरतनोत्सुरसं सहस्रं ! तत्रेदमेव दशकं पठतां हि सिद्धिः ॥ इति श्रीपरमात्मना श्रीमत्कल्किसिंह महाकवीन्द्रेण विरचितायां सहस्रगाथारत्नावल्यां || प्रथमशतकं सम्पूर्णम् ॥ (*)- २७. ૮
२
१
सहस्रगाथारत्नावली । अथ द्वितीयशतके प्रथमदशकम् ( वायुन्तिरैयुकलुम् ) ( अत्र शठारिर्भगवतो बाह्यसंश्लेषमभिलषन् तदलाभाद- त्यन्तमार्तस्सन् स्वयं नायिकावस्थां प्राप्य- १. वायुन्तिरैयुकम् - स्थावरतिर्यगादिभिस्सह प्रलपति | उद्यत्तरङ्गजलधौ बैंक ! सम्प्लवान ! क्लिष्टोऽसि किं ? किंमहहामरनिद्रयाऽपि । निर्निद्र एव हि भवान् ! किमु पीडितोऽसि ? किं पाण्डरोऽस्यहमिवाद्य हरेर्वियोगात् ? || २. कोलपट्ट शिन्दैयैयाय् — हे ! सुन्दरद्विजे महार्तरवोऽसि दीनो यामेषु सन्ततमहो ! विलपन् किल त्वम् । अस्मादृशोऽस्ति विरहार्तिवशो भवान् किं श्रीशेषशायिपदसत्तुलसीस्पृहार्द्रः ॥ ३. कामुत्तकैयरवोडु – भोगैर्विहीन इव हन्तं ! दिवानिशं त्वं निर्निद्र एव विलपस्यहार्द्रचित्तः लङ्काप्रदाहिपदसक्तिदशां मदीयां किं प्राप्तवानसि समुद्र ! तवास्तु भद्रम् ॥ (१) नारायू – पक्षिविशेषः । (२) अनिल - पक्षिविशेषः । २९ ४. कडलुम् मलैयुम् — द्वितीयशतकम् । शीताङ्ग वात जलधावचलेऽन्तरिक्षे सर्वत्र तं किल विचित्यतु मादृशोऽसि । निर्निद्र एव च दिवानिशमच्युतं तं द्रष्टुं हि चक्रिणमहो सततं स्पृहार्तः ॥ ५. जलिदोरुलि - हे वारिद ! त्वर्मेपि भासि महाश्रुपात- रस्मादृशः किल सदाऽपि च वर्षवाहिन् । किं वा विचिन्त्य मधुसूदन पौरुषं तत् खिन्नोऽसि तत्परवशो बत तेऽस्तु भद्रम् ॥ ६. नैवायवेम्मेपोल्— हे चन्द्र ! किं क्षयवशोऽसि कलावशेष- स्त्वं मादृशोऽद्य गगने न तमोऽपहारी । किं त्वं द्विजिह्नशयनस्य सुचक्रिणस्तत् सत्यं वचो बत ! निशम्य कलाविहीनः ॥ ७. तोत्तोम् मडनेञ्जम्– नारायणाय विभवे वयमद्य चित्तं भव्यं समर्प्य नितरां विरहातुरा हि । क्रन्दाम एव महह त्वमहो निशे! किं क्रूराऽसि वैरिवदनारतमस्तु भद्रम् ॥ ८. इरुलिन् तिणिवण्णम्- कुष्ये! निशेव सततं बहुनीलवर्णे निद्रासि नैवहि दिवानिशमुद्रमान्धा । देवस्य तस्य शकटासुरमर्दनस्य त्वं किं कृपागुणजिता हृदि कर्शिताऽसि ॥ T३०. ९. नोन्दाराक्कादल नोय्- सहस्रगाधारत्नाबली | हे दीपिके! सततमुज्ज्वलविग्रहे! त्वं सन्तप्तचित्तविकला नितरां हि खिन्ना । किं पुण्डरीकनयनस्य तु मत्प्रभोस्त्वं बिम्बाधरस्य तुलसीमभिलष्य तप्ता ॥ १०. देवारावेल्कैनोय्- आशा हि तापजननी नितरां कृशां मां नक्तन्दिवं च तुदति त्वमहो हयं तम् । हत्वा च केशिनमतीव हठात्प्रविश्य द्वन्द्वासुरन ! पृथिवीहर! मां न मुचेः ॥ ११. शोरादये पोस्लकुम्- सर्वात्मनामपि च मूलमनादि तेजः प्राप्तुं परं शठारिपुः कुरुकापुरेशः । साहस्रमाह तदिदं दशकं पठन्त- स्तत्र प्रयान्ति परमं पदमेव धन्याः ॥ अथ द्वितीयशतके
२
२. द्वितीयदशकम् ( तिष्णन् बीड) ( तादृशार्तिनिरसनाय सन्निहितमीश्वरं दृष्ट्वा तस्य परत्व मवतारेष्वपि प्रकाशत इति परोपदेश १. तिष्णनू वीड- करोति । ) दिव्यामृतात्मकमुदारफलं च मुक्ति- स्सर्वं स्वयं प्रभुरसौ मनसोऽप्यतीतः । भूमिं लोकमखिलं जठरे निवेश्य कृष्णश्चकास्ति परतत्त्वमितोऽपि नान्यत् । २. एपायम्परमे – द्वितीयशतकम् । रुद्रस्य तस्य गुरुपातकमोचकोऽयं भिक्षाप्रदानकर एव च गोपसिंहः । योऽसौ पालुरतनोदपि सप्तलोकीं धन्यां स एव फलदोऽस्ति परः पुमान्नः ॥ ३. एरनै पूर्वनै- रुद्रं सरोजभवमप्ययमच्युतस्स्व- स्याने यतश्चियमिच स्वयमेव धृत्वा । सौशील्यवानतिगत हरिरूर्ध्वलोकान् भूमिं जिगाय किमतः परमस्ति दैवम् ॥ ४. तेवुमेप्पोरुकुम- देवाद्य शेषजगतामपि सृष्टिहतो- स्तं नाभिपद्मभवमादियुगे तु सृष्ट्वा । देवश्चकास्ति परमः प्रभुरिन्दिरेशः किं वेतरोऽर्हति सुमाद्युपहारमालाम् ॥ ५. तकुंशीर्त्तन् तनिमुद लिनुलले- नित्योचितस्वमहिमान्वित एव चादौ देवादिसृष्टिमपि तां परमां चकार । श्रीपुण्डरीकनयनः परमाच्च तस्मा- ज्ज्योतिः परं किमपरं बल वेत्ति को वा ! ॥ ६. यवरुम् यावैयुमेल्लाप्पोरुलुम्- सर्वेsपि चेतनगणा यदचेतनाश्च स्वस्मिन् किलांशशकला इव दर्शितास्ते । सोऽयं हि विश्वतनुरस्ति परं च तेजः क्षीराब्धिशाय्यमितधीः परमः प्रभुनः ॥ ३१ ८३२ ५. पलियालिले- सहस्रगाथारत्नावली | धृत्वा निजोदरतले किल सप्तलोकी धीरश्शिशुर्वदले शयितः प्रभुर्नः । गोप्यं च तस्य गहनं च विचित्रमाया - सङ्कल्पवैभवमिदन्तु विदुस्स्वयं के ? || ८. करुत्तिल तेवुमेल्लाप्पोरुलुम् - सङ्कल्पतस्सुरनरादि समस्तलोकान् संवर्ध्य भाति परमः प्रभुरेष मायी । एवं विना किमपरो जगतां स्थिति त- द्रक्षां च कर्तुमुचितः प्रभुरस्ति कश्चित् ॥ ९. काक्कुमियल्विनन् - संरक्षणाय जगतां प्रभुरेष कृष्ण- स्सर्वानपि स्वजठरे कृतवान् हि लोकान् । तं नाभिसम्भवमजं चतुराननं तं देवेन्द्रमप्यमरबृन्दमुखानसूत ॥ १०. कलवावेम्मैयुमे कुलकुम् मायामयोऽसि भगवन्नखिलान् किलास्मान् त्वय्येव दर्शयसि सर्वजगत्ततीश्च । इत्येव रुद्रचतुराननशर्वमुख्या देवा भजन्ति गरुडध्वजपादयुग्मम् ! ११ : एत्तवेलुलकुम्– स्तव्यं समस्तजगतामपि मानमूलं रम्याकृतिं शठरिपुः कुरुकापुरीशः । स्तोतुं सहस्रमवदद्दशकं च दिव्यं तत्रेदमंत्र पठतां न हि दोषगन्धः ॥ द्वितीयशतकम् । ३३ अथ द्वितीयशतके
३
- ३. तृतीयदशकम् (ऊनिवालू)
- ( तादृशपरत्वोपेतस्य भगवतोऽनुभवाय संसारिचेतना न सहायभूता इति नित्यसूरिभिस्सह सङ्गमं प्रार्थयतेऽत्र शठारिः । )
- १. अनिल वालुयिरे—
- हे चित्त ! स्वयमत्रभासि वपुषि ! स्वस्त्यस्तु ते साध्वसि त्वां प्राप्यैव हि सूरिरामधुरिपुस्स्वामी ममायं हरिः । सोऽहञ्चैकरसात्मकं हि युगलं क्षीरं घृतं सम्मधु स्वादुश्चेक्षुरसो घनश्च सकलं दिव्यामृतं सङ्गतम् ॥
- २. अत्तार मिक्कारै-
- स्वामिन् ! नैव समोऽधिकोपि च तव श्रीशासि मायामयों जातश्वासि सज्जातिरेव सकलैरात्माऽसि सर्वात्मनाम् । माता मेsसि पिताच मे गुरुरसावज्ञातसंशिक्षक- स्त्वं नाथासि महोपकारनिरतो ! नो वेद्मि कृत्यानि ते ॥
- ३. अरियाक्कालत्तुलले-
- वेषाद्वामन एव सुन्दरवस्त्वं भूर्बले ! त्रिक-
- त्येवं वञ्चक एव मोहननको विष्णो | मया सनतः । मायासंसृतिवार्धिमममपि मां जिल्ला हठाते हरे ! दास्ये नित्यस्तं किलाकृतवान् ! भातीदमत्यद्भुतम् ॥
- ४. एनदावियुक् कलन्द–
- नाथ ! त्वं जठरे समस्तभुवनान्यादौ प्रवेश्य स्वयम् त्राता मामा रक्षसीति कृतविस्वात्मार्पणं चाचरम् । न स्यादस्य निवृत्तिरात्मन इह त्वं भासि चात्मा मम ! स्वात्मा को मम! कोऽस्म्यहं ! स्वयमिहस्वीयं हि दाताऽवृणोः ॥
- ३४
- ५. इनियार आमङ्गलालू-
- सहस्रगाथारत्नावली ।
- ज्ञानाधिक्ययुतैरनाश्रितगणैर्न प्राप्यसे त्वं विभो ! भक्तानां स्वयमेव मोक्षसुखरूपोऽसीह दिव्यामृत ! | व्यावृत्तो भववारिधेरहमहो ! त्वञ्चादिरुत्तारको ! वाराहोऽसि जगद्धरस्स्वदशनेनाहं त्वदङ्घ्री श्रितः ||
- ५. शेन्दतीविनैककु-
- पापध्वंसकरोऽसि संश्रितवतां दिव्यां मतिं प्रापयन् त्वं विश्लेषविवर्जितः किल सदाऽनन्यान् करोष्येव तान् । तेजोरूपधरश्च तामसरुचिं सर्वां प्रहृत्य स्वयं क्रूरां शूर्पणखामिवासि भगवन् ! प्राक्त्वामहं संश्रितः ॥
- ७. मुन्नल्याल्पयिल्नूल्—
- पूर्व साधु सुगीतवाद्यरसिकै र्गानामृतं दापयन् भक्तानां परमोऽस्ति सेव्यतम एवाहो ! पवित्रो भवान् । त्वं भासी रसोऽमृतञ्च जलदो नीलो ममासि प्रभुः ! कृष्ण ! त्वान्तु विना न जीवितधरस्स्यां ! त्वं वृणु श्रीश माम् ॥
- ८. कुरिक्कोल् जानङ्गलालू-
- …शिक्यस्थां नवनीतदुग्धसरणिं सर्वां च भुक्त्वा रह-
- स्येव त्वं मम नायकोऽसि भगवन् ! पापान्यहं खण्डयन् । दिव्यज्ञानयुतैस्तपोबल महाभाग्येन लभ्यां गतिं दिव्यां तां चिरकालतोऽपि सहसैवाहं गतोऽस्यां जनौ ॥
- ९. कडिवार तष्णन्तुलायू-
- बिभ्राणस्य सुगन्धवाहितुलसीमालां च कृष्णस्य वै सूरीणामपि नायकस्य परमस्याहं पवित्रस्य च । कल्याणेषु गुणेषु मग्नहृदयः पापाब्धिसंशोषकः सर्वत्रापि भृशं प्रविश्य सुगुणानापीय मोदेत माम् ॥
१०. कलिप्पुम् कव मत्तु – द्वितीयशतकम् । उत्साहं च विषादमप्यहमहो ! दूरे विहाय त्यजन् जन्मव्याधिजरामृतीश्च महसां ज्योतिः परं शाश्वतम् । स्वर्लोकं धरणीं च पातुमनिशं श्रीशङ्खचक्रान्वितं देवं तं मजतां कदानु महतां गोष्ठीमुपैमि स्वयम् ॥ ११. कुलाङ्गोल् पेररक्कन्- सङ्घीभूतनिशाचराधिपकुलच्छेदाय रोषान्वितं देवं सज्जनबृन्दवन्द्यकुरुकाधीशश्शठारिर्मुनिः । स्तोतुं चाह सहस्रपद्यसरणिं दिव्यां सुबन्धावली तत्रेदं दशकन्तु भक्तनिवहैस्सङ्कीर्त्य भो ! नृत्यत ॥ अथ द्वितीयशतके
४
४. चतुर्थदशकम् (आडियाडियकङ्करैन्दु) ( तादृशप्रार्थनस्य निष्फलत्वात् नायिकावस्थां प्राप्य मुग्ध- स्सन् शठारिरत्र नायिकाजननीवचनमनु- वर्णयति । ) १. आडियाडियकङ्करैन्दु- भास्वल्ललाटललिता तनया ममेय भ्रान्ता चरत्यहह ! विद्रुतचित्तभित्तिः । गीतानि गायति ततो गलिताश्रुधारा ऽप्यन्विष्य शुष्यति विभो ! नूहरे ! ममेति ॥ ३५. ३६ २. वाणुइलिम्मडवरल्- सहस्रगाधारलावली | सेयं लसन्मुखता मम कोमलाङ्गी त्वद्दर्शनाय विरहादिह भाति खिन्ना t बाणासुरस्य तु सहस्रभुजच्छिदेव किं निर्दयोऽसि तव दर्शन कामिनीयम् ॥ १. इरक्कमनत्तोड- शादियं मनसिं हन्त ! विभाति चामौ लाक्षादिवद्द्भुततनुर्बत ! निर्दयोऽसि । लङ्कान्तु राक्षसपुरी नितरां प्रणाश्य प्रख्यातिमान् किलभवान् 1 किमु तेऽथ कुर्यामः ॥ ४. इलजैशेत्तवनैयेन्नुम् - लङ्कापुरप्रमथनेति वदेत्पुनश्च तार्क्ष्यध्वजेति च वदेदियमुच्छवसन्ती । सन्तप्तमानसतया किल साश्रुधारा भ्रान्ति गता भवति साञ्जलिबन्धहस्ता | ५. बलिराम्पकल्वायूवेरीह– नक्तन्दिवं भ्रमवचांसि हठाद्वदन्ती नीलोत्पलाक्ष्यभक्देव हि साश्रुधारा भृङ्गावृतां च सरसां तुलसीं न दद्याः ! किं वेदृशी तव कृपा बत ! शुद्धशील ? | ६. सकवुडैयवनेयेन्तुम्- सेयं द्रवीकृततनुर्विगतस्वचिता हा ! हन्त ! जल्पति सुशील ! दयापरेति । संवर्धिताभिलषितो असे ममेधरेति स्वात्मान्तरोऽसि च ममामृतसागरेति ॥ ७. उलकुलाचियुलदुल- द्वितीयशतकम् । सेयं हि वञ्चनपरा हृदयं न वक्ति व्यक्तं ! स्वयं स्वविटवञ्चनकृत्यखिन्ना । संशोषितात्मैकतया वदतीह कृष्णे- त्यौदार्यवन्निति च वार्षिशयेति सुन्ना ॥ ५. वक्षमेयेन्नुम् - हे ! वञ्चकेति वदति स्वयमञ्जलिं च स्वैरं करोति बत ! दग्घनिजान्तरङ्गा । सेयं हि निश्श्वसिति हा ! शरणं मपन्ना त्वां कंसवञ्चक । कथं बत । वाऽनुभूयात् ॥ ९. पट्ट्पोदेकुपोदरियाल्- अस्तं न वेति ! न च वेति किल प्रभात सेयं सदाऽपि तुलसी तव वक्ति रम्याम् । ज्वालाकुलातिनिशिताननचक्रपाणे ! दीनामिमां प्रति किमस्ति तवाद्य चित्ते ! ! १०. एकै पेदै- दीनात्वियं भ्रमवशा हि दिवानिशं चा- प्यश्रुप्रवाहभरिताऽस्त्य सितायताक्षी । लङ्कां प्रणाश्य किल कण्टक्रदुष्प्रभुत्वं प्राध्वंसयोऽद्य परिपाहि कटाक्षमस्याः ॥ ११. वाहमिहपुकले वामननै– नित्यामुदारगुणवामनदिव्यकीर्ति स्तोतुं मुनिश्शठरिपुः कुरुकापुरीशः । छन्दोनिबद्धमिह पद्यसहस्रमाह ! स्वातत्पदाब्ज युगले दशकंत्विदं स्रुक् ॥ ३८ सहस्रगाथारत्नावली t अथ द्वितीयशतके
५
५. पञ्चमदशकम् (अन्दामत्तन्बु शेय्दु) ( अत्र भगवत्संश्लेष सन्तुष्टस्तदीय दिव्यभूषण - दिव्यायुध दिव्यावयव सौन्दर्यादिकं नित्यसूरिसेव्यत्वं १. अन्दामसम्बु शेयदु- चानुसन्दधाति शठारिः । ) स्थित्वाऽसौ परमेपदे मम हृदि स्वैरं प्रविष्टोऽधुना ! दिव्यस्रग्विकिरीटचक्रजलजा यज्ञोपवीत स्रजौ । एता भान्ति किलास्य नेत्रयुगलं बिम्बाधरं चाङ्घ्रियुक् सर्वं चाम्बुजसन्निभं ! तनुरहो दिव्या सुवर्णात्मिका ॥ २. तिखुम्बुवान् शुडर् त्यक्त्वाऽसौ सकलं मया सह हरिस्साक्षात् स्वयं सङ्गतो ! नाथस्यास्य तनुर्विभाति दिनकृद्वर्णा च पद्मे दृशौ । हस्तौ चाम्बुरुहौ ! श्रियोऽस्ति वसतिर्वक्षस्थली | ब्रह्मणों नाभिर्भाति च जन्मभूरहह ! तल्लिङ्गं हरस्याप्यहो ! ॥ ३. एन्नुले कलन्दवन्– सम्यग्भाति महोज्ज्वलः किल मया सङ्गत्य नाथो ममः श्रीशस्यास्य महाचलस्य वदनं नेत्राङ्घ्रिहस्तात्मकम् । सर्व भाति सरोजमेव ! जगतां स्थानं किलास्योदरं । नैव स्यात्किल किञ्चिदप्यहह ! हा ! तस्मिन्न यत्सङ्गतम् ॥ ४. एप्पोरुलुम् तानायू- सोऽयं सर्वकलासु सर्वदिवसेष्वप्यस्ति मासेष्वहो !. सर्वेष्वेव समस्तवत्सर गणेष्वेव हि कल्पेष्वपि । 7 द्वितीयशतकम् । सङ्गत्यैव मया सहामृतनिधिश्वाशोष्य एव स्वयं सर्वात्माऽसितपर्वतोऽम्बुज्जमिदं नेत्राङ्घ्रिहस्तं नवम् ॥ ५. आरावमुदमाय् – सम्पूर्णामृतवारिधिर्हृदि ममाप्यन्तः प्रविश्यासतो नाथो मेऽस्ति हि नीलमेघसदृशः कृष्णः प्रभुर्निस्समः । चक्षुःपादकरे न पद्ममुपमा ! नैव प्रबालोऽधरे भूयादस्य सन्ति हारमकुटौ काञ्चयादिभूषगणाः || ६. पलपलवेयाभरणम्- दिव्यान्याभरणानि चाप्यगणितान्यस्यास्तिनामावलि - दिव्याचाप्यमिताऽस्ति रूपसरणिर्दिव्याऽप्यनन्ता हरेः । दिव्यं दृष्टिरुचिश्रुतिस्पृगुदितं प्राणेन्द्रियस्थं सुखं सर्वं चामितमेव शेषशयितुर्ज्ञानं च दिव्यं बहु || ७. पाम्बणैमेल पार्कडलुल्- क्षीराब्धौ शयनं च शेषशयने नीलार्थमेवाद्भुतः ख्यातस्सप्तवृषप्रहार इह योऽभूत्सप्तसालाहतिः । तत्सर्वं कृतवान्मदर्थमयमेवात्यन्तरम्याकृतिः विष्णु श्रीवृषवीर्यभाक् च तुलसीमाला किरीटोज्वलः ॥ ८. पोन्मुडियम्पोरेत्तै– दीप्रोत्तुङ्गकिरीटधारिणममुं वीरश्च मे नायकं रम्याजानुचतुर्भुजं निरवधिश्रीकं तुलस्यञ्चितम् । नीचेनापि मयाऽद्य सङ्गतमहं किं वर्णयामि स्वयं ३९ वाचा ! हन्त ! न गोचरोऽस्ति वचसः किं ब्रूथ यूयं स्वयम् || ९. शोल्लीरेनम्मान —- यूयं कीर्तयताच्युतं ममविभुं चात्मानमप्यात्मनो निस्सीम खिलसद्गुणं मणिनिभं ज्योतिश्च दिव्यामृतम् ।सहस्रगाथास्त्रावली । मोक्षस्यापि परंपदं त्वसुलभं तं योगिनामप्यहो पद्मान्तश्च सुगन्धिबीजममलं नारीनरेभ्यः परम् ॥ १०. आणल्लन् पेण्णल्लन्नू न स्त्री नापि पुमान्नषण्ड इति च प्रामाण्यवश्यों न हि स्वामी मे न हि चास्त्यसन्न खलु सन् भक्तात्मनां सुप्रियः । तेषां चाभिमतोरुदेह इत्तरोऽप्यास्ते स्वयं श्रीहरि- स्तं चैनं न हि शक्तिरस्ति वचसा वक्तुं ! न वक्तुं च मे ॥ ११. कूरुदुलोत्रारा एकं चापि गुणन्तु यस्य वचसा वक्तुं न शक्तिर्भवे तं स्वोतुं प्रभुमच्युतं घटविहारादिप्रियं श्रीधरम् । साहस्रं कुरुका पुरप्रभुरयं मौनी शठ रिर्नमा - बन्तायं दशकं च तत्र तदिदं दिव्यं पदं प्रापयेत् ॥ अथ द्वितीयशतके
६
६. षष्ठदशकम् (वैकुन्दासमिवपणने) ( अत्र श्रीशठारेरतिनैच्यं विलोक्य भगवतोऽतिशङ्का सञ्जा- तेति तत्परिहारार्थं " नाहं त्वां कदापि त्यजेयम् " इति प्रतिजानीते । ) १. वैकुन्दामणिवण्ण— वैकुण्ठयसि मणिप्रभः किल मम श्रीवामन ! त्वं प्रिय- स्संश्लेषं मयि सन्दधासि सततं दिव्यामृतात्मा महान् । सम्पूर्णोऽसि फलप्रदश्च नमतां घोराधहन्ता हरे ! दुष्टानामसि कुन्तवत्प्रमथनस्त्वां सथितोऽस्मि स्थिरम् ॥ ४१ २. शिक्केनच्चिरिदोरिडमुम् - द्वितीयशतकम् । द्वाऽपि नहि त्यजेद्वहिरहो ! लोकानशेषान् वहन् स्वस्मिन्नेव किल स्वयं मयि विशन् ज्ञानप्रभाभास्वरः । तेजोराशिरुदार सद्गुणानिधिर्दिव्यामृतात्मा हरिः पद्माक्षो मम नायको ऽन्यपरतां सन्त्यज्य मय्बास्थितः || ३. तामरैक्कण्णनै विष्णोर परवुम् पद्माक्षं दिवि नित्यसूरिनिव हैस्तव्यं ममैव प्रभु पुष्पोद्यतुलसीराजं च कनकाद्रिं श्रीधरं सादरम् | स्तुत्वा तं मनसा विचिन्त्य वपुषा चानम्य हृष्टा वयं नृत्यामोऽद्य ! स एवं पद्यरचने शक्तिं च मेऽदात्स्वयम् ॥ ४. वकलले मधुसूदना एन्मरकतमलैये- नित्योदार ! ममप्रभुं मरकतादिं त्वां मधुध्वंसिनं स्मृत्वाऽन्यत्सकलं विसृज्य सुगुणाम्भोधौ निमग्नोऽस्मि ते । नृत्यन् गानपुरस्सरं प्रमुदितः प्रध्वस्तदुःखोऽधुना धन्योऽहं तव सन्निधावनुभवं प्राप्य त्यजाम्येव किम् ? 1 ५. उयन्दु पोन्दु- क्षीराब्धौ शयितोऽसि शेषशयने तां योगनिद्रां भजन् मन्नाथ ! त्वदुदाररूपगुणभूत्यादिस्मृतेर्धन्यताम् । लब्ध्वाऽहं सकलाघसन्ततिहतिं कृत्वाऽधुना श्रीहरे ! त्वद्दास्यं परमं शुभं निरवधि प्राप्तस्त्यजाम्येव किम् ॥ ६. उन्नैच्चिन्दै शेयदु शेयदु- वक्षस्तस्य हिरण्यकस्य मनसाऽपि त्वां तु धिक्कुर्वत - सम्भिद्यासि पुरा नृसिंह ! जगतां त्राता ! स्मरस्त्वामहम् । दिव्यां पद्यततिं विरच्य वचसा गायंश्च नृत्यन्नहो ! ? निर्मूल्याप्यघसन्ततिं मम सुखी ! किं वाऽस्त्यसाध्यं मम ॥ ’ ४२ ७. मुडियाददेनेनक्केलिनि- सहस्रगाथारत्नावली | सर्वेषां जगतां च भक्षणकरस्सम्यक् प्रविष्टो मयि श्रीशो नैव हि मां त्यजे त्पुनरसौ ! महान्धवाश्वाखिलाः । तेऽमी सप्त च पूरुषाः कुलभवाः प्रध्वस्तपापास्स्वयं हत्वा नारकदुर्गतिं प्रमुदिताः ! किंवाऽस्त्यसाध्यं मम ? በ ८. मारि मारि प्पलपिरप्पुपिरन्दु- जन्मान्यत्र पुनः पुनश्च सुबहून्याश्रित्य चाद्यास्म्यहं त्वत्पादाम्बुजसंश्रयो हृदि महानन्दामृताब्धौ स्वयम् । मोsस्मीह! भवान् किलासुरगणप्रध्वंसकं वाहनं तार्क्ष्य मात्यधिरूढ एव । मयि नाथाचैव नित्यं भव || ९. एन्दाय् तण तिरुवेङ्गङजुल्- स्थित्वा वेङ्कटभूधरे विजयसे मन्नाथ! लङ्कान्तक 1 त्वं सालानपि सप्त चैकहतितश्छित्वाऽसि धन्वी महान् । भासि त्वं किल दिव्यरम्यतुलसीमालोऽद्य दिव्यामृत ! त्वां सम्मिश्रय मयीह नायक 1 कथं देवेश ! यास्यन्यतः ॥ १०. पोकिकालङ्गल् पोयकालङ्गल - कालेष्वद्यतनेष्वतीतसमयेष्वागामिकालेष्वपि त्वं माता च पिता ममासि हि । ममाप्यात्मा जगन्नायकः । सौशील्याम्बुनिधिं च वेङ्कटपतिं त्वां दिव्यमालोज्ज्वलं संश्रित्याद्य कथं त्यजामि तुलसी सौगन्ध्यसारान्वितम् ! ॥ १३. कण्णिचणन्तुलाय् मुडि - मालाकार सुरम्यशीततुलसीभास्वत्किरीटं हरिं स्वोतुं पद्मविशाललोचनंमसौ सूरिश्शठारिर्मुनिः 4 साहस्रं कुरूकापुरप्रभुरहो ! मारामिधानोऽब्रवी- तद दशकं प्रमाय रसिकास्स्युः केशवस्य प्रियाः ॥ 0 द्वितीयशतकम् अथ द्वितीयशतके
७
७. सप्तमदशकम् ( केशवन तमर् ) ( श्रीभगवतस्स्वविषये सञ्जाता प्रीतिस्स्वसम्बन्धिसम्बन्धि- परम्पराविषयेऽपिं जातेति शठारिस्त्र केशबादि ३. केशवन् तमर् द्वादशनामप्रतिपाद्यं तं प्रपद्य स्ववंश्यास्तप्त सप्तजन्मोत्पन्ना अप्युज्जीविता इति निरूपयति ॥ ) श्रीमत्केशवसंश्रयाः किल मम प्राप्ताः कुलोत्पादिता- स्तें पूर्वोत्तरसप्तसप्त ! महतीं दिव्यां गतिं वैष्णवीम् । हीशस्यास्य मम प्रभोरिह महामाणिक्यवर्णस्य च श्रीसूरीन्द्रपतेः प्रसादभरतो नारायणस्याश्रयात् ॥ २. नारणन् मुलुकुलकुक्कुमनादन् श्रीनारायण एवं सर्वजगतां नाथोऽस्ति वैदात्मको मूलं कारणमस्ति कर्म च कृतिः पूर्वश्च सर्वात्मनाम् स्तम्यस्सर्वगुणाकरो ऽमरगणैरन्यैश्च सर्वैरयं स्वामी मत्तगजस्य दन्तभिदहो ! मे नायको माधवः || ३. मादवनेत्रदे कोण्डु- सत्यं ! माघवनामकीर्तनबलात्स्वामी मम श्रीधरो नानादोषततिं प्रहन्तुमपि मे चित्ते प्रविश्य स्वयम् । सर्वाप्रशमप्रभुः किल सुधापूरोऽब्जनेत्रो महा- नद्विप्रायः इहेक्षखण्डशरधि गोविन्द एवाच्युतः ५३ ४४. ४. गोविन्दन् कुडक्कूत्तन् सहस्रमाथारलावली | गोविन्दो ममः नायकः प्रभुरसौ जिष्णुर्घटैललया गोपालो विहरन्महानिति पृथक् सङ्कीर्त्य मृत्तादिभिः ॥ सोऽहं यामि च सञ्चरन् मम महापापावलि ध्वंसयन् मद्वन्धूंश्च स सप्तसप्त पुरुषान् विष्णुर्निजानातनोत् ॥ ५. विलिङ्ग जोदि- विष्णोरस्य मम प्रभोस्सुरुचिर श्री मौलिभूषाभूतो दिव्यं भाति सरोजमेव चरणौ हस्तौ च नेत्रे हरेः । दीपो नीलमहाद्रिरेवहि तनु श्वन्द्रोऽस्ति शङ्खो महा- नादित्यो मधुसूदनस्य रुचिरश्चक्रायुधात्मा विभोः ॥ ६. मदुशूदनैयनि- नान्यं श्री मधुसूदनात्किल परं प्राप्यं भजेऽहं सदा कार्यं मे न किलापरैरिति हरि तं मेऽद्य पद्यैस्स्तुवन् ॥ एवं कल्पसहस्रतोऽपि विविधां जन्मावलीं मे स्वयं ज्ञात्वा मेऽभिमुखो दयालुरवशो दत्तेऽखिलं त्रिक्रमः ॥ ७. तिरिविक्रिमन् शेन्दामरै क्क - श्रीश ! त्रिक्रम ! पुण्डरीकनयन ! स्वामिन्! सुबिम्बाधर ! त्वं भास्येव शुचिस्मितस्त्विति पृथक् त्वत्सद्गुणां श्विन्तयन् शंसंश्च प्रणमन् पदाब्जयुगलं कल्पेष्वनकेषु ते सम्प्राप्यास्मि हि दास्यसक्तहृदयस्त्वं वामनो मे प्रभुः ॥ ८. वामननेनू मरतकवण्णन् – हे ! श्रीवामन ! नीलरत्ननिभ ! मे पद्माक्ष ! कामोद्भवे- त्येवं त्वत्पदपद्मकीर्तनपरो नत्वाऽस्मि शुद्धाशयः । द्वितीयशतकम् । जाड्यं जन्मभवं प्रणाश्य मनसो दोषान् प्रहत्यापि मे स्वामिन् पूर्णमहाश्रियः ! किमुहरे ! कुर्यान्तव श्रीधर || ९. शिरीदरन् शैय्यतामरैकण्णन् - स्वामिन्! श्रीधर ! रम्यपद्यनयनेत्येवं हि नक्तन्दिवं. जल्पन् न्त इवाश्रुपूर्णनयनस्सन्तप्तचित्तोऽभवम् । तामार्तिं मम नाशयन् प्रमुदितं कुर्वन् सदा मां हरे ! त्वं मे भासि हृदि स्वयं किल हृषीकेश ! प्रतिष्ठापितः ॥ १०. इरुडीकेशनेम्बिरान् - मन्नाथ ! त्वमुदारसद्गुण ! हृषीकेशासि लङ्केशितु- हन्ता तस्य दशाननस्य हि हरिर्देवाधिदेवोऽच्युतः । इत्येवं मम मानस ! त्वमनुसन्धाय प्रणामं कुरु ! क्षिप्रं विद्धि ! यदि भ्रमोऽस्ति च पुनर्मा पद्मनाभं त्यजः ॥ १४. पर्पनापनुयर्वरवुयरुम् - उत्तुङ्गोऽस्ति हि पद्मनाभ इह मे स्वामी पर शक्तिमान स्वीकृत्यापि च मां ममापि विवशश्श्री कल्पकचामृतम् ॥ नीलाम्भोदसमश्च वेङ्कटगिरौ भाति स्वयं नायक– स्सूरीणामधिपश्चकास्ति च हरिर्दामोदरो मे प्रभुः ॥ १२. दामोदरनैत्तनि मुदल्वनै- श्रीदामोदर मादिमूलमखिलान् लोकान् स्वयं चोदरे ? बिभ्राणं कथमप्रमेयविभवं ज्ञातुं वयं शक्नुमः ! इत्येवं हि चतुर्मुखेश्वरमुखा देवाश्च दामोदर- स्यांशास्स्तोतुमनर्हतां जगुरहो ! नाथं न मे ते विदुः ॥ ४६ १३. वण्णमामणिच्चो दियै- सहस्रगाथारत्नावली नीलश्रीमणिवर्णमच्युतमिमं ज्योतिः परं सूरिणां नाथं कृष्णमुदारमेव कुरुकानाथ इशठारि मुनिः । प्राप्तुं चाह सहस्रमुत्तमकृतिं तत्रापि च द्वादश- श्री नामप्रतिपादकन्तु तदिदं पादौ हरेः प्रापयेत् ॥ अथ द्वितीयशतके ८. अष्टमशतकम् (अणैवदरवणै मेल) ( ईश्वरस्य संसारिणां विषयेऽपि कारुण्यं प्रतिपाद्यः तेषामुज्जीवनाय स्वमोक्षप्रदत्वोपदेश १. अणैवदरवणै मेल — "" प्रकारं वर्णयति । ) शेषे किलास्य शयनं प्रियमस्ति विष्णो- लक्ष्मीतनो र्भवति सङ्गम एक भोग्यः । मूलं तयो विधिशिवात्मकयोस्स सर्वो मोक्षप्रदोऽस्ति च भवार्णवपोतरूपः ॥ २. नीन्दुम् तुयपि रवि- शीतहृदे ऽम्बुजयुते गजदुःखहन्ता मन्त्रायकोऽस्ति तुलसीशुभहारभूषः । सङ्गोऽस्य सर्वजगतां भवदुः खहन्ता सर्वार्तिहृद्भवति मोक्षसुखस्य मूलम् ॥ ३. पुणर्कमयनामलिक्कुमरनाम्- स्वोद्भतिनाभितलपार्श्वनिवासशीलो घाताऽपि सृष्टिकृदसौहि हृरोऽपि हन्ता । द्वितीयशतकम् । युक्तश्श्रियोरसि निजाद्भुतशीलवृत्तै - स्सर्वान्तरात्मकतयाऽस्त्यभितः प्रसिद्धः || ४. पुलनैन्दु मेयुम् पञ्चेन्द्रियैर्विषयपञ्चकभुक्तिसक्तैः मुक्ताः परं पदमनन्तसुखं विशन्तः । यूयं भवेत सकलासुरनाशकस्य श्रीशस्य सन्ततबलादिगुणाब्धिममाः || ५. ओवात्तुयपिरवियुक्रपड - नानार्तिसन्ततिकरीमपि सृष्टिमेतां रक्षां च संहृतिमनादिरयं हि कुर्वन् । देवाधिदेव इह मेऽस्ति च तीर्थरूपो वाजी च मत्स्यकमठादिरहो ! नरात्मा ॥ ६. तीर्तनुलकलन्द शेवडिमेल्- तीर्थस्य यस्य पदयोः कुसुमावलीं तां भक्तया समर्प्य शिवमस्तक एव दृष्ट्वा । पार्थेन तेन विदितं प्रथितं परत्वं ? तस्याद्य किं बत ! पृथक् प्रतिपाद्यमेव ॥ ७. किडन्दिरुन्दु नित्रलन्दु- शय्यां गतोऽप्युपविशन्नपि चात्र तिष्ठन् पादेन चाक्रमणतोऽपि वराहवेषात् । उद्धृत्य चापि जठरे पृथिवीं दधानो ऽप्याश्लिष्य बाहुभिरसौ बहुधाऽस्ति मुग्धः ॥ १७ 9 ટ ८. कण्वारारेम्मीशन- सहनगाथारत्नावली । को वेत्ति मे प्रभुमिमन्तु कथन्नु वेत्ति श्रीकृष्णमस्य सकलं कबलं जगत्स्यात् । स्थानं परं पदमसौ सकलान्तरात्मा व्याप्नोति सर्वमपि लेशमपि त्वमुञ्चन् ॥ ९. मुल कण्णन् - सर्वत्र सन्निहित एवं हरिः किलेति प्राप्ते सुतेऽपि च रुषा स हिरण्यनामा । स्तम्भे न हीत्यवददस्य वधाय तत्रो- द्भूतं नृसियमसमं बत ! वेत्ति कोवा ! | १०. शीमैकोलू वीड- मोक्षप्रदश्च सुरनारकितां च कुर्वन् देवाद्यशेषजगतामपि घारकोऽसौ । यन्ता च बीजमभितो विभुरब्दवर्णः कृष्णो ममास्ति किल लोचनगोचरोऽद्य ॥ ३३. कण्डलक शेय्य – श्रीपुण्डरीकनयनं प्रभुमब्दवर्णम् स्तोतुं शठारिरवदत्कुरुकापुरीशः । साहसमुत्तममिदं दशकं च तत्र ज्ञात्वा भजन्ति परमेच पदे स्वराज्यम् ॥ द्वितीयशतकम् । अथ द्वितीयशतके
९
९. नवमदशकम् ( एम्मावीट् टुत्तिरमुम् ) ( अत्र शठारिर्भगवन्तं सम्बोध्य " मम प्रीतये माऽस्तु मे, मोक्षः, तवैव प्रीतयेऽस्तु " इति कैङ्कर्य निष्कर्षं करोति । ) १. एम्मा वीट्टुत्तिरमुम्— तत्ताहगुत्तमपदं न हि मोक्षभाग्यं काङ्क्षे त्वदीयपदपङ्कजयुग्ममेव । त्वं मे निधेहि शिरसीह गजार्तिहारिन् ! मेवाञ्छितं हि सकलं त्विदमेव नाथ ! | २. ईदे यानुन्नैक्कोल्वदु- मन्नाथ ! नीलमणिवर्ण ! भवन्तमेव- मेतावदेव सततं किल हन्त ! याचे । त्वत्पादलाभशरणं मम भक्तियोगं त्वं देहि मे ! न कुरु कालविलम्बमत्र ॥ ३. शेय्येल् तीविनैयेन्र- मा भूस्तु पापकृदिति स्वयमेव चक्रं धृत्वा च पाणितलत: कृपया ब्रवीषि । हे ! कृष्ण ! नाथ ! तव पादयुगस्तुतौ मे कण्ठावरोधनविधावपि देहि शक्तिम् ॥ ४. एनक्केयालूचेय्येक्कालत्तमेन - त्वं सन्ततं च मम दास्यरतो भवेति चित्ते मम स्थिरममुं किल हन्त ! कृष्णम् । एतावदेव हि फलं परमन्तु याचे ! त्वं मां विधेहि सततं च तवैव दासम् ॥ ४९सहस्रगाथारत्नावली ।- ५. शिरप्पिल वीडुशुवर्क्कनरकम् - देहावसान फलितं किल मुक्तिभाग्य स्वर्गादिनारकमपीह भवेत्तथाऽन्यत् । नानाजनं च भगवन्तमजायमानं नित्यं स्मरन्नहमपारमुदाऽन्वितस्याम् || ३. मकिल् कोल् देवम्- देवादिलोकनरलोकजडादिजन्तू- नुत्पाद्य भास्वरमहाप्रभयाऽन्वितस्त्वम् । स्वामिन् ! मनोवचनकर्मसमन्वितं मां प्राप्य प्रहर्षय समागमतः प्रणम्रम् ॥ ७. वारायुन् तिरुप्पादमलक्कील्- त्वां नित्यमेव हृदि मे विनिवेश्य हृद्यं त्वत्पादपङ्कजमनारतमाश्रितस्सन् । धन्यो भवेयमिति मे मतिरस्ति पूर्ण ! त्वं मां वियोजयसि किं समुपेहि तूर्णम् ॥ एक्कालत्तेन्दैयायू- प्राज्ञैस्तु वैदिकवरैर्विमलैर्हि भोज्य- स्स्वामी भवान् रसघनं मधुरं फलं मे । चित्ते सदाऽपि परमो यदि भासि नाथ ! त्वामर्थये न किल जातु चिदन्यमर्थम् ॥ ९. यानेयेन्नै यरियकिलादे– नाहन्त्ववेदिषमहो ! मम च स्वरूपं ! सोऽहं ममेदमिति च भ्रमवश्य आसम् । श्रीदिव्यसूरिनिवहैरपि सेव्यमान ! स्वामिन् ! ममेदमहमप्यहह ! त्वदीयम् ॥ १०. घुरेलेलुमूर्वेत्र - द्वितीयशतकम् सप्तर्षभानपि विजित्य हि दग्धवांस्त्वं लङ्कापुरं सपदि रम्यतमं च वीरः । मां न त्यजेस्त्वमहहोज्ज्वलदिव्यमूर्ते ! क्षिप्रं च सङ्गमय मां तव पादपद्मे ॥ ११. विडलिल् शक्कर तष्णलै- नित्यापृथक्स्थितसुदर्शननायकं तं त्यक्तुं न हि क्षम इतीह शठारिसूरिः । साहस्रमाह परमं यदुदारभाव - स्तत्रेदमेव दशकं पठतां हि मुक्तिः ॥ -0. अथ द्वितीयशतके.
१०
१०. दशमदशकम् ( किलरोलियिकमै ) ( तादृशकैङ्कर्यसिद्धये शठारिश्श्रीवनाद्रि ( तिरुमालिरुं- शोलैमलै ) नाथस्य समाश्रयणमावश्यकमिति प्रतिपादयति ॥ ) १. किलरोलियलमै– प्राग्यैौवनस्य विलयात्प्रचितौजसरश्री- मायाचरित्रवत एव गृहं प्रभोनः । नित्यप्रवृद्ध तरुषण्डवृतं सुखाय श्रीमद्वनाद्वितलमाश्रयितुं हि युक्तम् ॥ -५२ २. शदिरिलमडवार्- सहस्रगाथारत्नावली | चातुर्यशालितरुणीजनवश्यतां तु त्यक्त्वा प्रतिध्वनिविभूषितशङ्खपाणेः । श्रीरम्यबाहुभूत एव गृहं सुधांशू- तंसोल्लसद्वनगिरिस्थलमेव शस्यम् ॥ ३. पयनलशेयदु- नृत्थं वृषैव वितथं किल चित्त ! वर्ष- मेघायितस्य तु हरेः प्रियसन्निधानम् | सम्मोहनैस्तरुगणैश्च समीपशैले रम्यं शुभं वनगिरेस्स्थलमाश्रितव्यम् ॥ ४. करुमवन् पाशम् दुष्कर्मपाशसरणिं जगतां निहन्तुं तन्मुक्तिसिद्धिविधयेऽपि महाचलं यत् । सन्धारयन् हॅरिरिहास्ति तरूपगूढे मेघावृते वनगिरौ गिरिरेष सेव्यः ॥ ५. तिरमुडैवलत्ताल्— दुष्कृत्यनाशविधये जगतां बलैस्तैः नानाविधैरुपकरोति हि चक्रपाणिः । तेनोषितस्य च वृतस्य शुभैः प्रवाहै- बाह्याचले वनगिरेर्वसतिश्शरण्या || ६. किरियेननिनैमिन् — त्यक्त्वा निहीनमपि कर्म शुभां गतिं तां सञ्चिन्त्य चात्र तु सवत्समृगीसमेतम् । शिक्योपरिष्ठनवनीतभुजस्स्थलं तत् स्मर्तु च सद्वनगिरेः कुशलं शरण्यम् ॥ ७. नलमेन निनैमिन् — द्वितीयशतकम् सञ्चिन्त्यतां शुभमिदं नरकापनुत्त्यै पूर्वं धरोद्धरणकृद्वसतीह यस्मात् । दिव्यां मतिं वितरतीति च शेषभावा- त्प्राप्तुं वनाद्विमुचितं तरुषण्डरम्यम् ॥ ८. वलम् शेयदु वैकल्— सम्प्राप्य चापि बलमत्र वृधैवं कालं नेतुं हि नोचितमहो ! कुरु लावहस्य | गोषालकस्य वसतिम्सुरवृन्दवन्द्या दिव्यस्थली वनगिरेस्सततं हि सेव्याः || ९. वलक्केननिनै मिन्नू — प्राप्यं स्वरूपमिति चिन्तयताद्य पापा- न्युच्छिद्य दुष्टवनिताविनिहन्तुरेतत् । दिव्यस्थलं तरुणवारण सेव्यमाढ्यं प्राप्तुं च सद्वनगिरेस्स्मरणशरण्यम् ॥ १०. शूदे कलवुम् शूदुम् शेय्यादे- द्रव्यार्जनाय विविधं च विहाय चौर्य वेदार्थवक्तुरिह सन्निधिमच्युतस्य । बर्हिप्रियं विकचसूनमिदं वनाद्रे- स्स्थानं प्रवेष्टुमुचितं पुरुषार्थरूपम् ॥ ११. पोरुले निव्वुलकम् - भूयाच्च सार्थकमिति स्वयमेव लोक- स्रष्टुर्हरेस्सकलदिव्यगुणान् विशुद्धान् । स्तोतुं शठारिरवदच्च सहस्रमेत - : दिव्यं कृपालुचरणौ दशकं नयेद्वः ॥ કરે सहस्रगाथारत्नावली अथ तृतीयशतके
३
१
१. प्रथमदशकम् ( मुडिच्चोदियाय् ) ( श्रीवनगिरिनाथस्य भगवतो दिव्यमङ्गलविग्रहदिव्या- भरण दिव्यसौन्दर्याद्यनुभवोऽत्र वयते । ) १. मुडिच्चो दियाय् - ज्योतिस्ते मुखमण्डलस्य किमिदं मौलीन्द्रतेजोमयम् ? पादाब्जस्य रुचिः किमेतदभवत्पद्मासनं ते हरे । रम्या से कटिकान्तिरेव किमियं वस्त्रादिभूषात्मिका ?’ श्रीश ! त्वं मम संशयान् परिहर ! त्वं बाच्यवाणीपतिः || २. कट् टुरैक्किल्— तत्त्वं चेत्परिशील्यते तव परज्योतिर्मयस्याम्बुजं चक्षुःपादकरैस्समं न ! कनकं शुद्धं न ते वर्ष्मणा । औपम्यं जगताऽत्र कल्पितमिदं सबै च हीनोपमा बाभात्येव तव स्तवेषु बहुशस्सत्यं निकर्षाविहा || ३. परंशोदि- सर्वस्मात्परमो भवान् हि भगवान् ! ज्योतिः परं त्वं हरे ! नास्त्येवोज्ज्वलमन्यदुत्तमगुणं ज्योतिर्विना त्वां कचित् । सङ्कल्पात्तव सर्वलोकसरणि सृष्ट्वा स्वयं भ्राजसे ! गोविन्दाद्य परं महस्तव गिरा वक्तुं न शक्तिर्मम M. ४. माहादेयाकिलुम् विश्वं नाभिसरोजमस्तकमिदं सत्यं विशालं तव श्रीशस्याम्बुजकोमले वपुषि यच्चित्तं न बघ्नात्यहो !r नानादुर्मतसम्प्रविष्टमपि यद्विश्वं तनोषि स्वयं तस्मात्त्वां तुलसीप्रियं कथमिदं विश्वं समाराधयेत् ? | ७. वरुन्दादवरुन्तवत्त– द्वितीयशतकम् । नैसर्गं हि तपःफलं त्विति महज्ज्योतिः परं ते तनु– ज्ञानं चापि निसर्गसिद्धमपरिच्छिन्नं विभु श्रीहरे ! लोकान् पालयसि स्वयं हि सततं कालत्रयस्थोऽच्युतः कल्याणानिह ते गुणान् कथमहं कार्त्स्न्येन सङ्कीर्तये ? || ६. ओदुवारोतेल्लाम्- वेदा वेदविदां समस्त जगतां सर्वे वदन्त्यंशतः पूर्णस्यापि गुणांस्तवैव तुलसीमालाकिरीटोज्ज्वल ! पद्मा च स्वयमस्ति नित्यवसतिर्वक्षस्थले ते हरे ! शब्दैः कैः कथयाम्यहं कथमहो ! तादृक् च ते वैभवम् ॥ ७. वालूतुवार्पलराक- स्तोतारो बहवो भवत्विति भवानादौ स्वयं सृष्टवान् ब्रह्माणं चतुराननं सृज जगन्मूलोदकादित्यहो ! | रुद्राद्या अमराश्च दिव्यमतयस्संघीभवन्तस्स्वयं किं स्तोतुं प्रभवन्ति सद्गुणगणान्नित्योज्ज्वलांस्ते हरे ! ॥ ८. माशूणाच्चुडरुडम्बाय्- श्रीकान्तं निरवद्यनिर्मलमहातेजोनिधिं त्वां हरिं दिव्यज्ञाननिधिं विकाररहितं सर्वाश्रयं सर्वतः । देवेशोऽपि चतुर्मुखश्शुभमतिस्स्तोतुं च सज्जो यदि त्वत्पादाम्बुजयुग्भकान्तिरतुला किं नाप्नुयान्म्लानताम् ! ॥ ९. मालुङ्गादवैनुदिय- नित्यामोघसुतीक्ष्णचक्रधर ! ते कैर्बसकं गजं त्रातुं त्वं गरुडं त्वरातिशयतो रूढस्स्वयं चागतः । सङ्कल्पैस्सफलैस्तवात्र जगतां रक्षासु दीक्षाऽस्ति चेत् किं ज्योतिर्न तिरस्कृतं भवति ते वात्सल्यसीमाम्बुषेः ! ॥ ५५ બુદ્ सहस्रगाथारत्नावली । १०. मरैयायबालवेदनिन- गूढं वेदचतुष्टयेऽतिगहने ज्योतिः परं त्वं हरे ! पर्यायेण जगत्त्वमेव सकलं सृष्ट्वा स्वयं भक्षयन् । उद्गीर्यापि पुनः पदक्रमत एवोन्मातुमासीः प्रभुः ! किं चित्रं यदि सेव्यसे त्वमनिशं रुद्रेन्द्रधात्रादिभिः || ११. वियप्पायवियप्पिल्ला- चित्राणामपि चित्रमेव विशदज्ञानैकवेद्यं हरिं त्वा श्रीकुरुकापुरे शठरिपुस्तुष्टाव जिष्ण्वाश्रये । साहसे दशकं तदेतदपि चोद्दुष्टं समुद्रावृते चास्मिन् भूमितले समुद्धतिकरं बाभाति जन्मापहम् ॥ अथ तृतीयशतके
२
२. द्वितीयदशकम् (मुन्नीर आलम पडैत्त ) ( तादृशानुभवायाशक्ते शठारौ स्वकरणसङ्कोचात् व्या- मुग्धेसति सर्वेश्वरश्श्रीवनगिरौ सर्वसुलभोऽयं तवानुभाव्य इति समाधत्ते इति प्रतिपादयति । ) १. मुन्नीर् आलम् पत्त- लोकं च त्रिविधाम्बुसंश्रयमिमं सृष्ट्वोपकर्ताऽसि नः कारुण्याच्च पयोदवर्ण ! यदहं त्वद्दत्तकायानुगः । सन्तप्तोऽस्मि ! महार्तिपापसरणिं हत्वा समूलामिमां त्वां सम्प्राप्य कदा भवामि भगवन् ! धन्यो न वेद्मि स्वयम् ॥ २. चन्मा वैयमलन्द- द्वितीयशतकम् । मातुं त्वं पृथिवीं विशालकठिनां पादाब्जतो वामन - श्रीशाभूः किल । मायया तब हरे ! नानाविधाज्जन्मतः । क्विनोऽहं बत ! दुर्निवारदुरितक्लेशानुबन्धावली- मूलच्छेदकरः कदा तब महत्प्रादाम्बुजं संश्रयै || कोल्लामाक्कोल्- नेतुं चाजिगणं हि वेत्रभृदभूस्त्वं शस्त्रहीनोऽवधी- दुष्टान् भारतसङ्गरे ! मम विभो ! त्वं सर्वसेनान्तकः । भूम्यामत्र न नश्यति स्वयमयं दुर्देहबन्ध मम स्वामिम् ! मे वद साधनं तव महासङ्गाय संरक्षितुः ॥ ४. शूच्चित्रानच्चुडरोलियाकि-
ज्ञानौज्ज्वल्य महानिधे ! मम विभो ! सर्वत्र च व्याप्तित- सम्पूर्णोऽसि सदाऽपि चाद्य दयया स्थित्वा मदग्रे वद । धन्योऽहन्तु कथं भवेयमनघस्सन्त्यक्तभावान्तर- स्त्वत्पादाम्बुजयुग्ममात्रशरणश्श्रीमन् ! मुरारे ! हरे || ५. वन्दायै पोलेवन्दुम् प्रादुर्भाववशात्समागतममुं चेतो न मे त्वां भजेत् ! त्वत्प्राप्तिर्यदि दुर्लभाऽस्ति सततं चैव मम श्रीपते । कुत्रहन्तु कदाऽऽश्रयेयमतसीगुच्छालिसच्छायमे- चैनं त्वां मम नाथमच्युतमहो ? भाग्यं किमीदृङ्मम || ३. किर्पन् किल्लेनेनिलन्- नृत्याकृत्यविवेकशून्यहृदयश्चासं पुरा सर्वदा नानादुर्विषयप्रवर्तितमना दूरं गतोऽहं तव । सङ्ख्यातीतमनेकजन्तुनिवहं सङ्कल्पमात्राद्भवा- नुत्पाद्यास्ति परः ! कदा बत ! भजे दिव्यं त्वदङ्घ्रिद्वयम् ॥ ५८ ७. एन्नाननामिरुन्दिरुन्दु- सहस्रगाथारलावली 1 मे | हे ! चित्त ! त्वदधीन एव सततं मोहाब्धिमग्नोऽस्म्यहं दुःखी पापरतो भवाम्बुधिगतः किं मन्दभाग्यस्य किंञ्चित्साधनमस्ति तस्य परमज्योतिर्मयस्याश्रये श्रीकृष्णस्य समस्तवस्तुनिवहव्याप्तिप्रतिष्ठाभृतः ॥ ८. मेन्बविनैक- नानादुःखकराघराशिसरणिध्वंसाय यत्त्रो न मे ! त्वत्पादाम्बुजसन्नतिश्च सततं नैवास्ति मे श्रीपते । सौशील्यादिनिघे ! ममापि च विभो ! श्रीकृष्ण ! तेजोनिधे ! पश्येयं तव दिव्यरूपमिति च क्रन्दामि ! कुत्राश्रये ॥ २. कूविक्कूवि - घोराघाब्धिनिमम एव सुचिरं प्रभ्रष्टमार्गस्स्वयं आन्तोऽहं किल मन्दभाग्य इह हि ! त्वां नाश्रितोऽहं तदा । गोपालं जगतां च मानविधये त्रैविक्रमप्रक्रमम् ! क्रन्दन्नेवमनाथवद्भुवि कदा त्वत्सन्निधिं प्राप्नुयाम् ॥ ३०. तलैप्पेयूकालम् - काले चान्तकदूत पाशविततेस्तद्दुःखशान्त्यै स्वयं वेदैर्वेद्यमुदारमत्र सुलभं त्वां कृष्णमस्म्याश्रितः । मच्चित्तं समभूत्स्थिरं किल ! तदा त्वात्माच मे नित्यतां सम्प्राप्यैव कृतित्वमुत्तममगादित्येव मे निर्णयः ॥ ११. उयिर् कलेल्लावुलकमुम्— लोकानामपि चात्मनामधिपतिं श्रीशं हरिं कोकिलै- राक्रान्ते कुरुकापुरे तरुगणैश्चेतोहरे संवसन् । स्तोतुं चाह सहस्रसूक्तिसरणिं गेयां शठारिर्मुनि- स्तत्रेदं दशकं तनोति जगतां मुक्तिं वपुः पाशतः ॥ द्वितीयशतकम् अथ तृतीयशतके
३
३. तृतीयदशकम् ( ओलिविल्कालमेल्लाम् ) ( श्रीवेङ्कटेश्वरचरण सन्निधौ सकलविधकैङ्कर्यं प्रार्थनः मत्र क्रियते । ) १. ओलिविल्कालमेलाम्- सर्वत्र चाखिलदशास्वपि सर्वदाऽपि प्राप्यात्र किङ्करदशां वयमाश्रयामः । गम्भीरनादगिरिनिर्झरवेङ्कटाद्रि- ज्योतिः परं मम पितुश्च पितामहाख्यम् ॥ २. एन्दै तन्दै तन्दै - मूलं पितुर्मम पितुश्च पितामहस्य श्रीशः प्रभुर्लसति नीलपयोदमूर्तिः । कल्याण सद्गुणगणाम्बुनिधिस्समस्तै- देवैस्स सूरितिलकैः कृतपुष्पवृष्टिः ॥ ३. अण्णल्मायन् नाथ: किलाद्भुतविचित्रचरित्र एष - श्रीपुण्डरीकनयनोऽसितरत्नकान्तिः । बिम्बाधरोऽत्र विमलाम्भसि वेङ्कटाद्रौ देवाधिदेव इह भात्यमितप्रभावः || ४. ईशन् वानवकु - देवाधिदेव इति चेद्रहमद्य वच्मि श्रीशस्य किं तदुचितं महिमातिसीनः तेजोनिधेर्मयि च वेङ्कटनायकस्य प्रेम्णाऽतिमोहितमतेरतिनीचवृत्ते ! || ઘર५८ एम्ञाननामिरुन्दिरुन्दु– सहस्रगाथारत्नावली 1 हे ! चित्त ! त्वदधीन एव सततं मोहाब्धिमनोऽस्म्यहं दुःखी पापरतो भवाम्बुधिगतः किं मन्दभाग्यस्य मे । किञ्चित्साधनमस्ति तस्य परमज्योतिर्मयस्याश्रये श्रीकृष्णस्य समस्तवस्तुनिवहव्याप्तिप्रतिष्ठाभृतः ॥ ८. मेवुतुन्वविनैक- नानादुःखकराघराशिसरणिध्वंसाय यत्त्रो न मे ! त्वत्पादाम्बुजसन्नतिश्च सततं नैवास्ति मे श्रीपते । सौशील्यादिनिघे ! ममापि च विभो ! श्रीकृष्ण ! तेजोनिधे ! पश्येयं तव दिव्यरूपमिति च क्रन्दामि ! कुत्राश्रये ॥ ९. कूविक्कूवि. घोराघाब्धिनिमम एब सुचिरं प्रभ्रष्टमार्गस्स्वयं आन्तोऽहं किल मन्दभाग्य इह हि ! त्वां नाश्रितोऽहं तदा । गोपालं जगतां च मानविधये त्रैविक्रमप्रक्रमम् ! क्रन्दन्नेवमनाथवद्भुवि कदा त्वत्सन्निधिं प्राप्नुयाम् ॥ १०. तलैप्पेयूकालम् - काले चान्तकदूतपाशविततेस्तद्दुःखशान्त्यै स्वयं वेदैर्वेद्यमुदारमत्र सुलभं त्वां कृष्णमस्म्याश्रितः । मच्चित्तं समभूत्स्थिरं किल ! तदा त्वात्माच मे नित्यतां सम्प्राप्यैव कृतित्वमुत्तममगादित्येव मे निर्णयः ॥ ११. उयिर् कलेल्लावुलकमुम् लोकानामपि चात्मनामधिपतिं श्रीशं हरिं कोकिलै- राक्रान्ते कुरुकापुरे तरुगणैश्चेतोहरे संवसन् । स्तोतुं चाह सहस्रसूक्तिसरणिं गेयां शठारिर्मुनि- स्तत्रेदं दशकं तनोति जगतां मुक्तिं वपुः पाशतः ॥ द्वितीयशतकम् अथ तृतीयशतके
३
३. तृतीयदशकम् ( ओलिविल्कालमेल्लाम् ) ( श्रीवेङ्कटेश्वर चरण सन्निधौ सकलविधकैङ्कर्यं प्रार्थन १. ओलिविल्कालमेलाम्- मत्र क्रियते । ) सर्वत्र चाखिलदशास्वपि सर्वदाऽपि प्राप्यात्र किङ्करदशां वयमाश्रयामः । गम्भीरनादगिरिनिर्झरवेङ्कटाद्रि- ज्योतिः परं मम पितुश्च पितामहाख्यम् ॥ २. एम्दै तन्दै तन्दै — मूलं पितुर्मम पितुश्च पितामहस्य श्रीशः प्रभुर्लसति नीलपयोदमूर्तिः । कल्याणसद्गुणगणाम्बुनिधिस्समस्तै- देवैस्स सूरितिलकैः कृतपुष्पवृष्टिः ॥ ३. अण्णमायन् नाथः किलाद्भुतविचित्रचरित्र एष - श्रीपुण्डरीकनयनोऽसितरत्नकान्तिः । बिम्बाधरोऽत्र विमलाम्भसि वेङ्कटाद्रौ देवाधिदेव इह भात्यमितप्रभावः || ४. ईशन् वानवकु देवाधिदेव इति चेद्रहमद्य वच्मि श्रीशस्य किं तदुचितं महिमातिसीनः ॥ तेजोनिधेर्मयि च वेङ्कटनायकस्य. प्रेम्णाऽतिमोहितमतेरतिनीचवृत्ते ! || ઘરે ५. शोदियाकि- सहस्रगाथारत्नावली ज्योतिर्मयं सकललोकसमाश्रितं चा- प्यादिं च सर्वजगतां यदि वच्मि मूर्तिम् । वेदान्तसारममृतं किमहं स्वीमि श्रीवेङ्कटेशमनघं शुभसद्गुणाब्धिम् ॥ ५. वेङ्कडङ्गल्— श्रीवेङ्कटाद्विपतये नम इत्यपीदं मन्त्रं च जप्यमिह बिभ्रति ये. महान्तः । तेषा मृणानि सकलानि हतानि हि स्युः ! पापानि चेतिं किल ! तेऽत्र विशुद्धवृत्ताः ॥ ७. शुमन्दुमामलर्- सन्धार्य दिव्यकुसुमानि जलं च दीपं धूपं च भक्तिभरितास्तु भजन्ति देवाः ! सूरीन्द्रवर्यसहिता इह ! वेङ्कटाद्रि- स्सोऽयं ददाति किल नः परमं च साम्यम् ॥ ८. कुत्रमेन्दिवकुलिर् म- उद्धृत्य चाद्रिमपि रक्षति शीतवर्षा- द्विक्रान्तसर्वभुवनस्स्म परात्परोऽसौ । स्वामी विचित्य तमिमं किल बेङ्कटाि प्राप्तोऽयमेव गिरिरस्मदघप्रहन्ता || ९. ओयुमूप्पु - नश्यन्ति वार्धकजराजननं मृतिश्च श्रीशस्य वेङ्कटपतेश्चरणारविन्दम् । संसारतापहरणस्य वहन्ति वाचा चित्तेन चापि किल ये जगतीह तेषाम् ॥ १०. वैत्तनाल्वरै- द्वितीयशतकम् क्लृप्तेषु हन्त ! दिवसेष्ववसानकाले सर्वेन्द्रियप्रलयतश्च पुरा भजध्वम् । श्रीशेषशायिवरवेङ्कटसानुदेशं रम्यैर्विशालमिह वृक्षगणैः प्रसूनैः ॥ ११. तालपरप्पि विस्तीर्य पादतलमप्यवनीं प्रमातु- श्रीवेङ्कटाचलपतेरशठकोपनाम्ना स्तोत्रा कृते विदुरिदं दशकं सहस्रे ये ते तु यान्ति पदवीं भुवनप्रशस्ताम् ॥ अथ तृतीयशतके
४
४. चतुर्थदशकम् (पुकलुनल्लोरुवनेन्गों) ( तादृशकै र्य करणायाशक्तश्शठारिस्त्रं वाचिककैकयमेव ४. फुकलुनल्लोरुवनेन्गो- करोति । ) स्तव्योऽयं परमोऽद्वितीय इति किं वच्मि ? स्वयं धारिणी सेयं निस्समवैभवेति किमहो ? वारान्निधिश्शीतलः । किं वाऽयं दहनोंऽनिलः । किमु नभस्सर्वत्रगं ? किं दिकि ज्योतिर्द्वन्द्वमुताखिलं च तदिदं किं वेति कृष्णं ब्रुवे ? ॥ २. कुकुमाररियमान्- स्तोतुं नैव हि शक्नुयां मम विभुं कृष्णं सरोजाम्बकं ! किं बाऽमी गिरयः ? किमेतदखिलं वर्षं च सञ्जीवनम् । भास्वतारकमालिका किंमथवा वेद्याः कलाश्चाखिलाः ; किं ज्ञानाश्रयवाच्यराशिस्थवा नैवास्मि वक्तुं प्रभुः ॥ ६.१ ३२ ३. पङ्गयक्कण्णनेन्गो- सहस्रगाथारत्नावली । किं बाऽयं वरपुण्डरीकनयनः ? किं वा प्रवालाधरः ? किं वा रम्यलसत्पदाम्बुजयुगः ? किं नीलवर्णोऽच्युतः । किं वाऽत्युज्ज्वलदिव्यमौलिरुरसि श्रीवत्सचिह्नाङ्कितः ? किं माणिक्यमिदं वदामि विमलं श्रीशङ्खचक्रोज्ज्वलम् ॥ ४. शादिमाणिक्कमेन्गौ- 2 किं माणिक्यमहो ! वदामि ? किमहो ! भास्वत्सुवर्णं च तं मुक्ताराशिमुत ब्रवीमि ? विमलं वज्रं ? प्रदीपं शुभम् आद्यं ज्योतिरुदाहरामि पुरुषं किं वा पुराणं परं ! मन्नाथं हरिंमच्युतं तममलं संहारकालस्थितम् ॥ ५. अच्चुतनमलनेन्गो किं वाऽयं त्वमलोऽच्युतश्श्रितजनक्लेशापहः किं हरिं: 2 किं विश्वस्तमहौषधं ? किमु सुधावाराशिसारामृतम् ? | किं बा तं मधुरं ब्रुवे रसघनं ? कि षड्स वोदनं किं बेदं मधु साज्यमेव ! किमहो ! पक्कं फलं वा पयः ॥ ६. पालेन्गोनान्गुवेदप्पयनेन्गो- शाखारूपमिदं चतुश्श्रुतिफलं किं नीतिसूत्रात्मकं ? किं सङ्गीतमिदं मनोरममुत श्रेष्ठं च सर्वेष्वपि । सर्वातीतमिदं फलं किमसमं ? कृष्णं ब्रुवेऽहं पतिं मायाचेष्टितमादिपुरुष मिमं देवाधिदेवं हरिम् ॥
- बानवरादियेन्गो- देवानामपि मूलमेव किमिमं तेषां च पूज्यं ब्रुवे किं तेषामपि भोगमेव च फलं । तेषां च किं रक्षणम् किंवैश्वर्यमनश्वरं च कलये ! किं स्वर्गलोक स्थिरं ! नित्यासङ्कुचितं च मोक्षमथवा माणिक्यवर्ण ब्रुवे ॥ द्वितीयशतकम् । .. ६३ ८. ओलिमणिवण्णनेन्गो- लोकानामपि रक्षणाच्च मुदितं सृष्टैश्च तैस्संस्तुतं कृष्णं मे प्रभुमेव मायिनमिमं दिव्यं हरिं स्रग्विणम् । किं वाऽहं मणिवर्णमुज्ज्वलमहो वच्मि स्वयं स्तव्यमे- वाहोस्विज्जटिनं हिमांशुशिरसं ! किं वा विरिञ्चं ब्रुवे || ९. कृष्णनैमायन्तन्नै - सर्वाचेतनचेतनात्मकमिमं कृष्णन्तु मायामयं हृत्वाऽम्भोनिधिमन्थनादमृतमेवास्मद्विभुं चाच्युतम् । स्तुत्वाऽनन्तमनन्तशायिनमहं लोकान् गिलन्तं पुन- वात्सल्यादपि चोद्गिरन्तमधुना मातुं न वै १०. यावैयुम् यवरुम् तांना – शक्नुयाम् ॥ सर्वाचेतनचेतनात्मकतयाऽप्यस्पृष्ट एव स्वयं तत्तद्दोषगणैस्तदिन्द्रियगणातीतश्च मूर्तिर्मतेः । देहे जीव इब स्वयन्तु विमलस्सत्यं च नित्यं हरि - स्तत्सम्भावितमेव चेत्तु तदिदं चास्त्येव सम्भावितम् ॥ ११. कूडिवण्डरैयुम् — भृङ्गोपेतसुमस्रजं हरिमिमं नीलाब्दवर्णं स्तुवन् साहस्रं कुरुकेश्वरश्शठरिपुर्भव्यं त्वकार्षीच्छुभम् । तत्रेदं दशकं पठन्ति भुवि ये ते नित्यसूरिप्रियाः नित्यं स्युः परमे पदे भगवतो नित्यानुभूत्या स्वयम् ॥ ६६ ‘सहस्रगाथारत्नावली | १०. करुममुम् करुमपलनुम् - कर्माण्येव च सर्वकर्मफलमप्येषोऽयमाद्यं स्वयं सर्वेषामपि कारणं च विल्सन्माणिक्यवर्णो हरिः । पद्माक्षं हृदि देवदेवमिममेवाराध्य नृत्तादिभि - निर्लज्जा विहरन्तु भक्तिभरिताश्शंसन्तु तं चाक्रमात् ॥ ११. ती वडियवर्तम्मै - दास्ये भक्तगणान्नियोज्य सकलैः पूर्ण गुणैरच्युतं देवानामधिदेवमीश्वरमयं श्रीशं शठारिर्मुनिः । अस्तावीत्कुरु कापुरस्य विलसत्सस्यावृतस्य प्रभु- स्साहस्रे दशकं तदेतदखिलं हन्यान्महापातकम् ॥ अथ तृतीयशतके
६
६. षष्टदशकम् ( शेय्यतामरैक्कण्णनाय् ) [ परव्यूह विभवान्तर्याम्यवतारापेक्षया अवतारस्य सौलभ्यमुच्यते । ] १. शय्यतामरैक्कण्णनाय् - पद्माक्षः परमं महः किल हरिस्सप्तापि लोकानयं भुञ्जानः परमोऽद्वितीयविभवो मूर्तित्रयं च स्वयम् । रोदस्यो मनुजास्सुरास्तदितरे चान्येऽपि चान्येऽपि चा- प्यन्ये चेति समस्तकारणमभूज्ज्ञानं जगत्सर्गकृत् ॥ २. मूवरागियमूर्तियै- यो मूर्तित्रयरूप एव परमं मूलं त्रयस्यापि त- च्छापन्नश्च महोदधौ च शयितो देवाधिदेवोऽच्युतः । लङ्काध्वंसकरं तमेव शरणं कोदण्डपाणि हरि पद्माक्षं कलुषापहं भजत भो लोकास्स्तवैर्भक्तितः ॥ 1 ३. परविवानवरेत्तनित्र- तृतीयशतकम् देवैस्स्तव्यमहागुणं च परमं ज्योतिः परं तं हरिं रासक्रीडितमच्युतं मणिनिभं कुम्भादिलीलाधरम् । कृष्णं शेषशयं प्रभुं च जगतीरक्षार्थनिद्राधरम् स्तोतुं यूयमहर्निशं च सततं सक्तास्स्थ चित्ते निजे ॥ ४. वैम्मिन्नुम्मनत्तेन-
- युष्माकं मनसि स्वयं कुरुतं तन्माहात्म्यमन्यादृशं मायाचेष्टितभास्वरस्य तु हरेरित्येव किं माहशैः । वक्तव्यं भवतीदमस्तु तदिदं । ब्रह्मेन्द्ररुद्रादयो देवाश्च प्रणताः पदाब्जयुगले शंसन्ति चैनं सदा || ५. तिरियुम्कात्तोडु- आविर्भाव इहाच्युतस्य तु विभोः कृष्णस्य नीलाम्बुद- श्यामस्याम्बुजलोचनस्य दिविषत्सेन्यः किरीटोज्ज्वलः ॥ वाय्वाकाशधरार्णवाग्निरविचन्द्राद्याश्च देवास्स्वयं भौमा मानुषतिर्यगादिजडवस्त्वाद्यं च सर्वे भवेत् ॥ ६. तो त्तक्केडवैयिल्लवन्- ७ . ’’ आविर्भूय च जन्मनाशरहितो भात्यद्वितीयो हरि- मूर्तिश्श्रीनृहरिः कुधाकुलमतिर्भक्ताश्रिताङ्घ्रिद्वयः 15 वात्सल्यादनुरक्तलोचनमिमं सूरीन्द्रसेव्यं भजे ! नान्यं जातु हि गन्धरूपरसवाक्स्पर्शात्मकं तं विना || एलुमैक्कुमेनदाविककुम् माधुर्यामृतमात्मनो मम सदा भास्वान् मया सङ्गतो ज्योतिश्श्रीमणिवर्ण एष सततं कुम्भादिलीलापरः भोज्यं सूरिवरैश्च मौनिनिवहैर्दिव्यं फलं श्रीधरं यूयं संश्रयताद्य शुद्धमनसस्सर्वाघशान्तिर्भवेत् ॥ सहस्रगाथारत्नावली ८. तुयरमे तरुतुन्वविन्बविनैकलायू- सर्वेषां सुखदुःखकारणमहाकर्मावलीशासिता तत्संस्पर्शविवर्जितश्च परमो ज्योतिः परं शाश्वतम् भुझे चोरिति स्वयं यमभटध्वंसी च लोकान् हरि- श्रीशं दाशरथिं विनाच्युतमिमं नान्यं शरण्यं भजे ॥ ९. तअमाकिय तन्दैतायोड - माता चापि पिता स्वयं हितपरस्त्वन्योऽपि बन्ध्वात्मक स्सूरीणामपि चाप्रणीस्त्रिविधमूर्त्यादिश्च यश्श्रीधरः । तं तादृक् स्वयमीदृगित्यपि भिया मा संशयं मानवा लोकेऽस्मिन् कुरुत ! स्मृतस्तु भगवान् गम्भीर एवाब्धिवत् ॥ १०. कढल्वण्णन् कण्णन् विष्णवर्करुमाणिक्कम्- सूरीणां मणिरत्नमुत्तमगुणं श्रीशेषशायी परं ज्योतिश्वापि गुणाम्बुधिर्मम हरिः कृष्णोऽस्ति वै धारकः ॥ पूर्वं यश्शतवीरसैन्यमखिलं हन्तुं स्वयं रक्षितुं पञ्चाजौ निरतोऽस्य सारथिविभोः पश्यानि पादौ कदा ११. कष्कल्काण्डक्कँरियनाय् - अक्षिद्वन्द्वपरोक्षमेव मनसस्साक्षात्पदं शीलतः पृथ्व्यां प्राणिततेः कृपाजलनिधिं सूरीन्द्रनाथं हरिंम् | स्तोतुं श्रीकुरुकेश्वरश्शठरिपुस्साहस्रमेवाकरो- तत्रेदं दशकं तनोति परमां भक्ति ! जनैः पठ्यताम् | द्वितीयशतकम् अथ तृतीयशतके
७
७. सप्तमदशकम् (पयिलुम् शुडरोलि ) ( भगवत्कैङ्कर्यनिरता भागवता अस्माकं स्वामिन इवि १. पयिलुम डरोलि - भागवतशेषत्वमुच्यते । ) ज्योतिस्तत्परमं सरोजनयनं क्षीराम्बुधौ शायिनं भक्तार्थं हरिमच्युतं श्रितवतां भाग्यं हि भोग्यं परम् ये केचिच्च भजन्ति ते हि सततं सेव्या भवन्त्येव नः प्राप्यास्सर्वजनिष्वपीह परमास्ते सन्ति नश्शेषिणः ॥ २. आलुम् परमनैक्कण्णनै- सेव्यत्वे परमं च सर्वसुलभ कृष्णं च चक्रान्वितं विष्णुं दिव्यचतुर्भुजं मणिनिभं नाथं च नश्श्रीधरम् । सेवन्ते भुवि ये कृताञ्जलिपुटास्साष्टाङ्गमेते सदा ऽप्यस्माकं प्रतिजन्म सेव्यविभवा नाथा हरेस्सुप्रियाः । ३. नादनैबालमुम् वानमुमेत्तुम् - नाथं भौमगणैश्च सूरिनिवहैस्तव्यं तुलस्याऽञ्चितं दीव्यद्दिव्यसुदर्शनं मम विभुं पादावनप्रास्तु ये । सेवन्ते सततं च ते हि परमारशास्त्रोक्तरीत्या स्वयंः पूज्यास्सर्वजनिष्वपि प्रियतमा अस्माकमार्यास्सदा ॥ ४. उचैयादेवाचैयन् - श्रीनारायणमुत्तरीयवसनं भूषान्वितं कण्ठिका- काञ्चीदामसुवर्णमौलिविलसद्यज्ञोपवीताञ्चितम् । सेवन्ते सततं च ये भुवि हरिं भक्ताश्च तेषां सदा ऽप्यस्माकं परमाश्च सर्वजनिषु प्राप्याश्च सेव्यास्स्वयम् ॥ ६९सहस्रगाथारत्वावली । ५. पेरूमक्कलुवर म पेरुमानै- नाथं सूरिवराधिपं सुरगणान् पूर्णामृतप्राशना- दक्षित्वाऽप्युपकारिणं बहुतमां शंसन्ति ये त्वक्रमात् । तेषां स्तोत्रपरायणाः किलः भवन्त्यस्माकमार्या भुवि प्राज्ञास्सेव्यतमास्तथा दिवि च ते ह्यज्जीवयन्त्येव नः N ६. अलिक्कुम् परमनैक्कण्णने- दातारं परमं हरिं यदुपतिं कृष्णं च चक्राञ्चितं सौगन्ध्याद्रसुमराजं मणिनिभं नाथं च मे श्रीधरम् । ज्योतिस्तत्परमुज्ज्वलं हृदि तु ये कुर्वन्ति नित्यं च ते सत्यं नः परिपालयन्ति सततं चाजन्मजन्मान्तरम् ॥
- शन्मशन्मान्तरम् कात्तडियारक — नानाजन्मसु भक्तवर्गसरणि नीत्वा च साक्षात्कृर्ति- दत्वा स्वाङ्घ्रिसरोजयुग्मपद बीसेवां च कृत्वा स्वयम् । रक्षन्तं प्रभुमच्युतं स्तुतिपराश्शंसन्ति ये तत्स्तुतिं कुर्वन्तः किल नश्चिरं प्रभुवरा विश्वासपात्रं परम् ॥
- नम्बनैबालम् पत्तवनै – पूर्ण चाखिलविश्वसृष्टिनिरंतं श्रीवत्सवक्षस्थलं देवानामपि दुर्गमं मतिमतां शंसन्ति चेन्नारके । ये केचित्किल तेsपि जन्मसरणिष्वस्माकमीशास्स्वयं सेव्या एव हि सत्यमेतदिति मे दिव्यं मतं पावनम् ॥ ९६ कुलम् वाङ्ग शातिकल् नालिलुम् चातुर्वर्ण्यकुलापकृष्टचरिताश्चण्डाल चण्डालका- चापि श्रीहरिमच्युतं मणिनिभं चक्रान्वितं संश्रिताः । कैर्येषु स्ताश्च ये भुवि जनास्तेषां च दासात्मनां दासास्स्युः परमाश्च शेषिविभवा अस्माकमार्यास्सदा ॥ १०. अडियान्देवै यमुण्डु - तृतीयशतकम् पादाक्रान्तजगततिं च सकलां भुक्त्वा स्वयं तद्वशा- द्वालं तं वटपत्रशायिनमपि श्रीशं हरिं निस्समम् । अस्माकं प्रभुमाश्रिता भुवि च ये तद्दासदासानुगा- स्तद्दासाश्च तदीयदास्यनिरता नित्यं च नाथा हि नः ॥ ११. अडियोङ्गुनूत्तुवर्वीय — दृप्यदुष्टशतं विनाश्य च तदा पञ्चाश्रितानां दया- सिन्धुं बन्धुसुदारसद्गुणनिधिं स्तोतुं शठारिर्हरिम् । चक्रे श्रीकुरुकेश्वरः कृतितति साहस्रपद्यावलि ! तत्रेदं दशकं तदीयपरमभ्यस्याश्रिता मोक्षगाः || अथ तृतीयशतके
८
८. अष्टमदशकम् [मुडियाने] ( भगवद्गुणानुभव एकैकमपीन्द्रियं सर्वेन्द्रियक्कृत्यानि क १. मुडियाने - र्तुमिच्छतीति प्रतिपाद्यते । ) श्रीदिव्यमौलिवर ! सेव्य जगत्त्रयस्य ! स्तव्याङ्घ्रिपङ्कज ! पयोनिधिमन्थनोऽसि । तार्क्ष्यध्वजासितपयोधरवर्णं चित्तं सूरीन्द्रनाथ ! परमेति ममास्ति मुग्धम् ॥ २. नेञ्जमे नीलू नगराक — जिह्वा हि वक्ति मम सन्ततमन्तरङ्गे वासिन् ! पुरे मम शरण्य दयापरेति । लङ्केश्वरप्रमथनेति जगत्त्रयस्या- प्याक्रान्तिकृत्यचण ! वञ्चकं वामनेति ॥ ७१. ७२ ३. वाशकमैयेत्त- सहस्रगाथारत्नावली | जिह्वाप्रचोदक ! दयापर ! सूरिसेव्य ! नव्येन्दुभास्वर | हरे नवनीतचोर । गोपेश्वरेति सततं च तवैव विष्णो! मत्पाणियुग्ममिह मार्गणकृत्यसक्तम् ॥ ४. कैककालारत्तोलुदु- पाणिद्वयेन सततं तव पादसेवां कृत्वा क्षणादपि वियोगसहं न भाति । त्वामेव शेषशयनानिशमीक्षितुं मे नेत्रद्वयं परम काङ्क्षत एव सत्यम् ॥ ५. कण्कलाल्काणवरडोल– द्रष्टुं च लोचनयुगेन किमस्ति शक्ति- रित्येव वामनमिहावनियाचकं त्वाम् । आरोस हृष्टविनतासुतपक्षघोषं श्रोत्रद्वयं मम सदाऽपि च काङ्क्षते हि ॥ ३. शेविकलालार निन् कीर्तिक्कनियेन्तुम्- श्रोत्रेन्द्रियेण तव कीर्तिफलं सुपकं दिव्यामृतं कविवरार्जितमेव भोक्तुम् । त्वामेव दिव्यकनकोज्ज्वलचक्रपाणिम् पृथ्व्यां समाश्रयत एव सदा ममात्मा ॥ ७. आबिये आरमुदे – मत्प्राणभूत परिपूर्णरसामृत त्व- त्सौन्दर्यमेव गरुडध्वज चक्रपाणे । पापी स्वमानसमनोरथवाक्यघोषै- रुद्घोषयन्नपि न दृष्टिवशं भजेऽत्र ॥ तृतीयशतकम् । ८. कोलमे तामरैक्कण्णदोरञ्जननीलले- सौन्दर्यविग्रह | सरोरुहनेत्रयुग्म ! नीलाञ्जनाभ । सम धारकशीलमूर्ते । भूतं भविष्यमपि चावतनं भवन्तं पश्यामि कुत्र च कदेति विचिन्तयामि || ९. कोलवन् नां मावलि मूवडिता— यांचे पदत्रयतलं हि महाबले त्वं देहीति वञ्चक ! बटो खल्कंसनाशिन् । बाणासुरस्य दृढबाहुसहस्रभेदिन् ! प्राप्स्ये कदा गरुडवाहन ! माधव त्वाम् || १०. पोरुदयमादिनिदेपोय- संवृद्धपनियमलार्जुनभञ्जक ! स्वं By नाथोऽसि मे पदयुगं ननु तें दिदृक्षुः । 1 खिन्नोऽहमच्युत । तव स्तुतिमालिकान्तु प्राप्योत्लुकोऽस्मि समयं च क्कियन्तमेवम् ॥ ११. पुलम्बुशीपूमियल दपेरुमान- स्तव्यं त्रिविक्रममुदारगुणं महात्मा स्तोतुं मुनिस्तु कुरुकाधिपतिश्शठारिः । साहस्रमाहं परमं दशकं तदेत- द्धन्याः पठन्ति यदि यान्ति परं पदं तत् ॥ ७३ 188 सहस्रगाथारलाचली | अथ तृतीयशतके
९
९. नवमदशकम् ( शोनाल् विरोदमिदु ) ( अत्र श्रीशठारिलौकिकान् प्रत्युपदिशति इतरस्तोत्रवैफल्यं श्रीपतिस्तोत्र साफल्यञ्च विस्तरेण । ) १. शोनाल् विरोदमिदु — उक्तं चेत्तदिदं विरुद्धमिह वस्सत्यं तथाप्युच्यते यूयं संशृणुताद्य! भृङ्गविहृतेर्झङ्कारशब्दान्विते । . शेषाद्री मम लालनीयविषयस्स्वामी मम स्तव्यतां प्राप्याऽऽस्ते ! रसनाभिरामकवितां दद्यां न मेऽन्येष्वहम् ॥ २. उलनाकवेयेण्णित्तन्नैयोत्राक- किं वा स्यात्फलमत्र मानुषतते स्स्तोत्रेण या भूतले सत्तां स्वामभिनन्द्य फल्गुधनमप्यास्ते च मत्ता वृधा । तीर्थैस्सस्यसमृद्धिभिः परिवृते रम्ये कुरुङ्गापुरे भास्वन्तं कुलनायकं मम विभुं सर्वेश्वरं तं बिना ॥ ३. ओलिवोनिल्लादपल्लूलिदोरुलि- नित्यं सन्ततकिङ्करत्वविभवं भोग्यं परं पावनं भक्तेभ्यो वितरन्तमच्युतममुं सूरीन्द्रनाथं विना । अन्यत्र स्वयमद्य यूयमहह ! ! लाध्याः कवीन्द्रा अपि भ्रान्ताः क्षुद्रनरस्तुतौ हि निरताः किं स्यात्फलं वस्ततः ? ॥ ४. एवावदेत्तनैनालैक्कुप्पोदुम् प्राज्ञाः ! किं फलमद्य हे ! कविवरास्स्तुत्वा नरानस्थिरान् प्राप्यं वः ? किमिदं चिराय भवतां भोग्यं भवेदल्पकम् । भास्वद्रत्नकिरीटमच्युतममुं सूरीन्द्रनाथं हरिं स्तुत्वा स्याद्भवतामनन्यसुलभं मुक्तेः पदं शाश्वतम् ॥ ५. कोल्लुम् पयनिल्लै- तृतीयशतकम् । प्राप्यं नैव हि किञ्चिदस्ति भवतां प्राज्ञाः कवीन्द्रा वृधा स्तुत्वा क्षुद्रघनाश्रयानिह नरान् मिथ्याऽप्युदारानिव । स्तव्यं पूर्णगुणं त्वभीष्टवरदं निर्दोषमेवाच्युतं नित्यौदार्यनिधिं हरिं मणिनिभं स्तोतुं समागच्छत ॥ ६. वम्मिन् पुलवीर नुम्मेय्वरुत्ति— आयातार्याः कवीन्द्राः करकृतिततिभिर्देहयात्रां कुरुध्वं ! लोकेऽस्मिन्नद्य नैव प्रभुवरध निकास्सन्ति दृष्टं तदेतत् । युष्माकं सत्कवित्वं त्वभिमतविषये देववृन्दे प्रयुक्तं सर्वं स्तोत्रं भवेन्मे मणिमकुटभृतश्श्रीपतेरेव सत्यम् ॥ ७. शेरुकोडे पुकलेल्लैयिलानै- दाने चाप्रतिमं महागुणनिधिं निस्सीममेवाच्युतं देवं नामसहस्रयुक्तमतुलं विष्णुं विनाऽन्यान् भुवि ॥ क्षुद्रान् दानपराः पयोदसदृशा हस्ताश्च वो बाहवो - ऽप्येते पर्वतसन्निभा इति भृशं मिथ्यावचो न ब्रुवे || ८. वे यिन्मलिपुरैतोलि - । ‘नीलायाः पतिमच्युतं सुविलसद्वाहोर्गुणानां गणै-.. स्स्तुत्वाऽनन्तशतैश्चिराय बहुधा में देहयात्रां चरन् । तत्पादाम्बुजसंश्रयोत्सुकतमः किं क्षुद्रमर्त्यान् भुवि स्तोतुं मे वचसा ब्रवीमि किमपि प्राज्ञोऽद्य मायावशान् ॥ ९. वाय कोण्डुमानिडम् पाडवन्द - नाहं मानुषवर्गशंसनपरो वाचा कविरश्रीधर वेदान्तप्रतिपाद्यवैभवमुदाराग्रयं प्रभुं चक्रिणम् । संश्रित्यास्मि कृती ! स एव परमो ज्योतिर्मयो यस्तु मा- मर्चामूर्तिपरात्पराद्यनुभवैर्मुक्तं करोत्यच्युतः ॥ सहस्रगाथास्त्रावली । १०. नित्र नित्र पलनालुय्क्कुम् पार्श्वे तिष्ठति नित्यमेव हि नृणां देहात्ययेऽपि स्वयं तेषां भात्यनुगः प्रभुस्स्ववशगान् कर्तुं सदा तान् हारैः । हर्तुं जन्मपरम्परान्तु जगतां स्रष्टुः किंलाह कवि- स्तस्यैव स्तुतये सदा । किमुचिता भूयान्ममान्यस्तुतिः ॥ ११. एर्कुस पेरुम्पुकलू- नित्योंदारगुणोज्ज्वल मुरिपुं सुरीन्द्रनाथं हरि कृष्ण स्तोतुमुदारसद्गुणनिधिः प्राज्ञक्शठारिमुनिः । स्म्यं श्रीकुरुकेश्वरश्शुमगुणं साहस्रमेवाकरी- तत्रेदं दशकं भुवीह पठतां जन्मैव न स्यान्नृणाम् ॥ अथ तृतीयशतके
१०
१० दशमदशकम् (शन्मम् पलपलशेद) ( इतरस्तुतिव्यापृतान् भयाशयान् दृष्ट्वा शठारिस्स्वस्य सर्वे- श्वरस्तुत्या सर्वाभीष्टसिद्धिरासीदिति प्रतिपादयति ।) १. शन्मम् पलपलशे- नानाजन्मसु जन्मभागिह भुवि प्रादुर्भवन् माधव- इशङ्खं चक्रमपि स्वशार्ङ्गमुसलौ, श्रीनन्दुकं तां गदाम् । विश्रद्धादवाहनोऽसुरगणान् रक्षोगणान् मर्दयन् युद्धे भाति च भक्तवत्सल इमं स्तुत्वाऽस्मि पूर्णाशयः ॥ २. कुरैविल् तडकडल्—- तृतीयशतकम् । पूर्णाम्भोधितलेऽस्ति शेषशयनः पद्माम्बकस्सुन्दर- श्रीमान् योगपतिर्हरिर्मणिनिभः कृष्णश्च तार्क्ष्यध्वजः । प्रध्वस्यासुरवर्गमुत्तमगुणस्संबेश्वरो भात्यय ! स्तुत्वैनं परिगाननृत्तसहितः पूर्णोऽस्म्यहं सन्ततम् । ३. मुटिल्पल्पोकत्तोरु तनिनायकन्- त्रैलोक्याधिपतिं च भोगभरितं सर्वेश्वरं श्रीनिधिं माधुर्याब्धिरसं धनं मधुरसं क्षीरं फलं चोत्तमम् । दिव्यं चामृतमिक्षुमैव तुलसीभास्वत्किरीटं हरि त्वा तत्प्रवणाशयोऽनिशमहं ! चित्तातिलेशो न मे ॥ ४. परिविनिवाणनैक्कातुमेव्रु— रक्षाम्येवमवन्तमाश्रितमिति स्वैरं प्रतिश्रुत्य त बाणं च त्रिपुरान्तकस्तु समरे सेनासमेतश्शिवः । सूनुस्तस्य तथाऽनिलोsपि च जिताः पक्षेण यस्याप्यमुं तार्क्ष्य चाप्यधिरुह्य चक्रधरमेवाहं श्रितो निर्भयः ॥ ५. इडरिनिये ओश्नालू दुःखानां शमनाय हन्त । जगतां पार्थच कृष्णाश्रय- 1 स्सुख्यातस्स च वैदिको निजरथे दिव्यं स्वयं रोपितो । येनासौ परमे च धाम्नि हि विशंस्तस्यात्मजान् वैदिक- स्यानीयार्पितवान् सदेहमिममाश्रित्यास्मि निर्दुःखभाक् ॥ ६. सुयरिल्डरोलि - पूर्णे चोज्ज्वलतेजसि स्वमहिमस्थेम्ना निजे भास्वति प्रादुभूय च मानुषे व्यसनिनि प्रत्यक्ष एव प्रभुः निर्दोषोऽद्भुतकृत्यकृत्किल महामाहात्म्यतोऽभूच्च तं कृष्णं मायिनमाश्रितोऽस्मि सततं । स्यादुः सगन्धो न मे ॥ सहस्रयाथारत्नावली | १७. तुम्बमुमिन्बमुमाकिय- संसारे सुखदुःखमिश्रमखिल विश्व च तन्नारकं नानादुःखमयं च नाकमपि तं भोग्यं स्वयं व्याप्य यः नित्यानन्तचिदाश्रयो भवति तं नाथं हरिं श्रीधरं मायामोहमयं विलासरसिकं प्राप्तस्य दुःखं न मे || • अल्ललिलिन्बमलविरन्दु — निर्दुःखं सुसुखं सदाऽपि परितस्सौन्दर्यतेजोमयं भोगानन्दमयं श्रिया कमलया नाथं हरिं निस्समम् । दिव्यज्ञाननिधिं समस्तजगतां स्रष्टारमेवाच्युतं. कृष्णं मायिनमाश्रितः पदयुगे निर्दुःखगन्धोऽस्म्यहम् ॥ १. सुक्कमिल्ला बच्चूड रोलिमूर्ति - दुःखस्पर्श विहीनमुज्ज्वलमति तेजोनिधि भूषितं देवं मे तुलसीराजाऽप्यभिमतस्वेच्छात्तमायातनुम् । नानाचेष्टितमाश्रितं च सकलैर्ब्रह्मादिरुद्रादिभि- स्वाशैर्विश्वभुजं श्रितोऽस्मि ! न हि मे शक्त्यादिहानिः कचित् ॥ १०. तलविनियेयेनमेङ्गम् परन्द- सर्वत्रापि च सर्वदाऽपि च विभुं चकं परं कारणं ज्योतिर्ज्ञाननिधिं त्वतीन्द्रियमहातेजोनिधिं स्वामिनम् । चन्द्रार्कात्मकपञ्चभूतमयमप्याश्रित्य मायाविनः कृष्णस्याङ्घ्रियुगं प्रपद्य न हि मे हानिः कचिज्जातुचित् ॥ } चतुर्थशतकम् । ११. केडिल् विलुप्पुकले केशवने - निर्दोषं शुभसद्गुणामृतनिधिं तं केशवं श्रीहरिं स्तोतुं प्राह सहस्रमंत्र कुरुकाघीशश्शठारिर्मुनिः । तद दशकं पठन्ति भुवि ये तेषां हरिश्श्रीधर- स्स्वाराज्यं च निरङ्कुशं वितनुते श्रेयांसि मुक्ति पराम् ॥ इति श्रीपरमात्मना श्रीमत्कल्किसिंहमहाकवीन्द्रेण विरचितायां सहस्रगाधारत्नावल्यां | तृतीयशतकं सम्पूर्णम् ॥ अथ चतुर्थशतके
४
१
१. प्रथमदशकम् ( कैवार्शक्कर) ( अत्र कृपानिधेर्भगवतोऽनुभवप्रकारः प्रकाशते । ). ३. कैयाशंक्कर - हस्तेनोद्धृतचक! नीलमणिवर्णेत्येव मिथ्योक्तिभि - स्तुत्वा त्वामहमस्मि बाह्यविषयेष्वेवात्र सक्तस्सदा ।. एवं कृत्रिमबुद्धिरप्यहह ! सम्प्राप्तोऽस्मि सत्यं फलं भाग्यं वारयितुं प्रभुः क इह ! किं कृष्णासि गन्तुं प्रभुः ॥ २. पोनायू मासरुदिनडुवे — हे ! युग्मार्जुनमध्यग प्रियमणे मे दिव्यमध्वात्मक श्रीनाथामृतरूपभागिति बहुप्रेमोंक्तिभिस्तं स्तुवन् मिथ्याहं नटनैश्च हन्त । फलभाङ्मय्येव नाथो: मम स्वैरं भाति धराद्युलोकपरमव्योमादिभिश्वाखिलैः ॥ ३. डब्लनमलवा– क्षुद्रेष्वेव किलेतरेषु विषयेष्वासीन्मतिमें हरे ! मिथ्याऽहं नटनैरुदार मणिवर्णेत्येव च त्वां स्तुवन् । सर्वज्ञस्य च वञ्चकोऽभवमहो तां दुर्दशां सन्त्यजन् धन्योऽहं तव दर्शनेन हि सुधाम्भोधीन्द्र नान्यद्भजे ॥ ४. एम कोलवनु विट्टु — किं काङ्क्षेऽद्य विना भवन्तमिति च स्तोत्रं भूषा ते स्वयं कुर्वन् वञ्चक आसमद्य मनसि स्थैर्येण चानुत्रवैः । नात्मानं हि निवारयामि विषयान्महष्टिमालिन्यहा त्वं मामाह्वय कृष्ण नान्यशरणोऽस्मीत्येव सत्यं ब्रुवे ॥ १४ १०६ ५. कण्णपिराने- सहस्रगाथास्त्रावली । कृष्णं त्वां प्रभुमच्युतं दिवि महासुरीन्द्रसेव्यं शुभं माणिक्यं मधुरामृतं च मनसा प्राप्यापि न प्राप्नुयाम् । मध्ये मामिह देहबन्धकलित कृत्वा महापातकैः पाशैर्मां व्रणपीडितं च परितस्तिष्ठन् बहिर्मा न्यधाः ॥ ६. पुरमरक्कट्टिक्कोण्डु- सर्वत्रापि च मां निबद्धय हि बहिर्द्वन्द्वादिभिः पातकै- स्सन्तप्तं च शरीरसन्ततिरहो हन्त ! व्यधाता दशाम् । अयातीत्य चतुर्भुजं मणिनिभं विस्वाघरं त्वां हरि - पद्माक्षं शुभचक्रपाणिमतुलं दृष्ट्वाऽस्मि धन्यः पुमा ७. अम्मानालिम्पिरानवन्— चक्री व प्रभुरिन्दिरापतिरहो सूरीन्द्रनाथः क्क वा काहं ? हस्तिमहार्तिनाशनकरेत्येवं किलोद्घोषयन् ॥ तद्भक्ति परमां गतोऽस्मि सुहृदां सत्यां स नाथ मवि प्रीतश्चास्ति ! विधेरनुग्रहबलात्स्यात्सद्गतिश्चाधिनाम् ॥ ८. मेलात्तेवर्कम् निलत्तेवहम् -. दिव्यास्सूरिगणाश्च भक्तनिवहा भूम्यां यमेवाच्युतं. सम्प्राप्ताशरण सभाति हृदये दासस्य मे सुस्थिरः । रम्या में तरुणीगणाश्च सुमहद्भाग्यं सुतास्सद्गुणा माता चापि पिता स एव च मम श्रीशः किलेतः परम् ॥ ९. आवारातुंणै- को वा मेऽस्ति सहाय इत्यहमहो संसारपाथोंनिधौ मग्नः पोत इवाम्बुधौ च सुमहाकल्लोलमालाकुले | आसं कम्पित एवं तत्र च मयि प्रीत्याऽऽविरासीद्धरि- शङ्कं चक्रमुदारदिव्यवपुषा विश्रद्दयावारिधिः ॥ पञ्चमशतकम् । १०७ १०. आनानाकुडैयान्– मीनात्मा कमठाकृतिश्च नरसिंहात्मा स्वयं वामनी भूत्वा चापि वने वराहवपुषा (१) भावी च कल्किः पुनः । एवं नीलपयोदवर्ण इह मां दास्ये तु धृत्वा हरि- स्वानित्यपि मद्वचोहृतमनास्सर्वात्मको मेऽभवत् ॥ ११. कार्वण्णन कण्णपिरान्- कृष्णं नीलपयोदवर्णमपि तं नाथं सरोजाम्बकं स्तोतुं श्रीकुरुकेश्वरश्शठरिपुस्साहरू माहाद्भुतम् । दिव्यं द्राविडमुत्तमं च दशकं तत्रेदमत्यादरा- धे भक्तया तु पठन्ति ते किल हरेः पादाम्बुजं प्राप्नुयुः ॥ अथ पञ्चमशतके
२
४२. द्वितीयदशकम् ( पोलिक पोलिक पोलिक) ( अत्र कलिध्वंसपूर्वकः कृतयुगारम्भः प्रकाश्यते । ) १. पोलिक पोलिक पोलिक स्वस्ति स्वस्ति अवस्वनारतमपि स्वस्त्यस्तु नित्यं सतां विष्णोरसद्गुणसागरस्य ‘सुगुणान् गायन्ति नृत्यन्ति ते । भूम्यामत्रे महाशयास्तु परितः पापं प्रणष्टं स्वयं नैव स्यादिह नारकं न च यमो नश्येत्कलिः पश्यत ॥ (१) भावीकल्किरिति सूक्तिरिय पोलिक पोलिकेतिदशकं च श्रीकल्कि सिंहावतारभि ममेव मामकं सूचयति । (२) * श्रीकल्कि सिंहावतारसूचकमिदं (मन्माहात्म्य परं) दशकम् । ૮ २. कण्डोम् कण्डोम् कण्डोम् सहस्रगाधारत्रावली | भक्ता भूमितलेऽत्र दिव्यतुलसीमालाञ्चितं माधवं गायन्त्येव हि नर्तनैश्च परितस्सञ्चारशीला अपि । दृष्टं दृष्टमिदं हि दृष्टमतुलं भोग्यं समृद्धं पदं तं नन्तुं च पुनः पुनः प्रथयितुं भक्तास्समायच्छत ॥ ३. तिरियुम् कलियुगम् नीङ्ग- शीलव्यत्ययकारि तत् कलियुगं नष्टं स्वयं सूरय- स्सर्वे चात्र भुवि प्रविश्य च महद्दिव्यं युगं संश्रिताः । प्रख्यातं कृतमेव मोदद्भरिता नीलाब्दवर्ण हरिं तं नाथं गुणसागरं हि परितो गायन्ति भक्ता भुवि ॥ ४. इढडोल् शमयत्तै- सर्वत्र पततां च दुर्मततर्ति चोन्मूलयन्तो यथा तेऽमी भक्तगणास्तथाऽब्धिशयनं नाथं स्तुवन्तो हरिम् सर्वत्रापि भवन्ति हन्त ! शयितास्तत्रोपविष्टास्थिता- गीलैस्तैर्विविधैश्वरन्ति परितो नृतैश्च नाट्यान्विताः ॥ शेकिनदेन कण्णुककोने- तत्त्वं भाति हि पश्यतो मम शुभं वकं परं सर्वतो बैकुण्ठस्य हरेस्तु भक्तनिवहा आश्चर्यवृत्ता स्वयम् । हत्वा चाप्यसुरांस्तु वो मुविभवान् पापान् विपर्यासंतः कालं चात्र हि भेदयन्ति भवतां नात्र स्थितिस्स्याद्ध्रुवम् ॥ ६. कोब्रुजिरुण्णुम् विशादि— हत्वा प्राणविनाशकाः किल महान्याधिश्च वैरी क्षुधा चेति क्रूरगणा वीति हि हरेश्श्रीचक्रपाणेर्विभोः । भक्तास्तद्गुणगान नृत्तसहितास्सर्वत्र सञ्चारिणो दृश्यन्ते चपलास्तु यूथमपि तान्नत्वा स्त चोज्जीविताः ॥ निरुत्तिनुम्मुल्ल सुक्कोल्लुम् पञ्चमशतकम् । युष्माकं हृदयं प्रविश्य सुदृढा या देवतास्ता अपि. श्रीशं प्राप्य फलप्रदास्तदिह साक्ष्यास्ते मृकण्ड्वात्मजः ॥ दृष्ट्वैवं बत निश्चिते हि मलिनं माऽस्त्वेव चित्तं तु वः कृष्णान्नैव परन्तु दैवमखिलं तद्विग्रहेष्वर्ण्यताम् ॥ इरुक्कुमिरैयिरुत्तुण्ण- कर्तव्यामपि कृत्यसन्ततिममी देवा भजन्तु स्वयं चाराध्या जगतीति मूर्तिसरणिं स्वीयां हरिस्स्थापयन् । देवानामधिदेव एव जयति श्रवित्सवक्षाश्च तं गीतैर्नृत्तयुता भजन्ति विमलास्तान् प्राप्य धन्यास्त भोः ॥ ९. मेवित्तोलुदुमिनीकंलू- वेदस्थामपि सूक्तिसन्ततिममी वाचा पठन्ति स्वयं शुद्धां भक्तियुताश्च धूपकुसुमैर्दीपैश्च गन्धोदकैः । आराध्याच्युतमेव दास्यनिरताः केचिच्च योगान्विता- दृश्यन्ते भुवि तान् प्रणम्य भवत प्राप्यानिहोज्जीविताः ॥ १०. मिक्कवुलकुकऴ्तोरुम् - रुद्रश्चापि चतुर्मुखश्शतमखश्चान्येऽपि देवास्स्वयं कृष्णं श्रीशमिमं प्रपद्य शरणं लोकेषु सर्वत्र च । प्राप्तास्सम्पदमुत्तमां किल तथा हे चञ्चलास्तं हरि यूयं च प्रणमेत चेत्कलियुगं नैवास्ति कुत्रापि वः ॥ ३१. कलियुग मोत्रमिनिक्के- भक्तानां न भवेद्यथा कलियुगं त्राता तथा श्रीहरिः कृष्णो भाति दयानिधिश्व परमं ज्योतिश्च मायी प्रभुः । स्तोतुं तं शठजित्सहस्रमवदत्कारीशसूनुर्मुनि- मराख्यस्तदिदं च तत्र दशकं दोषच्छिदन्तहृदि ॥ tee११० सहयागाथारत्नावली । अथ पञ्चमशतके
३
३. तृतीयदशकम् (माशरु शोदि) ( श्रीशठानायिकावस्था ) ( सखीसम्बोधनम् ) १. माशरु शोदि- माणिक्याद्रिममुं प्रभुं मम हरि बिम्बाधरं श्रीवर ज्योतिर्निर्मलमादिमूर्तिमनघं सौशील्यवारान्निधिम् अन्विष्यानिशमस्मि हन्त नितरां भ्रान्ता स्वयं कर्शिता किं में स्यात्सखि निन्दनैकमनसां जल्पैर्जनानां भुवि ॥ २. एन् शेय्युमूरवर्कव्वै- पद्माक्षः किल मां विजित्य नितरां भाति स्वयं चोज्ज्वल- स्तत्संश्लेषविवर्जिताऽस्मि वपुषि ग्लान्या भृशं कर्शिता । वक्त्रे नेत्रयुगे च मे घवलता चास्त्येव चैवतः किं वा स्यात्सखि नः प्रजल्पवचनैलोंके नृणां मौख्यतः ३. ऊ शकडमुद्वैत पादत्तन्- श्रीनाथश्शकटप्रभञ्जनपदों मायात्मिकां पूतनां हन्तुं स्तन्यरसप्रयुक्तवदनी मामद्य हि क्रीतवान् । . भूयो भूय इहोक्तिसन्ततिमहं वच्मि स्वयं तत्परां नान्यां प्राणसखि प्रिंये किमिह मे कुर्यान्नृणां निन्दनम् ॥ ४. जरवर्क —-.. लोकानां परिचाददोहदभरान्मातुर्वचश्चोदकं धारारूपमिदं प्रकल्प्य नितरामुप्त्वा च कामात्मकम् । बीनं क्षेत्रसमे मनस्यतितरां संवय नानाविधा- माशां पूरयिताऽम्बुदः किमिह से कृष्णोऽस्ति निन्द्यस्सखि ॥ पञ्चमं शतकम् । t ६१६ ५. कडियन कोडियन् नेटियमाल– क्षिपं कार्यकरोऽत्ययं दृढमतिस्सर्वेश्वर लोकानां वशक्रूच्च वञ्चकतमस्सर्वात्मचेतो ऽतिगः । सौन्दर्येण च मोहनोऽयमिति में चित्तं तमेवाश्रितं किं कुर्यां स्रखि सुन्दरीह जननीवाचाऽद्य किं में भवेत् ॥ ६. अन्नैयेन शेय्यिलेन् हे सख्यः प्रथमस्य सूरिसरणेश्रीद्वारकाधीशितुः पारोऽहं कलितास्म्यहो मणिनिभ श्रीवासुदेवात्मनःः । आशा माऽस्तु ततोऽत्र मां प्रति तु वः किं मातृकृत्याद्भवेत् किं स्यात्पौरजनप्रवादवचनात् सर्वं वृधा भाति मे । ७. वलै युलकप्पतेः– aaf च निaaa isत्र हृदयं जित्वा स्वयं वारियों यश्शेते स्म मम प्रभुस्तमतुलं श्रीचक्रपाणिं हरिम् । दृष्ट्वाssवां सखि चक्षुषैव मुदितौ पश्यत्सु नारीजने वेवं निन्दनतत्परेषु शिरसा किं तं च वन्देवहि || ८. पेयमुयुण्डु- पीत्वा स्तन्यमहो निहत्य च महामायां तु तां पूतनां चूर्णीकृत्य च तं खलन्तु शकटं निर्मूल्य वृक्षार्जुनौ । वक्त्रं चापि विदार्य हे सखि बकस्या यो जयन् तं पश्येम कदा वयन्तु जननीलज्जावहास्सस्मितम् ॥ ५. नाणुम् निरैयुम कवदु- हत्वा मैं ani ai च विनति चेतोऽपि भव्यं नमः श्रीस्सूरिवरप्रभुर्दिवि महानास्ते हि भव्यं सखि । सत्यं त्वां हि शपें समस्तजगतां प्रख्यापयामि स्वयं तं में वञ्चकमद्य सर्वविधिभिर्दृष्टाः त्ववद्यावहा || १.१.२ १०. यामडलूम्- सहस्रगाधारत्नावली | लज्जां चापि विहाय वीघिसरणिष्वेनन्तु नारीजना- सर्वे हन्त ! विनिन्द्य वञ्चकमहो कान्तं शपेयुर्यथा । सत्यं हन्त ! तथा भवेयमपि चावद्याश्रया निस्त्रपा धर्तुं श्रीतुलसीस्रजे मम विभोः कान्तस्य वै चक्रिणः ॥ ३१. इरैक्कुम् करुइडल्वण्णन् —- गम्भीराम्बुधिवर्णमच्युतममुं कृष्णं प्रभुं श्रीधरं स्तोतुं श्रीकुरुकापुरप्रभुरहो दिव्यां शठारिर्जगौ । साहस्रात्मकरम्यपद्यसरणिं स्वन्तादिरूपां शुभां तत्रेदं दशकं पठन्ति भुवि ये तेषां पदं स्यात्परम् ॥ १. करेलाम तुज - अथ पञ्चमशतके
४
४. चतुर्थदशकम् (ऊरेल्लाम् तुजि ) नायिकावस्थायां विरहवेदना | ) सुप्ताः पौरजनाः किलाद्य सकलास्सर्वत्र रात्रिस्त्वियं गाढान् तम एव भाति सलिलान्यद्यं प्रशान्तानि हि । दीर्घा रात्रिरियं दिवानिशमपि व्याप्ता जगद्भक्षको विष्णुश्शेषशयी न मामयमुपैत्याः कोऽद्य मे रक्षकः ॥ २. आवि काप्पारिनि यार्- पञ्चरति । अधि भूमितल किलाच गगर्न सर्वे च रात्रिस्स्विये व्याप्यातीव तमोमयी च विकृता दीर्घाऽस्त्यहो सर्वतः । कृष्णो नीलमणिप्रभस्तु न हि मामायात्यही पापिनी हे चित्रा त्वमपीह तद्वशतया नैवानुकूलं मम || ३. नीयुम् पाङ्गल्लै काण असे- हे मच्चित्ता न मेऽनुकूलविघया भासि त्वमप्यथ ही रात्रिश्चाद्य युगायते निरवधिश्शार्डी तु नायाति माम् । काकुत्स्थ हरिरच्युतः प्रबलदुष्कर्मावृत हन्त हो नारीजन्मवशा त्वहं न किल में पश्यामि राति मृतः ॥ ४. पेपरदारेदुम् - द्रष्टुं नैव सर्व्हेऽद्यं दुःखममित नारीजनानामिति Tarfi श्रीदिनच्च लीन इह में दृश्यों न नीलाम्बुदः । पद्माक्षो हरिरच्युतोऽप्यवनिजि द्बिम्बाधरो वामनः को वा इन्त मनोऽतिगां च महतीं चिन्तारुजं में हरेत् ॥ ५. आरेभैयाराय्वार्– किं मे स्यादिति नैव हन्त जननीवर्गास्सखीनां गणाः पृच्छन्त्यद्य निशासु दीर्घसमयास्वेते हि सुप्तास्स्वयम् । नीलाम्भोदतनुर्हरिर्मम विभुः कृष्णोऽद्य नायात्यहो पॉपिन्या मम नाम शेषयति मां को वाऽद्य मामुद्धरेत् ॥ ६. पिचित्र कादल्नोयू- पश्चान्मामनुयाति कामरुगियं चित्तं तु सम्पीड्य में रात्रिर्भे पुरतोऽस्ति कलासदृशी चक्षुस्तिरोधाय में । चक्री मे प्रभुरद्य मां न समुपैत्याः कोऽद्य सर्वात्मना - ऽप्येवं निर्गतिकं तु पालयति में जीव दशायामिह । १५ ११ ₹ ११४ ७. काप्पारारिग्विड- सहस्रगाभारावली । को वा स्यादिह रक्षिता मम निशा सेयं हि दीर्घा स्वयं भात्येवाद्य तु कल्पवत्स तु हरिर्नायाति मां मत्प्रियः । दीप्रश्वेतसुशङ्खचक्रभृदहो पापानि मे दाहका- न्येवं तापकराणि हन्त किमहो कुर्यामहं देवताः ! ॥ ८. देखङ्गाले शेकेन्- देवाः किं करवाणि रात्रिरधुना मे सप्तकल्पायते प्राणान् मे कृशयत्यहो बहुतमाम भवन्ती स्वयम् । नायात्येव मम प्रभुः प्रियतमः कृष्णस्तु चक्री हरि- ममन्विष्य हि चन्द्रिकाऽपि दहति ज्वालामयी भाति मे ॥ ९. वेम् शुंडरिल् तानडुमाल्- सेयं हन्त निशा हि सान्द्रतमसा शीता हिमेनावृता- ऽप्येवं मां दहति स्वयं दहनवन्नाद्यापि दृश्यो रथः । भानोरुत्तमतेजसा मम विभुः कृष्णस्तु नायात्यहो पद्माक्षः किल भाग्यवानिह महत्को मेऽद्य दुःखं हरेत् " १०. नित्ररुकुकिनेने पोल- सन्तप्ता यदहं द्रवीकृततनुस्सेयं च रात्रिस्तथा- याकाशे तुहिनद्रवैरुपगता भात्येव दीर्घा स्वयम् । लोकान् पादतलेन यः प्रभुरहो चक्राम पूर्व हरि - नयात्येव स इत्यपीह न वदत्येवं हि सुप्तं जगत् ॥ ११. उरङ्गवान् पोल् क्षीराब्धौ शयितं च योगशयनं नाथं हरिं श्रीधरं स्तोतुं श्रीकुरकापुरप्रभुरयं चक्रे शठारिर्मुनिः । साहस्रं शुभमुत्तमं सुरुचिरं त्वन्तादिरूपं सुधी- स्तद दशकं शरीरविरहे दिव्यं पदं प्रापयेत् ॥ पञ्चमशतकम् । अथ पञ्चमशतके
५
५. पञ्चमदशकम् ( एङ्गनेयो अन्नमीर्काल् ) ( तिरुक्कुरुङ्गुडि स्वामिपरम् नायिकावचनम् । ) १. एङ्गनेयो अन्नमील्- मां किं निन्दथ यूयमद्य जननीवर्गाः ! प्रियं सुन्दरं दृष्ट्वा पूर्णममुं १ कुरङ्गनगरीनाथं कुलेन्द्रं च नः । चित्तं मे ननु शङ्खचक्रयुगले बिम्बाधरे श्रीहरे- नेत्राम्भोजयुगे च सक्तमनिशं तैरेव याति स्वयम् ॥ २. एम्नेञ्जिना नोक्कि— मन्निन्दान्तु विहाय मेऽद्य मनसा यूयं च भो पश्यत श्रीशं पूर्णममुं कुरङ्गनगरीनाथं हि दृष्ट्वा मम । सर्वत्रापि पुरश्चकास्ति सततं यज्ञोपवीतं शुभं विष्णोस्तस्य च कुण्डलं ( २ ) भुजयुगे श्रीवत्सभूषादिकम् ॥ ३. निनिडुम् तिक्कुम्- स्तब्धा तिष्ठति च भ्रमान्धहृदया शैथिल्यवश्या स्वयं चेत्येवं किल मान्तु निन्दथ जनन्योऽद्रयायितैरुन्नतैः । प्रासादैर्भरितां कुरङ्गनगरीं शास्तुर्हरेर्दर्शनात् पश्चाच्छाङ्गगदासिचक्रजलजान्येवामतो मे सदा || ११५ (१) " तिरुक्कुरुङ्गुडि " इति नामधेयमस्य नगरस्य व्युत्पत्ति- मन्यामेव प्रकाशयति । तथाऽपि संस्कृतशैलीसौकर्यार्थमत्र " " कुरुङ्गनगरी ” इति नामधेयं अनेन झडिति स्फूर्तिर्भवेदिति । (२) भुजचतुष्टयम् । कल्पितम् - शब्दसाम्यात् ११६ ४. नीङ्गनिल्लाक्कण्णनीर्कल् सहस्रगाथारावली | नैषा वाष्पवियुक्त नेत्रयुगलेत्येवं हि मां मातरो! यूयं चापि विनिन्दथ प्रियममुं दृष्ट्वाऽस्मि सुग्धा हरिम् । श्रीशं दिव्यकुरङ्गरम्यनगरीनाथं हि तस्मादहो दिव्यस्रङ्मकुटाङ्गपट्टवसनं दामादि पार्श्वे मम || ५. पक्कस् नोक्किनिर्कुम- पार्श्व पश्यति चास्ति हन्त शिथिलेत्येवं हि मां मातरो! यूये निन्दथ दिव्यकीर्तिमनघं दृष्ट्वा हरिं श्रीधरम् । मुग्धाऽहं हि कुरङ्गरम्यनगरीनार्थ ममात्मन्यहो तस्याऽऽस्ते ह्यधरोऽपि बिम्बसदृशो श्रूयुग्मनेत्राम्बुजम् ॥ ६. मेलम वन् पऴिनडिक्कु अस्माकं कुलपांसनीयमिति मां माता स्वयं वास्य- त्येव श्रीहरिदर्शनादहमहो मुग्धाऽस्मि दृष्ट्वा च तम् ॥ श्रीशं दिव्यकुरङ्गरम्यनगरीनाथं ममास्ते हृदि श्रीनासाऽक्षियुगाधराङ्गरुचिभिस्साकं चतुर्बाहुभिः ॥ निरेन्द्रवन् पि अस्माकं हि कुलस्य हन्त कुरुते सेयं कलकं विति द्रष्टुं तं किल नावकाशमधुदा माता ददात्यत्र मे । धन्याऽहं हि कुरङ्गरम्यनगरीनाथस्य सन्दर्शना- न्मय्येवास्ति स तेजसां निधिरहो दिव्याकृतिश्चक्रधूत् ॥ ८. कैयुक् नन्मुकम् वैक्कुम् हस्ते हन्त करोति वक्त्रम शैथिल्यवश्वा स्वियं चेत्येवं किल मान्तु निल्न जनस्योऽद्यापि यूयं वृधा । दृष्ट्वाहं हि कुरा स्म्यनगरीनाथं वशाऽस्यैव य- द्दिव्यं लोचनपद्मकेशकटिबाहवाद्यं पुरो भाति मे ॥ ११७ ९. मुनिप्रायेन तोलिमार्कलुम् पञ्चमशतकम् । अग्रे त्वं कथमद्य भासि च नृणामित्येव निन्दन्ति मां तेऽमी हन्त ! सखीजनांश्च जननीवर्गा भवन्तोऽधुना । दृष्ट्वा रम्यकुरङ्गदिव्यनगरीनार्थं हि धन्याऽस्मि में चित्तं न त्यजतीक्षुदुग्धमधुरो भूषान्वितो मौलिभूत् ॥ १०. कलियमिक्कदोकदललिवल्- सेयं कामवशेति मान्तु जननी तदर्शनाद्वारय- त्येवं हन्तं कुरुङ्गदिव्यनगरीनाथं हि दृष्ट्वाऽस्म्यहम् । देवैस्तूरिवरैश्च सेव्यमतुलं तेजोमयं तद्रूपु- श्चित्ते मे सततं चकास्ति तदिदं वेद्यं हि नान्यैरहो ॥ ११. अरिवरियपिरानै — ज्ञातुं दुश्शकमच्युतं हि जगतो नाथे हरिं श्रीधर स्तोतुं चक्रधरं च दिव्य कुरुकापुर्याश्शठारिः प्रभुः । साहस्रं शुभदिव्यपच कुसुमावल्यात्मकं व्यातनो- तत्रेदं दशकं कुरङ्गपुरगं ज्ञात्वा जना वैष्णवाः ॥ अथ पञ्चमशतके
६
६. षष्ठदशकम् ( कडलू सालम ( अत्र नायिकाया अवस्था तन्मात्रा वण्यते । ) १. कडल् जालम् शेय्देनुम् - पृथ्वीं पयोनिधिवृतामहमेव कृत्वा पृथ्वी पयोनिधिवृताऽप्यहमस्मि सत्यम् । पृथ्वीं पयोनिधिवृत्तां यदहं गृहीत्वा पृथ्वीं पयोनिधिवृतां धृतत्रत्यहं हि ॥ ५ ११८ सहस्रगाथारत्नावली | पृथ्वीं पयोनिधिवृतामहमेव भुक्त्वा वर्ते किलेति जगदीश्वरसम्प्रविष्टा । सेयं सुता मम कथं भवतीह लोके युष्मान् वदानि कथमद्य चरित्रमस्याः ॥ २. कर्कुम् कल्विक्कु – विद्यासु चास्म्यनवधिः किल सीमभूमि- विद्यात्मिकांडापे सकला त्वहमेव सत्यम् । विद्यां किलाहमखिलां स्वयमेव कृत्वा विद्यामहार्षमखिलामहमेव चान्ते || विद्यासु सारतममप्यहमस्मि सत्यं चेत्येव वक्ति तनया मम सम्प्रविष्टा । विद्येश्वरेण हरिणा कथमद्य युष्मान् विद्याश्रयान् किमिति वच्मि कथामिहास्याः || ३. काक्किन् निलमेल्लाम्- दृश्या किलास्मि पृथिवी सकलाऽहमेव दृश्यं किलाहमखिलं गगनं स्वयं तत् । श्योऽपि हन्त दहनोऽप्यहमेव चोष्णो दृश्योऽपि वायुरखिलोऽस्म्यहमेव सत्यम् ॥ दृश्योऽपि वारिनिधिरस्म्यहमेव सर्व- श्वेत्येव वक्ति तनया मम सम्प्रविष्टा । दृश्येन चाम्बुनिभिवर्णयुतेन तेने- त्येवं किमद्य चरितं तु वदानि वोऽस्याः ॥ पञ्चमशतकम् । ११९ ४. शैरिकन् कितियेल्लाम्- कृत्यं च सर्वमहमेव हि वर्तमानं कृत्यं च भावि सकलं सहमेव सत्यम् । नृत्यं च भूतमखिलं त्वहमेव सत्यं कृत्यावलेश्च फलभुक् स्वयमेवचास्मि ॥ कर्त्रावलीं च सकलामहमेव कृत्वा वर्ते किलेति तनया मम वक्ति मुग्धा । श्री पुण्डरीकनयनेन हि सम्प्रविष्टा वृत्तं कथं बत वदानि च कोमलाङ्गयाः ॥ ५. तिरम्बामल मण्काक्किनेन् आज्ञां प्रचार्य पृथिवीं परिपालयामि स्वैरं गिरिं तमचलं समधारयं प्राक् । सर्वासुरावलिमहं न्यहनं पुरा तां तान् पाण्डवानपि च तन्त्रगिराऽप्यरक्षम् ॥ सङ्कल्पसिद्धिविधये जलधिं प्रमथ्य स्वाभीष्टभागहमितीह सुताऽद्य वक्ति । सेयं ममाम्बुधिनिभेन हि सम्प्रविष्टा किं वाऽद्य वच्मि तनयां प्रति वोऽम्बुजाक्षीम् ॥ ६. इनवेय्मलैयेन्दिनेन्— गोवर्धनोद्धरणकृत्स्वयमेव चाहं सप्तर्षभानपि विनाश्य जगत्मसिद्धा । क्षेत्रेषु वत्सनिवहानपि घासयन्ती सर्वानहं पशुगणानपि तानरक्षम् ॥ गोपालबालनिवहाधिपतां गताऽहं त्वित्येव वक्ति तनया मम सम्प्रविष्टा ।१२० सहस्रगाधारत्नावली । देवेश्वरेण खलु तेन कथं वदेयं शीलन्तु वोऽद्य ललिताङ्गय इहोत्पलाक्ष्याः ७. सार्कलेनक्किल्लै यारुम् नैवात्र बान्धवजना मम सन्ति लोके सर्वेऽत्र बान्धवजना मम सन्ति चैति । सर्वान् करोमि मम बन्धुजनान् किलाई मामाश्रितानपि फलैकरतांस्त्यजामि || मांमेवं संश्रितवतामहमस्मि वन्धु- रित्येव वक्ति तनया मम सम्प्रविष्टा । मायामयेन हरिणा किल निस्समेन किं वो वदामि वचसा वचनं कुशानयाः || ८. उरैक्किन् मुक्कण्पिरान् - सोऽपि त्रिणेत्र उदितस्स्वयमस्मि वैश- स्सोऽपि स्वयं किल चतुर्मुख एव चास्मि । देवाश्व ते स्वयमहं जगति प्रसिद्धा- देवेश्वरोऽपि विदितस्स्वयमेव चाहम् ॥ तेऽपि स्वयं च मुनयः प्रथिताः किंलाई त्वित्येव वक्ति तनया मॅम सम्प्रविष्टा । नीलाम्बुदाभवपुषा हरिणाऽद्य किं वा युष्मान् वदानि चरितं मम कोमलाङ्गयाः | ९. कोडियविनै यादुमिलने- कर्मादिदोषरहिता स्वयमस्मि चाह सर्वात्मकर्मसरणिस्स्वयमस्मि चाहए । दुष्कर्मराशिजननी स्वयमेव चाहं दुष्कर्मबन्धततिमोक्षकारी च साऽहम् ॥ पञ्चमशतकम् । दुष्टाश्रितामहमनाशयमेव लङ्का- मित्येव वक्ति तनया मम सम्प्रविष्टा । Tata हरिणा खलु कि वदेयं वेषानिहाय भुवि वो बत मे लतायाः ॥ १०. कोलडोल्यूवर्कमुस्- भोग्यं स्वयं दिविषदों पदमप्यहं हि शास्पदं च नरकं त्वहमेव चास्मि । मोक्षोऽप्यनन्तसुखदः परमोऽहमेव स्वांशैरहं हि सकला अपि जीववर्माः ॥ सर्वस्य मूलमपि चास्म्यहमेव चाद्यं त्वित्येव वक्ति तनया मम सम्प्रविष्टा । दिव्याम्बुदाभवपुषा हरिणा किलाह किंवोऽद्य वच्मि तनयां प्रति मे सुकेशीम् ॥ ३१. कुन्दलमलर्मङ्गैक्कुम्— लक्ष्म्याः प्रियं च पतिमच्युतमंत्र भूम्याः नीला प्रिय च हरिमेव हृदि प्रपद्य । स्तोतुं शठारिरतनोत्कुरुकापुरेशो दिव्यां सहस्रशुभपद्यततिं हि हृद्याम् ॥ तत्रान्तरङ्गहरिकिङ्करवृत्तिबोधि श्रेयः पठन्ति भुवि ये दशकं त्विदं ते । aless भाग्यमपि भोग्यतमं प्रपन्ना- इश्रीशस्य भक्तनिवहानपि पूजयन्ति ॥ १६ 0 १२१ १३२ सहस्रगाथारत्नावली । अथ पञ्चमशतके
७
७. सप्तमदशकम् (नोत्तनोम्बिलेन् ) ( अत्र श्रीवर मङ्गलनगराधीश्वरविषये भक्तिपारवश्यं प्रकाश्यते ) १. नोत्स नोन्बिलेन् - नाहं कर्मविदां वरो न च हरे श्रीज्ञानयोगान्वितो विष्णो त्वद्विरहं तथाऽपि न सह जातु स्वयं श्रीपते । स्वामिन् शेषशय प्रकाशिततनो श्रीपङ्कजव्रीहिभि- दीपे श्रीवर मङ्गलाह्वयपुरे नैवास्मि तेऽहं बहिः ॥ २. अङ्गुत्तेनल्लेबिङ्गुत्तेनल्लेन्~- नाहं तंत्र भवामि नात्र च भवाम्याशावशोऽहं तवं प्राप्त्यै नैव भवामि कुत्र चिदपि श्रीमन् हरे मे प्रभो । लङ्काध्वंसक चन्द्रसङ्गिमणिसौधावल्युपेते वसन् दिव्ये श्रीवरमङ्गलायपुरे चक्रिन् प्रसन्नो भव ॥ ३. करुलप्पुलकोडि - हे तार्क्ष्यध्वज चक्रभूच्च परमव्योमेश्वर श्रीधर- स्त्वं नीलाम्बुदसन्निभोऽसि कृतवान् सन्तं सन्तं हि माम् । कैङ्कर्यं परिगृह्य मे विजयसे दिव्ये चतुर्वेदवि - द्वासे श्रीवरमङ्गलाह्वयपुरे नाहं कृतज्ञस्त्वयि ॥ ४. मारुशेर्पडैनूत्तुवर्मङ्ग – सङ्घीभूतशतारिसैन्यमथनस्त्वं पाण्डवान् पञ्च तान् मायायोधनकृत्प्रपाल्य च रिपून् धूलीकृतांश्चाकरोः । स्वामिन् भूमिसमुद्धृतिं च कृतवां स्त्वं वैदिकाराधितो दिव्ये श्रविरमङ्गलाह्वयपुरे भासि क वा त्वां भजे || ५. एस्क्कूलावदे- पञ्चमशतकम् । त्वत्प्राप्त्यै किमहं च साधनपरस्स्यां त्वं हि मायाविनां मध्ये कृत्रिमचेष्टितोऽम्बुदनिभस्स्वामिन्नभूः ख्यातिमान् । लोकेऽस्मिन् कृतकृत्यतामुपगतैस्सेव्ये च दिव्ये वसन् शेषी श्रीवरमङ्गलाह्वयपुरे दृष्टं मयाऽपि स्वयम् ॥ ६. एनमाय् निलम् कीण्ड- वाराहो धरणीसमुद्धरणकृत्त्वं मेऽसि नाथो हरे कृष्ण त्वं मम दास्यमेतदखिलं माणिक्यवणीवृणोः । सूरीन्द्राधिप सद्रसालमधुरे सेव्योऽस्यहो शीतले दिव्ये श्रीवरमङ्गले निवसतां मां पश्य दिव्याचल || ७. चन्दरुलियेनेडिङ्कोण्ड- आगत्यात्र हृदीह मे वससि भो देवाधिदेवाच्युत श्रीशस्त्वं जगतां प्रसूरपि पिता लोकान् किलाभक्षयः ॥ सेव्यस्त्वं किल वैदिकैस्सुचरितैर्निस्सीम कीर्तिर्हरे दिव्ये श्रीवरमङ्गलाह्वयपुरे मां न त्यजेजीतु चित् ॥ ८. अकत नी वैत्त मायम् - विश्लेषाय ममेन्द्रियाणि च सृजन् पञ्चापि मायामया- न्येवं किं कुरुषे च मज्जयसि किं दुस्समोहाम्बुधौ । भास्वच्छ्रीमणिसौधराजिरुचिरे दिव्ये स्वयं आज से नाथ श्रीवर मंगलाह्वयपुरे गुप्त बकध्वंसकः ॥ ९. पुलिन् वारिपलन्दाय्– श्रीमन् हे बकवक्त्रदारक विभो द्वन्द्वार्जुनध्वंसक स्वामिन् सप्तवृषप्रभञ्जक तव प्रेक्ष्याऽस्मि मायिन् गुणान्नू । दुर्ज्ञेयानिह विस्मितोऽस्मि महसा माणिक्यनीलोऽस्यहो दिव्ये श्रीवरमङ्गले श्रुतिविदां वासे कृपां में कुरु ॥ १२३ १२४ सहस्रगाथारत्नावली । १०. आरेवक्कु निनू पादमे शरणाक- त्वत्पादाम्बुजयुग्ममेव शरणं कृत्वाऽसि मे रक्षक- स्तेऽहं नास्मि किलोपचारकदहो वश्यो ममात्माऽपि ते श्रीही क्ष्वादिफलाश्रये च रुचिरे दिव्यं स्वयं शीतले भास्वन् श्रीवरमङ्गले विजयसे देवेश मौल्युज्ज्वल | ११. देखनायकन्नू - देवेशाच्युत हे त्रिविक्रम हरे नारायण श्रीधर स्वामिन्नित्ययमुत्तमं हि कुरुकापूर्यांश्शठारिः प्रभुः । स्तोतुं चाह सहस्रमत्र दशकं चेदं विदुर्ये भुवि प्राप्यं श्रीवरमङ्गलं प्रति पुरं ते सूरिभोग्या दिवि ॥ अथ पञ्चमशतके 4. अष्टमदशकम् ( आरावमुदे ) ( अत्र फलसिद्धिमप्राप्तरशठारिः श्री कुम्भपुर्या (तिरुक्कुडन्दै) ३. आरावमुदे- पूर्णामृतस्वामिसन्निधावार्तिसहितः प्रपत्तिं करोति । ) स्वामिन् पूर्णामृत त्वत्पदकमलयुगे भक्तिहर्ष प्रकर्षा- न्नित्यं सत्यं द्रुतं स्यान्मम वपुरखिलं संस्रवत्येव दास्यात् श्रीमत्यां कुम्भपुर्यां सुरुचिरबहुलवी हिसवीजितायां दिव्यालङ्कारशय्यामधिशयितमिदं तेऽद्य रूपं हि दृष्टम् ॥ २. एम्माने येन वेललमूर्ति- पञ्चमशतकम् । मनाथ त्वं शुभाङ्गो मम पतिरखिलानन्तरूपोऽसि दिव्य- श्रीमद्रम्याकृति श्रीवृषभ शुभमहाम्भोजसौम्याम्बुराशौ । श्रीमत्यां कुम्भपुर्यां मधुभरितसरोजाक्ष निद्रासि नाथ स्वद्भक्तोऽहं किमद्य स्वयमिह करवै ब्रूहि विष्णो दयाला || १. एवान् शेटकेन् १२५ किं वा कुर्यां ममाद्य स्वयमवनरतः कोऽस्ति किं वा करोषि त्वत्सान्निध्याद्विनाऽहं न किमपि च कुतोऽप्यर्थये वाञ्छितं मे । श्रीमत्यां कुम्भपुर्यामतिदृढवलयैरावृतायां शयान त्वत्पादाब्जे तु भक्तया कुरु मम भरितान् बासरानप्यशेषान् ॥ ४. शेलक्काकिर्पार - माहात्म्यं तेऽस्त्यपारं विशमतिजुषां दिव्यदृष्टेरतीतं निस्सीमं सर्वलोकात्मकनिजवपुषा दिव्यमूर्ते विभासि । कुर्वेऽहं कुम्भपुर्यां सुमहितभगवद्भक्तवर्गाश्रितायां सुप्तं त्वां द्रष्टुकामो गगनमपि विलोक्याञ्जलिं क्रन्दनं च ॥ ५. अलुवन् तोलुवन्- क्रन्दाम्येवार्चयामि स्वयमहमनिशं नर्तनैश्चापि गानै- श्रान्तोऽस्मि त्वां दिदृक्षुर्मम कलुषभरात्पार्श्वतो लज्जितस्याम् । रम्यायां कुम्भपुर्यां सुरुचिस्महित क्षेत्रसस्यावृतायां पद्माक्ष त्वां शयानं श्रितमिममधुना तारय त्वं हरे माम् ॥ ६. शूलकण्डाय्- सूरीन्द्रः कुम्भपुर्यां वसति किल भवान् भाग्यवद्भिस्सुसेव्य- इश्रोत्रस्यात्यन्तभोग्यामृतनिधिरुचितं सत्फलं मानसस्य । सिंह श्रेष्ठ त्वदीयं पदयुगलमहं प्राप्तुमप्यर्ह एवं दुष्टाशाघोरकूपे निपतित इति यन्मे कदा वोद्धृतिस्स्यात् ॥ १२६ ७, अरियेरेयेन्नम् - सहस्रगाथारत्नावली | सिंहेन्द्र त्वं सुरम्ये कनकमयमहाज्योतिरेवासि सत्यं पद्माक्षो नीलमेघो रिपुकुलदहनस्त्वं प्रवालाद्विरेव । स्वामी मे त्वं चतुर्बाह्वनुगुणविभवस्त्वत्कृपा मेऽस्ति दास्ये श्रीश त्वं कुम्भपुर्यां विलससि न सहे हन्त मुक्ति प्रदेहि ॥ ८. कलवा तुम्बम् - मायी त्वं चक्रपाणिर्विलसास भगवन् कुम्भपुर्यां शयानः किं दुःखं नाशयेर्मे किमुत न च तथा नास्ति चान्यागति । देहान्मत्प्राणयाने न भवतु पतनं मे मुरारे पदाब्जे भद्रं ते मे शरण्यं वितरतु च भवान् नित्यसेव्यं च भोग्यम् ॥ ९. इवित्तेनै- त्वत्पादाब्जप्रणत्रं कुरु मयि कृपया मां च देवाधिदेव श्रीमानस्यादिमूर्ति स्सुरुचिरमणिभृत्कुम्भपुर्यां शयानः । निश्शङ्क लोकशस्योऽस्यपि तव गमनं रम्यगम्भीरभाव द्रष्टुं मेऽस्त्यद्य काङ्क्षा त्यज तव शयनं देहि मे दृष्टिभाग्यम् ॥ ३०. वारावरुवाय् —- मायामूर्तिस्त्वदृश्योऽस्यपि मम हृदये भासि माधुर्यपूर्ण - स्सत्यं पूर्णामृतात्मा सकलकलुषसन्तापहन्ताऽन्तरात्मा । मन्नाथः कुम्भपुर्यां विलसितविभवस्त्वं मुरारे कथं वा त्वत्पादाब्जं प्रपन्नोऽप्यहह भवभयाम्भोधिममो भवेयम् ॥ ११. डललैयेन्निबल्लू — कृष्णस्यैवाङ्घ्रियुग्मं शरणमनुकलं पूतनाप्राणहन्तु- सम्प्राप्यासौ शठारिर्मुनिरिह कुरुका पत्तनेशः कवीन्द्रः । वेणुक्वाणातिरम्ये दशकमिदमपि प्राह दिव्यं सहस्रे ये जानन्तीदमार्याः प्रतिहतकलुषास्ते मृगाक्षी (१) प्रियास्स्युः ॥ (१) दिव्याप्सरसां प्रियास्स्युरर्चिरादिमार्गे । पञ्चमशतकम् । अथ पञ्चमशतके
९
९, नवमदशकम् ( मानेरनोक्कुनल्लीर ) ( श्रीभगवद्दर्शनाय श्रीसंवृद्धिपुरं गन्तुमिच्छया नायिका वचनं सखीः प्रति । ) ३. मानेरनोक्कुनल्लीर- हे सख्यो मृगलोचनाः प्रियतमाः पापाऽस्म्यहं सततं व्योमव्यापकसत्फलक्रमुकतश्श्रीमल्लिकासौरभात् । (१) श्रीसंवृद्धिपुरं चकास्ति भरितं नित्यं मधुस्यन्दिभि- वृक्षैस्तत्र हरेः पदाब्जयुगलं दास्यात्कदा प्राप्नुयाम् || ३. एनकोल्तोलिमीर्कालू- हे सख्य मम वारणात्किमिह वस्सिद्धं सुवर्णात्मकाः पुन्नागा अपि माधवी च वकुलास्ते यत्र तत्सौरभैः । युक्तो दक्षिणमारुतस्तु परितो यत्रास्ति तत्र स्वयं श्रीसंवृद्धिपुरेऽङ्घ्रिपङ्कजरजो विष्णोः कदा प्राप्नुमः ॥ ३. शुद्ध नलकुलेलीर- हे सख्यः कुसुमार्द्रकेंशभरिता विश्लेषदुःखार्दितां मां वेदध्वनिरुच्चकैः प्रचलितो यत्र स्वयं कर्शयेत् । श्रीसंवृद्धिपुरे तु तत्र परितो होमादिधूमावृते पादाब्जे मम नायकस्य कलये नित्यं कदाऽहं हरेः ॥ ४. निच्चलम् तोलिमीर्काक् हे सख्यः किमिहाद्य मान्तु सततं खिन्नां निवार्य स्वयं युष्माभिः क्रियते नवक्रमुकतश्श्रीनारिकेलादिभिः । संयुक्त कदलीवनैश्च पनसैस्सौधोपरिच्छायया श्रीसंवृद्धिपुरे तु शेषशयनो मां क्रीतवान् नायकः ॥ (१) इदं पुरं मकैयालदेशे (तिरुवल्लवाक्) इति प्रसिद्धम् ॥ १२७ १२६ ७. अरियेरेयेन्नम् - सहस्रगाथारत्नावली | सिंहेन्द्र त्वं सुरम्ये कनकमयमहाज्योतिरेवासि सत्यं पद्माक्षो नीलमेघो रिपुकुलदहनस्त्वं प्रवालाद्विरेव । स्वामी मे त्वं चतुर्बाह्वनुगुणविभवस्त्वत्कृपा मेऽस्ति दास्ये श्रीश त्वं कुम्भपुर्यां विलससि न सहे हन्त मुक्तिं प्रदेहि ॥ ८. कलैवायतुम्बम् – मायी त्वं चक्रपाणिर्विलससि भगवन् कुम्भपुर्यां शयानः किं दुःखं नाशयेर्मे किमुत न च तथा नास्ति चान्यागति । देहान्मत्प्राणयाने न भवतु पतनं मे मुरारे पदाब्जे भद्रं ते मे शरण्यं वितरतु च भवान् नित्यसेव्यं च भोग्यम् ॥ ९. इशैवित्तेनै— त्वत्पादाब्जप्रणम्रं कुरु मयि कृपया मां च देवाधिदेव श्रीमानस्यादिमूर्ति स्सुरुचिरमणिभृत्कुम्भपुर्यां शयानः । निश्शङ्क लोकशस्योऽस्यपि तव गमनं रम्यगम्भीरभावं द्रष्टुं मेऽस्त्यद्य काङ्क्षा त्यज तव शयनं देहि मे दृष्टिभाग्यम् ॥ १०. वारावरुवायू — मायामूर्तिस्त्वदृश्योऽस्यपि मम हृदये भासि माधुर्यपूर्ण- स्सत्यं पूर्णामृतात्मा सकलकलुषसन्तापहन्ताऽन्तरात्मा । मन्नाथः कुम्भपुर्यां विलसितविभवस्त्वं मुरारे कथं वा त्वत्पादाब्जं प्रपन्नोऽप्यहह भवभयाम्भोधिमभो भवेयम् ॥ ११. जललैयेन्बिल- कृष्णस्यैवाङ्घ्रियुग्मं शरणमनुकलं पूतनाप्राणहन्तु- सम्प्राप्यासौ शठारिर्मुनिरिह कुरुकापत्तनेशः कवीन्द्रः वेणुक्वाणातिरम्ये दशकमिदमपि प्राह दिव्यं सहस्रे ये जानन्तीदमार्याः प्रतिहतकलुषास्ते मृगाक्षी ( १ ) प्रियास्स्युः ॥ (१) दिव्याप्सरसां प्रियास्स्युरर्चिरादिमार्गे । पञ्चमशतकम् । अथ पञ्चमशतके
९
९, नवमदशकम् ( मानेनोक्कुनल्लीर ) ( श्रीभगवद्दर्शनाय श्रीसंवृद्धिपुरं गन्तुमिच्छया नायिका वचनं सखीः प्रति । ) ३. मानेरनोक्कुनल्लीर- हे सख्यो मृगलोचनाः प्रियतमाः पापाऽस्म्यहं सन्तत व्योमव्यापकसत्फलक्रमुकतश्श्रीमल्लिकासौरभात् । (१) श्रीसंवृद्धिपुरं चकास्ति भरितं नित्यं मधुस्यन्दिभि - वृक्षैस्तत्र हरेः पदाब्जयुगलं दास्यात्कदा प्राप्नुयाम् || ३. एनकोल्तोलिमीर्कालू- हे सख्यो मम वारणात्किमिह वस्सिद्धं सुवर्णात्मकाः पुन्नागा अपि माधवी च वकुलास्ते यत्र तत्सौरभैः । युक्तो दक्षिणमारुतस्तु परितो यत्रास्ति तत्र स्वयं श्रीसंवृद्धि पुरेऽङ्घ्रिपङ्कजरजो विष्णोः कदा प्राप्नुमः ॥ ३. शुडुमलकुलेलीर- हे सख्यः कुसुमाद्रकेशभरिता विश्लेषदुःखार्दितां मां वेदध्वनिरुच्चकैः प्रचलितो यत्र स्वयं कर्शयेत् । श्रीसंवृद्धिपुरे तु तत्र परितो होमादिधूमावृते पादाब्जे मम नायकस्य कलये नित्यं कदाऽहं हरेः ॥ ४. निश्चलुम् तोलिमीर्काक्- हे सख्यः किमिहाद्य मान्तु सततं खिन्नां निवार्य स्वयं युष्माभिः क्रियते नवक्रमुकतश्श्रीनारिकेलादिभिः । संयुक्ते कदलीवनैश्च पनसैस्सौधोपरिच्छायया श्रीसंवृद्धिपुरे तु शेषशयनो मां क्रीतवान् नायकः ॥ (१) इदं पुरं मकैयालदेशे (तिरुवल्लवाक् ) इति प्रसिद्धम् ॥ १२७१२८ ५. बनलत्तोलिंगीकोछु - सहस्रगाथारत्वावली । हे सख्य मम सुप्रियाः क्रतुततेर्धूमावली भिर्नभो- देशो यत्र विभाति संवृततमो नित्यं श्रमध्वंसिनि । श्रीसंवृद्धिपुरे तु तत्र रुचिरं दिव्यं फलं चेक्षुस- त्सारं चापि घनं सुधारसमहो पश्यामि तेजः कदा | ६. काण्यदेनान्न कोलो- मायद्भूङ्गतरङ्गसङ्गविलसन्मन्दानिलोद्वीजितै- वृक्षैर्नित्यमनोरमे बहुतमामत्युन्नतैश्शोभने । श्रीसंवृद्धिपुरे वटोर्मम हरेश्श्रीवामनस्याद्भुतं पादाब्जद्वयमच्युतस्य तु कंदा पश्यामि सख्यः कृशा ॥ ७. पादङ्गकमेलणि— कासारेषु समुद्रशोभिषु लसत्पाथोजनीलोत्पलै- नारीणां वदनाक्षियुग्मसरणि यत्राभिभूता भवेत् । श्रीसंवृद्धिपुरे च तत्र जगतां नाथं हरिं रक्षकं हे सख्यः किममी भजेम शरणं तत्पादपद्माश्रयाः ॥ ८. नालतोहम् वीडिनिये- सर्वत्रोच्चलितेक्षुकाण्डनिचयवीयादिसंशोभितैः केदारै स्सरसीतटेषु भरिते दिव्ये महात्माश्रये । श्रीसंवृद्धिपुरे प्रभोः पदयुगं लोकाक्रमव्यापृतं हे सख्य सततं भजेम किममी श्रान्ता वयं श्रीहरेः ॥ ९. कलल्वकै परिप्प- शीतानोकहषण्डचारिमधुपश्रेणीरवैश्शोभने श्रीसंवृद्धिपुरे तु वेणुनिनदैवणारवैश्चक्रिणः । श्रीविष्णोः करुणा कदाऽतिर्शिथिलामास्माकहस्तावली- भूषां पूर्णतमां करोति सततं तत्पादसेवाभरात् ॥ १०. तोल्लरुनविनैया - पञ्चमशतकम् । नित्यं चाप्युपकारको ऽस्त्ययमिति द्यावापृथिव्योरमुं शंसन्त्येव हि तत्र दिव्यनगरे भक्तोसमास्सात्त्विकाः । साहस्रैः कृपया वसन्ति सततं श्रीभाग्यवृद्ध्याह्वये दिष्ट्या तं तु भजेम नामशतकैस्तख्योऽद्य नारायणम् ॥ ३१. मामङ्गलारिमुडेय- नाथं नामसहस्रशोभितममुं पादाब्जभक्तया स्वयं स्तोतुं क्षेमकरश्शठारिरकरोत्साहस्रपद्यावलिम् ॥ दिव्य श्रीकुरुकापुरप्रभुरसौ तत्राद्य धन्या विदु- श्श्रीसंवृद्धिपुरं प्रतीह दशकं ये तेऽत्र जाता अपि ॥ अथ पञ्चमशतके
१०
- १० दशमदशकम् ( पिरन्दवारुम् )
- ( अवतारं विहाय विभवावतारगुणानुभवं कर्तुं मन- स्थैर्य प्रार्थयते । )
- १. पिरन्दवारुम् -
- विष्णोर्जन्मचरित्रमत्र भुवि संवृद्धेः क्रमश्चाद्भुता पञ्चभ्यो विजयप्रदानसरणिर्युद्धे च सा भारते । सर्व मे हृदि सम्प्रविश्य सततं जीवं द्रवीकृत्य मे भु हन्त कदा भजाम्युपगतं त्वां दिव्यतेजोनिधे ॥ २. वदुवै वार्तेयुक्-
- उद्वाहोक्तिमहो निशम्य वृषभध्वंसश्च ते श्रीहरे मायाकेशिनिषूदनं च तरुणीसङ्गोऽपि रासे तव । नैवं ते चरितं तदेतदद इत्यप्यस्ति बाचोवशं
- सर्वं मां शिथिलीकरोति जगतां मूलं कदा त्वां भजे ॥
- १७
- १२९
- १३०
- ३. पेय्युम् पंकुललू-
- सहस्रगाथारत्नावली ।
- पुष्पालङ्कृतकेशपाशविलसन्मायास्तनापीतित
- स्ते बाल्ये चरितं च दुष्टशकटध्वंसोऽपि पादेन ते । आज्यादेरपि चौर्यमुक्तिसमये मातुश्च दण्डं करे दृष्ट्वा तेऽक्षियुगं भयाश्रुभरित मान्तु द्रवीकुर्वते ॥
- ४. कलपेडत्तै क्कोण्डु पोय्-
- धृत्वा कृत्रिमवेषमेव च पुरं तच्च प्रविश्य स्वयं रुद्रस्य प्रबलासुरप्रमथनं तद्द्वारतस्तस्य च । ते देहे वसतिश्च सर्वविदिता गङ्गाधरस्याप्यहो सर्वं ते चरितं प्रविश्य हृदय मां च द्रुतं चाश्नुतें ॥
- ५. उण्णवानवर्को नुक्कु –
- इन्द्रायेति च गोपवृद्धकलितं चान्नं स्वयं भुक्तवां- स्त्वं वर्षाद्विरिधारणेन कृतवान् गोगोपसंरक्षणम् । सृष्ट्वा भूमिमिमां स्वयं च सकलामश्नन् क्रमेणोद्गिर- नाक्रम्योद्धृतवान् विवाहत इंदं स्मृत्वा द्रुतं मे मनः ॥
- 4. त्रिवारुमिरुन्दवारुम्-
- शक्याश्चिन्तयितुं च न स्थितिसमावेशोपवेशाश्च ते रूपं नैकविधं तवेह सकलां मायां स्मरेयं तव । त्वां स्मर्तु बत शक्नुयां कथमहं तेजोनिधे पापिन- स्साधूपायमहो वदाद्य कृपया मे लोकसंरक्षक ||
- ७. ओण्डरोडिरुकुमाय्-
चित्ते मेऽत्र विभासि नैव तु बहिस्ते रूपसन्दर्शनं तेजो भाति तमोयुतं किमहह त्वं दृष्टिवश्यो न मे । त्वद्व्यापारमिहाखिलं हृदि कथं वेद्मि स्वयं हे प्रमो रूपं ते कृपयाsद्य दर्शय मम श्रीनीलरत्नप्रभ || ८. तिरुवुरुवु किडन्दवारुम् - पञ्चमशतकम् । दिव्यं ते शयनं च नाभिकमलात् सृष्ठं चतुर्वक्रम- प्यन्तर्यामितया प्रविश्य सकलं दृष्ट्यादिकर्मापि ते । निस्सीमं तव नायकत्वसमं श्रुत्वा द्रवीभूय मे चेतो हन्त ममाश्रुपूरसरणेर्मूलं हि कुर्यां किमु ॥ ९. अडियै मूनू - रिन्दवारुम् - भूमिं च त्रिपदां तवार्थितवतश्चित्रं चरित्रं च तत् सर्वाम्भोधिधराद्युलोकसरणिं चाक्रम्य पद्भ्यां तव । प्राधान्यं च निरङ्कुशं तव हरेराकर्ण्य चेतो मम श्रीशाद्य द्रवरूपतत्त्रवति वै पापी कदा त्वां भजे ॥ १०. कूडिनी रैक्कडैन्दवारुम् - त्वं देवासुरसङ्गतोऽधिमथनं कृत्वा सुधां देवता भोज्यामेव कथं विचित्रचरितस्तत्रासुरान् वञ्चयन् । आसीहन्त तदेतदद्य सकलं चित्तं प्रविश्यात्र मे स्वात्मानं द्रवत्यो कथमहं त्वां शेषशायिन् भजे ॥ ११. नाकणैमिशै नम्परान् - अस्मन्नायकमेव नागशयनं तत्पादपद्माश्रयः प्राप्तुं श्रीशठजित्सहस्र गणितां पद्यावलीं चाकरोत् । हृद्यां श्रीकुरुकापुरप्रभुरसावन्तादिरूपां मुनि- स्तत्रेदं दशकं विचिन्त्य मनुजा वैकुण्ठसौख्याश्रयाः ॥ इति श्री कल्किसिंह भगवद्विरचितायां सहस्रगाधारत्नावल्यां पञ्चमशतकं सम्पूर्णम् ॥ १३१ १३२ सहस्रगाथारत्नावली |
६
अथ षष्ठशतके
१
- प्रथमदशकम् ( वैकल्यूकलिवायू ) ( श्रीशठारिरत्र श्री मधुकृत्पुरेश्वरं प्रति पक्षिगणान् प्रेषयति अत्रापि नायिकावस्था | ) १. वैकल्पङ्कलिवायू- यूयं हे (१) कुरुका उपेत्य सततं चाहारसम्मार्गणा- स्सम्यग्व्रीहिसमृद्धसस्यनिचये श्रीचक्रपाणिं हरिम् । रम्ये (२) श्रीमधुकृत्थुरे मम विभुं दृष्ट्वा ममेमां दर्शा पापिन्यास्तु मुहुः कृताञ्जलिपुटा आवेद्य धन्यास्स्थ भोः २. काल्मेन पेडैयोडु — त्वं मे ( ३ ) श्यामल नारपक्षिवर ते कान्तामनु प्रेमत- श्राहारानुचर श्रुतिध्वनिमये यज्ञादिकोलाहलैः । रम्ये श्रीमधुकृत्पुरे मम विभुं श्रीरी जगद्रक्षकं दृष्ट्वा साञ्जलिरङ्घ्रिपद्मयुगले दीनां दशां मे वद ॥ ३. तिरङ्गलाकियेङ्गम्- यूयं पंक्षिगणा उपेत्य परितः केदारसञ्चारिणो रम्ये श्रीमधुकृत्पुरे मम विभुं श्रीचक्रपाणिं हरिम् । दृष्ट्वा तं परमं प्रणम्य कृपया बिम्बाधरं ब्रूत भो- दौनाया मम दुर्दशां भृशमिमां विश्लेषदुःखात्मिकाम् | (२) कुरुका इति पक्षिविशेषाः - द्रविडभाषायां कुरुकु ख्याताः । (२) तिरुवण्वण्डूरिति मलैयालदेशे प्रसिद्धं पुरम् । (३) कुरुनाराय् । इति ४. इडरिल्पोकम् मूलिक - षष्ठशतकम् । भो भो हंसगणाः प्रियासहचराः कान्तं मम श्रीधरं रम्ये श्रीमधुकृत्पुरे श्रुतिरवैस्सौम्ये वसन्तं हरिम् । दृष्ट्वाऽम्भोधिनिभं प्रभुं मम विभुं कृष्णं प्रियं ब्रूत का चित्त्वद्विरहातुराऽतिशिथिला शोकद्भुतेत्येव माम् ॥ ५. उणर्तलुडलुणदु- तं संश्लेषातिशयप्रियाः प्रियतमासक्ताश्च हंसाः प्रियं रम्ये श्रीमधुकृत्पुरे मम विभुं दृष्ट्वा च कृत्वाञ्जलिम् ॥ दिव्यश्रीतुलसीस्रगञ्चितशिरोमौलि हरिं सादरे स्तोत्रेर्युक्ततमैर्ममाप्यनुगुणैर्युयं भृशं शंसत | ६. पोत्तियानिरन्देन- पुन्नागाश्श्रयिणस्तु यूयमधुना हे कोकिलाः स्वस्तिवः किञ्चित्प्रार्थ्यमिदं मयाऽस्ति कदलीषण्डादिभिर्भूषिते । रम्ये श्रीमत्पुरे मम विभुं वीरं हरिं चक्रिणं देवेशं त्ववलोक्य चानयत मे मोहान्तकं तद्वचः ॥ ७. ओरुवण्णम् शेत्र पुक्कु सौम्य श्रीशुक दिव्यसूनभरितैर्वृक्षस्स्वयं शोभिते रम्ये श्रीमधुकृत्पुरे मम विभोश्श्यामं वपुः श्रीपतेः । वक्त्रं रक्तसरोजवच्च नयनं तत्पादपाणि तथा दृष्ट्वा शङ्खसुदर्शनौ तदुचितौ किञ्चिन्मदर्थे वद ॥ ८. तिरुदक्कण्डेनक्कोन रैयाय् - हे (१) पूवै द्विज दिव्यपुष्पभरितैः पुन्नागवृक्षादिभि - चित्रे श्रीमधुकृत्पुरे मम विभोर्नेत्रे विशाले हरेः । (१) पूर्व-इतिद्रविडभाषायां पक्षिविशेषनामधेयम् । ૨૩ १३४ सहस्रगाथारत्नावली | दिव्यं तन्मकुटं चतुर्भुजगिरीन् नीलाम्बुदश्यामलं दृष्ट्वा तं मम किञ्चिदुत्तरमिहानीयोपकारं कुरु || ९. अडिकल्कैतोलुदु - ● हं हंसाः कुसुमेशयाः प्रभुममुं कृष्णं हरिं मायिनं दृष्ट्वा श्रीमधुकृत्पुरे भृशमुषश्शङ्खारवोद्घोषिते । श्रीशं तं विनयात्प्रणम्य नितरां पापाकुलां मां प्रति तोति कृपया तु यूयमुचितामेकान्तकाले हरेः ॥ dostosम्मै यrनिरन्देन्- यूयं भो मधुपास्सुगन्धभरिताः किञ्चित्तु याचे स्वयं युष्मानेव विशेषतः सुविमले पम्पालोदक्तटे । रम्ये श्रीमधुकृत्पुरे मम विभुं दृष्ट्वा च रक्षःपुरी- ध्वंसोत्साहिनमच्युतं वदत मां चैकामिमां जीविताम् ॥ ११. मिनूकोलशे पुरिनूल् ! श्रीशं वामनमच्युतं सुविलसद्यज्ञोपवीताञ्चितं भूयाच्यां प्रति वञ्चकं शठरिपुस्तत्पादपद्माश्रयः । स्तोतुं श्रीकुरुकापुरप्रभुरसौ साहस्रमाहात्र च ज्ञात्वेदं मधुकृत्पुरानुदशकं धन्या दिवि स्युर्जनाः || 7 १.३.५ षष्ठशतकम् । अथ षष्टशतके
२
२. द्वितीयदशकम् ( मिन्निडै मंडवार ) ( नायिकावस्था नायकस्य विलम्वात्प्रणयकोपेन नायिकया १. मिनिडै मडवार्– तद्वारणमुच्यते 1 ) अग्रं ते रमणी जनस्य तु तटिन्मध्यस्य च त्वत्प्रिय- स्यैवं दुष्टविचेष्टितं तव कथं वच्मीति शङ्काऽस्ति मे । लङ्कावप्रविनाशकोऽसि भगवन् मायी भवान् वेद्यहं चेष्टां ते किमतः फलं व्रज विभो दत्वा च मे कन्तुकम् ॥ २. पोकु नम्बियुन्तामरैपुरै कण्णिणैयुम् - हे पूर्ण व्रज दूरतस्त्वमधुना ते नेत्रपद्मद्वयं रम्यं स्मेरमुखं वयं न हि हरे धन्यास्स्वयं वीक्षितम् । प्रेयस्यस्तव सन्ति भाग्यभरितास्तापिञ्छ केश्योऽन्यत- स्तासान्तु श्रुतिगोचरं पशुगणैस्त्वं वेणुनादं कुरु ॥ ३. पोयिरुन्डु निनू पुल्लुवम्- भो भोः कृत्रिमपूर्ण याहि वद ते वाचं हरे कृत्रिमां त्वन्मायाद्यनभिज्ञसन्निधितले मे भाति सर्वं च ते । सौन्दर्य प्रतिकूलमेव नयने बिम्बाधरे श्रीपते विस्तीर्णाम्बुधिमन्थ सुन्दरभुजा नार्यः प्रियास्तेऽद्य काः ॥ B. आलिनीलिले येलुलकुमुण्डु- सुप्तस्त्वं वटपत्र के किल पुरा भुवत्वा च लोकानिमान् मायां ते न विदन्ति हन्त दिविषद्वर्गाश्च विद्मः कथम् । शक्तस्त्वं पशुघासने हि ललनालीलास्थले सैकते किं वाग्भिस्तव कृत्रिमाभिरधुना सर्वे च विद्मो वयम् ॥ -१३६ ५. कलरेल्लम्बियुन् कैतवम्- सहस्रगाथारत्नावली | मिथ्यापूर्ण तवाप्तकृत्रिमवचो मास्त्वत्र तु श्रीहरे चक्रिन् कैतवमस्ति सर्वविदितं ते भूतले वा दिवि । किञ्चिद्वच्मि तवाद्य तच्छृणु तव प्रेष्ठास्तरुण्यस्स्वयं सन्तप्ता मधुभाषिताः किल ततो लीलां शुकैर्मे त्यज ॥ ६. कुलकियेङ्गलकुलमणन् कोण्डु - अस्माकं परिगृह्य पुत्थलिमिमां किं वाऽसि मुग्धोऽधुना किं ते कार्यमितः पुरैव चरितं विद्मो वयं ते हरे । अस्माकं न किल क्षमार्हमिदमस्त्यास्ते तव प्रेयसी. गोष्ठी तेऽनुगुणा त्रिलोकमहिता माऽस्मानुपै हि स्वयम् | ७. कन्मम नेङ्गल्कैयिल्ल- अस्माकं करतोऽद्य पुत्थहितिर्नैवोचिता ते हरे भुक्त्वा वारिधिमनमेव च जगत्संरक्ष्य शुद्धोऽसि हि । दोषोऽयं किल दोष एव तव चाप्यस्मासु लीलां च ते श्रुत्वा दण्डधरा भवन्ति करुणाहीना हि नस्सोदराः ॥ ८. पिणक्कियावैयुम् - सर्वास्त्वं चिदचिणानपि भृशं सम्मेलयन् भेदयन् भासि ज्ञाननिधिश्व मूर्त उदितो भास्वानभिन्नस्स्वयम् । पूर्णः कीर्तिपयोनिधिः किल सखीवर्गैर्वयं चोदिता लीलायामिह वारिताश्च भवता किं ब्रूयुरन्ये जनाः ॥ ९. उकवैयाल्ने अमुल्लुरुकि प्रीत्याऽन्तर्हृदयं द्रवीकृतमिदं भूयात्कटाक्षैस्तव श्रीपद्माक्ष वशीकृता वयममी भूयास्म चेति त्वया । अस्माकं हि विनाशितं सुरुचिरं लीलागृहं चौदनं पादेनैव तवाद्य हन्त न हि तद्दृष्टं त्वया सस्मितम् ॥ १०. विनिलङ्गुमुडियिनायू । भास्वद्दिव्यकिरीट | भो ! परशुभृत् प्रध्वंसयन् दुर्नृपान् प्रख्यातोऽसि यदेकविंशतिजयैः ! पूर्वं जगत्सृष्टिकृत् । अद्य त्वं किल गोपवंशमखिलं चोज्जीवयन् भास्यहो ! नीलश्रीमणिवर्ण! तेऽद्य चरितैयाप्या वयं कर्शिताः || ११. आस्चियाकियवन्नैः गोप्यां वनवनीतचौर्यकथने सत्यां स्वयं मातरि श्रीकृष्णं विलपन्तमेव च रुषा स्तोतुं शठारिर्मुनिः । साहस्रं कुरुकापुरप्रभुरसावाहोत्तमं द्राविडी तत्रेदं दशकं शुभन्तु पठतां नैवास्त्यलभ्यं शुभम् || १३७ अथ षष्ठशतके
३
३. तृतीयदशकम् (नल्कुरुवुम् शेल्वुम् ) ( अत्र शठारि प्रायकल हे सर्वेश्वरेण स्वाङ्गीकारप्रकार- माह तिरुचिण्णकर (श्रीदिव्यपुरी) नायक- १. नल्कुरुवुम् शेल्स परमिदं दशकम् । श्रीसङ्कोचधनाढ्यते च नरकस्वर्गौ च वैसतिसौ- हार्दै चापि विषामृते च सकलं भूत्वा स्वयं व्यापकः । स्वामी नः परमेश्वरो मम विभुर्यो भाति पश्यामि तं श्रीसम्पूर्णकुलाश्रये तु नगरे श्रीदिव्यपुर्याह्नये || ૨૮१३८ २. कण्डविम्बम् तुन्बम् - सहस्रगाधारलावली । दृश्यं यत्सुखदुःखरूपमखिलं चिन्ता प्रशान्त्यात्मकं शीतोष्णं च मिथोविरुद्धमपि यत्कोपप्रसादात्मकम् । तत्सर्वं स्वयमेव योऽस्ति भगवान् दृश्यो न चाक्ष्णोर्हरि- स्तस्येदं नगरं शुभं मम विभोश्रीदिव्यपुर्याह्वयम् ॥ ३. नगरसुम् वाडुकलुम् सर्वं यन्नगरात्मकं च सकलं ग्रामात्मकं यत्स्वयं ज्ञानं मौढ्यमपि स्वयं निरवधि ज्योतिस्तथाऽन्धं तमः । भूलोकस्सुरलोक इत्यपि च यश्श्रीदिव्यपुर्यां विभु- भीति श्रीहरिरस्य कीर्तिरतुला ! नान्यत्तु पुण्यं भवेत् ॥ ४. पुणियम् पावम्- पुण्यं पापमिदं च सङ्गविरहौ तच स्मृतिर्विस्मृति- स्वत्वं चानृतरूपमेतदखिलं भूत्वाऽपि न स्यात्तथा । योऽसौ श्रीपतिरच्युतो मम विभुरश्रीदिव्यपुर्यां हरिः कृष्णस्यास्य कृपां भजध्वमतुलां किं स्यादिदं कैतवम् ॥ ५. कैतवम् शेम्मै—’
कौटिल्यं च तथाऽऽर्जवं च सकलं नीलत्वधावलयके सत्यासत्यमयं च यौवन-जरे नूलं च जीर्णे च यत् । तत्सर्वं स्वयमेव यो मम विभुरश्रीदिव्यपुर्यां हरि- स्तस्योद्यानमिदं जगत्त्रयमहो ! ब्रह्मादिदेवाश्रितम् ॥ ६. मूवुलकङ्गलु मायलनायू त्रैलोक्यं सकलं च यो न च तथा रागोऽपि वैरं स्वयं लक्ष्मीश्चापि सरोज़दिव्यभवना ज्येष्ठोऽप्यलक्ष्मीस्स्वयम् । स्तोत्रं निन्दनमप्ययं स्वयमहो? श्रीदिव्यपुर्यां हरि- भीति श्रीपतिरच्युतोऽप्यधिनि मे ज्योतिः परं मानसे ॥ पञ्चमशतकम् । १३९ ७. परं शुडरुडम्बाय् - ज्योतिश्चापि परं स्वयं हि मलिनं चेदं जगद्भास्वरं सर्वत्रापि च गुप्तमप्यचलमप्येवं हि मायात्मकम् | देवाद्यैरपि सेविते हि नगरे श्रीदिव्यपुर्याये भाति श्रीपतिरस्य पादयुगलं सेव्यं । न चान्यन्नृणाम् ॥ ८. वन् शरण्शुरक्कय्- देवानां च शरण्यमप्रतिहतं सर्वासुराणां रिपु- हन्ता ! चापि जगत्त्रयस्य शरणं सेव्यं न सेव्यं च यः । एवं दक्षिणदिक्प्रकाशि शरणं श्रीदिव्यपुर्यां हरिः कृष्णो मे प्रभुरस्ति! मेऽस्ति शरणं नित्यं च सेव्यो मम ॥ ९. एझष्पनेनक्काय्— योऽसौ मेऽस्ति पिता च मेऽस्ति जननी धात्री च सौवर्णभा- स्स्वामी रत्नमहोज्ज्वलस्स्वयमसौ मुक्तामयो में प्रभुः । प्राकारैश्च हिरण्मयैर्विलसिते श्री दिव्यपुर्याह्वये ‘सोऽयं मे नगरे स्वपादकमलच्छायां शरण्यामदात् ॥ १०. निलेल्वेरियल्- छायाऽपि श्रमहारिणी स हि हरिस्तापावहश्चातपो योऽणुश्चापि महान् विभाति सपदि हस्वोऽपि दीर्घोऽस्ति यः । एवं भाति चराचरं च न तथा! श्री दिव्यपुर्यां हरिः ! . प्राप्यं तत्पदयुग्ममेव शरणं ! नान्यद्भवेत्पश्यत ॥ ११. काण्मिन् कलुलकी– लोकाः पश्यत चाद्भुतं तु तदिदं प्रत्यक्षमेवेति च श्रीशं सर्वजगत्प्रमातृचरणं स्तोतुं शठारिर्मुनिः । साहस्रं कुरुकापुरप्रभुरसावाहाच्युताज्ञात्मकं ! ज्ञात्वा दिव्यपुरं प्रतीह दशकं स्युस्सूरिसेन्या नराः ॥ ૨૦૦ सहस्रगाथारावी । अथ षष्टशतके
४
४. चतुर्थीदशकम् ( कुरवैयाचियरोड ) ( अत्र शठारिश्श्रीकृष्णस्य रासक्रीडादिवैभवमनुसन्धत्ते 1 ) १. कुरवैयाय्च्चियरोडु-. गोपीभिः किल रासगोष्ठ्यभिरतिवर्धनोद्धारण पूर्णाम्भस्यपि कालियस्य सरारी स्वाङ्घ्रियान्सनम् । एवं सर्वविधं च नागशयनस्यात्यद्भुतं चेष्टितं सञ्चिन्त्यैव दिवानिशं प्रमुदितोऽस्यधानवाप्तं न मे 1 २. — गीतं हृद्यतमं तु वेणुमुखतो गायन् पशून् घासयन् मुग्धाक्षी कुसुमस्त्रगञ्चिततनुं नीलां समाश्लिष्य यः । मायाचेष्टितमद्भुतं व्यरचयत्तस्याद्य वृत्ते स्मरन् सोदेऽहं द्रुतचित्त एव सततं! लोकस्समः को नमः ॥ ३.. निकरिस्मल्लरैच्चेत्तदुम् - मल्लानामपि मर्दन पशुगणैर्गत्वा च तद्घासन दीर्घोत्तुङ्गकरस्य चापि करिणस्सम्मर्दन वैरिणः ॥ एवं चेष्टितसन्ततिं च विविधां स्मृत्वा परज्योतिषः सङ्कीत्यपि च नित्यमस्मि सुचिरं तुष्टो न मे स्याद्वयथा ॥ ४. नोववाच्चियुरलोड - बन्धप्रमुखस्य तु हरेर्भव्यस्वमप्यस्य ता हन्तुं स्तन्यक्षिस्य पानमपि तन्मायात्मिकां पूतनाम् मायामच्छकटस्य भाजनमपि श्रीकृष्णचेष्टाका स्मृत्वा मे मन एवमेव सतसे तुएं! किमीहेऽपरम् ॥ . शाकम् । १०९ ५. वेण्डित्तेवरिरक्कवन्दु पिरन्दुम् - देवैरर्थित एव जन्मभूदिह श्रीरार्णवादर्शितो मात्रा यस्तमसि स्वयं यदविशोषणं श्रीहरिः पुष्टस्तत्र हि गुप्त एव तु रिपुं कसं यथा चावधीत सर्वं कृत्रिमचेष्टितं तु तदिदं वच्मीहू! किं मे भ्रयम् ॥ ६. इकल्कोल्पुल्लैप्पिलन्ददुम् - युद्धे तस्य बकस्य दारणमपि ! ख्यातं वृषध्वंसनं! चोत्तुङ्गार्जुनवृक्षयुग्ममथनं त्रैविक्रमं चेष्टितम् । एवं कृत्रिमचेष्टितावलिमिमां नाथस्य मे श्रीहरे- स्स्तोतुं हन्ती दिवानिशं किल कृती सोऽहं न विन्ताऽस्ति मे ॥ ७. मनप्परिप्पोक् जातो दुःखयुते च मानुषकुले नानातनूधरियन् स्वेच्छातश्च रिपून् प्रहत्य नितरां कोपप्रशान्ति वहन् । दिव्यश्रीतुलसी किरीटकलितां मालां च धत्ते हरि– वृक्षस्येनमहूं स्मरामि सततं! कस्स्यात्समो मे भुवि ॥ 4. नीणिलत्तोड वाहू. वियप– द्यावाभूमितलातिविस्मयकरं मायामयं योधनं वाणस्यापि सहस्रबाहुमथनं भूमेश्च मानं तथा । श्रीमद्वामनरूपिणोsपे व हरे नौथस्य में चेष्टितं सञ्चिन्त्यास्मि कृती हृदीह विविध क्षाभो न मे मानसे ॥ ९. कलक्कवेलकडल - सप्ताम्भोधिततिं च सप्त च गिरीन् लोकांश्च सप्त स्वयं बीऽतीत्यापि रथं नयन्नतितरां मायाक्रियां चाकरोत् ॥ यश्चकं च बिभर्ति दक्षिणकरे वामे तु शङ्ख च तं स्तोतुं श्यामवर्ण मस्मि हि कृती कस्स्यात्समो मे सुवि १४२- १०. सम्मिशेप्पेरुम्पारम् - सहस्रगाथारत्नावली | पृथ्वीभारविनाशनाय समरे तस्मिन् पुरा भारते मायाचेष्टितमद्भुतं बहुविधं कृत्वा चमूनाशनम् । एवं यः कृतकृत्य एव च पुनर्धाम स्वकीयं ययौ ज्योतिस्तं परमं प्रणम्य कृतिनः किं मेऽस्ति नाथोऽपरः । ११. नायकन मुलुवेकुलकुक्कुमायू - सप्तानां जगतां च नायकमर्णिर्य सप्तलोकीं स्वयं भुक्त्वोद्गीर्य च तन्मयोऽपि न तथा तं केशवं श्रीपतिम् ॥ स्तोतुं श्रीकुरुकापुरप्रभुरसौ दिव्यं शठारिजंगा साहस्रं तदिदं करोति दशकं भक्ताननन्याश्रयान् ॥ अथ षष्टशतके
५
५. पञ्चमदशकम् (तुवलिल्मामणिमाडम् ) ( नायिकावस्थां प्राप्तश्शठारिरत्र वरधन्विमङ्गलपुर (तोलैविल्लिमङ्गलम्)नायकविषयेऽति प्रवणोऽस्तीति सखीभिर्मातृ वर्ग प्रत्युक्तिः । )
- तुवलिल्मामणिमाढम् - ध्यायन्तीं वरधन्विमङ्गलपुरं श्रीरत्नसैौधाञ्चितं तामेतां प्रति मुञ्चताद्य सकलामाशां जनन्योऽनघाः । सेय कीर्तयतीह तस्य बिमले श्रीशंखचक्रे हरे- नेत्राम्भोजयुगे सवाष्पनयना स्थित्वा मुहुर्जल्पति ॥ २. कुमिरुमोश विलकोलि पञ्चमशतकम् यूयं श्रीवरधन्विमङ्गलपुरं प्रेत्वं प्रविश्यानया श्रीदिव्योत्सवघोषभूषितमिमां दिव्यामृतोक्तिं प्रति । आशावर्जितमानसास्स्त! यदियं भ्रान्ता च संस्मृत्य तं `देवानामधिदेवमेव सततं साश्रुर्द्धताङ्गा स्वयम् ॥ ३. करे कोलपेम्बोलिलू — दिव्यश्रीवरधन्विमङ्गलपुरे नानातरूणां गणै- यूयं तान्तु सरोवरैरपि वृते रम्ये च नीत्वा स्वयम् । श्रीभवाचमप्यहह! तां दूरे त्वकाष्टद्य सा बाप्पार्द्राऽब्धिशयं त्रिविक्रममपि स्मृत्वा च गोपालकम् ॥ ४. निर्कुम् नाम्मरैवाणर्वाक्- “नित्यं वेदचतुष्टयं श्रितवतोमावासभूतं शुभं सेयं श्रीवरधन्विमङ्गलपुरं दृष्ट्वाऽद्य धाट्यन्विता । यूयं पश्यत मातरस्सततमप्येषा स्मरन्ती मुदा कृष्णं वारिधिवर्णमेव शिथिला नैवाद्य वश्या भवेत् ॥ ५. कुलैयुम् वाण्मुकत्तेलैयै— नीत्वेतां वरधन्विमङ्गलपुरं दीप्राननां कोमला यूयं वारिजलोचनं स्वकुरुत प्रेक्षास्पदं चोज्ज्वलम् । सेयं तद्दिवसात्प्रभृत्यहह हा! बाप्पार्द्रनेत्रा भृशं मोहान्धा हृदि दिव्यरूपनिरतां बद्धाञ्जलिस्तद्दिशे ॥ ६. नोक्कुम् पक्कमेल्लाम्- सर्वत्रापि किलेक्षुकाण्डसरणि श्रीह्यादिपद्मावलीं दृष्ट्वेयं वरधन्विमङ्गलपुरे श्री ताम्रपर्णीतटे । नान्यत्पश्यति कुत्र चिच्च सततं तस्यैव नामान्यहो सङ्कीर्त्यास्ति मुदाऽन्विता मणिनिभाङ्गस्याद्य वै मातरः ॥ २४३ ४ ७. अत्रैमीरणिमामयिल्- सहस्रगाथारत्रावली | सेयं रम्बमयूरसुन्दरमृगी सौन्दर्यमौग्ध्यान्विता नान्यच्छ्रीवरषन्विमङ्गलपुरं प्रलं विनाऽऽकर्णयेत् । वश्य नैव हि नः किमीदृशमहो भाग्यं पुरा चार्जितं किं वा मायिचरित्रमेतदनिशं तच्चिहनामोक्तयः ॥ ८. तिरुन्दु वेदमुम् वेलिवयुम् – वेदैर्यज्ञगणैश्रिया च भरितं श्रीताम्रपर्णीवडे चोदीच्ये वरधन्विमङ्गलपुरं यस्मिन् दिने साऽभवत् । तत्कालात्प्रभृत्ति स्वयं शिथिलितस्वाङ्गा विशालाम्बका सङ्कीर्त्यस्त्यरबिन्दलोचनमहो नित्यं द्रुतस्वाशया ॥ ५. हरनि नाकतोरुम् वांखेरी - नित्यं साधुभरा हृदि अमवशा वाचि स्वयं चापला- ज्जल्पन्ती च तरूनपि द्रवयति ध्यात्वा मणीन्द्रप्रभम् । आह्वयापि च केशिवक्त्रदलनस्यावासभूतं शुभं सेयं श्रीवरधन्विमङ्गलपुरं सङ्कीर्त्य बद्धाञ्जलिः || १०. पिचै कोलिनलमाम कल्कोल्तिरुमकलकोल्– नीला किं धरणी किसु स्वयमियं श्रीरेव वा जन्मतः किं किं वाऽद्भुतमस्य मुग्धचरितं स्मृत्वाऽऽह्वयत्येव तम् । तद्वासं वरधन्विमङ्गलपुरं प्रत्र च मूर्ध्ना नम- न्त्येवेयं सततं च तत्पुरमहानामश्रुतिं चिन्तयेत् || ११. शिन्देयालुम शोल्लालुम्- श्रीशं वाङ्मनसक्रियाभिरनिशं देवाधिदेवं हरि माता चापि पितेत्ययं शठरिपुरस्तोतुं सहस्रं जगौ मौनी श्रीवरवन्विमङ्गलपुरं प्रलं प्रतीद शुभ ज्ञात्वा तदशकं रमापतिपदाम्भोजाश्रयास्स्युर्जनाः ॥ षष्ठशतकम् 1 अथ षष्ठशतके
६
६. षष्ठदशकम् (मालुक्कु वैयमलन्द मणालवर्क ) अत्र जननी विरहार्तायास्सुताया आभरण - सौन्दर्य कान्त्यादि - च्युतिं वदति । ) १. मालुक्कु वैयमन्द मणालकु श्रीशाय लोकगण मानकृते च नीला- म्भोदाभदिव्यवपुषे जलजाम्बकाय । सेयं सुता मम मधुरम्यपुष्पा प्रादात्करस्य वलयं शुभगन्धिकेशी || २. विल्वालतण्डु- शङ्खं च चापमसिचक्रगदाश्व ध विम्बाधराय सरसीरुहलोचनाय । सौलभ्यरम्यतुलसीधरशीर्ष काय सेयं ह्यदात्स्वशुभरूपयुतां च शोभाम् ॥ ३. निरम् करियानुक्कु - नीलाम्बुदामपि लोकगणाशिनं तं बालं हरिं सपदि वञ्चकमप्रमेयम् । श्रीचक्रपाणिमनुचिन्त्य सुता ममेयं चास्ते स्वगौरवभरं च शुभं त्यजन्ती ॥ ४. पीडुडें नान्मुकनै- ज्ञानादिवैभवयुतं च चतुर्मुखं तं सृष्ट्वा घरामपि च मानमुखाद्विधृत्य । दौत्यं च पाण्डवकृते वहते सुतेयं मे विष्णवे स्वगुणशीलमपि त्यजन्ती ॥ १९ १४५ १४६. ५. पण्डु वेदम्पयन्द परनुक्कु सहस्रगाथारलावली | वेदातुरपि तस्य परस्य पुंसः पृथ्वी वराहवपुषोद्धरतो मुरारेः । देवेशितुर्जलधिशायिन एवं वश्या सेयं त्रगञ्चिततनुस्स्वमतिं त्यजन्ती ॥ 4. ककक्कावन मर्पल तोलकु- श्रीकल्पवृक्षसमबाहुमुदारतेजो- मालाभिरामकनकाद्रिनिभस्वमौलिम् । रम्याब्जहस्तमपि तं प्रति कोमलाङ्गी सेयं सुता मम निजां च तनुं त्यजन्ती ॥ ७. मेय्यमर्पल्कलन - दिव्यैश्च भूषणगणैरमितैर्लसन्तं श्रीशेषशायिनमिहाम्बुजपाणिपादम् । कृष्णं प्रभुं प्रति सुता मम कोमलेय लावण्यमप्यहह ! भाति निजं त्यजन्तीं ॥ ८. शायक्कुरुन्दमोशित्त- कुन्दाख्यवृक्ष-शकटासुर-पूतनादि- ध्वंसं विरच्य बशयन्तमिमां सुतां मे । तं प्रत्यनन्तगुणमच्युतमुत्तमाङ्गी सेयं त्यजत्यहह ! सुन्दरतां सुकेशी ॥ ९. माण्यमै कोल- सौन्दर्यशोभिनममुं प्रति वामनं श्री- काकुत्स्थमद्भुतगुणं महसां निधानम् । सञ्चिन्त्य मेऽद्य तनया कुचकुट्मलाढ्या सेयं त्यजत्यहह ! हन्त ! निजं सुरूपम् ॥ षष्टशतकम् । १.४७ १०. पोपमै नीलसुडि - दीव्यत्किरीटविलसतुलसीसमेतं श्रीमल्लजिद्भुजविभूषितमप्रमेयम् 1 नित्यं च मायिनमनन्तपदार्थरूपं स्मृत्वाऽद्य तं त्यजति सेयमिह स्वमानम् ॥ ११. कट्टेलिशोले- ‘अत्यन्तरम्यतरुशोभित वेङ्कटाद्रि- नाथं स्तुवन् हि कुरुकापुरराट्छठारिः । दिव्यप्रबन्धमिममाह सहस्रमाढ्यं ! ते सूरिभोगभरिता दशकं विदुर्ये ॥ ॥ अथ षष्टशतके
७
७. सप्तमदशकम् ( उष्णुम् शोरु ) ( मुर्छान्ते प्रबुद्धा नायिका ( श्रीकोलूरपुरं ) प्रविष्टेति शोरू १. उण्णु हो जननी निश्चिनोति । भोज्यं पेयमपीह भाति किल मे ताम्बूलवींटी च स श्रीकृष्णः प्रभुरेव सर्वमिति यत्साश्रुस्तदीयान् गुणान् । भूम्यामत्र तु तत्पुरीं च कथयन्त्येव स्वयं में सुता श्रीकोलूरिति तत्पुरं सुविदितं नूनं प्रविष्टाऽधुना ॥१४८ २. ऊरुम् नाडुमुलकमुम् सहस्रगाथारत्नावली । तन्नामानि च तत्स्रजोऽपि च भुवि ग्रामाश्च देशास्स्वयं लोकाश्चाप्यखिला ब्रुवन्त्विति किल स्त्रीत्वं त्यजन्ती निजम् । श्रीकोरिति तत्पुरं मम सुता सस्यादिपूर्ण गता ! किं वाऽऽयाति पुनश्च हन्त । वदत प्रेष्ठाश्च तत्पक्षिणः ॥ ३. पूवै पैङ्किलिकल्- नानापक्षिगणाश्शुकादय इमे लीलार्थकाः कन्दुकाः पुष्पाद्याश्रयभाजनानि सकलं श्रीशस्य नामानि हि । एवं कीर्तनतत्परा मम सुता गत्वा पुरीं पावनीं श्रीकोलूरिति तां किलाश्रुभरिता स्यात् ! किन्नु कुर्यादहो ? ! ४. कोल्लैयेम्बकौलो-
श्रीकोलूरिति तां पुरीं मुररिपोस्सम्पत्समृद्धामियं पुत्री मे सुकुमारसुग्धहरिणी गन्तुं हि सक्ताऽभवत् । किं निन्दन्ति पुरस्त्रियश्च परितस्सेयन्तु वेलातिगे- त्याहोस्विद्वत सद्गुणेति नितरां शंसन्ति जल्पप्रियाः ॥ ५. मेवि नैन्दु नैन्दु- शैथिल्यान्मनसस्स्वयन्तु चपला सेयं सुता मेऽद्य तां श्रीकोलूरुपुरीं गतैव सकलां लीलां त्यजन्ती निजाम् | तत्यानि सरांसि सत्यमरितां क्षेत्रावलीं श्रीपते- देवागारमियं विलोक्य मुदिता भूयात्किलाद्य स्वयम् || ६. इन्नक्कुदवादु - विश्लिष्टा च सुता ममाद्य हरिणी मुग्धा तु गत्वा पुरी श्री कोलूरिति तामवाच्यतिलकप्रायां शुभां श्रीपतेः । दृष्ट्वा द्विव्यविलोचनद्वयमियं बिम्बाधरं च स्वयं बाष्पादयतलोचना प्रतिकलं सम्मोहिता स्यादहो | ७. मल्कुनीर्कण्णोड- षष्ठशतकम् । सेयं साश्रुविलोचना भ्रमवशा चित्तं च नक्तन्दिवं श्रीशेत्याह्वयति स्वयं च चलति श्रान्ताऽद्य सम्पद्युताम् श्रीकोलूरिति तां पुरीं कथमहो ! विष्णोरियं प्राप्नुया- कान्तं तं प्रति मोहिता मम सुता तस्मिन् शयानं पुरे ॥ 4. ओशिम्दनुण्णिडैमें - te पद्मायाः प्रियवल्लभस्य तु हरेश्श्रीशस्य विष्णोः पुरीं श्रीकोलूरिति तां विशेत्किमु सुता मे भ्रान्तिवश्या स्वयम् । मां त्यक्त्वाऽद्य महार्तिखिन्नहृदया श्रान्ता स्वहस्तं कटि- स्थाने हन्त निवेश्य बाष्पभरितस्वाक्षिद्वया भामिनी ॥ ९. कारियम् नल्लनकलू- भोग्यं रम्भपदार्थजातमखिलं कृष्णाय सङ्कल्पये - द्या दिव्याभरणा किलार्द्रहृदया सन्त्यज्य सर्वं त्विदम् । पौरस्त्री परिवादजल्पविवशा विस्मृत्य सर्वाश्च नः श्रीकोलूरुपुरं गता मम सुता सर्वास्तृणीकृत्य नः ॥ १०. निनैक्किलेन् देखङ्गाल्- भोः देवाः कथमद्य चिन्त्यमिह मे सेयं सुता श्रीहरिं लोकेशं त्वरविन्दलोचनममुं नेषच्च जातु त्यजेत् । श्रीकोलूरमद्य तस्य हि गला द्रागेव मुग्धा मृगी ! नैवेयं किल चिन्तयेन्निजकुलस्येदं कलङ्कायितम् ॥ ११. वैत्तमानिदियाम् — निक्षेपं मधुसूदनं निजमहानिध्यात्मकं श्रीहरिं स्तोतुं श्रीकुरुकापुरप्रभुरसौ मौनी शठारिः कविः । साहस्रं परमं जगौ च तदिदं ये ये पठन्ति स्वयं श्रीकोलूरुपुरं विचिन्त्य दशकं ते दिव्यधामेश्वराः || 0 १५० सहस्रगाभारावली | अथ षष्ठशतके
८
८. अष्टमदशकम् ( पोन्नुलकालीरो ) ( नायिकावस्था - पक्षिगणान् दौत्यकृत्ये प्रेरयति नायिका । ) १. पोम्बुलकलीरो- यूयं परास्तु पक्षिनिवहाः ! पापिन्यहं प्रार्थये युष्मान् किञ्चिदिदं पुराऽखिलजगत्स्रष्टा पयोदाकृतिः । कृष्णं तं मम नायकं प्रभुमिमां मे दुर्दशां ब्रूत भो! युष्माकं परमे पदे भुवि च स्यादाधिराज्यं ततः ॥ २. मैयमव कनेडुङ्कण्- यूयं मेऽद्य शुकाः प्रभुं मम हरिं श्रीचक्रपाणिं च तं ’ बिम्बोष्ठ सहसा विलोक्य तनुसाशां च मे ब्रूत भोः । क्षिप्रं मां प्रति तद्वचोऽपि वदत श्रीमत्सखीनां पुरः स्थित्वा मे करतश्च साज्यमधुरक्षीरान्नभाजस्स्त भोः ॥ ३. भोडिवन्देन् कुलल्मेल्- यूयं मत्प्रियषट्पदाः ! शुभकुरुक्षेत्राधिपानां पुरा पश्चानां च सुहृत्तमोऽश्वसरणिं तां स्यन्दनाकिं चमूम् । सर्व चापि विनाश्य यः प्रभुरभूतस्याच्युतस्याद्भुतां पीला तां तुलसीं ममापि शिरसि स्रक्पानसक्तास्स्त भोः || ४. तूमदुवाय्कलकोण्डुवन्दु - यूयं मे कुटजाश्रया मधुकराः । प्रीत्याऽत्र पानाशया सक्ताश्चेदिह पापिनीं सपदि मां यो वञ्चयन् वर्तते । दिव्ये धामनि सूविर्यपरिषन्नाथं विलोक्यैव तं दिव्यश्रीतुलसीधरं वदत किं युक्तं तवेदं त्विति ॥ ५. नुङ्गलक्कुयानुरैक्केनू - ! षष्ठशतकम् । भो भो मत्परिपोषिताः प्रियशुकाः ! किञ्चिद्वदाम्यद्य वः साक्षादेव हि सादरं शृणुत मां श्रीमानिमां पापिनीम् । त्यक्त्वा चिचहरो ममाब्जनयनस्तार्क्ष्यधिरूढो गत- स्तं दृष्ट्वा वदत कचित् किमुचितं तेऽस्तीति सत्कल्पकम् ॥ ६. एन् मिन्नुनूल्मार्वन् – मत्पुष्टाः प्रियपक्षिणः ! सुरुचिरं यज्ञोपवीतं वहन् वक्षस्यस्ति मम प्रभुः प्रियतमः कृष्णस्स्वपादस्थिताम् । दिव्यां तां तुलसीं ददाति न हि मैदिन्नान् प्रतीदं वच- शिक्षां प्राप्य मया च तत्र वदत श्रीशं प्रति क्वापि तम् ॥ ७. पूवैकलपोत्निरतन रम्यश्रीशकुनप्रभं च विलसत्पद्माम्बकं मायिनं माहात्म्याच्चिदचिच्छरीरकममुं श्रीचक्रपाणिं हरिम् । केशिनं मधुसूदनं प्रेंति वचो यूयं ममोक्त्वा स्वयं पुत्थल्यः । किमु वारयेत तनुलावण्यादिनाशं च मे ॥ ८. पाशरवेदियिने- वेगेनासम ! पाण्डरद्विज! महापापिन्यहं कर्शिता बैवण्यै गमिताऽस्मि कल्पशत कैरेतैरतीतैस्यिम् । श्रीशं निर्मलनीलमौलिमनघं सूरीन्द्रनाथं हारें दृष्ट्वा त्वं वद नान्यवस्तु तमृते पश्यामि सेयं त्विति ॥ ९. पेर्त्तुमत्तोकलैक- वीचीनामुपरिप्लवैर्यदशनं यूयं बलाकागणाः! सञ्चारेषु विचित्य तुष्टहृदया युष्मान् विनाऽन्यन्न मे । पापिन्याश्शरणं ततोsसितपयोदाभं च कृष्णं हरिं तं सूरीन्द्रपतिं विलोक्य वचनं तस्यानिशं ब्रूत मे || १५१ १५२ १०. वन्दिरुम्दुम्मुडैय – सहस्रगाथारत्नावली | यूयं हंसगणाः! कलत्रसहिताः पुष्पेषु भोगाश्रयाः प्राप्य स्वैरमिमां च मां स्मरवशां तस्मै निवेद्य स्वयम् । श्रीकान्ताय रमां निजोरसि सदा बिभ्रत्स्वरूपाय तत्- सूक्तीर्मेऽत्र पुनर्निवेदयत भो श्रीशावरोधस्थलात् || ११. मात्तङ्गच्छादुकोण्डु- दिव्यां सूक्तिततिं विचित्य सरसां सूरिश्शठारिः कवि- स्स्तोतुं तं मधुसूदनं प्रभुमहो साहस्रपद्यावलिम् । आह श्रीकुरुकापुरप्रभुरसौ ये ये पठन्ति स्वयं तत्रेदं दशकं तु ते किल भवन्त्येव द्रवात्माशयाः ॥ अथ षष्ठशतके
९
९. नवमदशकम् (नीरायू निलनाय् ) ( अत्र सर्वेश्वरः परमपदादत्यन्तमार्तियुक्तेन शठारिणा १. मीरायू निलनायू- समाहूयते । ) नीरावनीदहनवायुनभोमयस्त्वं मुरुयोज्ज्वला शशिरवी च समस्तसृष्टया । रुद्रोऽप्यजोऽसि करतस्तव दीप्रचकं धृत्वा च शङ्खमिह सर्वनुतोऽभ्युपे हि ॥ पष्ठशतकम् । १५३ ३. मण्णुम् विष्णुम् मकिल - द्यावापृथिव्यभिनुतोऽसि च वामनस्त्वं भूम्नाऽवनीं दिवमपि स्वयमेव गृह्णन् । मायिन् ! प्रभो ! भुवि तु सञ्चर जातु विष्णो ! दृष्ट्वा यदा तु मुदितोऽहमिहास्मि नृत्यन् ॥ ३. मालत्तूडे नडन्दु- • भूम्यां किल प्रतियुगं च चरन् शयान- स्तिष्ठन् क्रमादुपविशन्नपि सर्वलोकान् । त्वं पालयन्नसि चिरं । रमया समेत स्वामप्यनाश्रित इहास्मि किमद्य खिन्नः ? || तलेर्दुम् मुरिन्दुम् - भित्वा तनुं च शंकटासुररूपिणस्त्वं पादेन भासि परमः प्रभुरच्युतौ नः । ब्रह्मा शिवश्शेतमंखच सुराः प्रणम्य त्वां तु स्तुवन्ति च यथाऽत्र तथाभ्युपेहि || ५. विण्मीदिरुप्पायू- दिव्ये च धामनि गिरैरुपरि स्वयं त्वं क्षीरोदधावपि भुवीह हृदन्तरेषु । वासंस्थितिं च शयने चलनं च वृत्तिं प्राप्याण्डगोऽसि हृदि मेऽत्र ! किमस्यदृश्यः ॥ ६. पायोरडि वैत्तु - एकं पदं प्रसरणाज्जगतीह कृत्वा सर्वत्र चापि दिवि चान्यदहो ! निधाय । मायिन् ! विभासि ! तव दर्शनकाङ्क्षयाऽहं किं सञ्चरामि भुवि हन्त ! परिद्रुताङ्गः ॥ ૨૦ ૧૪ ७. उलकिल्तिरियुम् - सहस्रगाथारत्नावली | aless कर्मसरणिश्च समस्तलोक- स्त्वं भासि सर्वजगतामपि चैक आत्मा । ‘बाह्याण्डवर्तिदशदिक्पतिसूरिनाथ- स्त्वं मे प्रसीद भगवन्नतिमन्दबुद्धेः ॥ ८. अरिविले नुक्करुलाय् – त्वं ज्ञानिनां हृदि वसन्नसि सर्वगन्धों ज्योतिर्मयोऽसि वपुषाऽद्य मयि प्रसीद । अज्ञोऽहमस्म्यशरणों ! हृदि मे प्रविश्य त्वं मां किमद्य बहिरेव करोषि खिन्नम् ॥ ९. आणि तिकैक्क- चित्तभ्रमावहतयाऽल्पसुखं प्रद पञ्चेन्द्रियार्तिविवशं किमु पापिनं माम् । त्वं नाशयस्वहह ? भूमितलाक्रमि त्वत्- पादाम्बुजं प्रति कदा नु समाह्वयेर्माम् || १०. कुरुका नीला - सङ्कोचवृद्धिरहितं सततं त्वनन्तं चात्मानुभूतिसुखमप्यहह ! भ्रमाये | मायिन् ! हरे! तव पदाम्बुजमात्रसेवा- लेशस्य किं सदृशमस्ति बताद्भुतस्य ॥ ११. तेरिदल् निनैदल्— दूरं श्रुतैश्च ममनस्य दृढस्मृतेश्व श्रीशं तदीयचरणाश्रितदासदासः । स्तोतुं शठारिरवदच्च सहस्रमेत- द्भक्तान् करोति दशकं जगदीशदासान् ॥ षष्ठशतकम् । अथ षष्टशतके
१०
१०. दशमदशकम् (उलकमुण्डपेरुवाया ) अत्र शठारिः पद्मासमेतस्य श्रीवेङ्कटाचलपतेश्चरणारविन्द यो शरणागतिं करोति । ) ३. उलकमुण्डपेरुवाया– १५५ मन्नाथ! त्वं हि लोकान् पृथुवदनतया भक्षयस्यन्तकाले !. निस्सीमा भाति कीर्तिस्तव विशदमहाज्योतिराऴिर्हि मूर्तिः सर्वश्रेष्ठोऽन्तरात्मा मम किल ! तिलकस्सर्वलोकेषु भासि ! श्रीशस्त्वं वेङ्कटेशः कथमहमनघस्त्वत्पदाब्जे भजेयम् ॥ २. कूराय्नीराग्निलनाकि- दुष्टात्मानः प्रणष्ट |स्स्वयमसुरगणास्ते बलिष्ठाः प्रदग्धा- चक्रं हस्ते बिभर्षि स्वयमहह हरे दक्षिणे देवदेव. | तीर्थेष्वम्भोजदीप्रेष्वनलकुलसमेष्यत्र वै वेङ्कटाद्रौ. भासि त्वं ! क्षिप्रमेनं कुरु तव चरणद्वन्द्वसक्तं जनं माम् ॥ ३. वण्णमरुककोल्- कारुण्यं शीलसिद्धं तव किल जलदश्याम मायाचरित्र स्वामिन् ! हृत्पद्मसक्ता मधुरतमरसश्चामृतात्माऽमरेशः । सत्यं भासि त्वमेवं ! मणिकनकमहामौक्तिकानां च राशी- नाकर्षन् वेङ्कटाद्रौ रुचिरसरिति मां योजय त्वत्पदाब्जे ॥ ४. आवश्वेन्नादुलकत्तै– निष्कारुण्यान्नृशंसानसुरकुलगणान् हन्तुमेवाभिक्क्त्र- बाणैर्वस्तु शार्ङ्ग ननु बहसि हरे श्रीपते देवदेव | सूरीन्द्रैमनिमन्दैरपि महिततले वेङ्कटाद्रौ सुमाली- वर्षेः पूर्ण पदाब्जं तब गमय च मां पापिनं त्वत्कटाक्षैः ॥ 6 ५. पुणरानिनूमर मेल्- सहस्रणगाथारत्रावली । हे धन्विन् ! गाढबन्धानपि सपदि तदा सप्त वृक्षान्निकृत्त्य प्रख्यातस्सान्द्रवृक्षद्वयमपि च विशन्नन्तराऽस्यादिमूलः । नाथ श्रीवेङ्कटाद्रौ पृथुजलदसमैर्हस्तिभिस्सेवितेऽस्मिन् श्रीशार्ङ्ग बिभ्रतस्ते पदकमलयुगे किङ्करस्स्यां कदा वा ॥ ६. एनाले नाम् मणलन्द् पद्मद्वन्द्वे कदा वा वयभिह जगतां मानदक्षन्तु धन्याः पश्यामश्चेति देवास्सततमपि तव स्तोत्रसक्ता भजन्ति । सर्वे त्वामेव सत्यं त्रिकरणत इह श्रीश भो वेङ्कटेश त्वत्पादाब्जे कदा वा मम भवति विभो किङ्करस्यैव दास्यम् ॥ ७. अडियेन् मेवियमर्किन् — सूरीन्द्र ! त्वं हि भक्तया सततमपि मयाऽत्रानुभाव्योऽमृताब्धि- शत्रुनः पक्षिराजो ध्वज इह किल ते नाथ बिम्बाधरोऽसि । पापाटव्याः कुमार त्वमिह विलसति श्रीधरो वेङ्कटाद्रौ ’ त्वत्पादाब्जावलोक क्षणमपि न सहे: त्यक्तुमत्युत्सुकोऽहम् ॥ ८. नोलादात्तेनुनपादम् त्वत्पादाब्जोत्सुकत्वं क्षणमपि न सहे त्यक्तुमित्येव सूक्ष्म- ज्ञानेशो नीलकण्ठ स्सुमतिरपि चतुर्वक्त्र इन्द्रोऽपि रामाः ॥ दिव्यास्ता मीननेत्राः परित इह हरे वेङ्कटाद्रौ भजन्ति त्वामेव त्वं हि कान्तस्सकलजनमनोरञ्जनो मामुपेहि ॥ ९. वन्दारपोले वारादाय्- आयातोऽप्यत्र न त्वं किल्ल नयनपथे वर्तसे नामतोऽपि प्रत्यक्षं तिष्ठसि त्वं द्वियुगभुज सरोजाक्ष बिम्बाधरोऽसि । मत्प्राणेशामृताब्धे नियामपि दिवस चात्र चिन्तामणीन्द्राः कुर्यादश्रीवेङ्कटाद्रौ न हि तब विरहं जातु सोढुं क्षमोऽस्मि ॥
सप्तमपातकम् । १०. अकलकिल्लेनिरैयुम् - विश्लेषं न क्षणं च स्वयमहह सहे चेति पद्मा तचोर- स्वास्ते नित्यं समस्तामलसुगुणनिधे नाथ मे लोकनाथ | देवैरश्रेष्ठैर्मुनीन्द्रैरपि महिततमो वेङ्कटाद्री विभासि त्वत्पादाब्जं प्रविष्टोऽस्म्यहमिह सततं दासभूतोऽस्म्यनाथः ॥ ११. अडिक्कीकमपुकुन्दु - लोका उज्जीवितास्स्त स्वयमिह मम पादाब्जयुग्मे श्रितास्स्ते- त्युक्त्वा नित्यं प्रसन्नं प्रभुमिह कुरुकापत्तनेशश्शठारिः । स्तोतुं श्रीवेङ्कटेशं दशकमिदमपि प्राह मुक्त्यै सहसे ज्ञातॄणामस्य भक्ता अपि परमपदे नित्यवासं भजन्ते ॥ इति श्रीकल्किसिंह भगवद्विरचितायां सहस्रगाथा रचावल्यां षष्ठशतकं सम्पूर्णम् ॥ अथ सप्तमशतके
७
१
१. प्रथमदशकम् ( उण्णिलाबियवैवसल ) (पञ्चेन्द्रियैस्सह स्वस्यावस्थानं सुदुस्सहमित्याक्रन्दति १. उण्णिलावियवैवराल्-
- शठारिः । सङ्ख्यातीतविचित्रवृत्त भगवन् सूरीन्द्रसंसेवित त्रैलोक्याधिपते ममामृतनिधे स्वामिन् प्रभो ! मे हरे । अन्तर्वैरिकुलेन पञ्चकरणग्रामेण सम्पीडितं मामेवं तव पादपङ्कजनतेद्दूरे तुदस्येव हा ॥१५८ २. एनैयालुम्वनको - सहलगाथारलावली । माधुर्याद्यमृताम्बुधे जलनिधि - क्ष्मा - पालक श्रीहरे नीलाम्भोदनिभ श्रुतीरितगुण श्रीचक्रपाणे विभो । मां पापाश्रयमत्र, घोरविसरत्पञ्चेन्द्रियाणां वरां. कृत्वा हन्त दिवानिशं च तुदसि त्वत्सङ्गिनं नातनोः ॥ ३. वेदियानिर्कुमैवराल – विस्तीर्णं पृथिवीमिमां किल सृजन मूलात्मकस्त्वं हरे भक्षित्वा पुनरुद्भिरन्नपि पदेनाक्रम्य चोद्धृत्य च । ज्योतिष्मन्मकुटाञ्चित त्वभिह मां पञ्चेन्द्रियैः पीडित कुर्वन् किं मधुसूदनाद्य भजसे हा! त्वत्पदाद्दूरगम् ॥ ४. शूदुनानरियावकै- सर्वाचेतनचेतनावलिमपि त्वय्येव कृत्वा स्वयं बालस्त्वं वटपत्रशाय्यहह मे पापस्य दिव्यौषध दुष्पञ्चेन्द्रियवश्यमेव किल मां कृत्वा श्रमान्धं भुवि त्वत्पादाम्बुजसंश्रयाद्विरहितं त्यक्त्वाऽसि दूरं गतः ॥ ५. सीर्मरुन्दिनि यैन्दुनोय्– चक्रं ते करतों वहन्नसुरनिर्मूलप्रणाशं हरे कृत्वा सूरकुलाधिपोऽसि भगवन् मे पञ्चशब्दादिभिः । बन्धं दुर्विषयैः प्रकल्प्य परितः पञ्चेन्द्रियैमः तुवन् किं दूरीकुरुषे रुजो मम महादिव्यौषधात्माऽद्य कः ॥ ६. विष्णुलापैस्मार्क - भूम्यामत्रं हि नित्यसूरिनिवहानप्येवमेतान्यहो हा हा! हन्त! तुदन्ति मां च बहुधा पञ्चेन्द्रियाणि स्वयम् । किं वैतानि न कुर्वते वद भवानेवं त्यजेन्मां च चे- नादे मे कवितासु भक्तिनयन स्वान्तोक्तिषु भ्राजसे || ७. ओनुशोल्लियोरुत्तिनिल्— सप्तशतकम् । देवैश्वाप्यसुरैस्सहाम्बुधितले सर्वावृतं भूधरं कृत्वा मन्थनकृत्प्रभो मम हरे दिव्यामृतात्मा भवान् । कारुण्यन्तुं विना तवात्रं चपलैः क्षुद्रैश्च पञ्चेन्द्रियै- नित्यं पीडित एव तानि च कदा जेतुं प्रभुस्स्यामहम् ॥ ४. इनमुदेनत्तोनि— `स्वामिन् मे वरसूरिमूलेँ भगवन् कृष्णात्र पञ्चेन्द्रियै- देवानामपि मोहनोऽसि महतीं मायां तवैमां हरे । निर्मूल्याद्यं तवायुध दिसहितं दिव्यं शुभं विग्रहं स्मृतु स्तोतुमिहार्चितुं च कुरु मे शक्ति दयावारिधे ॥ कुलमुदलडुन्तीविनै— भूम्यादीनि जगन्ति सर्वचिदचिद्वर्गैस्सृजन् प्राग्भवान् कृष्णो में प्रभुर भाति च परं ज्योतिस्स्वयं भास्वरम् । वँशोन्मूलन - तापकारण - महापापावले वर्धके गर्ते दुर्विषयात्मके पतनकृत्पञ्चेन्द्रियात्पाहि माम् ॥ १०. एन्परंशुडरेयेनु– प्राक् पाथोनिधिमन्थनादमृतहृन्मूर्ते सुतेजोनिधे मे स्वामिन्निति च स्तवैस्तव पदाम्भोजद्वयप्रेमतः । चित्तं मे द्रुतमस्ति यद्यपि तथाऽप्यत्यन्तभाराश्रयं देहं मे कृतवानसीह विषया मां पीडयन्तीन्द्रियैः ॥ ११. कोण्डमूर्तियोर्मूवराय् - त्रैगुण्याश्रयतस्त्रिमूर्तितनुभृद्यस्सृष्टिरक्षाल्यान् कुर्वन्नाभिसरोजघृच्च सलिले तं शायिनं माधवम् । स्तोतुं तस्य हि दासदासपरिषद्दासानुदासस्स्वयं साहस्रं शठजिच्चकार दशकं चेदं विदन्तोऽनघाः || १५९ १६० सहस्रगाधारareली अथ सप्तमशतके
२
२. द्वितीयदशकम् (कगुलम् पकलम् ) ( पराङ्कुशनायिकायाः श्रीरङ्गनाथविरह व्यथामुल्बणामुपपा- दयति तज्जननी । ) ३. कङ्गुलम् पकलुम् निद्रां नाप्नोति नक्तन्दिवमियमबला स्यात्किरन्ती स्वहस्ता- दन्ते शङ्खचक्रे विरादयति करोत्यञ्जलिं हस्ततोऽपि । पद्माक्षेत्यार्तिवश्या तव विरहवशा हा कथं स्यामिति त्वां सर्वत्रेयं विचिन्वन्त्यहह कथमियं जीवतीत्यद्य वेत्सि । २. एन्शेरिकनाय्- किं वा कुर्यात्सरोजाम्बक मयि कृपयेत्येव चिन्ताकुला स्या- द्वाप्पावल्या च रक्तेश्वर रुचिरसरिनायकेत्येव वक्ति । उच्छवासैश्व द्रुता स्यात् स्मरति किल पुरा कर्म नीलाब्दवर्णं सृष्टिस्थित्यन्तहेतुं कथयति च कथं हन्त ब्रोज्जीविता स्यात् ॥ ३. वलिकलकिरैयुम् - लज्जाहीनेव भाति स्वयमिह मणिवर्णेति खं पश्यतीय मूर्छामाप्नोति वीरासुरकुलहननेत्येव चित्ते द्रुता स्यात् ! काकुत्स्थ त्वामदृश्यं कथय कथमहं हन्तं पश्यामि कृष्णे- त्यात श्रीरङ्गनाथ वह वद कथं किं करोष्यद्य चास्याः ॥ ४. इष्टकालिट्टकैकलाय्- निश्चेष्टा पाणिपादे भवति चरति चाप्यन्तरा मोहिता स्या- त्कृत्वा चाप्यञ्जलिं सा विषयचपलतां वक्ति धिमूर्च्छितास्यात् । क्रूरोऽस्यम्भोधिवर्णेत्यपि वदति समाहूय हे चक्रपाणे मामायाहीति मोहं भजति किल हरे रङ्गराट् ! किन्नु कुर्याः ॥ समशतकम् १६८ ५. शिन्दिक्कम् तिरौक्कुम् सञ्चिन्त्यापि मोह भजति पुनरियं याति संज्ञा च भक्तया कृत्वा चाप्यञ्ज af नमति किरति सा रङ्गराजेति चाश्रून् । आयाहीत्येव मोह भजति नरहरें सायमुनिदैत्य श्रीराधेः प्राप्तपूर्णामृत कुशलमतिं कन्यका मोहयेः किम् ॥ ६. मैवल शेरदेम्बे- मायिन् मुग्धों च कृत्वा मम हरसि मनो रम्यवक्त्रोऽसि रखे- त्येवं शीताम्बुधारावृतशुभनगरीरङ्गनाथेति वक्ति । वत्से तीव्रासिचापौ सुरवर करतश्शङ्खचक्रे गदां चे- त्येवं श्रीशेषशायिन् त्वयि धृतहृदयां तामिमां किन्नु कुर्याम् ॥ • पालतुम्बङ्गलू नानादुःखानि भोगानपि वितरसि भो दीनबन्धो दयालो कालाधीशोऽसि चाम्भोनिधिकृतशयनः कृष्ण गम्भीरभावः । मीनाक्रान्ताम्बुधारावृत-शुभनगरी-रङ्गनाथेति तीर्थे- त्येवं बाष्पालिवर्षान् प्रवहति सततं मत्सुता कोमलाङ्गी ८. कोलुम्दुबानवर्कककु सूरीन्द्रोत्तंसभूषामणिरयमचलेोद्धारको गोपतिश्चे- त्येवं क्रन्दन्त्यनाथा भजति च बहुसन्ताप-निश्श्वास-शीला । तिष्ठन्ती नीलवर्णेत्यपि गगनमियं पश्यति व्यायताक्षी त्वां पश्येय कथं वेत्यपि वदति विभो रङ्गराट् किन्तु कुर्याम् ॥ ९. एतिरुम कलशेर्मार्वने - मन्नाथ श्रीधरोरस्स्थल मम सकलप्राणरूपेति वक्ति स्वैरं दंष्ट्राप्रतो भूभरण वृषजयव्यूढगोपीप्रियेति । श्रीमद्राभिधाने कृतनिजवसते दक्षिणेऽस्मिन् पुरे त्वं नित्यं बाभासि विष्णो त्वयि सततमिय मोहिता किं भवेद्वा ॥ २१ ર १०. मुडिविवलत नक्कु - सहस्रगाथारलावली | अस्या दुःखान्तकं किं मम भवति न वेद्मीति वक्तीयमेव त्रैलोक्याधीश शम्भो विकचसुमजटाभृच्चतुर्वक्त्र देव । सूरीणां नायकेति स्वयमियमनिशं रङ्गनाथेति वक्ति भ्रान्तेव त्वत्पदाब्जे जलदरुचियुत ! प्राप्तसत्ता चकास्ति ॥ ३१. मुकिल्वण्णनडियै – मेघश्यामाङ्घ्रियुग्मं शरणमुपगतश्श्रीशठारिस्स्वपुर्यां वृक्षावल्यम्बुधाराद्यवतरणतले दिव्यसाहस्रकर्ता | विष्णोस्स्तुत्य विदुर्ये दशकमिदममी दिव्यसूरीन्द्रधाम्नि प्राप्य स्थानं परं तत् सततमपि भवन्त्यद्भुतानन्दसिन्धौ ॥ अथ सप्तमशतके तृतीयदशकम् (वेललेचुरि शङ्गोडु ) ( ’ तेतिरुप्पेरै ’ नामकं श्रीकुरुकापुरीप्रान्त्यं दिव्यदेश मनुभवति श्रीपराङ्कुशनायिका । ) १. वेल्लैहरिशङ्गोड- यूयं नैव हि वित्थ मातर इदं श्रीशङ्खचक्रे बहन् पद्माक्षो हृदि मेऽत्र तार्क्ष्यमधिरुह्यास्ते च सञ्चारवान् । कैrशब्दैरिह वर्णयामि सुसुखावासं हरेस्तस्य तु १ श्रीबेराख्यपुरं भजे श्रुतिरवैर्युक्तं च वाद्यारवैः ॥ २. नानक्करुलल हे सख्य शृणुता मातर इमा यूयं च पार्श्वस्थिताः चित्तं नैव हि मे वशं मम सदा दुर्निग्रहं भाति च । १. तिरुप्पेरै — इति प्रसिद्धपुरम् । सप्तमशतकम् । सक्तं भात्यधरे हि बिम्बसदृशे नक्तन्दिवं श्रीपते- श्रीराख्यपुरे स्थितस्य तु हरेः कृष्णस्य देवेशितुः ॥ ३. शेङ्गनिवायिन् तिरत्तदायुम् — मच्चित्तं सततं च सक्तमधरे बिम्बायिते श्रीहरे- भीस्वन्मौलितले च पद्मनयने श्रीशङ्खचक्रद्वये । चित्तं में सखि मासवासरमहादिव्योत्सवैरावृते श्रीराख्यपुरे स्थिते भगवति न्यस्तं हि लज्जां विना ॥ ४. इन्दवेम्मामै रित्तु- चेतो मत्प्रियमन्तरङ्गमहह स्वैरं हि सक्तं बहि- स्तत्रैवाद्य किमस्ति साध्यमिह मे मनोऽस्मि वेदस्वनैः । उद्यद्वारिधिघोषराजिसदृशैरुद्भासिते श्रीहरे- श्री रायपुरे स्थितस्य चरिते मय्याग्रहात्किं फलम् ॥ ५. सुनिन्दुशकटमु दैत्तु - कोपातं शकटं प्रमद्ये कुमतिं तां पूतनां ध्वंसयन् मध्ये वृक्षयुगस्य यस्स्म विशति क्षिप्त्वा च वत्सासुरम् । कृष्णं तं प्रति मे मनोऽस्ति सततं लज्जाविहीनं ततः किं मय्याग्रहतः फलं त्यजत मां श्रीबेरपुर्या क्षणात् ॥ ६. कालम्पेर वेन्नैक्का टुमिन्कल्- नीलाम्भोदनिभो हरिर्मम पुरस्तिष्ठत्यहो दूरतो यात्येवाद्य करान्मम स्वयमियं त्वाशा ममात्युत्कटा । भूम्यामत्र स वर्तते किल चतुर्वेदाश्रयैवैदिकैः श्रीबेराख्यपुरे तु सस्यभरिते तत्रैव नेयाऽस्म्यहम् || १६३ १६४ ७. पेरेयिल्शूकडले - सहस्रगाधारत्नाक्री | प्राकारावृतवार्धिसंवृतमहालापुरीनाशक- श्रीबेराख्यपुरेऽस्ति तत्र हि मनो मे मार्गयत्येव तम् । नायात्येव किलान्यतश्च सखि मे के स्युस्सहाया इह आन्तं मेऽद्य मनो न कोऽपि च पुनश्चाहूय सम्भावयेत् ॥ ८. कण्डदुवे कोण्डेल्लारुम् कुडि- सर्वे मामिह बाह्यचिद्दृनवशतश्श्रनिलिवर्ण प्रति श्रीशे मे हृदयं द्रुवीकृतमिति प्राहुर्हि निन्दावचः । आशा मे सखि तावतैव महती पृथ्वी समुद्र - धुलो :- कातीताऽस्ति वसामि तस्य वसतौ श्रीबेरपुर्या स्वयम् ॥ २. शेर्वन् शेन्नुहैतोलिमीर्कालू- सख्यो मातर एवमद्य ने तु मामाश्वासयेत स्वयं किं वक्तव्यमिहास्ति को मम मनःपूर्तिश्व नास्तीह हि ॥ कृष्णश्श्यामलवर्ण एष भगवानास्ते स्वयं श्रीधर- । इश्रीराख्यपुरे हि सस्यभरिते तत्रैव यामि क्षणात् १०. नकरमुनाडुम पिरवुम् - 10 सख्या मे शृणुत प्रभास्वरमहासौधाञ्चितेऽस्मिन् पुरे श्रीवेरे मकस्यतश्रुतिपुटो मायी हरिश्श्रीधरः । हत्वा तान् शतकौरवानपि चिराच्चित्तं च नीलाम्बुद- वक्री मे हृतवान् विचित्य तमनु व्रज्यां न लज्जाऽस्ति मे ११. ऊलितोरुलि नाना कल्पयुग दिषु स्वयमहो नामानि रूपाणि स. द्वृत्तादीनि पृथग्विभर्ति य इमं स्तोतुं जगत्पालकम् । नीलाम्भोधिनिर्भ शठारिरवदत्साह समन्तादिक श्रीबेरात्र्यपुरं प्रतीह दशकाद्भक्तास्तु चक्रायिताः सप्तमशतकम् । अथ सप्तमशतके
४
४. चतुर्थदशकम् ( आलियेल ) ( भगवतो विजयरूपाणि चरित्राण्यनुभवति श्रीशठकोप- १. आलियेल मुनीन्द्रः । ) चक्रं च शङ्ख इह शार्ङ्गमपि क्रमेण दिग्वन्दिवाक्ततिगदासिगणा: किलोच्चाः । अण्डाज्जलानि मकुटाङ्घ्रितले किलोच्च कालोद्गमे ननु हरे जगदाक्रमोऽयम् ॥ २. क्षारुमलैक्केदिन्द मोलि- सर्वेश्वरेण विबुधोत्सवसन्थ का के दिव्यामृतार्जनविधौ सरितो गिरींस्तान् । प्रत्युद्गता इति च वासुकिमन्दरोत्था मन्थे च शब्दसरणिर्महती महाब्धौ ॥ ३. नानिलवेलमण्णुम् तानत्तवे— देवे तदाण्डतलतः पृथिवीन्तु शुक्रा दुद्धृत्य बिभ्रति निजस्थितिमेव याताः । सप्तान्तरीपससणिगिरयो ऽपि सम स्वस्थानगा जलधयोऽपि च सप्त सुथाः ॥ ४. नालमेल निलनीस्मेन- देवस्य भक्षणविधिर्जगतां तु की हक कालश्च भूमिरपि वास्निभोमहाश्च । अमिश्च वायुरपि घोररवैः प्रणष्टाः निर्मूलिताश्च गिरयो : महसां प्रणाशैः ॥ १६५ १६६. ५. ऊडै मल्लद बोलि- सहस्रगाथारत्नावली । देवस्य वृत्तमिह भारतयुद्धकाले दिव्यं हि मल्लसरणिः प्रबला च भद्मा । राज्ञां बलिष्ठपूतनाः किल कम्पितास्ताः खस्थास्सुराश्च पुरतः प्रबलैश्च शब्दैः ॥ ६. पोल्दु मेलिन्द — • देवो दिनान्तसमये गगने च दिक्षु द्रागेव शोणितसरित्प्रसरान् प्रवाह्य । दैत्यासुरप्रमथनं कृतवानितीदं त्वद्रेर्हि केसरिकृतं च विदारणं स्यात् ॥ मारुनिरैत्तु — उद्घोषशालिशरवर्षगणैश्शतानां रक्षः कुलस्य निधने रुधिरप्रवाहाः । अधि च रक्तमयमेव हि कुर्वते स्म श्रीशो हरिस्समहरतु यदा च लङ्काम् ॥ ८. ने रिन्दान् — बाणासुरस्य बहुबाहुततिप्रभेत्ता देवो यदा किल तदा ध्वजकुक्कुटेशः । ज्वालामयोsपि दहनश्च स च त्रिणेत्र- स्सर्वे पलायनकरा सकलैर्हि दृष्टाः ॥ ९. अत्र मण्पीरेरिकाल - देवो यदा तु जगतामपि सर्गकती भूमिं जलं च दहनानिलदेवमार्गान् । अद्रीन् रविं च शशिनं महसां ततीश्व वृष्टिं च देवनिवहानकरोत्तदाऽन्यान् ॥ १०. मेय् निरंकी- सप्तमशतकम् । १६७ घासोद्यताश्च पशवोऽद्रितलादधस्तात् संरक्षिता निपतिताश्च गिरेर्गजाद्याः । अत्युत्कटाश्च सरितस्तु हरिः प्रवर्षा- चातुं च गोकुलजनान् गिरिधृद्यदाऽऽसीत् ॥ ११. कुनमेडुत्त पिरान् गोवर्धनोद्धरणकृत्प्रभुभक्तवर्गै- ये सङ्गतोऽस्ति शठजित्सततं तदीये । साहस्रके तु दशकं तदिदं पठन्त- सर्वत्र चापि जयमेव सदा लभन्ते ॥ अथ सप्तमशतके
५
५. पञ्चमदशकम् ( कर्पारिशमपिरानै ) ( भगवद्विभवावतारगुणगणास्सर्वोपजीव्या इति शंसति
- कर्पारिशमपिरानै शठारिमुनिः । ) सर्वे चापि चराचरास्सुम हितायोध्यापुरे बासिन - स्सर्वत्रापि पिपीलिकांतृणमुखास्सृष्टौ च धातुस्स्वयम् । मुक्त्यै साधनवर्जिता अपि परं धामाव्ययं प्रापिताः किं रामन्तु विना प्रभुं तदितरासक्तास्स्युरेवोत्सुकाः ॥ २. माटिल्पिरन्ववर- जातोऽस्मिन् जगति स्वयं च बहुसन्तापाकुलश्चाश्रित- त्राणार्थं तु निशाचरान् कुचरितान् प्रध्वंस्य विष्णुर्हरिः ।सहसंगाथारावली । लोकं यः परिपालयन् पुनरपि स्वं धाम सर्वैयया तद्वृत्तं च निशम्य किं भुवि जना नारायणान्याश्रयाः ॥ ३. केल्पार्ककर्केशवन् कीर्त्ति — श्रोतॄणां श्रवणामितुल्यवचनैरत्यन्तनिन्दात्मकै- श्रीशं यः किल निन्दति स्म शिशुपालाख्यः पुराणो रिपुः । सोऽपि श्रीहरिपादपङ्कजयुग प्राप्नोदिति ज्ञानिनां सान्निध्ये किमु केशवान्ययशसवशुश्रूषवस्युः कचित् ॥ ४. सम्मैपरिपवर- नानादेवमुखप्रपञ्चसरणैः पूर्वं हि शून्य यदा सर्वं चास्त तदा तु कारणजलादण्डं सृजन्नेव यः । तत्रामुं चतुराननं पुनरपि स्रष्टुं नियोज्याखिलं धत्ते योऽस्य विचिन्त्य दिव्यचरितं किं वाऽन्यदासा बुधाः ॥ ५. शूल्क कूशिन्दिक्किल- मना तां प्रलयाणैवे तु पृथिवीमुद्धर्तुमेवालसां दंष्ट्रातोऽत्र वराहरूपमंभजद्यस्तस्य वृत्तं शुभम् । आकर्ण्याप्यनुचिन्त्य सद्गतिपराः किं चिन्तयन्तो जना मायिश्रीचरणाम्बुजातयुगलादन्यद्भजेयुः क्वचित् ॥ ६. केरसुणदेवर नित्यासङ्कुचितात्युदारकर एवासीइलियों महान दृप्तस्तेन हि पीडितास्सुरगणास्तैरर्थितोऽयं हरिः । दुःखध्वंस्यभवच्च वामनवपुस्तस्याद्भुत नाटकं दृष्ट्वाऽऽकर्ण्य विचिन्त्य यान्ति शरण किं केशवाद्वाऽपरम् ॥
J learn ७. कण्डुम् तेन्दुम् कत्तार् सप्तमशतकम् । मार्कण्डेयमसौ जटामकुटभृगुद्रस्स्वयं पालया- १६९ म्येवेत्युक्तिवरप्रदश्च सहसा तेनागतश्चाच्युतम् । सम्प्रार्थ्याभज दिष्टसिद्धिमिति सञ्चिन्त्यापि दृष्ट्वा च ये ज्ञातारः किममी भवन्ति विबुधाः कृष्णं विनाऽन्यं श्रिताः ॥ ८. शेलवुणदेवर- निस्सीमात्मतपोबलात्सुरगणान् सम्पीडयन्तं खलं दैत्यं तं च हिरण्यमद्भुततनुश्रीनारसिंहो हरिः । क्षिप्रं हन्त विदीर्य मायिचरितोऽभूदेतदाकर्ण्य च ज्ञातारो यदि शृण्वते किमु बुधा श्रीशस्य वृत्तात्परम् ॥ ९. मायमरिपवर - दायं सर्वमपि स्वयं किल बलादाक्रम्य ते कौरवा- . स्सर्वे चापि विनाशिताश्च हरिणा पञ्चाश्रितार्थं प्रवम् । सारथ्यं वहता चमूं च सकलां हत्वा प्रयात्रेति य- द्वृत्तं ये तु विदुर्बुधाः किमु हरेस्ते मायिनोऽन्यं श्रिताः ॥ १०. वातैं यरिपवर् अज्ञानाश्रयजन्म - रुक्तति - जरा - मृत्यादिभिश्चाखिला नानादुःखपरम्परामपि च निर्मूल्य प्रणाश्य स्वयम् । भक्तान् यः कुरुते स्वपादकमलद्वन्द्वाश्रितान् रक्षितान् वृत्तं तस्य विचिन्त्य किन्नु विबुधास्स्युर्मायिनोऽन्यं श्रिताः ॥ ११. तेलिव वीविनि नित्रयकु - नित्यं निर्मलचेतसस्तु परमानन्दं पदं प्रापयन् कृष्णो भाति हि नित्यनिर्मलमतिस्तं श्रीशठारिर्मुनिः । स्तोतुं श्रीकुरुकापुरप्रभुरसौ साहस्रमेवातनो- तद दशकं विदुर्यदि जगत्त्रय्यां विशुद्धाशयाः ॥ २२ १७० सहखगाथास्लावली । अथ सप्तमशतके
६
६. षष्टदशकम् ( पामरु मूवुलकुम् ) ( भगवत्साक्षात्कारोऽलाभक्लेशेन उच्चैराक्रन्दति शठारि । ) ३. पामरु मूवुलकुम् विस्तीर्णलोक-ततिसृट् किल पद्मनाभो विस्तीर्णलोक-मितिकृत् किल पद्मपादः । पद्मम्बकोऽसि ननु पद्मकरोऽसि देव त्वां पालकं त्वशरणोऽत्र कदा भजेयम् ॥ २. एन कोल्दोर्षद दो- पृथ्वी जलानिलमरुद्गगनात्ममाला सर्वतराऽपि च पदार्थत तिस्त्वमीशः । गोपालकश्च गिरिभृत्खरमोऽसि देवै- स्तव्यं तथाङ्घ्रियुगलन्तु कदा भजेयम् || ३. काश वो- धृत्वा गिरिन्तु परिपालक शैलवर्षा- दस्मद्विहारनटनस्तुलसीधरोऽसि । रुद्रश्चतुमुर्ख उभौ तव हि प्रकारौ स्तोत्रालिगं हृदिभवं क्व भजे बत त्वाम् ॥ ४. प्रङ्गुतलैप्पेखनान्- गोपाल forgerier मौलिदीप्र त्रैलोक्यरूप विषमाम्बक- धातृरूप । इन्द्रोऽसि वज्रधर देवगणोऽसि हि त्वां सर्वस्य मूलमपि कुत्र भजाम्यहं वा ॥ ५. एन्डेक्कोवलने-
सप्तमशतकम् 1 १७१ गोपाल नीलमणिरूप ममाच्युत त्व- नाभीसरोज भव लोकततिं विलोक्य | आत्मा हृदीह मम हन्त कथं भजेत्वां दिव्ये च धामनि वसन्तमहो परात्मन् ॥ ६. वन्देछुमाररियेन् माणिक्यनीलतनुरेव किलासि रक्तै- स्सूनै रिवारुणदुकूलकराङ्घ्रिनेत्रैः । नाभीपुटानन - हृदम्बुज- तेजसा च श्रीवत्सलान्छन न वेद्मि गतिं तवाप्त्यै || ७. एन् तिरुमार्बन् तन्नै- श्रीशं धरोद्धतिकरं गिरिजापतिं त्वां पश्यामि किं त्रिपुरनाशकमिन्द्रियेशम् । वाणीपतिं किमु शचीशमिहामरेशं सर्वास्मकोऽसि भगवन् विविधैश्च रूपैः ॥ ८. आलियैक्कापरियाय् - भीता निशाचरगणास्तु बिलं प्रविष्टा लङ्कापुरात्सपदि मालिमुखांश्च शूरान् । हत्वाऽधिरूढगरुडे तु हरावुपेन्द्रे त्वय्यत्र भास्वति कथं नु विलोकये त्वाम् || ९. काण्डम् कोलो नेअमे– क्रूरं निशाचरपतिं प्रबलं च वीरं हत्वा समूलमपि तस्य किलानुजाय । लङ्काधिपत्यकृदगात्परमं पदं यो राज्यं दधच्चिरममुन्तु कदा भजामः ॥ १७२ १०. एसरुम् वैकुन्दत्— सहस्रगाथारत्नावली । जात शिशुच किल गोकुलपुष्ट आसी- दत्यद्भुत-स्वचरितः खलकंसहन्ता । पञ्चाश्रितोऽरिपृतनान्तः एष दिव्यं धाम श्रितः किल ददाति परं पदं नः ॥ ११. पुक्कवरि युरुवायू- दैत्यान्तकं नरहरिं ननु चक्रपाणि श्रीशं शंठारिरभजत्कुरुकापुरेशः । साहस्रपद्यकृदिदं दशकं पठन्त- सस्तव्या भवन्ति दिवि चामरधारिणीभिः || -**- अथ सप्तमशतके
७
७. सप्तमदशकम् ( एकैयराषि युग्नुम् ) (भगवदवयव सौन्दर्यस्याऽरुन्तुदत्वं मातृसखीजनसकाशे वक्ति १. एकैयरावि युष्णुम् - पराङ्कुशनायकी 1) नारीजनान्तकयुगं किमिदं तु दिव्यं श्रीकृष्णलोचनयुगं त्वथवा न वेद्मि । नव्याम्बुजद्वयमिवास्ति पुरो ममाक्ष्णोः किं मातरो ! मम सखीनिवहाच ! कुर्याम् || २. आट्टियुम् तूतियुम् निनु हे मातरः किमु फलं मम निन्दनाः किं कल्पवल्ल्युत लताङ्कुर एव पार्श्वे । नो यहं हि नवनीतहरस्य नासा वित्ते ममास्ति किल दीपशिखेव दीप्रा || सप्तमशतकम् । १७३ ३. वालिय दोर्क निकोल् दिव्यं फलं किमुत किं मम पापपुञ्ज किं वा प्रवालशकलो न हि वेद्मि सम्यक् । नीलाम्बुदाभवपुषो मम नायकस्य विम्बाधरो दिशि दिशिीह पुरो ममास्ते ॥ ४. इग्नुयिकेलयल् नारीवधार्थनिह नीलधनुर्द्वयं किं कामस्य किं तदिदमिक्षुधनुस्स्वरूपम् । कृष्णस्य कामजनकस्य किलेश्वरस्य अयुग्ममेव सततं हृदि मेऽस्ति शल्यम् ॥ ५. एनुनिने तिकलुम्— ज्योतिर्मयी किमिह विद्युदियं सुशुभ्रा मुक्तावली किमयमस्ति ममासुहन्त्री ! मन्दस्मितं गिरिभृतस्तदिदं प्रभोर्मे प्राणान् दहत्यहह मे न गतिर्जनन्यः ! || ६. उरिखड मेलयकुम् — नारीजनासुर गणादिनिवासभूमिः कुत्रेति भाति मकराकृतिरेव सेयम् । श्रोत्रद्वयी रुचिरकुण्डलशोभितेयं कृष्णस्य शेषशयनस्य तुदेत्सदा माम् ॥ ७. कामिन् कलन्नैयकल् हे मातर सपदि पश्यत मामितीदं नो वेद्मि दर्शयितुमिन्दुरहो किमेषः । किं पूर्णमेव विततं नु चतुर्भुजस्य विष्णोर्ललाटफलकं किल मां हिनस्ति || १७४ ८. कोलिले तामरैयुम् - सहस्रगाथारत्नावली | कृष्णस्य दिव्यमहसाऽश्चितमाननं मे प्राणान् किलात्ति निजदिव्यमहः प्रभाभिः । पद्मप्रवाललतिकाधनुरिन्दुमुक्ता- श्रीपल्लवादिभिरिहाभरणैर्जनन्यः ! ॥ ९. कोकिन कोलिरुकै गाढान्धकार-निबिडान्तर- नीलतन्तु- सन्तान - निर्मलततिः किमिहालकालिः । कृष्णस्य दिव्यतुलसीसुरभिर्हरेन्मां हे मातरः किमितिमां क्षुभितां कुरुध्वे ॥ १०. नित्ति मुत्तत्तुले - हे मातरः किमिति मां बत निन्दाच armist किमु तिष्ठासे निस्त्रपेति । ज्योतिर्मयेऽद्य मकुटे मणिवर्णदीप्रे कृष्णस्य भाति हृदयं मम नित्यसक्तम् ॥ ११. कट्करिय पिरमन्- नेत्रातिगैर्विधिशिवेन्द्रमुखैश्व देवै- दृश्यो न यस्तामिह कृष्णमसौ शठारिः । स्वोतुं सहस्रमतनोत्कुरुकापुरेश: कुर्यादिदं च दशकं दिवि सूरिसङ्गम् ॥ सप्तमदातकम् । अथ सप्तमशतके
८
८. अष्टमदशकम् ( मायाचामनने ) ( अत्र दशके भगवता प्रदर्शितं स्वविचित्रविभूतियोगमनु- १. मायावामनने- भवति शठारिः । ) मायात्मवामन हरे मधुसूदन त्वं ब्रूहीह मे त्वमसि बहिजल - क्षमात्मा । आकाश-वायु-जननी-जनक प्रजात्मा- ऽप्यन्यच्च सर्वमिति कीदृगयं प्रकारः || २. अङ्गमलर्त्तण्डुलायमुडि- त्वं ब्रूहि मेऽच्युत लसतुलसीस्रगाढ्य - मौले किमिन्दु रवि तारक राजरूपः । त्वं किं तमश्च विवृष्टिती च निन्दा क्रूरो यमश्च किमसि त्वमही विचित्रम् ॥ ३. चित्तिरत्तेर्वलवा- सारथ्यवेषधर चक्रधर त्वमेव ब्रूहीह मे युगयुगेष्वपि तत्स्वरूपः । तत्तद्भवाखिल - समान चराचरात्मा नानाविधोऽसि च कथं विषमा विचित्राः ॥ ४. कल्लविलतामरैक्कण्कण्णने- पद्माक्ष कृष्ण वद किञ्चिदिदं हरे मे सन्तोऽप्यसन्त इह भाति भवाननन्ताः । नानाविधोऽसि च विशालपयोधिमध्ये शेषे शयान इति योगविधिः कथं ते ॥ १७५ " १७६ ५. पाशङ्गलूनी कि कयेन्नै- सहस्रगाथारावली । पाशान् विमोच्य मम दास्य सुखावहस्त्वं मायिन् वदाद्य तुलसीकुसुमाढ्यमौले । कायोऽपि जीव इह भासि मृतिश्च जन्म मायामयोऽसि किमु मोहपरम्परेयम् ॥ ६. मयक्का वामनने- ७ हे वामन त्वमसि मोहकरो वदाद्य वेद्यं मम भ्रमहरं ननु विस्मृतिस्त्वम् । ज्ञानं किलोष्णमपि शीतमहा विचित्रं नानाजयस्सुकृत- दुष्कृत - तत्फलादिः ॥ तुयरङ्गलशेय्यम् कण्णा - दुःखावहः त्वमिह कृष्ण सुदीप्रमौले दुःखावहा भिमति-काम- सुखात्मकोऽसि । दुःखावहाभिलषितानि चराचराश्च मानं त्वमेव वद कीदृगियन्तु लीला || ८. एन शुण्डायङ्गलाल निहाय- मन्नाथ कृष्ण ! ननु मामपि लीलया त्वं दासं करोषि तव गोपयसि स्वभावम् । त्रैलोक्यमूलमसि सृष्टिकरोऽसि चान्त- व्यपी बहिश्च तव कीदृगयं स्वभावः ॥ ९. एन इयर्कैकलालू- कीदृक् स्थितोऽसि मम कृष्ण कथं स्वभावात् त्वं हस्त-पाद-सकलेन्द्रिय-रूपधारी । शब्द-स्पृगादि-रस-रूपक- गन्धरूपी सर्वं त्वमेव तव सूक्ष्मकला ह्यनन्ताः ॥ सप्तममशतकम् । १०. इनुणुक्कङ्गले इदनिल- सूक्ष्मान्तरं न किल भाति ततः परं चे - त्येवं श्रुतिर्वदति सच्च भवानसच्च । पुष्पाद्यलंकृत मुरस्यलमच्युतस्य श्रीशस्य ते ! श्रुतिमतोऽस्ति ! तव प्रकारः ॥ ३१. आम् वण्णमिश्र देन्नु सर्वेश्वरं मतिविदूरमपि क्रमेण नानाप्रकारकथनैश्च शठारिसूरिः । स्तोता सहस्रमकरे द्रविडात्मकं तत् ज्ञात्वाऽपि चात्र दशकं फलसिद्धिभाजः ॥ अथ सप्तमशतके ९. नवमदशकन् ( एनैक्कु मेन्नै) ૨૭૭ ( अत्र संसारे किमर्थं मां स्थापयसीति शठारिणा पृष्ठो भगवान् सहस्र- गीत्यवतारणार्थ मेवेति प्रत्युक्तवान्; तन्निशम्य सदृश प्रत्युष काशभावं प्रतिपादयन् विद्धो भवति मुनिवर: 1 ) १. एनैक्कुमेन्नै — स्वीकृत्य मां प्रथमतोऽध्यसकृच्च भूम्ना कृत्वा स्वकीयमिह दिव्यकवित्व सीनि । स्तोतुं स्वमेव परमं प्रभुमादिभूतं ज्योतिः परं मम कथं बत ! वर्णयामि ? || २. एन् नोल्लि निर्पन्— २३ यो मामनुग्रहवशात्कवितासु सक्तं कुर्वन्ममैव कवितेति जना यथाऽऽहुः । कर्ता तथा स्वयमभूत् स्वनुतौ प्रसक्तो मायी । त्रिमूर्तिममुमद्य कथं स्तवीमि ? ||१७८ ३. आमुदवनिवनेर्नु— सहक्षमाथारत्नावली । सोऽयं कविर्भवति मे स्तुतिकृत्किलेति- स्वज्ञानकृन्मम पुरा रसनों प्रविष्टः 1 दिव्यं कवित्वमिह भक्तजनाय कुर्वन् आद्यस्स्वयं स्वविषयं ! किमु विस्मरेयम् ! || *. अप्पनैयेन मरप्पन् पार्श्वे मम स्थित इम कवितां च कुर्वन् स्वस्य स्तुतिं य इह मामपि पापशीलम् । उज्जीवयन् गुणयुतं कुरुते परात्मा तं नायकं मम कदा बत ! विस्मयम् ? || ५. शीर्कण्डुकोण्डु तिरुन्दु- सञ्चिन्त्य सद्गुणगणान् मधुरं च काव्यं कर्तुं न शक्तिरिह मेsस्ति । तथाऽपि गृह्णन् । मामेव दिव्यकवितां स्वयमेव कुर्वन् मद्वारतस्त्वविषयां परमः प्रभुर्मे ॥ ६. इन् कचिपाडुम् परमकविकलालू- स्वस्य स्तुतिं न किल कारयति स्वयन्तु श्रीमानयं मधुरदिव्यकवीन्द्रमूलात् । भद्यागतोऽत्र कृपया मयि सन्निधाना- द्वैकुण्ठराट् किल मया स्वतुतिं तनोति ॥ वैकुन्दनादनेन वल्विनै मान्दु- चैकुण्ठनाथ इह मे प्रबलावहन्ता मद्द्द्वारतस्स्वनुतिमेव हि कर्तुकामः । दिव्यां कवित्वसराणि मयि सन्दधाती- त्येवं विचिन्त्यगुणन्तु कदाऽस्मि तृप्तः ? ॥ समशतकम्। 4. भार्वनो आलिय- अज्ञे च मां कविवरं रचयन्नुदास दिव्यां कृतिं स्वविषयां प्रकटीकरोति । श्चन्मम विभुः किल ! तस्य कीर्ति स्तोतुं प्रभुर्न हि भवेयमनन्तलोकैः । ९. तिरत्तु ककेतुप्पुरवाम्- मां चापि दिव्यमतिमेव विधाय साक्षाता यो मन्मुखान्मधुरसत्कृतिकृत् स्वनुत्यै । तं सर्वशक्तमपि माधवमुत्तमं किं स्तुत्वा त्रिकालसमयेषु भवामि तृप्तः ? १०. उतिक्कैस्मारेन्दुयिर– आत्मानमेव कृतविन्ननु चार्पयामी- त्येवं विचिन्त्य स च भाति तदीय एव । इत्येववेद्मि ! कवितां ललितां विधातु स्तस्योपहारकणिकाऽक न चापस्त्र || ११. इङ्गुमङ्गुम् तिरुमाकनि- अत्राप्यमुत्र परमन्तु विनेन्दिरेश नास्त्यन्य इत्ययमहो ! शठजिन्मुनीन्द्रः । चक्रे सहस्रमुचितं दशकं तदेतत् सङ्कीर्तितं वितनुते परमं प्रमोदम् १८० सहस्रगाथारत्नावली । सप्तमशतके
१०
१०. दशमदशकम् ( इम्बम् पयक्क ) ( केरल दिव्यदेशे ( तिरुवारविले ) इन्दिरया सह विराजमानस्य ) भगवतः पादारविन्द परिसरे परिचर्यां कर्तुमीहते शठारि ) श्रीनदीमातृकग्रामः = तिरुवारन् विलै ( मलैयालदेशे ) १. इम्बम् पयक्क- आनन्दामृतभोगसक्तहृदयौ पद्मा च विष्णु स्स्वयं लोकान् सप्त च सन्नियोज्य च मुदे दास्ये स्वकीये सदा । आनन्दाश्रयनित्यवाससहिते तौ श्रीनदीमातृक - मामे सन्निहितौ हि ! तत्र च मुदा किंवाऽञ्जलिं कुर्म हे ? ॥ २. आकुङ्कोलैयमोनिनि निस्सन्देहमिदं भवेत्किमु महालोकानशेषानपि स्वाङ्घ्रिद्वन्द्वमितान् विधाय जयात श्रीवामनो मे प्रभुः । अत्युच्चोज्ज्वलरम्यसौंधवलये ग्रामे नदीमातृके तं गत्वा किमु सप्रदक्षिणमहो । तीर्थैस्सुगन्धै नुमः १ ॥ ३. फूडुङ्गोलू वैकलुम् गोषिन्दनै- गोविन्दं मधुसूदनं हरिममुं सिंहं रिपूणां वयं दृष्ट्वा श्रीगरुडध्वजं तदुषिते ग्रामे नदीमातृके । यज्ञैः पञ्चभिरञ्चितेऽपि च चतुर्वेदेष्षडङ्गैरपि श्रीशं तं प्रणमाम किन्नु सततं ? किं साध्यमेतत्तु नः ! !! ४. वाक्कुम्कोलिनञ्चलुम् — इक्षुव्रीहि-समृद्धसस्यभरिते ग्रामे नदीमातृके त्रैलोक्याधिपतेः प्रमोस्तु मधुराजातस्य कृष्णस्य नौ । रम्यौ नीलतनोश्च दिव्यचरणौ पद्मायितौ किं हृदा ध्यातुं शक्यतमौ ममात्र वसतः ? किं साध्यमेतत्सदा ! ॥ ५. मलरडिप्पोदुकल्- सप्तमशतकम् नित्यं मे मनसा विचिन्त्य चरणौ दिव्यौ तु पद्मायितौ व्यन्तुं मे प्रभुरच्युतो विलसति ग्राम नदीमातृके । भक्तानुग्रहकृच्च शेषशयनः पुष्पाढ्यसौधावृते । कीर्तिं तस्य जगत्ततां यदि वयं गायाम नश्येदवम् ॥ ६. ओनुनिला केढम् मुत्तम्- तत्राजौहि तदा विजित्य च रिपुं पूर्णां रमां रुक्मिणीं दिव्यालङ्कृतसद्भुजां श्रितममुं कृष्णं मनो मे सदा । स्तोतुं शक्तमिदं भवेदिति हरिग्रमे नदीमातृके भातीदं तु पुरं शुभं नमत भो ! भक्ता अघं नश्यति ॥ ७. नीलनगरमदुवे- दिव्या सा नगरोति पुष्पमहिते प्रामे नदीमातृके दिव्ये सन्निहितः प्रभुर्मम हरिः कृष्णस्तु सूरीश्वरः । बाणावासपुरं प्रविश्य च युधि त्र्यक्षे तु दूरं गते विष्णुर्बाणसहस्रबाहुभिदसौ ! नान्यश्शरण्योऽस्तिनः ॥ 4. अन्मित्तोनिल – ! त्वत्पादौ तु विना न मेऽस्ति शरणं चेति हृदे दुर्गमे ग्राहस्तपदो गजस्तु शरणं यस्याङ्घ्रियुग्मं गतः । सोऽयं दुःखहरो हरिर्विजयते ग्रामे नदीमातृके सस्याढ्ये ! तदिदं पुरं च भजतां सर्वं प्रणश्येदधम् ॥ ९. तीविनैयुल्लत्तिन्— क्रूराघात्ययतः परं पदमपि प्राप्नोमि चेन्मानसं सक्तं स्यान्मम सप्रदक्षिणमिदं ग्रामे नदीमातृके | वन्द्ये वाङ्मनसानुरूपकृतिभिस्सर्वैश्च लोकै स्स्वयं सस्याढ्ये परमे सदाऽपि कुतुकात् संसेवितुं तत्पुरम् ॥ १८१ ૨ १०. शिन्दैमन्तोनिन्- सहस्रगाथास्त्रावली । चेतो वाक्तनुभिस्तु भक्तनिवहैर्नित्यानुभाव्ये मुदा नित्यं भाति हि तीर्थपुण्यचरितो ग्रामे नदीमातृके । श्रीशस्तत्र मनो ममास्ति सततं ! नान्यत्र चेति स्वयं सूरीन्द्रः परमद्य वेत्ति ! हृदये गोप्यं न किश्चिद्भवेत् ॥ ११. सीर्त्तनुक्कत्तपिन्- तीर्थ तं शरणं गतोऽस्मि सततं । नान्यं किलेति स्वयं तीर्थस्यैव परस्य दास्यनिरतो विष्णोश्शठारिर्मुनिः । तीर्थप्रायमिदं सहस्रमकरोद्दिव्यं पठन्तीह ये तवेदं दशकं स्तुवन्ति किल तान् देवास्स्वदेवाः प्रति ॥ इति श्री कल्कि सिंह - भगवद्विरचितायां सहस्रगाथा - रत्नावल्यां सप्तमं शतकं सम्पूर्णम् ॥ अथ अष्टमशतकम् ।
८
१
१. प्रथमदशकम् ( तेविसारावार ) ( यथामनोरथं नित्यविभूतिप्राचलाभेन भगवतः प्रणतपारतन्त्र्यगुणे अतिशङ्कमानोऽय प्रसीदति शठारिः ) १. तेविमारावार- देव्यस्ते श्रीश्च भूमिस्तदितरमहिषीवर्ग एवं च दिव्या- स्सूरीन्द्राः किङ्करास्ते त्रिभुवनमपि तत्पालनार्हाश्च देहाः । सर्वाणीमानि रूपाय ! तव सरोजाक्ष ! बिम्बाधर ! त्वं मे भास्यात्मा च रत्नं शुभममृतमहो ! त्वां दिदृक्षे ऽब्धिमन्थ! | २. काणुमाररुलायू - देहि त्वदर्शनं मे सपदि करुणयेत्यर्थिरूपोऽपि पापी f साश्रुश्चादृत्य च त्वां मुहुरकदमहं हन्त | नामानि तेऽत्र । किं बेहक् ते कृपा मम्यहह ! रघुपते ! कृष्ण मे कल्पकस्त्वं सिद्धं एक्वं फलं चामृतमवनिधर ! त्वां तु बोक्षे कथं वा ३ ॥ ३. एडुसपेरालेनू - सप्तमशतकम् । १८३ प्राप्य त्वां नन्दगोपः पृथुविमलयशास्तस्य सूनुः मियस्त्वं प्राणात्मा वै यशोदाकुलमणि - परमानन्द - मत्तेभडिम्मः । विष्णुस्वामी ममत्वं खरनखर ! हिरण्याक्षवक्षोविदारिन् । वात्सव्र्याब्धे ! न हित्वं भवसि धृततनुश्चाय ! को विश्वसेदा ४. उमरुकन्डुकन्द युद्धे तत्र धरातलखिलचमूविध्वंसक ! श्रीहरे ! देवानाममृतं त्वमेव हि विषं रक्षोगणानां ननु । आत्मा त्वं मम !भक्तहृद्यमिह यतते वपुर्भक्तहृत्- प्रीत्युत्कर्षकरी क्रिया तव सदा । मायां न वेद्यज्ञकः ॥ ५. आरुयिरेयो— माणात्मन् ! पृथिवी सृजन्नपि वहन् भुक्तोद्भिरन्मानकृत् सर्वेश: प्रलयाणवे च शयितो मन्थो ऽम्बुधे स्सेतुकृत् । तवा च भवान्महान् किल नृणां देवोऽसि देवाधिपो लोकानामसि चान्तरात्मक इह त्वां प्राप्नुयां वा कथम् ? ५. एङ्गुवन्दुरुकोवेन्नैयालवाने- मन्नाथो जगतां प्रभुश्च सकला लोकाश्च देवाः क्रिया लोकातीतपदार्थजातमखिलं त्वं सूक्ष्मचिच्चाप्यचित् । सर्व त्वं परमे पदेऽपि विलसत् सर्वेन्द्रियात्युद्भतं ! त्वामेवं परमात्मरूपमनधं मूढः कथं प्राप्नुयाम् ॥ ५. इरन्ददुम् नीये येदिदुम् नीये- क्षीरं चाज्यं तदीदं रसमपि जलधौ लब्धमेवामृतं त्वं तस्यापि प्राप्तसारं मधुरमपि फलं तस्य सर्व त्वमेव । नीलासंश्लेषभोगी सुमहितविभवो गोपसिंहोऽस्यतीतं भव्यं यद्वर्तमानं तदिदमद इति त्वं हि सर्वे च तत्त्वम् ॥ १.८४ सयसमा थारलावली | ४. मणन्दपेराया मायत्तारमुलुदुम्— मायातस्सर्ववस्तुष्वपि विशसि महान् गोपबालस्त्वमेव ! त्वमाहात्म्यं हि रक्षोगणशमन ! सदा पापिनं माँ तुदेच्च । श्रीराम्भोधिं श्रतस्त्वं गरुडगमन ! भोः शेषशायिन् ! मनेा वां काया स्सर्वेऽप्यह्वं च त्वमसि ननु ! ततो न प्रणन्तुं च वेद्मि ॥ ५. यानुम् नीताने याथात्म्यादस्म्यहं च त्वमिह भवमहानारकादित्वमेवे- त्येवं चेत्किं फलं स्यात्परमपदगतेः किं भयं नारकाद्वा ? | एवं चिन्ताकुलोऽहं त्वमिति किल यदा तत्त्ववित्स्यां तदाऽपि स्थाद्भीतिर्नारकान्मे ! परमपदमहानन्द ! मे देहि तेऽङ्घ्री । १०. तालकलवेनक्के- तेऽङ्घ्री मे दत्तंवों स्त्वं ! तत इह कृतविन्मे किलात्मार्पणं तें साक्षात्सत्यं तनोमि ! स्वयमहह ! महान् ज्योतिषामाकरस्त्वम् । त्वं मे साहस्रबाहुः प्रभुरसि हि सहस्र क्षिपादाब्ज मौलि - स्सत्यं साहस्त्रनामा विलससि सतप्तं ! मे गतिस्त्वं शरण्यः ॥ ११. पेरियवप्पनै— सर्वस्मात्परमेव धातृपितरं रुद्रस्य तातं पितु- स्सर्वेषाममि मौनिनां च पितरं ध्येय शठारिर्मुनिः । देवानामपि देवमेव कुरुकानाथ जगन्नायकं स्तोतुं चाह सहसमत्र दशकादुज्जीवनं स्याच्च नः ॥ अष्टमशतकम् । अष्टमशतके
२
२. द्वितीयदशकम् ( नङ्गल्वरिवले ) ( संसारे सर्वथाऽपि नैराश्यं प्रकाशयति शठारिः- सखीजनाय नायिकावाचा | ) १. नङ्गकवरिवल- ! हे हे सख्यः ! करकङ्कणैस्सुरुचिरैर्युक्ताः प्रिया मेऽधुना किञ्चिद्वक्तुमिहोत्सुकाऽस्मि च रहो यगोप्यते वैरिणाम् । दुस्माधस्समयोऽस्ति मे ! शृणुत ! मे नाथं हरिं वेङ्कटं तार्क्ष्यारूढमवाप्तुमस्मि शिथिला वैवर्ण्यत स्सुस्तनी ॥ २. वेण्डिच्चेनोन १८५ प्राप्यैनं बत ! किञ्चिदाप्तुमिह मे सख्य स्पृहाट्यास्तु वः किञ्चिद्वक्तुमहं न वेद्मि सदृशं हा ! हन्त ! पद्माम्बकः । अत्यन्तं रमणीयरूप इह मे नाथ स्स्वयं वञ्चक स्सूरीन्द्रः किल ! तद्वशं तु वलयं स्त्रीत्वं च मे किं लभे ? ॥ ३. कालभिलैक्किलल्लालू- नीलाम्भोदनिभोज्ज्वलामलतनुः कृष्णोऽहरन्मे तनोः कान्ति कङ्कणयुग्ममप्यहमहो ! तत्प्राप्तये चानु तम् । गत्वा चाप्यभवं मनोज्ञवदनाः ! लोकापवादास्पदं ! लज्जा मेऽस्ति वृधाऽद्य ! कालमतिगा पापा न लीनाऽस्म्यहम् ॥ ४. कूडच्चेनेनू - प्रासादैर्वलयैर्ध्वजैश्च भरिते दाक्ष्ये कुलन्दावये ? रम्ये तं नगरे विचित्रचरितं जिष्णुं च तार्क्ष्यध्वजम् | श्रीशं चक्रधरं समर्च्य तमनु प्राप्ता स्वयं चेतसा हीनाऽहं करकङ्कणैश्च ! किमितो दद्यां स्वशीलं विना ? ॥ २४ १८४ सयसगाथारत्नावली । ४. मणन्दपेराया मायत्ता मुलुकुम् मायातस्सर्ववस्तुष्वपि विशसि महान् गोपबालस्त्वमेव ! त्वन्माहात्म्यं हि रक्षोगणशमन ! सदा पापिनं मां तुदेच्च । श्रीराम्भोधिं श्रतस्त्वं गरुडगमन ! भोः शेषशायिन् ! मना वां काया स्सर्वेऽप्यह्वं च त्वमसि ननु ! ततो न प्रणन्तुं च वेद्मि ॥ ५. यानुम् नीताने- याथात्म्यादस्म्यहं च त्वमिह भवमहानारकादित्वमेवे - त्येवं चेकिं फलं स्यात्परमपदगतेः किं भयं नारकाद्वा ? | एवं चिन्ताकुलोऽहं त्वमिति किल यदा तत्त्ववित्स्यां तदाऽपि स्थानीतिर्नारकामे ! परमपदमहानन्द ! मे देहि तेऽङ्घ्री । १०. तालकल नक्के- तेऽङ्घ्री मे दत्तवाँ स्त्वं ! तत इह कृतविन्मे किलात्मार्पणं तें साक्षात्सत्यं तनोमि ! स्वयमहह ! महान् ज्योतिषामाकरस्त्वम् । त्वं मे साहस्रबाहुः प्रभुरसि हि सहस्त्रा क्षिपादाब्जमौलि - स्सत्यं साहस्त्रनामा विलससि सतप्तं ! में गतिस्त्वं शरण्यः ॥ ११. पेरियवप्पनै- सर्वस्मात्परमेव धातृपितरं रुद्रस्य ताते पितु- स्सर्वेषाममि मौनिनां च पितरं ध्येय शठारिर्मुनिः । देवानामपि देवमेव कुरुकानाथ जगन्नायकं स्तोतुं चाह सहसमत्र दशकादुज्जीवनं स्याच्च नः ॥ अष्टमशतकम् । अष्टमशतके
२
२. द्वितीयदशकम् (नङ्गल्वरिवलै ) ( संसारे सर्वथाऽपि नैराश्यं प्रकाशयति शठारिः– सखीजनाय नायिकावाचा | ) १. नङ्गकवरिवल- २. बेण्डिच्चेनो हे सख्यः ! करकङ्कणैस्सुरुचिरैर्युक्ताः प्रिया मेऽधुना किञ्चिद्वक्तुमिहोत्सुकाऽस्मि च रहो यगोप्यते वैरिणाम् । दुस्माधस्समयोऽस्ति मे ! शृणुत ! मे नाथं हरिं वेङ्कटं तारूढमवाप्तुमस्मि शिथिला वैवर्ण्यत स्सुस्तनी ॥ १८५ प्राप्यैनं बत ! किञ्चिदाप्तुमिह मे सख्यस्स्पृहाव्यास्तु वः किञ्चिद्वतमहं न वेद्मि सदृशं हा ! हन्त ! पद्माम्बकः । अत्यन्तं रमणीयरूप इह मे नाथ स्स्वयं वञ्चक स्सूरीन्द्रः किल ! तद्वशं तु वलयं स्त्रीत्वं च मे किं लभे ? ॥ ३. कालमिलैक्किलल्लाल्- नीलाम्भोदनिभोज्ज्वलामलतनुः कृष्णोऽहरन्मे तनोः कान्ति कङ्कणयुग्ममप्यहमहो ! तत्प्राप्तये चानु तम् । गत्वा चाप्यभवं मनोज्ञवदनाः ! लोकापवादास्पदं ! लज्जा मेऽस्ति वृधाऽद्य ! कालमतिगा पापा न लीनाऽस्म्यहम् ॥ ४. कूडच्चेनेनू - प्रासादैर्वलयैर्ध्वजैश्च भरिते दाक्ष्ये कुलदाह्वये ? रम्ये तं नगरे विचित्रचरितं जिष्णुं च तार्क्ष्यध्वजम् । श्रीशं चक्रधरं समर्च्य तमनु प्राप्ता स्वयं चेतसा हीनाऽहं करकङ्कणैश्च ! किमितो दद्यां स्वशीलं विना ? ॥ २४१८६ सहस्रगाथारत्नावली । ५. आलि वलवनै यादरिपुम् - याथार्थ्यात्परिशीलने स्वयमसौ सर्वेषु कल्पेष्वपि स्वैरं चैकविधो ऽप्रमेयमहिमा ज्योतिर्मयश्वादिमः । श्रीशं चक्रधरं तमेव हि भजे ! सोऽयं च मामागतो ! हे सख्यः ! किमितः परं बत ! वदाम्येषाऽस्म्यधन्या स्वयम् || ब. वोल्ले यम् शोदि- तत्त्वं चेत्परिशील्यते ननु हरेस्तेजः परं भास्वरं वाचोऽतीतमहों ! खुरा अपि च ते भ्रान्ता न शक्तास्स्तुतौ । एवं चास्ति परत्वमस्य ! ननु मेऽहार्षीच्च कान्ति ! न मे हा ! दधातुलसीं सुमं धटपुरे सुप्तोऽद्य ! कुर्यां किमु ? ७. मालरि केशव नारणन्- भक्तानामपहृच केशवविभुर्नारायणो माधवो गोविन्दः परमः प्रभुः किल हरिर्वैकुण्ठ इत्येव च । स्तोताऽहं बहुनामभिश्व ! हरिणा त्यक्तोऽस्मि ! रूपं निजं साऽयं नैव च दर्शयेद्यदि शेर्पा ! मात्रालिसङ्गो न मे ॥ ८. इल्लैि यान् वलतं किलिकाल् मत्पुष्टा हि शुकाश्व कोकिलमयूराद्या द्विजा नैव वः सङ्गो मय्याद्य कान्ति वलय - स्वान्तादिहारी मम । यत्रास्ते परमं पदं तदपि च क्षीराब्धि - शेषाचलौ सर्वं प्राप्यमहो ! तथाऽपि सुलभं न स्यात्तु पाशो यदि || ९. काणूको डुप्पानल्लन् - दुर्दर्शोऽस्ति हि वञ्चकञ्च जगतां दिव्याकृतिर्वामनो भूम्यां चापि दिवि प्रवृद्धतनुरेवासौ हि देवाधिपः । तस्मै मे तनुकान्तिरर्पिततमा ! लज्जाऽपि मेऽद्यार्पिता ! किं वाऽन्यत्तु ददामि हन्त ! वदत प्रेष्ठास्तु संख्यो मम ॥ अष्टमशतकम् । १०. एम्नुडै नट् मुदलू – K ૨૮: है सख्यः ! सुललाटदेशरुचिराः । किं वाऽद्य कुर्यामहं ! चेतो मे न वशं भवेयमिति मां त्यक्त्वाऽनु गत्वा च तम् । पाणि द्वन्द्व धृत- स्वशङ्ख-विमलश्रीचक्रसंशोभिन- श्चन्द्रार्काञ्चित-शृङ्ग-नीलगिरि-सङ्काशस्य सक्तं पदे ॥ ११. पादमडैवतन् पाशत्ताले- पादाम्भोजसमाश्रयैकहृदयस्सन्त्यक्तकामान्तरः कृष्णं निर्मलकीर्तिमेव सततं स्तोतुं शठारिर्मुनिः । साहस्रं कुरुकापुरप्रभुरसावाहात्र गायन्ति ये तच्चेदं दशकं भजन्ति कुशलं तेऽत्राप्यमुत्र स्वयम् ॥ **- अथ अष्टमशतके
३
३. तृतीयदशकम् (अङ्गुमिङ्गुम् ) ( परवासुदेवस्य मङ्गलाशासनपरो न कोष्यस्तीति विषण्ण- इशठारिः नित्यमुक्तादयो बहवस्तादृशास्सन्तीति भगवता समाधीयते । ) १. अङ्गुमिङ्गुम् — तत्रात्र चाप्यभित एव च देवरक्षो- मर्त्यादयोऽपि तव सन्महिमानभिज्ञाः । त्वां श्रीधराधिप ! गोपसुताधवेति श्रीशङ्खचक्रधरमेव शरण्यमाहुः || २. शरणमाकिय नाम्मरै- सेनागणप्रबलभीतिकरं स्वशक भक्तात्मरक्षणचणं वहतो मुरारेः । दासा वयं श्रुतिचतुष्टयदूरनिष्ठा मुक्तास्स्वयं हि मृति- जन्म - जरादि - रोगैः ॥ १८८ सहस्रगाथारत्नावली | ३. आलुमालारालियुम् शङ्गुम् चक्रं च शङ्खमपि च स्वयमेष धृत्वा खड्गं च चापमपि च स्वयमुद्विभर्ति । नान्योऽस्ति भृत्य इति हन्त ! न मे कराभ्यां तत्पाद - बाहु-परिचारविधिं हि वेद्मि ॥ ४. जालम् पोनकम्पत्ति-
दिव्याकृतिस्त्वमखिलं परिभुज्य लोक पत्रे वटस्य शयित शिशुरेव मुग्धः । तत्सुन्दरं तव वपुश्च पयोदनीलं पापी दिक्षुरहमस्मि ! युगं क्षणं मे ॥ ५. कोडियार माढक्कोलूर्- कोलूर- पुरेऽपि च पुलिङ्गुडि - नाम्नि दिव्ये क्षेत्रे किलासि शयितो ! न किलागतोऽत्र । श्रान्तिः किमद्य तव भक्तजनार्तिभङ्गा- दाहोस्विदत्र जगदाक्रमणात्पदा ते ? | ६. पणियावमरर - श्रीसूरिवर्यकुलवन्द्य उदारशील - श्श्रीशङ्ख-चक्रवर-भूषण-भूषिताङ्गः । लोकेऽत्र दुस्सहतमार्ति- तति - प्रशान्त्यै मच्चित्तविभ्रमकरो मणिवर्ण एति || ७. वरुवार् शेल्वार् वण परिशारत— आयान्ति यान्ति किल भक्तजना महान्तो ! लक्ष्मीधरं हृदि च वण्परिशार पुर्याम् । नाथं च मे मम दशां न वदन्ति तेऽमी शङ्खचक्रवहनाय भटोऽस्ति चेति ॥ ते अष्टमशतकम् । १८९ ८. एने ये युन्नेरार् कोल- सप्ताद्रि सप्तजल मध्यगतान्तरीपैः क्रान्त्वा त्वमेव जितवान् किल सप्तलोकीम् । श्रीश ! त्वदीय शुभ-सुन्दर पादपद्म दासं दयाकर ! कदा कुरुषे च दास्ये ? || ९. तिरुमाल नान्मुकन् शेमशडैयान्- श्रीमन् ! चतुर्मुख-शिवादय इत्यमी त्वां मन्नाथ ! के बत ! विदुर्मम चित्तहारिन् ! | कालानुकूल ! शुभकारण ! मां च दास्ये कृत्वा विभासि जलदाभ ! किमद्य वच्मि ॥ १०. कलकमिला नल-तव-मुनिवर् निर्दोषशुद्धतपमा मुनयोऽपि मुक्ता नित्याश्च सूरिनिवहाः किल तं भजन्ति । अस्माभिरस्य किमु वारिधि - मन्थनस्य स्तोत्रं भवेत्तु सुकरं ? वदताद्य यूयम् ॥ ११. उरैयावेन्नोय् तविर- अत्यन्तदुर्वच- महातिं - हरस्य विष्णो- श्रीशस्य दिव्यमकुटस्य हरेस्स्तवाय । साहस्रमाह शठजित् पठतां तदेत- द्दिव्यं च तत्र दशकं न पुनर्भवस्स्यात् ॥ १९० सहस्रगाथारत्नावली | अथ अष्टमशतके
४
४. चतुर्थदशकम् (वाकडा वरुवियाने ) ( तिरुच्चिचारु नामके दिव्यदेशे केरलमण्डलीये भगवतस्स- निधानं सानन्द मनु भवति मुनिवरः । ) १. वाकडावरुवियानै- भित्वा मचद्विपाद्वि-द्विरदन - शिखरौ हस्तिनं तं निपात्य स्वेच्छासञ्चारकारी गजपति - हननान्मल्लहन्ता च कृष्णः । वीधीसौधेषु राज्ञामपि सपदि बहिः पश्यतां कंसहन्ता * श्रीरम्याद्रीश - पुर्या वसति यदुशिशुस्तत्र सेव्या सरिन्नः ॥ २. एङ्गल् शेल् शा - अस्माकं सेव्यम | ग्यामतनिधिरपि मे नायकश्च त्रिलोकी- सृष्टि-स्थित्यप्ययार्थं त्रिविधतनुररसावन्तरात्मा सदा नः । सूरीन्द्रस्सस्यपूर्णे निवसति हि हरिस्तत्र शित्तार - समीपे श्रीरम्याद्रीश - पुर्यां । न हि शरणमहो ! तं विनाऽस्माकमन्यः ॥ ३. एनमर् पेरुमान्- सूरीणां नायकोऽसौ मम च विभुरहो ! भूमिमुद्धृत्य नाथो मे सर्वानादिपापावलिशमन करश्शेषिरूपो ममेशः । श्रीरम्याद्रीश - पुर्यां वसति शुभसरित्पश्चिमेऽलौ हि भागे । तत्पादाब्जद्वयं मे शरणमिह परं ! नान्यदित्येव मन्ये ॥ ४. पिरिदिल्लै येनक्कु - त्रैलोक्यव्यापि - दिव्य- स्वतनुरयमहो ! वामनो ब्रह्मचारी मन्नाथोऽम्भोधिमन्थो मणिनिभ इह भात्येव शित्तार् तटेऽसौ ॥ श्रीरम्याद्रीश - पुर्यां क्रमुकसुकदली-नारिकेलादि-रम्ये देशे ऽस्याङ्घ्रिद्वयं मे शरणमिह हरेनीन्यदित्येव सत्यम् ॥
- मलै पालदेशे प्रसिद्धमिदं शेमूकु नूरु दिव्यक्षेत्रम् | ५. भलदोररणुम् - अनुशतकम् । १९१ नान्यन्मे भाति सत्यं शरणमिह ततो ! भाति तत्त्वं तदेव ! स्वान्तं मे भाति चात्मा सततमपि हरौ तत्र नान्यत्र सत्यम् । श्रीरम्याद्रीश - पुर्यं निवसति हि स यत्रानिहोमो वृणोत्ये- वाकाशे सौधमालां ! सरिदिह शरणं सा ममाभीतिहेतुः ॥ ५. एनक्कु नलरमै— मन्नार्थं मे शरण्यं पितरमपि परं मातरं सूरिगोष्ठ्या- श्श्रीशं स्वस्याप्यवेद्यं शयितमपि विशालाम्बुधौ श्रीहरिं तम् । देवानां साम्यमता वसतिमुपगता यत्र सौंधाश्रितायां श्रीरम्याद्रीश - पुर्वी सरिदुपरितले द्राक्षमीशं तमेनम् ॥ २. तिरुच्चेङ्गुरिल् श्रीरम्याद्रीश - पुर्यां लघुसरिदुपकण्ठाश्रयश्श्रीहरिमें चित्ते नित्यं चकास्ति स्वयमहह ! सरोजक्षि- बिम्बाधराद्यैः । पद्भ्यां हस्तैश्च पद्मेररुणमकुटभृन्नाभिपद्मश्च पद्मां धृत्वा वक्षस्यसौं श्रीकटिवसनघरो हार दिव्यायुधाद्यैः ॥ ८. तिकलवेन् शिन्देयुक्– मच्चिते भास्वरं तं महितगुण चतुर्वेदि-भूदेववन्द्यं श्रीरम्याद्रीश पुर्या लघुसरिदुपकण्ठाश्रय देवदेवम् । वीराणां चासुराणां प्रमथनकरमेवान्तकं स्तोतुमेनं लोकानां सृष्टि-रक्षा-प्रलयकरमहो ! नैव रीतिं हि वैमि ॥ ९. पडैप्पोड केडुप्पु काष्पवन्- औदार्योदात्तकीर्ते ! सकलविधमहाज्ञानवृत्तादिनिष्ठै- श्रीरम्याद्रीश पुर्यां लघुसरिदुपकण्ठाश्रयो ऽसीह पूज्यः । सृष्टिस्थित्यप्ययानामधिपतय इमे धातृरुद्रादयस्त्वं रक्षादीक्षां दधासि ! स्वयमखिलजगद्रूप एवासि ! सत्यम् ॥ १९२ १०. अमरन्द नाद - सहस्रगाथारलावली । नाथं सर्वेप्सितार्थप्रदमखिलसुरान् रुद्रधातृप्रमुख्यान् रक्षन्तं तैस्सहस्रत्रित्तय-निगमविद्-भूसुरैराश्रितायाम् । श्रीरम्याद्रीश - पुर्यां लघुसरिदुपकण्ठेऽत्र नित्यं लसन्तं मायाचेष्टं श्रितोऽहं प्रभुममितमहासस्य केदारदेशे ॥ १२. तेनै नन् पालै- नाथं हृद्यं च दुग्धं मधुरसममृतं चेक्षुकाण्डं च लोकान् भक्षित्वा च स्वनाभिस्थल- सरसिजतस्तं विरिञ्चं च सृष्ट्वा । मायाचेष्टं प्रभुं तं सुमहितकुरुकापत्तनेशश्शठारि- स्तोतुं साहस्रमाह स्वयमिह दशकं मोक्षदं बन्धनाशात् ॥ अथ अष्टमशतके
५
५. पञ्चमदशकम् ( मायक्कूत्ता वामना ) ( भगवन्तं साक्षाच्चिकीर्षुर्मुनिसार्वभौमस्तृषित सर्वेन्द्रियग्राम- १. मायक्कूता वामना- स्सन् आक्रोशति । ) मायाविचेष्टित ! हरे ! मम वामन ! श्री-
कृष्ण ! त्वदक्षि-कर-पाद- सरोजवृन्दैः । रक्ताधरेण तनुपल्लवतश्च भासि त्वं जङ्गमः किल तटाक हैहि जातु ॥ २. काणवारायेनेत्र- अत्यन्तनीलमणिपर्वत ! दीप्रमौले ! स्वाभिन्नुपेहि पुरतस्त्विति वाचि नेत्रे | शोषोऽस्ति मेऽत्र तृषया ! त्रपया किलाहं क्लिन्नोऽस्मि ! हन्त न हि जातु च मामुपैषि ॥ अष्टमशतकम् । १९३ १. मुडिशेर्शेत्रियम्मा- भास्वत्किरीट ! मम नाथ ! लसतुलस्या मालां बिभर्षि ननु चेति वृधा विलप्य । श्रान्ता वयं विमलमेघनिभाभ्युपेहि श्रीमन् ! चतुर्भुज ! सुकुण्डल ! बिम्बवक्त्र ! | ४. तूनीर् सुकिल्पोल् तोत्रम् क्षीराम्बुधौ तु शयनाद्रजताद्रिशृङ्गे त्वं नीलमेघसदृशोऽसि ! सुनीलमूर्ते ! | बिम्बाघरश्च मधुमत्कमलाक्षियुग्मं चित्ते ममास्ति भरितं तव । किं वदेयम् ? || ५. शोल्लमा टूटेन डियेनू - भुक्ताखिला ब्धिवृत भूमितलोऽसि हि त्वं नीलाब्दवर्ण न हि वक्तुमहं तु शक्तः । त्वत्पादयुग्ममिह भास्वरमस्ति सक्तं चित्ते ममाद्य रवियुग्ममिवास्य निट् का ? || ६. कोण्डलवण्णा कुडुक्कूत्ता १– नीलाम्बुदाभ ! घटलील ! ममाक्षिरूप ! श्रीकृष्ण ! नाथ ! ममं दिव्यजगन्निवास ! 1 इत्येव दास्यविधये किल वच्मि ! भूम्यां वार्धौ दिवि स्वमहसा समुपैहि सेव्य ! | ७. चन्दु तोत्रायनेल – २५ पद्माक्षि - हस्त पद ! रक्तसरोजवक्त्र !
सूर्याभनीलमणिरश्मिनिघे ! विभो माम् । १९४ सहस्रगाथारत्नावली । आयाहि मत्पुरत एव ! न चेत्त्वदङ्घ्रौ दास्याय मां वृणु समस्तजगत्प्रमाणे ॥ 4. ओक्कुमम्मातुरुवम् - चेतोहरं मम विलोक्य च मेघवृन्दं क्लिन्नोऽस्मि नाथतनुसन्निभमस्ति चेति । पञ्चाश्रितार्थमिह वत्सल ! पार्थसूत- स्त्वं तान् शतं च हतवान् ! न हि मामुपैषि || ९. इदुवोपोरुत्तम्- दीप्रस्वचक्रधर ! माधव ! तार्क्ष्यकेतो ! किं युक्तमेतदिति चेद्विलपामि भूयः । भारापनोदन ! भुवो मधुरापुरे त्वं जातोऽसि सस्यभरिते ! किमु मां वृणीषे ? ॥ १०. पिरन्दमाया- मायामयावतरणाद्भुतवरिवृत्त ! श्रीभारताख्ययुधि ! वार्यनिलाग्निभूखैः । सर्वैश्च भासि पयसीह घृतं यथा त्वं ! सर्वत्र मायिचरितं क्व विलोकये त्वाम् ? | ११. एङ्गे काण्गेनू - श्रीसूरिभोग्यतुलसीधरमप्रमेयं पश्याम्यहं क्व नु बतेति मुहुः प्रकीर्त्य । दिव्योक्तिभिश्शठजिदाह सहस्रमत्र प्रत्यक्षमेव दशकं पठतां सुखं स्यात् ॥ अष्टमशतकम् । अथ अष्टमशतके
६
६. षष्ठदशकम् ( एल्लियुम् कालैथुन ) तिरुक्कडित्तानम् = श्रीकटिस्थानम् । ( केरलमण्डले ’ तिरुक्कडित्तान’ नाम्नि दिव्यदेशे भगवतस्सन्नि - धानमनुसन्धाय प्रहृष्यति शठारिः । १. एल्लियुम् कालैचुम् - नक्तन्दिवं स्मरत मामिति यः कृपालु रस्मासु भाति तुलसीकुसुमाढ्यमौलिः । नाथस्य तस्य पुरमस्ति कटिस्थलाख्यं स्थानं हि शेषपदवीं भजतां पदं तत् ॥ २. तिरुक्कडित्तानमुम् - युद्धे महाबलमदाद्धमवश्यचित्तान् निर्मूल्य राक्षसगणानखिलान् शरौघैः । वीराग्रणीर्वसति मे हृदये कटिश्री- स्थाने च तुष्टहृदयस्सततं परात्मा ॥ ३. ओरुवरिरुवरोर मूवर - एकोऽप्युभावपि च यस्त्रय इत्यपीह स्थित्वा स्वयं रहसि गुप्ततनुर्बभौ सः । श्रीवत्सलाञ्छन उदारमनाः कटिश्री- स्थाने चकास्ति मनसो मधुरोऽत्र मायी ॥ १९५१९६ ४. मायपिरानेन - सहस्रगाथारत्नावली | श्रीसूरिसेवित - सुगन्ध - लसत्कटिश्री - स्थाने वसन् हि महिते भुवि मायिवृत्तः । दग्धे ममाघनिचये मयि सौहृदान्मे चित्ते विशालभुवनेऽत्र कृताश्रयोऽस्ति ॥ ५. कोयल कोण्डा—- दिव्यैश्च सूरिनिवहैरखिलैश्च सेव्ये वैकुण्ठ - दिव्यनगरे सततं वसन् यः । कृष्णस्स एव घटलील इहापि भाति श्रीशः कटिस्थलपुरे मम चात्र चित्ते || ५. कृतवम्मान् कोडियेन्—- लीलापरः प्रभुरसौ मम पापिनो ऽस्मिन् चित्ते वसन् व्यसनहा मधुसूदनो मे । अत्रास्ति सस्यभरिते महिते कटिश्री- स्थाने ! पुरं तदिदमस्त्यखिलार्तिहन्तृ || ७. कोण्मिनिडर केड वुलत्तु- गोविन्द एवं पृथिवीं च दिवं समझे पद्भ्यां ममौ ! भुवि नृणामपि तौ हि बन्धौ । पादौ ! द्युलोकनिलयैरपि नित्यसेव्यं चेदं कटिस्थलपुरं भजतार्तिशान्त्यै ॥ ८. तामनकर्कत्तल च्चिरन्दु- दिव्यं पदं च परमं पृथिवी पयोधि - स्सर्वं च सर्वनगराणि च तत्रतत्र । सप्तमशतकम् । सर्वेश्वरस्य किल तस्य भवन्ति भोग्या - न्येतत्कटिस्थलमिदं च मनोऽस्य हि स्वम् ॥ ९. तायप्पदिकले तलैच्चिरन्दु- तेजस्विसूरिवरसेव्य—कटिस्थलाख्ये वासी च गोकुलपतिः किल मायिवृत्तः । अर्चास्थलेषु सकलेष्वपि भाति सेव्य - स्वामी महाननिशमद्भुतशीलवृत्तः ॥ १०. अर्बुदन् नारायणन् - नारायणोऽद्भुतचरित्र हास्ति विष्णु- श्रीवामनो हरिरसौ मम हृत्सरोजे । तिष्ठत्यसौ श्रुतिचतुष्टयविद्वरेण्यै– स्सेव्ये कटिस्थलपुरे किल कल्पकाये ॥ ११. शोलै तिरुकडित्तानत्तुरै - वृक्षादिसस्यभरिते महिते कटिश्री- स्थाने रमापतिमिमं कुरुकापुरीशः 1 स्तोतुं सहस्रमकरोच्छठजित्सुधार्द्रे तत्रेदमस्ति दशकं दिवि बासमूलम् ॥ १९७ १९८ सयत्रगाथारत्नावली | अथ अष्टमशतके
७
७ सप्तमदशकम् ( इरुत्तुम् वियन्दे ) ( भगवता समुत्पादितमत्यानन्दमयमनुभवमनुभूय प्रीतो भवति १. इरुत्तुम् वियदे — शठकोपमुनिः । ) विस्मित्य मां स्वचरणाम्बुजयोः करोत्वि - त्यभ्यर्थ्य तं सुचिरमेव किलाह्वयामि । सोऽयं प्रविश्य हृदये मम वामनोऽद्य प्रीत्या चकास्ति ननु सन्ततसाक्षिभूतः ॥ २. इरुन्दान् कण्डुकोण्डु- मच्चित्तशासनपराण्यपि न्द्रियाणि दुर्निग्रहाण्यपि निगृह्य च साक्षिभूतः । नाथो महाद्विपवरे ऽतिदयालुरासी- दित्येतदत्र न किलाद्भुतमद्य भाति ॥ ३. अरु तानिनि यानरियेन् ‡ नाथस्स एव हृदि मेऽस्ति तमः प्रहन्ता नान्यत्फलं भवति चात्र जगत्त्रयं च । नैवास्ति तत्फलमहो ! करुणा किमेषा ? किं मोह एव : किमु मायिन एव माया ? 8. माय मयक्कु मयक्कान्- गोपालको मम विभुः किल सूरिनाथः कृष्णोऽद्य भास्वरदयानिधिरुज्ज्वलं तम् । अष्टममशतकम् । स्वं विग्रहन्तु विमलं हृदि मे निवेश्य श्रीशो न वञ्चयति मामिह मोहयेत् किम् ! || ५. तिककुम् तन् तिरुवरुल शेय्हु- कृत्वा प्रसादमिह मय्यपि च स्वकीर्ति प्रख्यापितां जगति मे ननु सम्प्रकाश्य । मय्येव भाति मणिपर्वतसन्निभोऽसौ ! किं तस्य कीर्तिमतुलामपि कीर्तयेयम् ? || ३. पोल् मत्तेनक्कुमोर– माणिक्यभूभृदुपरि प्रतताम्बुजाभा - न्यस्याङ्घ्रि-नेत्र-कर- हृद्वदनानि नाभिः । मह्यं च किञ्चिदिह वस्तु ददाति चेत्स- स्वात्मानमेव वितरेत ! तर्हि कस्मै ? || शेव्वायुन्दि वेण्पल्- वक्त्राम्बुजं दशनकुट्मलनाभिपद्मं तेजस्वि च श्रवणयुग्ममिहास्य शोभा । सर्वत्र चाप्यहमहं त्विति भाति ! सोऽयं मन्दस्मितैर्हृदि ममास्ति ! न वेद्मि चान्यत् ॥ ८. अश्येिन् मत्तरुक् नान्योपकारविदहं ! मयि दास्यभाग्यं विन्यस्य भात्युपकृतिं स्वयमेव कुर्वन् । अव्याजमेष परमो हृदि मे स्थितोऽद्य त्रैलोक्यमप्युदरतस्स्वयमेव धृत्वा ॥ १९९ ९. वयित्तिल कांण्डु - सहस्रगाथारलावली । भूपालकानापि सुरान् जठरे दधानं त्रैलोक्यमप्युदरतस्वयमेव धृत्वा । सर्वेश्वरं स्थितियुतं च यथावदेनं चिचे निजे किल सदाऽपि निवेशयामि || १०. वैत्तेन् मदियालू- उद्यत्तरङ्गभरितेऽपि च दुग्धसिन्धौ तेजस्विनि स्वशयने शयितं फणीन्द्रे । नाथं परं मम किलाकरवं स्वचित्ते ! विश्लेषमेव न सहे ऽहमितः कदाऽपि ॥ ११. शुड पम्बणै नम् परनै— तेजस्वि शेषशयनं परमं प्रभु नः श्रीशं हि दास्यविधये ऽङ्घ्रियुगे शठारिः । स्तोतुं सहस्रमकरोद्दशकं तदेत- तीव्राक्षितो दहति जन्ममहाघतूलम् ॥ अथ अष्टमशतके
८
८. अष्टमदशकम् (कणूकलू शिवन्दु- ( अत्र श्रियः पत्युस्सर्वस्वामित्वं प्रतिपाद्यते । ) १. कणूकलू शिवन्दु- दिव्याब्जायतलोचनश्च विलसद्दन्तश्च वक्त्राम्बुजे श्रोत्रद्वन्द्वविलोलकुण्डलयुगो नीलम्बुदाभो हरिः । अष्टम शतकन् ।. श्रीमान् भास्वररत्नमौलिरसमो विष्णुश्चतुर्बाहुघृ-
वक्री शार्ङ्ग - गदासिशङ्ख- दसौ बाभाति चित्ते मम || २. अडिये मुललानुलुककान्- अण्डान्तश्व बहिश्व शास्ति सकलं योऽन्तर्नियन्ता स्वयं दुर्वर्ण्यश्च परात्परः परिमलानन्दानुभूतेरपि । निस्सीमामूतवारिधिश्व विशदज्ञानामृताम्भोनिधि- देवानां पतिरेक एव हृदये मे भाति चात्मन्यपि ॥ ३. उणर्विलुम्बरोरुवनै- सूरीणां पतिमप्रमेयमपि तं प्राप्तुं प्रसादादहं तस्यैवाद्य करोमि तं मम हृदात्येषा कृपा चास्य हि । बुद्धि प्राण- शरीरमुख्यमखिलं चान्यत्तु हेयं भवे- दित्येवं विशदां मतिं च जनयन्नात्माऽपि मे भात्ययम् ॥ ४. यानुम् तानायोलिन्दानै— जीवाजीव समस्तमूलमपि तं विष्णु शिवाब्जासना- द्यात्मानं प्रथमं सुधारस-मधु-क्षीरेक्षुसारात्मकम् । बुद्धि- प्राण शरीरगं मम हरिं चात्मान्तरात्मानम - प्येवं गुप्तमिमं मयीह विशदं वेद्मि स्वयं श्रीधरम् | ५. नित्र वो युणरन्देमुक्कु- आत्मज्ञानवतोऽपि मे न विलसेत्सूक्ष्मस्वरूपं च तत् प्राज्ञानामपि दुर्गमं हि ! विशदज्ञानेऽपि दुर्दर्शता । एवं चेदमुपर्युपर्यपि महागूढं सुसूक्ष्मं भवे- तत्तद्देोषगुणाद्यतीत ममलज्ञानात्मकं दुर्ब्रहम् ॥ २०१ २०२ सहस्रगाथारत्नावली । ६, नवायू आनम् कहन्दु पोयू- नानाज्ञानमतीत्य शुद्धमनसा सर्वेद्रियाणां जया – दुर्वारामित-सत्प्रधान - विविधज्ञानात् स्वयं चात्मनः । निर्मूल्यापि सुखं च दुःखमखिलं सङ्गाच्च मुक्तो यदि स्यान्मुक्तिः क्षणतः किलेयमपि च प्राप्यैव मुक्तिः क्वचित् ॥ ७. अदुवे वीड- मुक्तिस्सैव किलात्मभुक्तिरिति या । तस्याः फलं स्यात्सुखं चेत्येवं हि वदन् यदि प्रकृतिसङ्गाद्यैर्विहीनस्स्वयम् । सा मुक्तिः किल मुक्तिरेव च फलंच स्यात्सुखं ! तद्विना का भुक्तिः किमु तत्फलं स्विति मनोभ्रान्त्या पतत्येव हि ॥ ८. पसारेयूत्तारेयूत्तार- हा ! हा ! हन्त ! पतन्ति चेति शिथिलान्येवेन्द्रियादीन्यहो ! दृष्ट्वा गेहनिवासिनोऽपि युगपद्धायाश्च दुःखाकुलाः । क्रन्दन्त्येव यदा तदात्कमदशां प्राप्तस्य चोन्मत्तवत् तेषु स्नेहपरं मनो मम हरौ सक्तं यदि स्याद्वरम् || ९. कूढिताकि नल्लुरैष्षु- ऐक्यं स्याद्यदि तच्छुभं शशविषाणाद्याश्च लभ्या यदि स्वाज्जीवः परमः पुमान् गरुडसत्केतुश्च मायी हि नः । जीवेनैव हि कल्पितं कथमपि स्यादैक्यमित्याशया योगीन्द्राः परितोऽप्यटन्ति हि वृधा कालत्रयेऽपीदृशाः || १०. उलरुमिल्लैयल्लराय्- भक्तानां न किलास्त्यसन्नयम सन्नन्यात्मनां श्रीधरो भात्यस्मत्प्रभुरद्वितीयविभवस्सर्वैर्गुणैमें हृदि । V अष्टम शतकम् । वृद्धिं च क्षयमद्य शुक्लराशिनः कृष्णस्य चामी यथा ज्ञानाज्ञान- तमः प्रकाश-सरणि सर्वां निहन्मो वयम् ॥ १४. तेरुलुम्म रुकुममायुत्तु- ज्ञानं मोहमपि प्रणाश्य च निजे पादाब्जयुग्मे हरि- स्स्वामी भक्तकुलं निवेश्य कृपया धाता च रुद्रस्स्वयम् । श्रीशो रक्षति ! तत्कृप्रास्पदमसौ साहस्रमाहातुलं सूरिश्श्रीशठजिच्च ! तत्र दशकं चेदं तदङ्घ्री नयेत् ॥ अष्टमशतके
९
९ नवमदशकम् ( करुमाणिक मलै मेल् ) ( केरलमण्डलीये श्रीव्याघ्रपुरे स्वस्याभिनिवेशप्रकर्षं प्रकाशयति १, करुमाणिक्क मलै मेल् शठारिरन्यापदेशगिरा । माणिक्याद्रितले महोज्ज्वलसरोजानीव वक्षस्स्थलं वक्त्रं नेत्रकराङ्घ्रिनाभिवसनादीनि स्वयं भासयन् । नाथरश्रीपतिरस्मदर्शि उदितक्षेत्रादि सस्यावृते श्रीमद्वयाघ्रपुरे न वक्ति हि हरेनीनोऽन्यदेषा सुता ॥ २. अन्नैमीरिदर्केन्— हे मातृप्रसुखाः ! किमद्य करवै ? रम्ये सुवर्णाचले तेजस्वी रविरेव किं ग्रहगणास्तारागणा वेत्यहो ! | भास्वद्दिन्या कैरीट हार-सकलालङ्कार-भूषाघर स्स्वामी व्याघ्रपुरस्य सस्यभरितस्येति स्तवीति स्वयम् ॥ २०३ २०४ ३. पुककुमिव निन्द- सहस्रगाथारत्नावली | गर्जतुङ्गतरङ्गवारिधिरहो ! ज्वाला गणैरुज्ज्वलै- सञ्चारी किमयं त्विति स्तुतिकरा यस्यारयोऽपि स्वयम् । तस्यैवायुधचक्रधारिण इयं रक्षः प्रहस्तु हरेः श्रीमद्वयाघ्रपुरं हि रत्नभवनैर्दीपं स्तवीत्यन्वहम् ॥ ४. ऊर्वलम् किलर शोलैयुम् उद्यद्वृक्ष गणेक्षुकाण्डनिवह-व्रीह्यादिभिर्भूषिते श्रीमद्वयाघ्रपुरे च रम्यसलिलक्षेत्रे त्रिलोकीभुजः । सूरीन्द्रस्य गुणैश्शुभैर्विलसतश्श्रीशस्य नामावलिं सेयं कीर्तयति स्वयं हि सततं सम्यक्प्रकाशावहा || ५. पुनैयिकलणिवुम् — प्राचीनाभरणावलिं सपदि यदृत्वा वियं शोभते सस्त्रैरपि च स्वगात्रविलसल्लावण्य - शोभादिभिः । तत्सर्वं न निसर्गसिद्धमिह हि श्रीव्याघ्रपुर्यां प्रभो – स्त्रैलोक्याधिपतेः कृपाम्बुधितले मग्नाऽस्ति सेयं स्वयम् ॥ ६- तिरुवरुल मूलिक वैकलुम् गम्भीराम्बुधिवर्ण- कृष्ण - करुणा पाथोधि - मग्ना चिरं सेयं सङ्गमकाल-चिह्न-भरिता ! तस्मादयं तामिमाम् । भूयश्चाप्युपकर्तुमत्र वसति श्रीव्याघ्रपुर्यां हरि- स्तस्यानुग्रहतस्त्वियं विलंसति श्रीपक्वपूगाधरा ॥ ७. मेहिल बेल्वण्कोटि- मृद्वीं पल्लवसन्तर्ति सुरुचिरां ताम्बूलवल्ली स्वयं धृत्वा भाति ! तथा क्विल क्रमुकसद्वृक्षोऽत्र संश्लिष्यते । अष्टम शतकम् | पुष्पैः पक्वफलैश्च भाति कदली सा नारिकेलान्विता, श्रीमद्वयाघ्रपुरेऽत्र कृष्णचरणौ सेयं श्रितां कन्यका ॥ भवन्नैमीर कलकु युष्माकं जननीजनाः ! किमु वदाम्यत्यन्तसम्पद्युता गीर्वाणोक्तियुताश्च वेदपठनैरार/धयन्तो हरिम् । श्रीमद्वयाघ्रपुरेऽत्र सन्ति बहवश्वाज्या हुते घूमतो. लोकान् व्याप्य च ! शेषशायिन इयं नामैव सङ्कीर्तयेत् ॥ ९. परवालिवल निरिराप्पकल्- शीताम्भोनिधिवर्ण-कृष्ण-चरितैर्वेदाविघोषैर्युता विप्रा यत्र सरस्सु चाब्जनिवहा दीपायिताश्चोज्ज्वलाः । श्रीमद्वयाघ्रपुरं हि सस्यभरितं तत् कीर्तयन्ती सदा सेयं नान्यद हो ! वदेन्मम सुता नक्तन्दिवं तत्परा ॥ १०. अनि मत्तोरुपायमेन्– उत्तुङ्गैर्नवरत्नसैौधनिवहैर्या दक्षिणस्या दिश- श्रीमद्वयाघ्रपुरी चकास्ति तिलकप्राया हि तस्यामियम् । श्रीकृष्णस्य कृपाश्रया भगवतो विष्णोस्स्वयं मायिनो नो चेद्दिव्य सुगन्धिशीततुलसी युक्ता कथं स्यादियम् ? | ११, नेर पट्ट निरै— त्रैलोक्याधिपतेः प्रभोर्भगवतः कैङ्कर्यसत्तात्मनां भक्तानामपि भक्तभक्तिभरितो योऽसौ शठारिर्मुनिः । दिव्यद्राविडसूक्तिहारमकरोत् साहस्रपद्यात्मकं तत्रेदं दशकं पठन्ति भुवि ये ते श्रीपतेः किङ्कराः ॥ २०५२०६ सहस्रगाधारत्नावन्नी | अष्टमशतके
१०
१०. दशमदशकम् (नेडुमालूकार्डमै ) ( अत्र स्वींयां भागवतनिष्ठाकाष्ठामुपवर्णयति शठारिः । ) १. नेडुमालक डिमे — दास्यं तस्य परस्य पुंस यह यत्कांक्षे तदा मे क्षणात् दुर्मार्गास्सकलाश्च कुत्र चिदहो ! लीनाः प्रणष्टास्वयम् । तद्दासाङ्घ्रियुगाश्रयोऽथमिह मे त्रैलोक्यराज्यादपि श्रेयानेव ! कथं त्यजामि तमहो ! तद्दासपादाश्रयम् ! २. वियन्मूलकु पेरिनुम् - त्रैलोक्याधिपतित्वमप्यहह ! मे माऽस्त्वेव माऽस्त्वेव तत् स्वातन् परमं च केवलपदं स्वात्मानुभूत्यात्मकम् । विष्णोर्वार्षुकमेघसन्निभतनोः पादाब्जदासास्तु ये तेषां पादसमाश्रयादिह महानन्दं भजे ! नान्यतः ॥ ३. उरुमों पाचियेनुक्कु – त्रैलोक्यं सकलं स्वदिव्यवपुषा व्याप्य स्थितं वामनं पद्माक्षं यदि संश्रये स्वयमहं दास्याय तत्पादयो । तच्चाप्यद्य न रोचते मम तदीयाङ्घ्रिद्वयं ये श्रिता- स्तेषामेव महात्मनां भुवि पदाम्भोजाश्रयोऽस्त्वद्य मे || ४. इसे तिरिन्देकु — पृथ्वीं य स्सकलामिमां ननु पुरा भुक्त्वाऽपि चोद्गीर्य च स्वामी बिम्बफलाधरस्सुरुचिराम्भोजाक्षियुग्मो हरिः । अष्टम शतकम् । तत्कल्याणगुणास्तु वाचि यदि मे चिचे च रूपं शुभं हस्ते पुष्पचयश्व चेद्भुवि किमस्त्यत्रापि मे शोच्यता ! ॥ ५. वलिपट्टोडवरुपेत्तु - सन्मार्गैर्यदि याम्यहं तु परमं धाम प्रभोर्मायिनः पादाम्भोजयुगप्रभाविलसितश्चानन्दमग्नो दिवि । तत्सर्व न वरं हि मे ! भुवि परं देही स्वरूपं मम ज्ञात्वा मत्कवितारसामृतपरीवा हे भवेयं बुधैः || ६. नुककिर्च युरुमो– दृप्तं मत्तगजं प्रणाश्यं विलसच्चक्रायुधो भाति य- स्तीक्ष्णाक्षिद्वयरक्तकेशमसुरध्वंसं च तार्क्ष्य नयन् । तत्कल्याणगुणानुभूतिसदृशं किं वा भवेज्जातु चित् त्रैलोक्याधिपतित्ववैभवमपि स्यात्फल्गु ! मे न प्रियम् ॥ ७. तनिमा पुकले- दिव्यश्लाघ्यगुणान्वितं च सततं सृष्टेश्च मूलं परं ब्रह्म स्वेक्षणचिन्तनं च जगतां हेतुश्च देवाधिराट् । तस्याङ्घ्रिद्वय-पल्लवाश्रयणतोऽप्यस्माकमेतत् प्रियं तद्भक्तावलिसङ्गमाद्भवति यत्सौख्यं महत्सन्ततम् ॥ ८. नालुम् वायूक्क नङ्गल्कु- सृष्ट्वैकार्णवमद्भुतं तदुपरि स्वैरं शयानो हरिः पादाम्भोज-भुजोत्तमाङ्ग-सरणिं स्वीयां प्रकाश्याच्युतः । भास्वत्कल्पककोटिसूर्यविलसन्माणिक्य-भूभृत्सम- तद्भक्तावलिसङ्गमोऽस्तु सततं चस्माकमुज्जीवनः ॥ २०७ २०८ ९. तमेरकलू कूट्टम् — सहस्रगाथारनावली । भक्तानामखिलाघनाशनपटुस्स्वामी चकास्ति स्वयं “धृत्वा चक्रगदासि - शार्ङ्ग - जलजान्यन्यायुधान्यप्यसौ । सौन्दर्यांकर - पञ्चवाण - जनकस्तस्यानघा ये जना दासास्तादृशदास - दास्यविभवो नित्यं चकास्त्वेव नः ॥ १०. वायुक्क तमियेर्कु — मूर्ति चाप्यतसीसुमस्य सदृशीं दिव्यां चतुर्बाहुभ्र- दुद्धृत्वा भाति च चक्रपाणिरतुलो मे नायकोऽसौ हरिः । नित्यं तच्चरणाब्जदाससरणेदीसानुदासाश्च ये तद्दासाः प्रभवो हि नः ! कुलमिदं कल्पेषु दास्येऽस्तु नः ॥ ११. नल्ल कोलपाटु– त्रैलोक्येऽपि विचित्रदिव्यरचने सर्वत्रगं श्रीहरि कृष्णं पद्मविलोचनं हि रुकापुर्याशठारिः प्रभुः । स्तोतुं चाह सहस्रमुत्तममिदं भक्ता विदुश्चेत् स्वयं दाराद्यैर्दशकं भवन्ति भवनेष्वेवात्र भाग्यान्विताः ॥ इति श्री कल्किसिंह - भगवद्विरचितायां सहस्रगाथा - रत्नावल्यां अष्टमं शतकं सम्पूर्णम् ॥ नवमशतकम् । अथ नवमशतके
९
१
३. प्रथमदशकम् (कोण्डपेण्डीर ) ( अत्र औपाधिकबन्धून् विहाय निरुपाधिकबन्धुं परमात्मनं सेवध्वमित्याह शठारिः । ) १. कोण्डपेण्डीर– पत्नीपुत्रसुतादि-बन्धु-परिवाराद्याः फलापक्षिणो वित्ते हस्तगते हि नः परिजना नैवान्यदा सादराः । तस्मादष्टदिशासु चोपरितलेऽधस्ताच्च सर्वत्र य- द्विश्वं तत्परिभुज्य रक्षितुरमी नाथस्य दासा वयम् ॥ २. तुणैयुम् शाम् आप्ता बन्धुजनाश्च रक्षणपरास्तेऽमी च नः पार्श्वगा- सर्वे स्वार्थपरायणा हि नटनैः कर्षन्ति सर्व रसम् । तस्मादेकशरेण सप्तविटपिच्छेत्तुः परं स्वामिनो दास्यादेव भवाम नीकजलदस्योज्जीविता रक्षिताः ॥ ३. पोरुल् कैयुण्डाय शेल्ल- वित्ते हस्तगते हि नः परिजनास्स्वस्तीति नानास्तुतिं कृत्वा यान्ति धनग्रहा न हि भजन्त्यस्मान् दरिद्रायितान् नानाकण्टक- राक्षस-प्रमथनं नाथं श्रिताद्वयं जातं श्री मधुरापुरे हरिममुं नान्यच्छरण्यं हि नः ॥ ४. भरणमावर आपत्कालसुहृत्तमा इति वृथा वित्तादिदानैर्वशे ये ये चात्र कृतास्त एव च ऋणग्राहाः प्रयान्ति स्वयम् । २०१ 1 २१० सहस्रगाभारावली । अस्माकं न सहायका इति परं सत्यं वृधा वर्णनं ! शीलं श्रीमधुरोद्भवस्य शरणं ! नास्माकमन्यद्भवेत् ? ॥ ५. शदिरमेत्र— चातुर्य परमं निजं हि बहुधा सम्भाव्य वाङ्माधुरी- मेव स्त्रीनिवहा नयन्ति च सुखं तैः प्राप्य तुष्टा अपि । काले हन्त ! पतन्ति दुःखजलधौ तस्माद्दुरात्मासुर- ध्वंसं श्रीमधुरोद्भवं तु शरणं सम्प्राप्य यामस्तुखम् ॥ 4. इल्लै कण्डीरिन्बम् नास्त्येवात्र सुखं जगत्यहह ! हा ! श्रीशस्मृतिं तां विना याता एव वृधा स्वयं त्वगणिता जाता मृताः प्राक्तनाः । पूर्णश्री मदनादिसिद्ध- मधुरापुर्युद्भव - श्रीहरेः कल्याणात्मगुणस्तुतिर्हि शरणं । नान्यद्भवेत्सारतः ॥ •. मसोनि एलै- नान्यद्भाति शरण्यमित्यपि वयं ब्रूमस्स्वयं सारतो युष्माकं हितमेव 1 नात्र जगति शावकाशो नृणाम् । नित्यं चिन्तनमेव भाति फलदं ! नैवात्र हानिः भवेत् ! गोपालं मधुरोद्भवं गुणनिधिं स्तुत्वा ऽनिशं जीवत ॥ ८. वालूडल कण्डीर- लोकजीवनमेतदेव हि वरं । सन्दृश्यतां हन्त ! हा ! मायिश्रीचरणस्तुतिं हि शरणं प्राप्याप्यनन्याश्रयाः । ये ये सन्ति सुहृच्चकास्ति मधुरापुर्युद्भवः श्रीहरि– स्वषां । तगुणकीर्तनान्न हि परं सञ्जीवनं रक्षकम् ॥ ९. या दुसिल्ले- अष्टमशतकम् । २११ नास्त्येवात्र ततोऽतिशायि ! सततं चैश्वर्यकामास्तथा नीता एव हरिद्रतां किल यथा श्रोत्रप्रवृद्धौ रताः । निश्श्रोत्राहि भवन्ति हन्त ! तत एवान्यन्न कृष्णात्परं तत्त्वं श्रीमधुरापुरे जनिजुषो मालाढ्यबाहुद्वयात् ॥ ३०. कण्णनञ्चालिकै कण्डीर- कृष्णाश्चापरमस्ति वस्तु शरणं ! स्वख्यातिविख्यातये . भूभारापनयाय सोऽत्र मधुरापुर्या कृताविर्भवः । तस्माद्वस्तु यदस्ति वोऽद्य सकलं तत्पादपद्मद्वये भक्त्या चार्पयत भ्रमादिरहितास्सर्वं स एवास्ति वः ॥ ११. आदुमिल्लै मत्तवनिल् तस्मान्नापरमस्ति किञ्चिदिति यत्तन्निर्णयात्तं हरि श्रीकृष्णं कुसुमस्रगञ्चिततनुं स्तोतुं शठारिर्मुमिः दिव्यद्राविडवाङ्मयं सुरुचिरं साहस्रमाहानघ ! तत्रेदं दशकं पठन्ति भुवि ये तेषां हि दासा वयम् ॥ नवमशतके द्वितीयदशकम् (पण्डे नालाले ) ( अत्र श्रीपुलिङ्गुडिदिव्यदेशे भगवन्तं संसेव्य स्वार्तिहरणमर्थयते १. पण्डे नाकाले - मुनीन्द्रः । ) क्षेत्रैश्श्रीताम्रपर्णी-तटसलिलयुतैर्भास्वरे श्रीपुलिङ्गु- व्याख्ये श्रीदिव्यदेशे शयित! तब कृपां प्राप्य लक्ष्म्याश्च देव्याः । २१२ सहस्रगाथारत्नावली । देवागारे च सम्मार्जनमपि सुचिरात्किङ्करत्वं च सर्वे प्राप्तानां भक्तिभाजां वद किमपि वचोऽस्माकमाढ्यैः कटाक्षैः ॥ २. कुडिक्किन्दाक्कं शेदु- रम्ये सौवर्णसौवैश्शयित ! शुभपुलिमुड्यभिख्ये पुरेऽत्र क्षेत्रैश्चाप्यार्द्रस(यैर्वयमखिलकुलैश्शेषवृत्तिं गतास्ते । hai चाप्यनन्यास्तव चरणयुगे संश्रिता एव दासाः ! कारुण्यात्त्वं पदाब्जं कुरु शिरसि च मे भूमिमानायत ते ॥ ३. किडम्दनाक किडन्दाय्- शेषे त्वं दीर्घकालादिह शयनमिदं ते कियन्तं च काल धत्से ! श्रीमन् ! पुलिङ्गुड्यभिधपुरशयानान्तरङ्गे तु शेषः । नित्यं चामी वयं ते ! सरसिजनयन ! त्वत्कृपाः कटाक्षै- रुत्थाय श्रीसमेतस्सपदि च जगतां सेव्य एवास्व पीठे | ४. पुलिङ्गुटिक्कडन्दु- शय्यां प्राप्तः पुलिङ्गुज्यभिहितनगरे यासि मच्चित्तवासिन् नित्यं चासीन एव त्वमिह वरगुणश्रीपुर श्रीसमेतः । तिष्ठन् वैकुण्ठपुर्यां ! मयि च करुणया ! विस्मिता वीक्ष्य शीलं भावत्कं नृत्तसत्ता वयमिह जलदाभैहि बिम्बाधर ! त्वम् ॥ ५. पवलम् पोल कनिवाय् – रम्यश्रीताम्रपर्णीतटभुवि च पुलिङ्गुव्यभिख्ये शयान ! श्रीश ! त्वं ताक्ष्यवाहस्सपदि करुणयाऽभूर्गजस्यार्तिहन्ता । ज्योत्स्नामुक्ताभमन्दस्मित ! शुचिरदन ! त्वं प्रवालाधरोऽसि ! प्रेम्णा मामभ्युपैहि स्वनयनयुगलाम्भोजभास्वद्विकासैः ! ३. काय् शिनप्परेदेयू ई — अष्टमशतकम् । २१३ सौवर्णाद्रौ महाम्भोधरवदयमभूत्वं हि तार्क्ष्यधिरूढः स्वामी श्रीशङ्खचक्राद्यसि- सहित - गदा - शार्ङ्गधारी सुमौलिः । क्रूरं माली सुमालीत्यभिहितमसुरद्वन्द्वमाजौ निहत्य ध्वंसी रोष द्विपूणां ! विपदुपशमनो नः पुलिङ्गुड्यधीशः ॥ ७. एम्मिडर कडिन्दु - अस्माकं दुःखहन्ता त्वमिह ! दिविषदां तत्र संरक्षकोऽसि श्रीमन् ! मन्नाथ ! शेषे सरसिजरुचिरे श्री पुलिब्यभिख्ये । क्षेत्रे भक्तोत्तमानामिह भुवि महितानन्दकोलाहलैर्नः संसेव्यो लोकदृश्यो भव नयनपथे जातु चास्माकमीश ! ॥ ८. एक कण सुकप्पे- चन्द्रावासैश्च सौधैर्विलसति महिते श्रीपुलिङ्गुड्य भिख्ये क्षेत्रे वैकुण्ठपुर्यामपि कृतवसते ! देव ! लोका यथा त्वाम् । पादाम्भोजप्रणामैरसकृदुपरि चोत्थान- सम्प्रार्थनाच स्तोत्राद्यैस्संश्रितास्स्युस्त्वहमहमिकया त्वं तथा स्याश्च दृश्यः ॥ ९. वीत्तिकोण्डु - मीनावलयत्प्लुताढ्य मुरुचिरमहित- व्रीहि सस्यावृते च क्षेत्रे श्रीमत्पुलिमुड्यभिहितनगरे राक्षसध्वंसिशस्त्रः । भास्वानस्माकमत्र प्रियतमसुतनो ! मङ्गलाशासनार्थं । दृश्योऽस्मल्लोचनानां कृतवसतिरहो ! त्वं भवान्त्रैव भूम्याम् ॥ १०. कोडुविनैप्पडैकल् वल्लैयाय् – तीव्राघातायुधानां प्रभुरमरगणान् वीतदुःखान् करोषि प्रध्वंस्यैवासुराणां गणमखिलमपि त्वं खलानां विषात्मा । 1 २१४ सहस्रगाथारत्नावली । त्वद्भक्तस्यामृतात्मा मम शयित ! पुलिङ्गुड्यभिख्येऽत्र पद्मा पृथ्वीदेवीकरस्थं पदयुगमाप मे जातु कुर्याः करस्थम् ॥ ११. कुबुदट् वरुदल शेडाय्- उद्घोषाम्भोधिमन्थं हरिमापे किल मामाह्वयायाहि वेति प्रार्थ्य प्राप्ताभिलाषश्शठरिपुरतनोत्ताम्रपर्णीतटेशः । वाचा साहस्रमालां कृतिमिह दशकं चाद्वितीयं पठन्त- श्चि नित्यं वहन्ति स्वयमखिलजगन्मान - पादाब्जयुग्मम् ॥ sks*- अथ नवमशतके
३
३. तृनीयदशकम् (ओरायिरमाय् ) ( अत्र श्रीमतो नारायणस्य शीलगुणमनुभवति मुनिवरः ।) १. ओरायिरमाय- एकैकनाम बहुधा जगतां च रक्षां कतु क्षमं भवति ! नामसहस्रवाच्यः । नीलाम्बुदाभसुतनुश्शुभदिव्यरूपो नारायणोऽप्रतिम एव किल प्रभुर्नः ॥ २. अवने यकल् नालम् पडेतु- पडैत्तु– पृथ्वीमिमां च विततामयमेव सृष्ट्वा चोद्धृत्य भक्षणकरोऽपि पुनश्च सृष्ट्वा । माता च पादतलतस्स्वयमेव सृष्टि - स्थित्यन्तकृच्च ! सकलं च तमेव विद्मः ॥ अष्टमशतकम् । २१५ ३. अरिन्दन वेदवरुम् पोरुलू- वेदान्तगुप्त - परमार्थ- परैश्च शास्त्र- रेषोऽप्रमेय इति निश्चितमेव तत्त्वम् । प्राज्ञाश्च वैदिकवरा हरिमेव नत्वा व्याधिच्छिदं किल विदुः परमौषधं तम् ॥ ४. मरुन्दे नङ्गल पोक मकिलूच्चिक्कु - दिव्यौषधं परममेव किलास्मदीयं भोगावलेरिति च सूरिवरैः प्रतुष्टः । सङ्कीर्तितः प्रभुरसौ मम नीलवर्णः कृष्ण मुकुन्द इति मानस ! मा त्यजैनम् ॥ ५. मनमेयुनै- हे चित्त ! पापविवशो ऽहमिहार्थये त्या- मेतत्परं सुदृढमेव पुनः पुनश्च । दिव्यातिरम्यतुलसीराजमप्रमेयं नित्यं भज त्वमसमं । न हि जातु मुञ्चः ॥ ६. अचैवमणियार- बाहुद्वये च सकलाभरणाञ्चिते श्री- देव्याश्च सङ्गम इहास्य निशाटनाशः । क्षीराम्बुधेश्च मथनं त्वमृतार्थमित्ये- वैतद्विचिन्त्य निरतं मम चित्तमस्मिम् ॥ ७. आकम् शेर नरशिङ्गमदाकि एकां तनुं च नरतामपि सिंहतां यो धृत्वा ऽसुरस्य नखतोऽपि विभेद वक्षः ।२१६ सहस्रगाथारत्नावली । वैकुण्ठवर्तिनममुं हि दिदृक्षु चित्तं नक्तन्दिवं च कुतुकाकुलितं मदीयम् ॥ ८. इनि प्पोक विरुविनैयुम केतु- प्रध्वंस्य च द्विविधकर्मफलं प्रवेश देहेषु चापि विविधेषु निवार्य चास्मान् । उज्जीवयन् जगति भाति च वेङ्कटाद्रौ सं प्राप्य साञ्चलिपुटाः किल सन्ति देवा ॥ ९. तोलुदु मामलर - पुष्पं च तीर्थमपि दीपसुधूपयुक्तं स्वीकृत्य चार्चयितुमुत्सुकताऽपि मा भूत् । एवं सुशीलमनघं तव शेषशायिन् ! पादाम्बुजं तव कथं नु भजे ? न वेद्मि || ३०. तालतामरैयान्– पद्मोद्भवोऽपि तव नाभिसमुद्भवो ऽसौ ! रुद्रस्त्रिशूलभृदयं तव पार्श्वभूतः । शेषाश्च देवनिवहास्तव सन्ति भक्ताः । शीलं तवानिशमहं तु कथं स्तवीमि ? || ११. शीलमेल्लैयिलान्- निस्सीमशील-हरिपादसरोजयुग्मं स्तोतुं शठारिरतनोत्कुरुकापुरीशः । साहस्रसूक्तिसरणिं ! दशकं तदेत - द्वैकुण्ठसङ्गमकरं पठतां जनानाम् ॥ नवमशतकम् । अथ नवमशतके
४
४. चतुर्थ दशकम् ( मैयार करुङ्कणि ) ( अत्र भगवन्तं शङ्खचक्रपाणि सिषेविषुः शठारिः साभि- निवेशमाक्रोशति । ) १. मैयार करकणि- नीलाञ्जनाक्तनयनां कमलोद्भवां तां लक्ष्मीं स्ववक्षसि बिभर्षि हि पद्मवर्णाम् । श्रीमन् ! सुदर्शनसुशङ्खधरं कराभ्यां त्वां द्रष्टुमिच्छति सदा मम नेत्रयुग्मम् ॥ २. कण्णे युनै क्काणक्करुदि- मन्नेत्ररूप ! तव दर्शनकाङ्क्षयेदं चित्तं मनोरथशतैर्मम सानुलापम् । देवादिभिश्च गुनिभिश्व न शक्यते यो द्रष्टुं तमप्सुरहमद्य किलावयामि || ३. भलेक्किनवडि- दासायितस्य मम मानसमस्ति खिन्नं ! भावं व्यनक्ति च यथा शुनकस्स्वपुच्छात् । गोवर्धनोद्धरणतः पशुपालकस्त्वं ! किं ते दया तु न भवेन्मयि चेति ॥ ४. डरुव दिदुवे- २८ देवादिदानवगणस्य च नारसिंह ! ! त्वं दुर्गमोऽसि ! तव शेषतयैव धन्याः । ११७ २१८ सहस्रगाथारत्नावली मी च दास्यविभवात्तव किं लभेम भ्रान्ता वयं त्विति मनो मम सीदतीदम् || ५. अरियाय वम्मान- दुष्टात्मनाशममराधिपतिं प्रभुं नः सृष्टेः पुरैव चतुराननसर्गहेतुम् । श्रीशेषशायिनमुदारसुनीलवर्ण त्वां त्वत्पदाब्जमपि मेऽस्ति दिदृक्षु चित्तम् ॥ 4. करुते युनै क्काण करुदि— मत्प्राप्यभूत ! तव दर्शनकाङ्क्षया त्वां चित्ते ममैव सृदृढं विनिवेश्य मदि । देवाधिदेव ! महसा दिवि चाद्वितीय ! त्वां मे मनोऽनुभवति प्रियमादि तत्त्वम् ॥ ७. उकन्देयुने - मच्चित्तवास ! विमल ! प्रबल च दैत्यं वक्षोविदारणमुखान्नखतो विनाश्य । त्वं नारसिंहवपुषा किल लोकपाल - स्त्वां मेऽन्तरङ्गमनुभूय चकास्ति हृष्टम् ॥ ८. उरुवाकियवाह शमयङ्गल केल्लाम्- एकीभवत्प्रबल - षण्मत —— भञ्जकं तं सर्वान्तरात्मकमनादिमुदारशीलम् । देवादिकारणमहं पुरुषोत्तमं श्री - कृष्णं मम प्रियमिहास्मि विलोक्य धन्यः || ९. कण्डुकोण्डेन् कण्णिणैयार- नवमशतकम् । नाथं विलोक्य मम लोचनयुग्मतोऽहं सन्तुष्ट एव सकलाघविनाशतोऽद्य । सूरीश्वरं दिविभवं प्रति दासभूतो xभक्तामृतं व्यरचयं मम सूक्तिहारम् ॥ १०. अढियानिवनेत्र– दासोऽयमस्ति हि ममेति कृपां च पूर्णां कृत्वा मयीह विलसन्तमुदारकीर्तिम् । प्राप्याहमस्मि गरुडध्वजमप्रमेयं लोकप्रमातृचरणं शरणं कृतार्थः ॥ ११. आरामदयानै—- मत्तद्विपप्रमथनं कुरुकापुरीश – स्स्तोतुं किलाह शतकैस्तु शठारिरेताम् । साहस्रपद्यसरणिं ! दशकं किलेद सम्पादयेच्च परमान् दिवि सूरिभोगान् ॥ २१९ x अत्र श्रीशठारिः स्वयमेव स्वप्रबन्धं भक्तामृतत्वेन प्रशंसतीति मुक्तकपद्येऽपि ‘“भक्तामृतं विश्वजनानुमोदनम्” इति प्रकाशते ॥ २२० सहस्रगाथारत्नावली अथ नवमशतके
५
५ पञ्चमदशकम् ( इन्नुयिर् चैवलुम् नीरुम् ) नायिकावस्था-पक्षिगणसम्बोधनम् ॥ १. इन्नुयिर चैवलुम् नीरुंम्- हे हे कोकिलनायिकाः ! प्रियतमैः कान्तैस्समेता मिथ- श्चाहूयात्र पुरश्च मे न कुरुत प्रेम्णा च भोगारवान् । तन्मे प्राणविनाशकं किल ! न मे नाथं तु कृष्णं हरिं यूयंऽचाह्वयथाद्य ! किं हरथ वा तस्मै ममासूनिमान् ! ॥ २. इसनै वेण्डुवदन्नु– कान्तापक्षिगणाः ! प्रियैस्सह कथं संश्लेषशब्दानिमा नेवं हन्त ! चिरं कुरुध्व इह वा ? हा हन्त ! नैतद्वरम् । मायाचेष्टितवैभवस्स तु हरिर्नैवास्ति सत्यत्रतो गोविन्दस्तत एव हस्तकलितं तस्यास्ति मे जीवितम् ॥ ३. अधन् कैयदे — भो ! भो ! स्त्रीशकुनाः पिया अपि मम प्राणाः प्रतिष्ठापिता स्तस्यैवाद्य करे हरेरिह रतौ यूयं महासम्भ्रमैः । संश्लेषैकरसाः ! कथं बत सहे दुर्भाग्यतः पापिनी ? नैवात्राद्य ममासवः किल ! कथं मे जीवितं धारये ! | ४. कूक्कुरल के दुम् - यूयं कुक्कुटनायिकाः प्रियतमै संश्लेषशब्दान्विताः कृष्णो हन्त । निशम्य चापि न हि मामायाति मायी हरिः । नवमशतकम् । एवं मा कुरुताद्य सङ्गमरवान् ! वाक्चित्तकर्माणि नः तस्यैवाद्य वशे ! शरीरमसवस्तेऽमी चरन्त्यन्तरे || ५. अन्तरम् निनलल्किन् - २२१ यूयं पक्षिगणाः ! कथं मम पुरो हा ! हन्त ! नानावै- नृत्यन्तोऽद्य तुदेत मां ? स हि हरिमीयेन्द्रजालाकुलः । जित्वा सप्त जगन्ति भाति च वहन् लक्ष्मीं च वक्षस्स्थले ! भोक्तुं मे सकलानसून् कृतमतिर्हा ! हन्त ! सम्यक् स्वयम् ॥ ६. ननूगेण्णि नानूवल- प्रणयित एव तेऽस्ति सदृशो वक्त्रे च नेत्रे तथा काकुत्स्थः करतोऽपि पादतलतश्श्यामात्तनोर्वर्णतः । सोऽयं सङ्गत एव मां त्यजति हा ! त्वं मे सखेति भ्रमा- देवं हे शुक ! वर्धितोऽसि हि मया मुग्ध ! त्यजाद्यारवान् ॥ ७. कूटुण्डु नीङ्गिय— सङ्गत्यैव मया सहाद्य तु गतो दूरं सरोजाम्बकः कृष्णो नीलमणिप्रभः प्रियतमो मायी च बिम्बाधरः । विद्युच्चापलसत्पयोदनिवहा यूयं समाना हि मे कान्तस्येति ममासुहारि तदिदं ! युष्मद्वपुर्गोप्यताम् ॥ ८. उक्किंदु कालनेनु - यूयं कोकिलबालकाः ! किमु हरेः कृष्णस्य नामानि ता- न्यव हन्त ! विघोष्य जीवितहराः ? किं प्रार्थनं मे वृथा । युष्माकं दधिदुग्धमिश्रमहमेवान्नं समयखिलां सूक्तीनां सरणिं च शिक्षितवतीत्येवं किमेतत्फलम् ॥ २२२ सहस्वगाथारत्नावली | ९. पण्डे वण्डो तुम्बिकालू- गानैरेव मनोरमैर्मधुकरा यूयं विहारप्रिया युष्माकं रुतमस्ति मेऽद्य मनसो हन्त ! व्रणे शस्त्रवत् । गानं वस्त्यजताद्य हन्त ! मम हि प्राणान् हरन् दूरतः कृष्णो हन्त ! गतोऽन्बुजाक्षियुगलो ! हा ! हन्त ! कुर्यां किमु ? १०. एलनण्णिनामुम् – वैकुण्ठाधिपतिं तमेव परमं प्राप्तुं हि सज्जाऽस्म्यहं ! यूयं हन्त ! बका विहाररसिकांः क्षेत्रोदकेषु स्वयम् । किं स्यादद्य विचारतः फलमहो ? रम्यं वपुर्मेऽधुना सीदत्येव ! समस्तलोकसरणिस्सौख्यं परं प्राप्नुताम् ॥ ११. इन्बम् तलप्पेदु- सर्वव्यापि मनोरम स्वसुगुणावल्या वशीकृत्य च स्तोत्रे ऽस्मिन् कृपया प्रवर्तयति यश्श्रीशस्तु मायी हरिः । तं सङ्कीर्तयितुं शठारिरतनोत्सहस्रपद्यावलिं ! तत्रेदं त्रिजगद्द्रवीकरणतो हृद्यं नवैकात्मकम् ॥
नवमशतके
६
६ षष्ठदशकम् उरुकु मालू नेञ्जम ( अत्र भगवद्दिव्यमङ्गलविग्रहस्मारक वस्तुजातैर्दूयते शठरिपुः । ) तिरुक्काल्करै - दिव्यदेशपरमिदं दशकम् || १. उरुकु मालू नेअम् वीधीषु दिव्यकुसुमावलिसौरभश्री- पूर्ण च कालकरै - महापुरमाश्रितं तम् । नवमशतकम् । स्मृत्वा ऽस्ति मायिन मिदं मम चित्तमार्दै ! संवर्धतेऽभिलषितं मम किन्नु कुर्याम् ॥ २. निनैोरुम् - उद्यानवर्तिसरसीयुत कालकरैश्री स्वामिन् ! ममार्य ! तव वैभवमप्रमेयम् । स्मृत्वा मनो द्रवति मे ! वचसा घुनी स्यात् ! गाने तु दग्धहृदयोऽस्मि कथं भजे त्वाम् ? ॥ ३, नीमैयाल नेञ्जम् वञ्जित्तु - सौशील्यतो मम मनो वशयन् प्रविश्य मां च द्विधा किल विभज्य च धारकस्सन् । भुक्त्वा च मां लसति कालकरे - दिव्यदेशे मेघायितस्वतनुरस्य न वेद्मि मायाम् ॥ ४. अरिकिलेन् तन्नुलू- स्वस्मिन्नशेषभुवनानि दधान एव स्वैरं स्वयं च निवसन्नखिलेषु तेषु । स्वामी महासुरभि - कालकर - नायकोऽसौ भुङ्क्ते च मामपि ! न वेद्मि कृपाप्रकारम् || तिरुवरुद शेय्बवन् पोल- चित्ते प्रविश्य मम कारुणिक शरीरं चात्मानमप्यहह ! मे स्वयमेव भुक्त्वा । रम्याढ्य कालकरै -विभुर्जलदाभमूर्तिः ! कृष्णस्य तस्य विविधा हि चकास्ति माया ॥ २२३ 1 २२४ ६. एन् कण्णन् कलवम्– सहस्रगाथारत्नावली | कृष्णस्य कृत्रिमगतिर्मम भाति भोग्या ! व्यामोहतस्स किल मां परिभुज्य दीनाम् । मां मोहहह ! कालकरे - नायकं तं कृष्णेति सन्ततमहं हरिमाह्वयामि ॥ ७. कालकरैयेत्तुम् - मायाविना मम हृदब्जतले प्रविश्य भुक्तोऽपि भोगमवशेषितमेव मत्वा । आत्मा स्वीति मम कालकरै नायकं तं कृष्णं हि कामविवश शिथिलो द्रवेच्च || ८. कोलुण्डाननूरि- भुक्त्वा च देहमपि मे स्वयमागतोऽयं चात्मानमप्यहह ! मेऽत्र दिने दिने च । । निश्शेषमेव परिभुज्य चकास्ति मेघ- श्रीकालकरै - प्रभुरहो ! मम दास्यमीदृक् ॥ ९. आरुयिर् पट्टदु- बिम्बाधरश्च सरसीरुहलोचनोऽयं नीलाम्बुदाम इह कालकरै वासशीलः । श्रीमच्चतुर्भुजधरोऽस्ति हि देवदेवो ! भोग्योऽहमस्मि किल तस्य समोऽद्य को से १ ॥ १०. वारिक्कोण्डुन्नै— पश्यामि चेदहमशेषमपि त्वदीय मुझे किलेत्यभिलषन्तमतीत्य मां च । ‘नवमशतकम् । मेघायितः किल चिरात्तु निर्णय पूर्ण श्री कालकर - प्रभुरसौ त्वरयाऽनुभुङ्क्ते ॥ १३. कडियवाय् कञ्जनै क्कोनू पिरान् त -
कंसं निहत्य च रुषा जगतां च बन्धु- र्यस्तं स्तुवन् शठरिपुः कुरुकापुरीशः । साहस्रमाह परमं ! दशकं किलेदं संसारतापशमनं पठतां सुखाय ॥ २२५
- एम् कानलकम् नवमशतके
७
७ सप्तमदशकम् ( एम् कानलकम् कलिवाय ) नायिकावस्था - पक्षिगणसम्बोधनम् आहारं जलधेस्तठेषु च वनेष्वन्विष्य सञ्चारिणि ! त्वं मत्प्रीतियुते ! च शेोणितपदे ! भव्ये ! बलाकाह्वये । श्रीमूलिकलनायकं च तुलसीमालाढ्यमौलि प्रति त्वं दूती भव ! सञ्चरत्पदयुग ते मेऽद्य शीर्षे कुरु ॥ २. नुमरोद्धुं पिरिया– २९ यूयं बन्धुमणैश्च कान्तसहितास्सञ्जारशीला द्विजाः । श्रीमूलिक्कलनायकं प्रति मम ब्रूतोक्तिमेतां परम् । त्यक्ता तेन च बन्धुभिश्च नितरां जीवामि किं गर्हिता ? किं नाहीऽस्म्यहमच्युतस्य परमां गोष्ठीं प्रवेष्टुं च ताम् ॥२२६ ३. सफिलमे केलीकंलू- सहनगाथा रत्नावली | आहारानुगतास्त टाकस लिले हंसा ? भलाकागणाः श्री मूलिक्कलनायकस्य नयन श्री पाणि-पादांबुजं अम्भोजात -सुपत्र - मूर्तिमपि तं बिम्बाधरं श्री हरेः किं नाहीम्यवलोकितुं च रुचिरं ? यूयन्तु तं पृच्छत ॥ ४. तिरुमेनियाडिकलुक्कु- अम्भोदारुचिरास्तु यूयमधुना दौत्यं वहन्तो मम श्री मूलिक्कल नायकं प्रति गतास्तस्यै तनु दीयताम् । भो ! भो ! नाथ ! दयापरेति वचनं ब्रूथैव चेत्किं तनो- स्सादृश्यं भवतां हरेच्च गमनं विष्णोः पदे वारयेत् ? ॥ ५. तेलिविशुम्बु कडिदोडि- आकाशे त्वरया च धावनपरा अम्भोधरा वैद्युत- ज्वाल | भिस्सहितास्तु यूयमधुना मूलिकलेशं प्रति । दात्यं मे वहतोक्तिमेव नयत ! क्लेशापहः केशवः किं मे चैव ददाति दर्शनमयं चित्ते निवासी मम ॥ 4. कुरैस शेप्युमिनूकलू- यूयं भो मधुरोतयो मधुकराः ! पुष्पावलीशोभिते श्रीमूलिकलनाम्नि तत्र तु पुरे लक्ष्मीं वहन् वक्षसि । आस्ते यस्तु विलोक्य तं वदत मे दौत्यं वहन्तस्स्वयं शैथिल्यं मम भूषणाङ्गद-दुकुलादीनि यान्तीत्यहो ! ॥ ७. शुडर् बलेयुम् - उद्यानेषु विहारिणो द्विजगणा यूयं विलोक्याच्युतः तं ब्रूताद्य गिरं मदर्थमनघामेकां प्रवालाधरम् ! नवमशतकम् । श्री मूलिकलवासिनं सुरुचिराम्भोजाम्बकं श्रीधरं ! किं कीर्तिस्तव मेऽङ्गदं च बसनं हृत्वा भुजौ मुश्चतः १ ॥ ८. एनक्को पणियी कलू- भृङ्गीभृङ्गमणाश्च यूयमधुनोद्यानेषु संश्लेषिणः प्रीत्या हन्त ! मिथः पुरे हडतमप्राकारमालावृते । श्री मूलिकलनाम्नि वासिनममुं मूर्त्या तसीश्यामलं दृष्ट्वा श्रीतुलसीलसन्मकुटमप्येकां गिरं ब्रूत मे || ९. पून्तुलाय् मुडियाक्कु – यूयं पक्षिगणा जलापरिचरा दृष्ट्वा हरिं श्रीधरं श्रीमूलिकलवासिनं वदत मे श्रीचक्रपाणि प्रियम् । वैवर्ण्यं वहतीह मे स्तनयुगं पूर्वन्तु भूषाधरं ! नेत्राब्जद्वयमश्रुपूरितमहो ! त्यागोऽद्य मे नोचितः ॥ १०. तकवनेवरैयीर्कलू— यूयं हंसगणाश्च मन्दगमना आहारमन्विष्य सं- श्लेषानन्दयुता नदीपरिसरे ! तं मे विलोक्यप्रियम् श्री मूलिक्कलनायकं वदत ! ते युक्तं न हीदंत्विति क्षिप्रं जीवितकाल एव मम यत्काञ्ची भवेत्प्रच्युता ॥ ११. ओलिविनि तिरुमूलिक्कलत्तरैयुम् - श्रीमूलिक कलवासिनं प्रति हरिं तेजः परं श्रीधरं मुग्धोक्त्या शुकभाषिता तु रमणी कान्ता यथा भाषयेत् प्रीत्या श्रीकुरुकापुरप्रभुरसौ श्री सूक्तिसाहस्रके पद्यानां दशकं तथेदमवदत् संसाररोगापहम् || ૩૨૭ २२८ सहस्रगाथारत्नावली । नवमशतके अष्टमदशकम् ( अरुक्कुम् विनैयायिन ) ( *दं दशकं - तिरुनावाय् दिव्यदेशपरम् ) ३. भरुक्कम् विनैयायिन २. कोडियेरि चित्ते निवेशयितुमच्युतमुत्सुकानां सर्वाधहारिच सुगन्धिवनाभिरामम् । श्रीशस्य भोग्यमुचितं कथमस्थि सेव्यं नावाय् - पुरं शुभतमं मम पापभाजः ? | यस्य प्रिया तनुकटिः कमलोद्भवा श्री- यस्य प्रियाऽब्जनयना तरुणी च नीला | सर्वेश्वरस्य सततं किल तस्य भोग्यं नावाय् - पुरं मम कदा भवतीह सेव्यम् || ३. एवै कोलणुकप्पेरुनालू- संश्लेषकालमनिशं च विचिन्त्य चित्ते नेत्रद्वये ऽप्यहमिहास्मि हि साश्रुपूरः । नारायणः कमलया सह भाति हि श्री — नावाय् - पुरेऽत्र तु विशामि कदा ? न वेद्मि || ४. नालेलरियेम् - उद्यानशोभि - सुम-सौरभ-वासिते श्री- नावाय् - पुरे लसति संश्रित एव नीलाम् । नवमंशतकम् । पद्माम्बकां हरिरसौ किल ! तस्य सेवां नित्यं चिकीर्षुरहमस्मि ! कदा भजेयम् ? ॥ ५. मणालनू मलर्मङ्गैक्कुम् भर्ता श्रियोऽपि च भुवोऽपि च देवतानां सर्वात्मनां प्रभुरसौ परमे पदे ऽपि । नावाय्-पुरे वसति सादरमच्युतोऽमुं दृष्ट्वा कदाऽक्षियुगलेन सुखं भजेयम् ? || ६. कण्डे कलिक्किनदु- भृङ्गावली - भरित - पुष्पवनावृते श्री - नावायू - पुरे विजयसे सततं हरे ! त्वम् । गोपालनाथ ! तव सत्यमहं हि दासो ! नेत्रद्वयं मम हि दर्शनसौख्यकाङ्क्षि || ७. कोवाकियमावलियै– अर्थी महाबलिकरात्पृथिवीं च हृत्वा देवासुरादि- समरान्तक ! देव ! देव ! | नारायणात्र कमलासहितोऽसि हि श्री- नावाय् - पुरे ! कुरु दयां मयि दासभूते ॥ ८. भरुलादोलिवायू - किं त्वं करोषि न कृपां मयि ? किं करोषि त्वत्पादपद्मयुगले कृपयाऽथवा माम् ? | स्वैरं कुरुष्व ! मनसीह ममानघे त्वां नावाय पुरेश ! कलये ! सुमतिं प्रदेहि ॥ २२९ २३० ९, सेवरे मुनिकु- सहस्रगाथारत्नावली देवादिभिश्व मुनिभिश्व न शक्यते यो द्रष्टुं त्रिमूर्तिजननस्य च मूलभूतः । लोकत्रयाधिपतिरस्ति स सादरं श्री - नावाय् - पुरे बत ! तमद्य भजन्ति के वा ? ॥ १०. अभ्दो वणुकप्पेरुनालू – आरामशोभिनि विभासि किलागतः श्री- 1 नावाय् पुरेऽद्य मणिवर्ण ! कदा भजे त्वाम् ? इत्येव सन्ततविचिन्तनतः किल त्वां श्रीशेति हन्त ! हृदयार्द्रतया ह्वयामि ॥ १. वण्णम् मणिमाडम् -
रम्ये विभाति मणिसौधयुते हरिश्श्रीं- नावाय पुरे ! तमिममेव शठारिसुरिः । स्तोतुं सहस्रगणिते दशकं व्यतानी देतत्पठन्त इह याति हि दिव्यगन्धम् ॥ १. मल्लिकै कमलू- नवमशतके
९
९. नवमदशकम् (मल्लिकै कमलू ) नायिकावस्था मल्लीसौगन्ध्यपूर्णोऽयनिल इह हि मे शस्त्रवद्भाति ! दिव्यं गानं रम्यं च शल्यं ! जनयति नितरां मोहमेवास्तसन्ध्या नवमशतकम् । २३१ सन्ध्यारक्ताः पयोदा अपि च विशसना हन्त ! कान्तं विना मे पद्माक्षं गोपसिंहं स्तनभुजयुगले क्वाद्य धृत्वा प्रयामि ! ॥ २. पुकलिडमरिकिलम् – प्राप्यं देशं न वेद्मि स्वयमयमनिलो हन्त ! घण्टारवैश्व क्लिश्नात्येवास्तसन्ध्या वत ! सपदि च मामङ्गरागैस्समेता । रागोऽयं पञ्चमो भात्यनिलकुटजमालान्वितो हन्त ! काम्तो गोपालो लोकपालो न हि समुपगतः ! प्राणरक्षा कथं मे ! | ३. इनि यिरुन्देन्नुयिर्– अत्र प्राणान् कथं मे संपपि बत ! वहाम्यद्य संश्लेषतो मे कृत्वा वक्षोजयुग्मं शिथिलमिव कटिं चापि भुमामिवासौ । हित्वा मां चोर एव स्वयमहह ! हरिस्त्वत्र नायाति कृष्ण- स्तस्याक्षिद्वन्द्व-त्रक्त्राद्यलकरुचि - चतुर्वांहवो मां तुदन्ति ॥ ४. पावियेन् मनत्ते- पापिन्या मेऽद्य चित्तं तुदति च पवनो हन्त ! शीतोऽद्य दाही चन्द्रस्सन्तापकारी दहनवदहह ! ज्वालिनी पुष्पशय्या । साक्षात्तार्क्ष्याधिरुढं तदपि च परमं दैवतं भृङ्गतुल्यं ! भुक्ता तेनास्मि पुष्पस्रगहमतिकुशा ! दुर्दशा दुस्सहाने ॥ 4. यामुडै नेअमुम् – चित्त चेदं न मित्रं मन ! सपदि पशूनाद्द्वयत्येव सन्ध्या ! गोपालो नागतोऽसौ कठिनहृदय एवास्य वेणुस्तुदेन्माम् । हा ! हा ! तं चाभियाता मम किल पुरतो हन्त ! मे प्राणसख्यः ! कारुण्यं तस्य मृग्यं गयि ! कथमधुना प्राणरक्षा भवेन्मेः ? ॥ ६. भवनुढैयरुं – सहस्रगाथारत्नावली दुष्प्रापो मेऽद्य तत्सङ्गम समय इह ! श्रीहरेस्तस्य विष्णोः कारुण्यं तद्विना मे न हि भुवि तु भवेज्जीवितं ! चाद्य सन्ध्या । चित्तं मे नानुकूलं ! विधिशिवसहिता साऽपि लक्ष्मीस्तनुं च श्राप्नोत्यस्येति नाहं बत! शरणमहो ! प्रान्नुयां ! किन्नु कुर्याम् || ७. आरुक्केन शोल्लुकेन- नीलाम्भोदाभमूर्ति ननु मम हृदयं कृष्णमेवाश्रितं त- मायावश्यं ! सुगन्धस्सर समधुरगीतादिभिर्वाति वातः । नानामली सुमाद्यैः परिमलभरितो हन्त ! वातोऽयमेवं मर्मस्पर्शी तुदेन्मां ! कथमहह ! जनन्योऽद्य मे वच्मि वृत्तम् ! ॥ ८. पुदुमणमुकुन्दु कोण्डु- वातोऽयं दिव्यगन्धो नवनवविभवो वाति सन्ध्या च रक्ता तीव्रा ! हा ! हन्त ! कृष्णः कुटिल गतिरहो ! तस्य मायाऽतितीवा । सौरभ्योपेतमल्ली परिमल - विसरच्चन्दनाच्चापि वेणौ- नदोऽयं पञ्चमस्थः किल मम सपदि प्राणहापिकाजित् ॥ ९. ऊदुमत्तीकुलल्के- मध्ये मध्ये मनोहार्यभिनवभणितैर्वेणुनादैर्गतासु. वाहं हा ! हन्तं ! वीक्षामपि रुचिरतमां सूक्तिसङ्गीतमालाम् । कान्ताचित्ताभिरामा महह ! न हि परां वेद्मि वाचाऽपि वक्तुं चेष्टां तस्याद्य रात्रिर्भवति ! बत ! न मां कान्त आयाति मायी ॥ १०. मालैपम् वन्ददु- आयातैव निशाsधुना न तु हरिर्मायी समायात्यहो ! गावश्चापि वृवैश्वरन्ति सहिता लीलाविलासाकुलाः । नवमशतकम् । २३३. श्रूयन्ते बहुधा च वेणुनिनदा दीप्रा लताष्पट्पदै – मल्ल्याद्या जलधिश्व खेचररवो ! जीवामि किं तं विना ! ॥ ११. अवनै विट्टक - अत्र
तद्विश्लेषसहा न ये निशि भृशं गोपीजनाः क्रन्दने- स्तेषामेव शठारिरप्यहह ! तद्विश्लेषदुःखासहः । साहस्रे परमं जगौ च ! दशकं चेदं पठन्तो भुवि श्रीत्या भक्तजनास्तमेव शरणं प्राप्तास्स्थ चोज्जीविताः ॥ अथ नवमशतके
९०
९० दशमंदशकम् ( मालैनण्णि ) इदं दशकं “तिरुक्कण्णपुरम् " - इति सुप्रसिद्ध कण्वपुराख्य- ३. मालै नण्णि– दिव्यदेशपरम् ॥ प्राकाररम्य - शुभ - कण्वपुराधिनाथः प्राप्तस्स एव हि पुरा वटपत्रशय्याम् । तस्याङ्घ्रियुग्ममनिशं प्रतिपद्य पद्म- राराध्य पापरहिता भवतात्र धन्याः ॥ २. कललविलुम् मलरिट्ठ- भक्ताश्च यूयमधुना भजतच्युतं तं पुष्पैस्तु रम्यवलयेन च राजतेन । संशोभिते सपदि कण्वपुरे वसन्तं ! भक्त्या भजध्वमनिशं च पुरं कृतार्थाः ॥ २३४ ३. तोण्डर नुम्तम् सहखगाथारावली 4 उद्यानशोभि-शुभकण्वपुराधिनाथै वैकुण्ठनाथममराधिपतिं मुरारिम् । भक्तां भवन्तु मिलितास्तु भवन्त एनं भक्त्या समर्प्य कुसुमानि च वीतदुःखाः ४. मानै नोक्कि कान्तस्य यस्य सततं हरिणायताक्षी नीला प्रिया सपदि तं मधुरं गुणाढ्यम् । आराध्य कण्वपुरनाथमिहैव पुष्पै - यूयं भजध्वमयमेव भवेच्छरण्यः ॥ . शरणमाकुम्- सोऽयं भवेच्च शरणं शरणागतानां वैकुण्ठमेव तनुते मरणं गतानाम् । स्वामी लसद्वलय - कण्वपुराधिनाथो भूपालको भवति भक्तततेश्च भक्तः ॥ ६. अम्बनाकुम्– स्वाङ्घ्रिद्वयाश्रितजनेषु च वत्खलोऽयं वक्षोविदारणपटुश्च हिरण्यकस्य । सौवर्णसद्वलय - कण्वपुराधिनाथ- सत्याश्रयेषु सततं च भवेत्स सत्यः ॥ ७. मेय्याकुम् सत्योऽस्त्यनन्यमनसां किल भक्तिभाजां मिथ्याऽस्ति चान्यां हरिसिन्दिरेशः । नवमशतकम् | क्षेत्रावलीलसित कण्वपुराधिनाथो भव्यो भवेत्किल सदा शरणागतानाम् ॥ ★ अणियनाकुम्– वश्यो भवेत्स्वचरणाम्बुज - भक्तिभाजाँ व्याधिं प्रणाश्य स हि जन्मततिं निहन्यात् । सौवर्णसद्बलय- कण्वपुरेशितुर्व- स्संसेव्यमङ्घ्रियुगलं परमेष्ठिनस्तत् ॥ ९. पादनालुम् तस्याङ्घ्रियुग्म-भुजनात्सकलं च दुःखं नश्येन्न भीतिकणिकाऽस्ति ममाद्य काऽपि । श्रीवेदविद्वसति - कण्वपुराधिनाथं मूलं परन्तु भजतां न हि दुःखगन्धः ॥ १०. इल्लैयल्लल् पद्मालयामुरसि यस्तु दधाति तस्य प्राकारशोभि-शुभकण्कपुर प्रशंसा । दुःखामहा भवति मे । न हि भाति चिन्ता ! तस्मान्न मेऽद्य किल किञ्चिदिहास्त्यलभ्यम् ॥ ११. पाडुशारा विनै सर्वाधनाशविधये कुरुका पुरीशः श्रीमान् शठारिवदत्सरसं सहस्रम् | तत्रेदमेव दशकं परिगाय नृत्तैः श्रीशस्य पादयुगलं शरणं भजध्वम् ॥ २३५ इति तदिदं श्रीकल्किसिंह - भगवद्विरचितायां सहस्रगाथा - रत्नावल्यां नवमशतक सम्पूर्णम् ॥२३६ सहस्रगाथारत्नावली । अथ दशमशतके
१
१ प्रथमदशकम् ( तालतामरै ) (अत्र — कैङ्कर्यप्रतिबन्धकनिबर्हणमुच्यते ।)
तिरुमाहूर - (श्रीमोहपुरी ) - दिव्यदेशपरमिदं दशकम् ॥ १. तालतामरै- अम्भोजावलिभिस्तटाकसरणिर्यत्रास्ति सम्भूषिता क्षेत्रेष्वत्र सदाऽपि वासरसिकश्रीमोहपुर्यां हरिः । रक्षोनाशकरश्चतुर्भुजधरो विम्बाधरः पद्मद्दङ् नीलाम्भोदनिभस्स एव शरणं रम्यालको ! नेतरः ॥ १. इलम् कदिमत्तोत्र- दिव्यश्रीतुलसीसुमावलिधरस्साहस्त्रनाम्नां प्रभु– बीच्यो वेदचतुष्टयप्रवचनैर्विप्रोत्तमैरन्विते । श्रीमन्मोहपुरे चकास्ति हि हरिस्तस्यैव पादाम्बुज- च्छायारूप- महातटाकसालले मग्ना वयं सर्वदा ॥ ३. अनि पामोरुपुकलिडमिलम्- नान्यं त्वान्तु विना वयं हि शरणं प्राप्ता इति श्रीहरिं यं देवाश्चतुराननेश्वरमुखाश्शंसन्ति भूयस्स्वयम् । त्रैलोक्याधिपतेस्तु तस्य वसतिं भक्त्या वयं सन्नताः श्रीमन्मोहपुरी भजाम शरणं सर्वार्तिशान्त्यै सदा ॥ ४. इडर डम्मै पोन्दु- दुःखध्वंसकरोsय पालय विभो ! सर्वानिहास्मानिति स्तुत्वा देवगणाश्च ते मुनिगणास्संश्रित्य तेजः परम् । दशमशतकम् । धन्यास्सन्त्विति भाति शेषशयनश्श्रीमोहपुर्यामसौ स्तोतुं तत्पदयुग्ममार्तिशमनं भक्तास्समागच्छत | ५. तोण्डीर वम्मिन् - अस्माकं परमं महश्च जगतां मूलं परं पादत- स्सर्वाण्डान्तरलोकमान चतुरश्श्रीमोहप हरिः । भात्येवाष्टदिशासु चक्षुमधुरव्रीह्यादि सस्यावृतं देवागारमिमं परीत्य विनता नाम चागच्छत ॥ ६. कूत्तन् कोवलन् - मायाचेष्टित एवं गोपतिलको दुष्टासुरध्वंसक- स्सूरीणामपि मौनिनां च सुलभस्स्तोत्रान्वितानां च नः । माधुर्यामृतवारिधिस्सुरुचिरक्षेत्रावृते भात्यसौ श्रीमन्मोहपरे किलास्य चरणद्वन्द्वं शरण्यं हि नः ॥ ७. मत्तिलमरणू- लोकानामाद्यमूलप्रकृति-परिसरत्कारणाम्भःप्रसृष्ठेः २३७ पश्चात्तं चाब्जयोनिं मुनिमपि च सुरान् सर्वलोकांश्च सृष्ट्वा । सोऽयं श्रीमोहपुर्यां विलसति हि हरिस्तत्पुरं चेत्परीत्य स्वैरं यामोऽस्मदार्तिस्सपदि परिहृता स्याच्छरण्यं न चान्यत् ॥ ८. तुडुम कडिदु- उद्यद्वृक्षैस्तटाकैरपि च बहुविधैर्भूषितायां चकास्ति श्रीविष्णुमहपुर्यां दशरथतनयो दिव्यरत्नप्रभोऽसौ । यस्मिन्नम्भोधिरूपे निशिचरनिवहा हन्त । नष्टास्सहस्त्र- नम्नां क्रूराशयास्तं भजत भुवि जना भक्तितो दुःखशान्त्यै ॥ ૨૧૮ ९. मणितत्त सहस्रगाथास्त्रावली । अच्छस्वच्छमहातद्रा कसदृशस्वाङ्घ्रिद्वयश्श्रीहरिः पद्माक्षश्च चतुर्भुजो विलसति ज्योतिः प्रवालाधरः । नानाराक्षसकाननावलिगणच्छेदी च वीरायणी- रस्मिन् मोहपुरेऽद्य भाति शरणं चास्माकमेतत्परम् ॥ ६०. नामडैन्दनल्लरण्— अस्माकं शरणं परं तदिदमेवेति स्वयं सेवितान् भक्ता रक्षति कामरूपमृदसौ श्रीमोहपुर्यां कसर | देवानामसुरप्रणाशनविधौ कीर्ति परां भक्तिता यूयं भक्तगणास्तुत स्मरणतः पश्चात्स्वयं धार्मिकाः । ११. एतुमिन् नमकक् अस्मद्वन्धुगणास्स्तुतिं कुरुत चेत्येवं शठारिः प्रिया- नाहूयाच्युतमेव शंसितुममुं श्री कुम्भलीलाश्रयम् । साहसे व्यतनोदिदं च दशकं श्रीमोहपुर्याश्रय भक्त्या ये तु पठन्ति दुःखमखिलं तेषां प्रणश्येत् क्षणात् ॥ अथ दशमशतके
२
२ द्वितीय दशकम् (केडुमिडरायवेलाम् ) ( अत्रापि तदेवोच्यते ) अनन्तशयनाख्य-दिव्यवेशपरमिदं दशकम् | १. के मिडरायला - श्रीमत्केशवनामकीर्तनकृतां सर्वार्तिनाशो भवेत् ! क्रूरा हिंसनतत्परा यमभटा नैवोपसर्पन्ति तान् । दशमशतकम् | तस्माद्यूयमनन्तशायिपुरमेवाद्य स्वयं प्राप्नुत क्षेत्रः पुष्पवनान्वितैः परिनृतं, शेते च यत्राच्युतः || २. इनु पोय प्पुकुदिशकिल - यूयं चेदधुनैव तत्र तु गतास्संसारदुःखं हतं भूयादेव हि सप्तजन्मसु च वः ! प्रोद्यत्तरुप्राङ्गणैः । उद्यानैर्विल सत्यनन्तशयने दिव्ये पुरे श्रीहरे- रेक नाम सहस्रमेव भवति ! ध्यानात्परं स्यात्पदम् ॥ ३. ऊरुम् पुलकोडियुमः दे- यस्याssस्ते विनतासुतस्तु सततं दिव्यं हरेर्वाहनं केतुश्वापि स एव ! सोऽद्य जगतां भक्षी च रक्षाकरः । आस्ते श्रीमदनन्तशायिनगरे ! क्षिप्रं प्रविश्यात्र वः वेदान्नाशयत स्वयं ! वदत तन्नामापि साहस्रके ॥ ४. पेशुमिन् कुशमिनि अम्भस्ततो वनैः परिवृते सौरम्य सम्भूषितै- नित्यं यो विलसत्यनन्तरायने तं पुष्पहस्तास्स्वयम् | आराध्या भवन्ति धन्यहृदया भक्तास्तदीयं परं भाग्यं कीर्तयत स्वयन्तु सततं निश्राङ्कमेवानघम् ॥ . पुणियम् शेख - भक्त्या यूयममुं समर्चयत सत्पुष्पैश्च तीर्थान्वितै- स्तन्नामानि च गायत प्रियतमान्येतज्जनिं नाशयत् । ये तं नाथमनन्तशायिनगरे भक्त्या भजन्ति स्वयं तत्पदश्रवणा भवन्ति सुदृढं सूरीश्वरास्ते दिवि । २३९ २४० सहस्रगाथारत्नावली । ६. अमरराय तिरिकिनार्कलकु- गोविन्दः किल षण्मुखस्य जनकं सम्मोचयन् पातका - देवानामपि चादिरेव परमो योऽनन्तपुर्याश्रयः । तं सेनापतिरर्चयत्यनुदिनं नित्यैश्च मुक्तैस्स्वयं भक्तास्तेऽपि च बान्धवा इति वयं भूयास्म तै सङ्गताः ७. सुप्रैत कोविन्दनारे- लोकान् जीवांश्च देवानखिल मितरदप्येष संहृत्य सृष्ट्वा गोविन्दो भाति मूर्तिः परमगुणमणिश्शेषशायी विभुर्नः । क्षेत्रैमींनालियुक्तैर्विलसितविभवेऽनन्तपुर्याख्यदेशे ! तत्र द्वारादिशुद्धिक्रमकृतमनसां सर्वपापं प्रणश्येत् ॥ ८. कडुविनै कलयलाकुम्- पापं नश्यति । मन्मथस्य जनकः कृष्णो विभाति स्वयं दिव्ये ऽनन्तपुरे सदेति च जगुः ! शेषे शयानस्य च । तस्याङ्घ्रिद्वयदर्शनाय निरता यूयं समागच्छत ! भ्रान्तिर्मांऽस्तु च संशयोऽद्य ! विशदं सर्वं वदामो वयम् ॥ ९. नामुमक्करिय चोन- अस्माभिः कथितानि तानि च दिनान्यद्यागतानि स्वयं ! दिव्येऽनन्तपुरे वरे सुरुचिरोद्याने ऽद्य रक्षाऽस्ति नः । धूपं दिव्यसुगन्धिपुष्पसरणिं श्रीवामनाङ्घ्रिद्वये कर्तुं स्तोतुमिमं च सक्तमनसां पापानि नश्यन्त्यहो ! ॥ १०. मायून्दरुम् विनैकल्तामे- भक्ताश्चेदिह माधवेति सकृदप्याहुस्स्वयं भक्तितः पापानि महतानि तानि ! कनकप्राकारसंशोभिते । दशम शतकम् । दिव्येऽनन्तपुरे हरेर्भुवि तु ये स्तोत्रं च नाथस्य नः कुर्युर्धूप- सुदीप- गन्ध-कुसुमैस्ते यान्ति कीर्ति पराम् || १५. अन्दमिल पुक- दिव्यानन्तपुरेश्वरं च जगतामादिं हरिं श्रीधरं स्तोतुं श्रीकुरुकेश्वरश्शठरिपुः पञ्चापि पञ्चाब्रवीत् । साहस्रं तदिदं पठन्ति दशकं ये धाम्नि दिव्ये स्वयं ते गत्वा हि भजन्ति दिव्यललनाहस्तैश्शुभालंक्रियाम् ॥ ७. वेय्मरुतोलिणै— दशमशतके
३
३. तृतीयदशकम् (वेयूमरुतोलिणै ) अत्रापि तदेवोच्यते ) ( नायिकावस्था –) २४१ बाहुद्वन्द्वं कृशं हा ! बत ! तनुकुशतां मे न पश्येद्वियोगं कूजन्ती कोकिलालिस्सपदि बत ! मयूरावलिर्नृत्तसत्ता । गोसङ्घानुप्रयाते त्वयि मम हि दिनं कल्पसाहस्रमेव ! त्वन्नेत्राब्जद्वयं मां तुदति बत ! हरे ! कृष्ण ! न त्वं दयालुः || २, तकविले तकविलेये नी कण्णः– ३१ कारुण्यं ते न कृष्णास्त्यहह ! न हि न हि ! लेषकालेऽपि ते में वक्षोजद्वन्द्वमेतत्पृथु भवति ! महानन्दपाथोधिरेवम् । आकाशं चाप्यतीत्य भ्रमयति सुतरां बुद्धिमेवं दशा स्यात् स्वप्नावस्था हि ! जीवस्तव विरहसहो नैव ! गा नानुयाहि || २४२ ३, वीव मित्र पशु निरै- सहरुगाथारलावली | धेनूना घासकाले तव विरहसहा नास्मि ! सीदामि ! हन्तो- च्छ्वासैस्सन्तप्तचित्ता ऽस्म्यहह ! न हि सहायोऽद्य मे नीलामूर्ते । सञ्चारस्ते न दृश्यो मम भवति ! दिनं चैकमेवं न याति ! त्वद्विश्लेषेऽश्रुपातो न विरमति । दशां तामिमां हन्म गोप्यः ॥ ४. तोलुत्तैयोम् तनिमैथुम- दासीनां ते दशों नः पृथगिह विरहे हन्त ! नैव स्मरेस्त्वं ! गोविन्दैवं पशूंस्ताननुसरसि बने हन्त ! मुञ्चन्निहास्मान् । मायास्वादूक्ति- सारामृत - सरिति च ते मानसं मेऽस्ति म पापिन्या हन्त ! हन्त | स्मृतमपि वचनं ते दहत्येव मेsसून् ॥ ५. पणिमोलि निनदोरुम् - त्वत्स्वादूतिस्मृतिर्मा दहति बत ! दिन कृष्ण ! गोघासकाले मल्लो सौगन्ध्यवातान्वितमहह ! समायाति सायं च सन्ध्या । रत्नाद्भासे तवोरस्यभिनवकुटजैः कुट्मलैर्वासितं मे भूयाद्वक्षोजयुम्मं त्वधरमधुरसो मेऽस्तु ! हस्तोsस्तुमस्ते ॥ ६. अडिच्चियोम् तलैमिशै– गम्भीराम्भोधिनेत्र ! स्वयमिह चरणौ ते कुरुष्वोत्तमाङ्गे त्वस्माकं कृष्ण ! कान्तास्तव किल परितस्तत्र सन्त्येव बहूव्यः । स्त्रीत्वं हा ! दुस्सहं नः किल नयनयुगं त्वश्रुपूर्णं ! मनश्च भ्रान्तं ! नस्ते पशूनामनुगमनमहो ! नाशकं ! तप्त आत्मा ॥ ७. वेमेमदुयिर्- शैथिल्यं यान्ति कांच्यङ्गद-वलय-सुखान्यद्य ! नेत्राब्जयुम्म रम्यं बाष्पाम्बुपूर्ण ! स्त्रमयुगमपि मे हन्त ! हा ! शुष्यतीदम् । बाहू दशम शतकम् । चैतौ कृशों में ! मणिनिभ ! तव दिव्याङ्क्षिपद्मद्वयं च क्लिन्नं स्यात्कानने ! त्वं पशुगणमनुयास्यासुरैः किं भवेद्वा ? | 4. भशुरर्कलूतलैम्पेरियलू- आयाता राक्षसाश्चेत्कथमहह ! भवेदित्यहं हन्त ! चिन्ता- पारावारेऽस्मि मम्ना ! पशुगणमनु मैवाद्य याहीति वच्मि । आशापाशाभिसन्धि- प्रयतन - रतयश्वार्तिमूलं ममाद्य ! २४३ त्वं मे हस्तस्थितस्स्याः ! पुरत इह चरेगपिकाभिः प्रियाभिः || ९. उकक्कु नल्लवरोडुम् प्रीताभिः कामिनीभिर्यदि चरसि सुखं प्राप्नुषे वीतदुःख- स्त्वं मे नाथ ! प्रियं मे महदिति विदितं ! माऽस्तु मे स्त्रीत्वदोषः । विश्लेषो दुस्सहा मे ! पशुगणमनु मायाहि ! कंसेरितैस्तें नानायुद्धानि च स्युर्निशिचरनिवहैर्हन्त ! मेऽनुव्रजोक्तिम् ॥ १०. अवत्तङ्गविकैयुम् - गोपानां नायको नः कुलमणिरसि मो देव ! बिम्बाधरस्त्वं क्रूराः कंसेरिताश्वाप्यसुरभटगणा मौनिभीत्यै चरन्ति । एकस्त्वं निस्सहायो बलमपि च विहायैव रामं प्रयासि ! क्लेशास्ते स्युर्वचो मे शृणु ! परमपदातिक वरं गोपकृत्यम् ॥ ११. शेङ्गनिवायेङ्गलायर्तेवु - 1 अस्मद्गोपान्वयेन्दोश्चरणयुगलमेवात्र बिम्बाधरस्य स्तोतुं चोदारभावश्शठरिपुवदत्सूक्तिमालासहखे | गोपीनां वाक्यरीत्या पशुगणमनु मा गच्छ कान्तां विहाय श्रीमन्मामित्यपीदं दशकमपि नयेद्वाचकांस्तस्य गोष्ठीम् ॥ 7 २४४ १. शार्वे तवनेरिक्कु — २. पेरुमैयने— सहस्रगाथारलावली | दशमशतके
४
४ चतुर्थदशकम् ( शार्वे तवनेरिक्कु ) ( अत्रापि तदेवोच्यते ) नीलाम्बुदाभतनुरब्जविलोचनोऽसौ यः पञ्चभूतमय एव च चक्रपाणिः । सूरीश्वरैरपि च तस्य सुकीर्तितस्य दामोदरस्य चरणौ ननु भक्तिलभ्यौ || दिव्यामराधिपतिरेव निजप्रभावा- दहश्यो न यस्तु भुवि भक्तिवियुक्तचित्तैः । नित्यं श्रिया सहित एव चकास्ति मूर्त्यां पद्माम्को स्त्रो मम नायकोऽसौ ॥ ३. आलिकनानालियान्- चक्रं बिभर्ति ! ननु रक्षति नस्ततोऽद्य ध्वस्तं समस्तभवदुःखमाप क्षणानः । हानिर्न काचिदपि नः किल जातु च स्या- नीलापतेस्तु चरणौ शिरसा वहामः || ४. तलैमेल पुनैन्देन्– धृत्वा च तस्य चरणौ शिरसाऽस्मि धन्य- स्तं सूरिभिश्च वटपत्रयं सुसेव्यम् । ’ दशम शतकन् । श्रीशैलवासमपि मे हृदि नित्यवासं निश्चित्य चास्मि कृतकृत्य इहाथ मान्यः ॥ ५. निच्चित्तिरुन्देन् - मच्चित्तवासिनमिमं सततं मुरारिं निश्चित्य चक्रधरमेव च मायिवृत्तम् । जानामि दूरगमिमं हि हरिं परेषां सत्यं त्वसत्यमपि शेषशयं प्रियं नः ॥ ६. नाकत्तणैया - शेषे. शयानमपि भक्तिजुषां दयालु पार्श्वे वहन्तमपि तं तरुणेन्दुचूडम् | अस्मत्प्रभुं ननु हरिं परमं भजेऽहं ! तत्पादपद्मयुगलं प्रणमामि नित्यम् || ७. पणि नेओ नालुम्— माणिक्यभास्वरतनुर्मधुसूदनोऽसौ नाथो ममास्ति कनकप्रभचक्रधारी । भक्तात्मनां हि भवदुःखविनाशको नः ! प्राप्यं परात्परममुं भज चित्त ! नित्यम् || ८. आलियानालि श्रीचक्रपाणिरमरातिग- सुप्रभाव - संहारकोऽस्ति जगतां स च सर्गकती । गोपालको गिरिधरो निजबाहुवीर्यात् ! तत्पाद संस्मरणतश्शुभमेहि चित्त ! | २४५२५६ सहस्रगाथा स्लावली | ९. कण्डे कमलमल र् पादम् – भक्त्या भजन्तु सततं च जना इतीं प्रागेव हि प्रकटितं परमेण पुंसा । वेदान्ततत्त्वमिति तत्क्रमतोऽद्य दृष्टं तत्पादपद्मयुगलं सकला घशान्त्यै ॥ १०.. वकैयाल मनमोनि- सम्पूजनाय च यथाविधि चित्तदात् श्रीमाधवस्य सततं शुभधूपदीपैः । पुष्पैश्च तीर्थसहितैरमरा हि सज्जा- स्स्युस्तस्य पादयुगलं भजतां शरण्यम् ॥ १. पत्ते पत्ति– साक्षात्परात्परममुं ददबाहुमसिं प्राप्तुं हरिं वलुनाडुदितश्शठारिः ॥ साहस्रमाह ! दशकं पठतां तदेतत् कृष्णस्य पादयुगलं परमं शरण्यम् || १. कण्णन् कललि दशमशतके
५
५ पञ्चमदशकम् ( कण्णन् कललिणे ) ( अत्रापि तदेवोच्यते ) कृष्णपादाम्बुजद्वन्द्वं प्राप्तुं कुतुकिनान्तु वः । चिन्तनीयं सदा नाम नारायण इति धवम् ॥ दशमशतकम् । २. नारणनम्मान्- नारायणोऽस्मदीशोऽयं भूदेवीवल्लभो हरिः । मत्तवारणविध्वंसी कारणं जगता स्वयम् ॥ . ३. ताने युलकेला - स्वयमेव जगत्सर्वं ! सृष्ट्वा चोद्धृत्य तत्स्वयम् । भुंक्त्वा च पुनरुद्धीय सर्व रक्षति च स्वयम् ॥ ४. आलवा नालिनीर्- शेषे स्तोत्रासद्वक्त्रे शयानं कारणार्णवे । रक्षकं प्राप्य तत्यादौ पुष्वैरर्चयतानिशम् || ५. वाडीर नाल्तोरुम् – नव्यैः प्रतिदिन पुष्पैराराधयत तं हरिम् । तन्नाम गायत प्रीत्या ! मोक्ष एव भवेद्ध्रुवम् ॥ ६. मेयान् वेडम् अतसीगुच्छसच्छायः पूतनास्तन्यपानकृत् । नित्यं वसति हि प्रीत्या माधवो वेङ्कटाचले ॥ ०. माधवनेनेनु- माधवस्य शुभं नाम सङ्कीर्तयथ चेत्स्वयम् । भूतं भव्यं च पार्प वस्सम्भवेन्नैव जातु चित् ॥ 4. शारा एदङ्गलू नोपसर्पन्ति दुःखानि ! नीलाम्बुदनिभस्य तत् । नाम ये कीर्तयन्त्येते सर्व स्युरमरास्स्वयम् ॥ २४७ २४८ ९. अमरकरिया – सहस्रगाथारत्नावती । देवानां दुर्लभं विष्णुं भक्तानां सुलभं हरिम् । ये भजन्ति स्वयं प्रीत्या तेषां पापं न सम्भवेत् || १०. विनै वल्लिरुलेन्नुम् - पलायन्ते हि पापानि चाज्ञान- रुचि - वासनाः । आराध्य नूतनैः पुष्पैर्नाथं चिन्तयतानिशम् ॥ ११. नेडियान शूडुम् - श्रीपतेः करुणापात्रं शठारिरवदन्मुनिः । साहले दशकं चेदं भक्तानां फलमुत्तमम् ॥ १. अरुल पेरुवार्- दशमशतके
६
६ षष्ठदशकम् ( अरुल पेरुवार ) ( अत्रापि तदेवोच्यते ) तिरुवाट्टारु– पुरविषयकमिदं दशकम् ॥ कारुण्याश्रय-भक्तवर्यसरणेर्दासस्य मे श्रीहरि - वी स्वां करुणां प्रदर्शयति च स्वाभीष्ठरीत्या मम । नाहं जन्म तु कामयेऽत्र विपुले मोहावहे भूतले ! भ्रान्ति सन्त्यज मानसाद्य चपल ! प्राप्यैव वाट्टा - प्रभुम् ॥ २. वाहाताना वणङ्गि– श्रीवाट्टार - पुरनायकस्य चरणौ नत्वा भवध्वंसका- नाथं केशवमच्युतं वयममी सङ्कीर्त्य गीतैश्च तम् । दशमशतकम् । ध्वस्तप्राक्तनकर्मपाशनिवहा स्त्यक्त्वा च संसारिभि- स्स श्रीहरिमाश्रिताश्शृणु मनो ! नारायण श्रीधरम् ॥ ३. नग्णिनम् नारायणनै- भो भो ! मानस ! संश्रिताः किल वयं नारायणं श्रीधरं तन्नामावलिकीर्तनैस्स तु हरिर्वाट्टार - निवासी स्वयम् । आगत्यात्र परं पदं प्रियतमं नः प्राप्यमेवाव्ययं दातुं चास्ति हि साभिलाष इदमेवास्तु प्रियं नः फलम् ॥ ४. एने अत्तु किकरुन्दु— हे सच्चित ! खलं हिरण्यकशिपुं भित्वा च वक्षस्स्थले श्रीवाट्टार्-प्रभुरेष भाति समरे तान् पाण्डवान् भारते । धृत्वा रक्षितुमायुधं च परमस्स्वामी स्थितो मे हृदि प्राकाश्यं द्रविडागमस्य रचयन् दिव्यं कृपावान्मयि ॥ ५. वानेर वलि तन्द- दिव्यं धाम परं प्रयातुमपि नस्सन्मार्गदायी हरि - श्श्रीवाट्टार - प्रभुरेष पूर्वमवदद्यां रीतिमेव स्वयम् । तां प्राप्याद्य तु तार्क्ष्यवाहचरणौ तावेव नौमि प्रियौ भाति श्री तुलसीवरो मम शिरस्येवं हता दुर्गतिः ॥ ६. तलैमेल तार्किकलू- ३२ तत्पादाम्बुजयुग्ममस्ति सततं मन्मस्तके ! भाति मे नाथः पद्मविलोचनो मम हृदि स्थैर्यं गतस्सर्वदा । श्रीवाट्टार - नगरेऽस्ति शेषशयनो ! मत्तद्विप-ध्वंसिन- स्तस्याङ्घ्रिद्वयमेव सन्ततममी संश्रित्य धन्या वयम् ॥ २४९ २५० सहस्रगाथारत्नावली । कुरै कलल्कल कुरुकिनम्– दिव्यं भूषणभूषितं पदयुगं संश्रित्य धन्या वयं ! गोविन्दो हृदि सन्ततं वसति मे ! पाथोधिपर्यावृते । देशे दक्षिणदिग्भवेऽस्ति तिलकप्रायेऽत्र वाद्वार - पुरे. दिव्ये रत्नमयेऽस्य पादतुलसी मेजे सुगन्धावहा || ८. मेयूनिनूरु कमलू तुलव — सौगन्ध्यान्वितमूर्तिरेष तुलसी भास्वकिरीटो हर वीरश्रीयुतचक्रपाणिरतुलो नीलाञ्जनाद्रिप्रभः । श्रीवाट्टार - पुरवासिनोऽस्य किमहं सत्कारकृत्यं शुभं कृत्वा ऽस्म्यद्य कृती ? सदाऽपि हृदि मे यस्माच्च बाभात्यसौ || ९. तिकलकिन् तिरुमार्बि —- लक्ष्म्या वक्षसि भास्वरो ऽयमधुना वाहार - पुरे श्रीधर- स्ताक्ष्यरूढ इहास्ति शीतलगुणे नित्यं सुसेव्यो नृणाम् । युद्धे राक्षससङ्घनाशकृदसौ चित्ते ममास्ति स्वयं निश्चिन्तो विलसत्यहो ! न किल मां त्यक्त्वा प्रयात्यन्यतः ॥ १०. पिरियादालच्चेय्येनु- कैङ्कर्य सततं भवेदिति च तस्प्रत्यर्थि- जन्मापह- इश्रीमान् भाति हिरण्यकासुर-तनुच्छेदी च शेषेशयः । सेवां प्राप्य परां तदा नरहरिर्भूत्वा च भक्तावनो यो वाट्टार नगरे ऽस्त्यसौ हि महतां सेवाफलं दर्शयन् ॥ ११. काट्टि त्तन् कनैकलल्कल — वीरश्रीयुत - पादपङ्कज-युगं स्वीयं प्रदश्य स्वयं नाना दुर्गतिनाशको विजयते वाट्टार - पुरे श्रीधरः । 1 दशमशतकम् । इत्येवं दशकं त्विदं शठरिपुस्साहस्र के द्राविडे २५१ श्रयं चाह हि ! सूरयोऽपि तदिदं श्रुत्वा न तृप्ता दिवि ॥ अथ दशमशतके
७
७ सप्तमदशकम् ( शेम्शोल् कविकालू ) ( अत्रापि तदेवोच्यते ) तिरुमालिरुंशोलैमलै - ( श्रीवनगिरि ) - विषयकमिदं दशकम् । १. शेमशोल् कविकालू—- मञ्चसार्वभौम उदितो माया कविर्मानसे मे जीवेऽपि किल प्रविश्य रहसि स्वैरं च तत्सङ्गतः । भुक्त्वा तन्मम चित्त- चेतन - युग सर्वं स्वयं सर्वतः • पूर्णो भाति ! वनाचलेऽद्य कवयश्श्लाध्यास्स्थ सेवान्विताः ॥ २. ताने याकि निरैन्दु- भुंक्त्वा जीवमिहाखिलं मम हरिस्स्वैरं स्वयं पूर्ण ए- वाssस्ते सर्वजगन्मयोपि परितस्सर्वात्मवर्गात्मकः । एवं चाहमपि स्वयं भवति च स्तोतापि ! मे माक्षिकं दुग्धं चक्षुरसोऽमृतं च वनशैलेशोऽपि भाति स्थिरः | ३. एनै मुत्तुमुयिरुण्डु– भुक्त्वा मां परितोऽपि मेऽद्य तनुमप्याविश्य मायामयीं जीवे मेsपि समग्र एव विलसन्मायी चकास्ति प्रभुः । दाक्ष्यै तत्र वनाचले सुरुचिरे ! दृष्ट्वाऽप्यहं तां दिशं नत्वा ऽप्यन्यत एव यामि किमहो ? नाथस्य कीहक् कृपा ? ॥ २५२ सहस्रगाथारत्नावली | ४. रन् कोलम्मान् तिरुत्रस्क— जीवानां जगतां च मण्डलमपि स्वैरं स्वयं पाति य- स्सोऽयं नास्तिकराक्षसप्रमथनस्सञ्चारशीलो भुवि । आस्ते दक्षिणदिग्भवे च तिलकप्राये वनाद्रौ परं ! देहं मे न हि जातु च त्यजति ! मे नाथस्य कीहक्कृपा ! ॥ ५. नण्णावरर् नलिवेय्द —- नाशार्थं नास्तिकानां दिवि च दिविषदां श्रेयसेऽप्यास्तिकानां प्रीत्यै चानन्दवृद्ध्यै सततशुभगणाशंसिनां वै मुनीनाम् । पद्यालीहृद्यगीतावलिमपि च मम स्वैरमेव स्वयं श्री - नाथो मे भाति गायन्नहह ! वनगिरौ गानलोलो ऽनुगायन् ॥ ६. तिरुमालिरुशोलैयाने याकि– भक्त्या तौ विधिशङ्करौ पदयुगं स्तुत्वा च यस्य प्रियौ कारुण्यात्स जगत्त्रयीं च जठरे कृत्वा स्वयं रक्षकः । कल्पान्तेष्वपि माधवो वनगिरौ भात्यद्य नाथो मम प्रीत्याऽसौ मयि मोहितोऽस्ति सततं ! नैव त्यजेन्मां हरिः ॥ ७. अरुले यीयेनम्माने—- कारुण्यं मयि दर्शयेश्वर ! दयासिन्धो ! जगन्नायके- त्येवं रुद्रचतुर्मुखौ शतमखो देवा मुनीन्द्रा अपि । यं शंसन्ति सदाऽपि तस्य सततं वासाश्रयो भास्वरो रम्यो मोहविनाशको गिरिरयं नाम्ना वनाद्विम्स्वयम् ॥ ८. तिरुमालि रुंशोलैमलैये- श्रीमन्तं च वनाद्रिमद्भुततमं ! क्षीराम्बुधिं ! मस्तकं मे ! विष्णोः परमं पदं च कमलाकान्तस्य ! शेषाचलम् । दशमशतकम् । देहं जीवमपीह मेss हृदयं वाचं कृतिं चाच्युतो नैवासौ त्यजति क्षणं च जगतामेकं परं कारणम् ॥ ९. दिल्जनोरुवने येन्नुम् - -२५३ सर्वेषां जगतां य आदिरखिलं विश्वं सृजन् पालयन् कल्पेष्वेव विनाशयन्नपि चरत्येवं प्रभु हरिः । गम्भीराम्बुधिवर्ण एष जयति श्रीमान् वनाद्रौ शुभे ! हे चित्त ! त्वमिमं गिरिं भज सदा ते स्वस्ति ! मोक्षो भवेत् ॥ ११. मङ्गवोटुन् मासायै— स्वामिन् ! मे वनगिर्यधीश ! यदहं भूत्वा त्वमेवाच्युत !: श्रीमन् ! पालयसीह मां च ! विषयान् ज्ञानेन्द्रियाणां गणम् तत्कर्मेन्द्रियपञ्चकं च दलयन् भूतानि पञ्चापि च त्वं मूलप्रकृतिं महान्तमपि चाहङ्कारचित्ते जहि ॥ ११. मानाङ्गारमनम् केड-1 नाशार्थं महतोऽप्यहङ्कृतिमनस्तत्त्वद्वयस्याप्यसौ नाशायेन्द्रियपञ्चकस्य विषयैर्भूत्वाऽभिमानी स्वयम् । आत्मात्मीयमपि स्वयं भवति यस्तं श्रीशठारिभजन् साहसे दशकं किलाह तदिदं मुक्त्यै वनानिं प्रति ॥ २५० सहलगाभारा वली । अथ दशमशलके अष्टमदशकम् ( तिरुमालिरुम शोलैमलै) तिरुप्पेर् - ( श्रीनामपुरी ) - विषयकमिदं दशकम् ॥
- तिरुमालि शोलैमलैयेनरेन्- श्रीमद्वनाद्रि - शुभकीर्तनतः परात्मा चित्ते प्रविश्य मम भाति च माधवोऽयम् । अस्येदमेव नगरं मणिवाहि नद्या- स्तीरे शुभं लसति नामपुराभिधानम् ॥ २. पेरेयुरैकिनूर पिरान् श्रीनामपुर्यधिपतिः परमः प्रभुर्भे चित्ते प्रविश्य कृपया स्थिरमेव पूर्णः । सप्ताम्बुदाम्बुधिगिरीनपि सर्वलोकान् भुक्त्वाऽप्यतृप्तमपि तं मयि धारयामि ॥ ३. पिडित्तेन् पिरवि केडुत्तेन्— श्रीगोपुरैर्ध्वजयुतैरपि सौधवर्गै- सम्भूषिते वसति नामपुरे मुरारिः । तत्पादयुग्मभजनात्सुलभाद्भवाब्धि सन्तीर्य दुःखरहितोऽस्मि निहत्य मायाम् ॥ ४. एकिदायिनवारेनूरु- प्राप्यं हि भाति सुलभं मम चेति नेत्र- द्वन्द्वं प्रहर्षभरित हृदयं प्रहृष्टम् । I दशममशतकम् । आनन्दवानहमिहास्मि ददाति विष्णुः श्रीनामपुर्यधिपतिः परमं पदं मे ॥ ५. वाने तरुवानेनक्काय्- भृङ्गावृतैरपि वनैस्सहिते च रम्ये मोक्षप्रदो जयति नामपुरे हरिमें । एवं प्रतिश्रुतियुतो मम चर्मंदेहं क्षिप्रं प्रविश्य हतवान्मम कर्मराशिम् ॥ इ. तिरुप्पेर नकरानू - " श्रीनामपुर्यधिपतिर्वनगिर्यधीश- स्स्वामी हृदीह निवसामि तवेति पूर्णः । चित्ते प्रविश्य मम गौरवमातनोती- त्यानन्दवानहमिहामृतपानमत्तः ॥ ७. उण्डु कलित्तेकु - श्रीनामपुर्यधिपतिर्मम दर्शनार्थं प्रत्यक्ष एव भवतीह ! न याति दूरम् । नित्यानुभूति - मुदितोऽस्मि ! न हीयते में किञ्चिच्च ! भोगविभवैर्नम उक्तिगोऽस्मि ॥ ८. कण्णु निनूरकलान्- चक्षुः पुरोऽस्ति मम ! नैव हि याति दूरं ! सङ्कल्पतः किल महानतिसूक्ष्मरूपः । सप्तस्वरादिरसवारिधिराढ्य-सौध- श्रीनामपुर्यधिपतिर्हृदि मे प्रविष्टः ॥ સ્પર२५६ ९. इन्रेनै प्पोरुलाविक- सहस्रगाथारत्नावली । अद्य स्वयं सपदि मामपि वस्तु कृत्वा स्वात्मानमेव मयि भाति च सन्निवेश्य | पूर्वं कथं त्यजति हि स्म परानुगं मां ? प्रष्टुं हि नामपुरनायकमुद्यतोऽस्मि ॥ १०. उत्सेनुकन्दु पणिशेदु- त्वां संश्रितोऽस्मि ! तव पादयुगं श्रितोऽस्मि त्वद्दास्यतो मम विभो ! तदिदं हि काङ्क्ष । श्रीवैदिकाश्रयभुवीह तु नामपुर्यां भासि ! त्वदङ्घ्रिविनतेषु न दुःखसङ्गः ॥ ११. निल्लावल्लल् नीलवयलूशूल- क्षेत्रैश्च सस्यभरितैः परितः परीतं निर्दुःखमेव शुभनामपुरं प्रतीदम् । साहस्रके व्यरचयद्दशकं शठारि भक्ताः पठन्ति यदि शासति धाम दिव्यम् ॥ १. शूविशुम्बु- अथ दशमशतके नवमदशकम् ॥ ( शूलू - विशुम्बु ) ( अर्चिरादिमार्गवर्णनम् ॥ ) नारायणस्य जगतां परिपालकस्य भक्तान्मम प्रभुवरस्य विलोक्य मेघाः । V दशम शतकम् । गर्जन्ति सूर्यनिनदैः ! स्वकरैस्तरङ्गै- नृत्यन्ति चाब्धय उदेति च सप्तलोकी || २. नारणन् तमरैक्कण्डु – भक्तान् विलोक्य सजलो जलदः प्रहृष्टो नारायणस्य गगने ननु पूर्णकुम्भैः । सौवर्णकैर्कसति ! गर्जति चाब्धिमाला ! लोका भजन्ति गिरिभिर्दिवि तोरणैस्तान् ॥ ३ तोलुदनरुलकर्क- चिक्रान्तभूमिवलयस्य हरेस्तु भक्तान् धूपैश्च पुष्पसहितैः परितोऽर्चयन्तः । लोका उपर्यथ परं पदमेव गन्तुं मार्गोऽयमित्यपि मुदा मुनयोऽपि चाहुः ॥ ४. एदिरेदिरिमैयवर्— श्रीमाधवस्य तुलसीरुचिराढ्यमौले- भक्तान् मुदाऽप्यनिमिषास्स्थलतोऽर्चयन्तः । ते द्वादशापि खयः किरणैः करैस्स्वै- र्भेरोनिनाद उदभूज्जलधेश्च घोषैः ॥ ५. मादवन् तमरेनूरु- ३३ द्वारेषु तत्र दिवि वासिन आह्वयन्त- श्रीमाधवाश्रितगणानिह गच्छतेति । तुष्टास्समये सुकृतानि च वेदवक्त्रा गायन्ति हि स्म गरुडा अपि किन्नराश्च ॥ २५७ २५८ ६. वेलिवयुद्ध - सहस्रगाथारत्नावली | आराधिताश्श्रुतिमुखैस्सुकृतैश्च धूपै- स्सौगन्ध्यवद्भिरपि काहल - शङ्खनादैः । भक्तास्सुचक्रिण इदं पदमाश्रितास्स्थे- त्यभ्यर्थिता बहुतां च सुराङ्गनाभिः ॥ ७. मडन्दैयर्— श्रीकेशवोऽम्बुधिशयश्शुभरत्नमौलि- गोपालको विजयते ननु कुम्भपुर्याम् । भक्तान् किलास्य मरुतो वसवश्च तुष्टा- स्तुत्वा स्वकीयललनानिवस्तु धन्याः ॥ ८. कुडियडिया रिवर - गोविन्दभक्तनिवहा इति कीर्तितास्तै- र्दिव्यैः किरीटसहितैरभिगम्य तुष्टैः । श्रीमाधवस्य परमं पदमेव गन्तुं तोपुरं रुचिरकेतुयुतं प्रविष्टाः || ९. वैकुन्दम् पुकुदलुम्
वैकुण्ठनाथपुर - सम्मुख-पालकैश्वा- प्यायात सन्निधिमिति मुदाऽर्चितास्ते । तत्रामराश्च मुनयो नितरां प्रहृष्टा भौमाः परं पदमिदं ननु यान्ति चेति ॥ १०. विदिवकै पुकुन्दनर- भाग्यान्विता इति च वेदविदां स्वकीय- स्थानेषु पूजिततमा पदपद्मशुद्धया । दशमशतकम् । श्रीपादुकानिधि - सुचूर्ण-सुपूर्णकुम्भै- दीपैश्च दिव्यललनाभिरभिप्रयाताः ॥ ११. वन्दवरेदिककल सर्वेश्वरेऽप्यभिमुख स्वयमागते ऽस्मिन् दिव्ये च भक्तनिवहैर्मणिमण्टपे तैः । आनन्दसिद्धिमवदत्परमां शठारि- स्साहस्रके sx दशकान्मुनयो दिवि स्युः ॥ २५९ अथ दशमशतके
१०
१० दशमदशकम् ( सुनिये नान्मुकने ) ( परमपदे - सायुज्य - मोक्षप्राप्तिवर्णनम् । ) १. सुनिये नान्मुकने— मौनिन् ! हे चतुरानन ! त्रिणयन ! श्रीनाथ ! बिम्बाधर ! श्रीमाणिक्यसुरूप ! पद्मनयन ! त्वं वञ्चको भासि मे । एकस्मिन्मयि पूर्ण एव विलसस्यात्मा च शीर्षेऽसि मे ! त्वां मुञ्चामि न जातु चिच्च तदहं ! त्वं मां च मा वञ्चय । २. मायम् शेय्येले - मां मा वञ्चय ! वक्षसीह तव या मालेव भांति स्वयं श्रीः पद्मा शुभगन्धिकेश्यनु च तां त्वां चानुं सत्यं शपे । कृत्वा स्नेहमहो ! मया सह भवानेकीभवन्मां हरे ! निश्शङ्कं वृतवान् किल ! त्वमधुना मामाह्वयागत्यभोः ॥ २६० ३. कूविक्कोल्लाय् वन्दन्दों- सहस्रगाथारत्नावली । हे माणिक्य ! मम प्रिय ! त्वमसि यद्ब्रह्मेन्द्ररुद्रात्मना - मादिर्नाभिसरोजमूलमसि यत्सूरीश्वरो भ्राजसे । त्वं मे भासि किलात्मनस्तु शरणं ! न त्वां विना वेद्मयहं ! तस्मादाद्द्वय मां हरे ! मम विभो ! मामागतस्सन्नहो ! ॥ ४. उम्बरम् सम् पालेयो- आद्या सा प्रकृतिश्च रम्यतनुभिर्भाग्याभिरानन्दनी ! तत्र त्वं पुरुषः परोऽसि गगने ज्योतिश्च तत्राप्यहो ! | ब्रह्मा शङ्कर इत्युभौ त्वयि परं दृष्टौ ? सुरान् यादवान् सृष्ट्वा भाति भवान् ममापि परमो नाथोऽद्य मां त्यक्तवान् ॥t ५. पोर विट्टिट्टे- तप्तायस्तु यथा पिबेज्जलमहो ! तापस्य शान्त्यै तथा त्वामेवामृतमव्ययं किल पिबाम्यवाहमार्तोऽधुना । त्यक्त्वा मां यदि दूरतो बहिरहो ! कर्तुं च मां चिन्तयेः, प्राप्यः कश्शरणं ममास्ति च कुतः ? किंस्यान्ममेत्यप्यहम् ? | ६. एनक्कारावमुदाय् - भो भो ! श्यामलवर्ण ! पद्मनयन ! त्वं भासि बिम्बाधर- स्ते श्रीभीत्यनुरूपरूपविभवा पद्मा नु ! तस्याः प्रियः । त्वं मे भासि भृशं प्रियो ऽनवधिकं सारामृतं मे भवान् देहात्माद्यखिलाशनोऽसि ! नितरां तस्माच्च मां भोजय !! फोलमल पवैक्कु- सौन्दर्यान्वितपद्मवासभवन - श्री वल्लभो मरिप्रयो नीलाद्रिर्धृतबालचन्द्रयुगलो भास्वान् यथा त्वं तथा । दशमशतकम् । दंष्ट्रातोऽसि वराह उद्धृतधराबिम्बस्तु रम्याकृति - स्तद्रक्षं जलधेश्च मन्थनकरें किं त्वां त्यजाम्यच्युतम् ॥ ८. पेसिनि प्पोक्कुवनो- कर्मद्वन्द्वमपि स्वयं च जगतामात्मा फलं च स्वयं त्रैलोक्यं सकलं च गुल्ममखिलं संसारपाशात्मकम् । गुप्तस्त्वं किल तत्र सूक्ष्मतम एवाऽऽद्यं च बीजं भवान् मे प्राणं परमं प्रपद्य किमहं मुञ्चामि च त्वां पुनः १ ॥ ९. मुदल तनिवित्तेयो —
? त्रैलोक्यस्य निमित्तकारणमपि त्वं बीजमेवाद्वयं ! तत्राप्यत्र समग्ररूपभृदपि त्वं सर्वमूलं परम् । भुक्तिर्मुक्तिरितिद्वयस्य परमं मूलं प्रधानं च भा- स्येवं सर्वदिशासु चाव्ययममुं त्वां संश्रयेऽहं कदा ? || १०. शूल्ल्दकन् सर्वव्यापि समस्तदिक्तत- महानित्यप्रकृत्यात्मक- २६१ स्त्वं व्याप्यासि ततोऽतिशायि - विलसज्ज्योतिर्मयात्मात्मकः । ज्ञानानन्दनिधिस्ततोऽतिशयितस्त्वं ज्योतिरेवाव्ययं ! तच्चातीत्य भवं ममाभिलषितं सम्पूर्य संश्लेषभाक् ॥ ११. अवावर चूलू- सर्वापेक्षितसम्प्रदानचतुरं सर्वेश्वरं श्रीहरि त्वन्तर्यामितया चतुर्मुखहराद्यात्मानमेवाच्युतम् । आक्रन्द्य प्रहतार्तिसन्ततिरयं दिव्यं शठारिजंगा- वन्ताद्युक्तिसहस्रमत्र दशकाद्वद्धाश्च मुक्तास्स्वयम् ॥ इति श्रीक ल्किसिंह - भगवद्विरचितायां सहस्रगाथारत्नावल्यां दशमशतकं सम्पूर्णम् ॥ २६२ सहस्रगाथारत्नावली | निगमनम् । श्रीयादवाद्विनाथने वादिभीकरसूरिणा । श्रीमता कल्किसिंहेन सेयं रत्नावली कृता ॥ दिव्येयं कल्किसिंहेन श्रीशेन परमात्मना । सहस्रगाथा - रत्नावल्याख्या व्याख्या मया कृता दिव्यसूरिवरैरेव शठारि प्रमुखैरहम् । प्रेरितस्तत्कृतामेव मन्ये रत्नावलीमिमाम् ॥ तामिमां परमानन्दसन्दोह - जननीं शुभाम् । सन्धार्य हृदि सन्तुष्टास्सन्तु रत्नावली बुधाः ॥ श्रीमते शठकोपाय नमः ॥ श्रीमते कल्किसिंहाय भगवते परमात्मने नमः ॥ श्रीकल्किसिंह - भगवद्विरचिता सहस्रगाथारत्नावली सम्पूर्णा ॥ श्रीमद्वरवरमुनये नमः । श्रीवादि भीकरमहागुरवे नमः । श्रीः
शोधनपत्रिका.
पुट. पंक्ति (असाधु.) (साधु .) (i) १२ दृष्ट्वावा दृष्ट्वा (vi) १० भागवतः (viii) ५ सर्वमोक्षप्रदंच १२ ३ दुर्विवैः 35 २३ २६ बाष्पाद्रवस्त्राऽस्म्यहम् २६ शतमुख २४ १० सुपरि ३२ २० शर्व ४४ १४ हरि ४८ ११ नृसिल ५६ ११ समुद्धति भगवतः सर्वमोक्षप्रदं च । दुर्विधेः शीतानिलाघाततः शतमख मुपरि शक्र हरि नृसिंह समुद्धृति ५७ १० नश्यति नश्यति ५८ ४ मम्द मन्द ५९ ४ कैय कैर्य ६० २३ जननं मृतिश्च जननानि मृत्यु: (ii) पुट. पंक्ति (असाधु) (साधु.) ११ चित्ताति चित्तार्ति "” १५ अनिलो अनलो १९ दिव्यं दिव्ये ७८ १८ चकं चैकं ७९ १३ अल्पकलम् अल्पफलम 13 " 153 " १७ अनन्तरङ्ग २२ च्युत १०३ ६ देवं अन्तरङ्ग धृत दैवं ११४ २४ कुरका कुरुका ११७ १० हन्तं हन्त १२१ ११ मलमपि मूलमपि १३१ ३ चतुर्वक चतुर्वक्त्र ५ नायकत्वसमं " नायकत्वमसः ११ रूपतत्त्रवति ” रूपतस्त्रवति १३२ २३ कुरुनाराय् करुनाराय् १३५ १३३ १८ वृक्ष १३४ ५. हं ६ अग्रे वृक्षै he हे अग्रे 35 44 ८ वेद्म वेच १२ वीक्षितम् विक्षितुम् २१ २१ भुक्त्वा भुक्त्वा (iii) पुट. पंक्ति. (असाधु) (साधु) १४३ १६ शिथिलां शिथिला
२१ निरतां निरता १५६ 353 १४९ १८ भोः देवाः " १५ २६ कुमार १६० १८ हन्तं १६८ २ सर्वैर्यया भोदेवाः कुठार कुर्या कुर्यु हन्त सर्वैर्ययौ १७० ४ कारोऽलाभ कारालाभ "" १८ चतुमुर्ख १७ ५ उरस्स्यल "" १६ काशभावं १८० २३ नौ चतुर्मुख उरस्स्थल काराभाव तौ १८१ ४ व्यन्तुं नन्तुं "" १३ नगरोति नगरीति 34 हूदे १८ हृदे १८२ १६ प्राह्म विश्वसेदा १८३ ६ ११ वेद्म 33 प्राप्त्य विश्वसेद्वा वेद्मच " १३. "" भुक्तो भुक्त्वो २३ " तदीं तदीथं १८४ १६ सतप्तं सततंपुट. पंक्ति. (असाधु) " २१ सहस १८६ ११ घट १८७ २३ शक्रं (iv) (साधु.) सहस्र घट चक्रं १९० १८ लौ ऽसौ १९५ १२ लूम ट्रूम २०२ ४ दुर्वारा दुर्वाश 34 ११ " भुक्तिः मुक्ति: २०७ २२ चस्माक चास्माक २११ १३ मुमिः मुनिः १ २२५ १८ मणैश्च गणैश्व १ २२७ ५ मणाश्च गणाश्च १ २२८ मस्थि मस्ति २३० १५ याति यान्ति २३१ १० सपपि सपदि २६२ لله ३ नाथने नाथेन १.