श्रीः श्रीकल्किसिंह भगवद्विरचिता सहस्रगाथारत्नावळी श्रीशठारिमुनिवर्यरचितस्य द्राविड दिव्य प्रबन्धात्मकस्य तिरुवायूमोळियायिरम् इत्यस्य संस्कृतपद्यात्मक परिवृत्तिरूपा poor D श्री कान्ची - सुदर्शन मुद्राशालायां सम्मुद्रिता । बेंगळूर ( कल्याणपुरे ) वि. वि. सुञ्ञयच अण्ड्सन्स मुद्रायन्त्रे प्रकाशिता ॥ Price Rs 4 All Rights Reserved १९३० मौल्यम् रू. ४.
अवतारिका
श्रीमानहं नरहरिहरिरप्रमेयो विष्णुः कृपानिधिरिमां रचयामि दिव्याम् । थार्यां शठारिमुनिवर्य - सहस्त्रगाथा - रत्नावळीं हृदि सदा मम भक्तवर्गैः ॥ श्रीकल्किसिंहकविराडूचयामि दिव्यां रत्नावळीं शुभतमां गुणरत्नगण्याम् । विष्णोः प्रियां मम सदाऽपि रमापतेश्श्री- यद्वद्विनाथ इह भक्तहृदेकभूषाम् ॥ श्रीमान् कल्कि नृसिंहार्यः प्रतिवादिभयङ्करः । श्रीभक्तपुरनाथोsहं कुर्वे रत्नावळीमिमाम् || शठारेमुख्यतात्पर्यं वक्तुं गीर्वाणभाषया । मम कल्फिनृसिंहस्य सेयं रत्नावळी शुभा ॥ अत्र प्रतिपदार्थस्तु नैव विद्येत हि क्रमात् । आवा पोद्वाषतश्चापिः मुख्यतात्पर्यमुच्यते ॥ M अवतारिका । सत्यं दशकतात्पर्यं वक्तुं रत्नावळी कृता । वेदान्तदेशिकेनापि पूर्वमेव हि संग्रहात् ॥ सौम्यजामातृयोगीन्द्रोऽप्यतानीद्वादिकेसरी । दशकार्थप्रकाशाय द्रविडागमसङ्गतिम् ॥ शठारेः पद्यमालानां क्रमेणार्थप्रकाशनम् । क्रियते कल्कि सिंहेन मयाऽद्य परमात्मना ॥ अत्र शृङ्गारसः रस्यं भावानां हि विशेषतः प्रकाशते प्रबन्धे मे शठारिहृदयङ्गमे ॥ शटारेरान्तरं भावं वक्तुं शक्तो न हीतरः नायकोऽहं परं वेकी नायिकाया हृदन्तरम् ॥ अन्तरात्माऽस्मि लोकानां कल्किसिंहः परात्परः । सर्वलोकाश्च मे सन्तु नायिका श्रीशठारिवत् ॥ भावानामपि गाम्भीर्यं शैलीलालित्यमद्भुतम् । अत्रैव हि प्रकाशेते नान्यत्रेत्येव निश्चयः || अवताररहस्यं मे न जानन्ति विपश्चितः । दोषज्ञा एव ते प्रायो न गुणज्ञा हरेर्मम || सर्ववेदान्तसारार्थाः प्रबन्धेऽस्मिन् प्रकाशिताः । इति वेद्मि श्रियः कान्तो गीताचार्योऽद्य कल्किराट् ॥ मुक्तये सर्वलोकानां जातिलिङ्गाद्यभेदतः । निर्हेतुककृपासिन्धुबन्धुस्सर्वविधोऽस्म्यहम् ॥ षोडशस्त्रीसहस्रेशः पुरा गोपीविटोऽभवम् । अस्मि सर्वलोकानां पतिर्मोक्षप्रदो हरिः || मम श्रीकल्किसिंहस्य स्वातन्त्र्यं विद्यते हरेः । लोका निन्दन्तु वा नन्दन्त्वत्र शैलीं विलोक्य मे | सहस्रगाधारत्वावळी | अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । तथापि जगतां मोठ्यं हन्मि सत्यं वदन् हरिः || [ दिव्यप्रबन्धारम्भेऽनुसन्धेयस्तुतिपद्यावळी । ] श्रीशैलेशदायापात्रं धीभक्तयादिगुणार्णवम् । यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् || लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ यो नित्यमच्युतपदाम्बुजयुग्मरुक्म. - व्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोरामानुजस्य चरणौ शरणं प्रपद्ये ॥ माता पिता युवतयस्तनया विभूतिस्सर्वं यदेव नियमेन मदन्वयानाम् । आद्यस्य नः कुलपतेर्वकुळाभिरामं श्रीमत्तदङ्घ्रियुगळं प्रणमामि मूर्ध्ना ॥ भूतं सरश्च महदाह्वय भट्टनाथ-श्रीभक्तिसार - कुलशेखर - योगिवाहान् । भक्ताङ्घ्रिरेणु परकालयतीन्द्रमिश्रान् श्रीमत्पराङ्कुशमुनिं प्रणतोऽस्मिनित्यम् ॥ भक्तामृतं विश्वजनानुमोदनं सर्वार्थदं श्रीशठकोपवाङ्मयम् । सहस्रशाखोपनिषत्समागमं नमाम्यहं द्राविडवेदसागरम् ॥ तिरुवकुदिना डेन्नुम् - संस्मृत्य तं वळुदिनाडितिनामधेयं देशं च तत्र कुरुकानगरी च रम्याम् । भोग्यां च दिव्यसरितं स्मर मानस ! त्वं पादाम्बुजं द्रविडवेदकवेश्शठारेः ॥ मनत्तालम् वायालुम- सहस्रगाथारलाबळी | भक्तो मास्तु मनसा वचसापि नित्यं शंसन्ति येऽत्र कुरुकानगरी सुरम्याम् । नैतान् विनाऽन्यभजनं करवाणि धन्य- . स्सत्यं शठारिचरणौ शरणं सदा नः || एयून्द पेरुङ्कीर्ति- वन्दे प्रफुल्लपदपङ्कजमद्य दिव्यं रामानुजस्य महितस्य मुनेस्सुसेव्यम् । प्राप्तुं मनस्थिरमिह द्रविडागमेऽस्मिन् रम्ये शठारिसुकवेर्निरवद्यधाम्नः ॥ वान् तिहळुम शोले- उत्तुङ्गवृक्षवलये नगरे च रम्ये श्रीरङ्गभर्तुरिह दिव्ययशः प्रशंसाम् । तां द्राविड श्रुतिमयीं तनयां शठारिः प्रासूत चादिजननी यतिराट् च धात्रीं ॥ मिक्कविरै निलैयुम् – सर्वेश्वरस्य महितस्य महास्वरूपं ! जीवस्य चाव्ययमिदं सदुपायरूपम् । पूर्व च दुष्कृतमहो ! प्रतिबन्धरूपं ! मोक्षं च वक्ति निगमः कुरुकेशगीतः ॥ :0%- श्रीमते शठकोपाय नमः ।
विज्ञापनम्
श्रीः अस्य सहस्रगाथारत्नावळी - महाप्रबन्धस्य कर्तुः श्रीमतः कल्किसिंहस्य मम विज्ञापनम्. श्रीमान् कल्किर्नृसिंहार्यः प्रतिवादिभयङ्करः । विज्ञापयामि यत्किञ्चिन्महतां सन्निधौ हरिः शठारि- कलिजि न्मुखस्सपदि चोदितोऽहं हरि- मम प्रियतमैर्बुधैर्जगति सूरिवर्याह्नयेः । विरत्र्य ललितां शुभां गुणगणैश्च रत्नावळीं भुवीह विजयेऽधुना विभवरूपभाङ्काघवः म सुदर्शन - महामुद्रा - शालायां मुद्रितामिमाम् । काञ्च्यां रत्नावळीं दृष्ट्वा सन्तुष्टोऽस्मीह देवराट् ॥ १ ॥ 11 R 11 ॥ ३ ॥ श्रीभूनीळाधिनाथः कलिकुलमथनः कल्किसिंहः परात्मा साक्षाद्वैकुण्ठ-नाथो भुविविभवतनुर्यादवाद्रीश्वरोऽहम् । मुद्रायन्त्रस्थ - पत्रावळि - लिपिसरणेश्शोधने मित्रवर्यात् काञ्च्यामण्णङ्गरार्यादुपकृतिमतुलां प्राप्य तुष्टोऽस्मि विष्णुः 11 8 11 अत्र संशोधनीयानामंशानां शोधनं बुधैः । क्रियतां कृपया विष्णौ हरौ सहृदयैमयि भजन्तु सकला लोका इमां रत्नावळीं शुभाम् । शठारिवत् स्वयं मुक्तास्सन्तु भोग्या हरेर्मम →I6:0: ॥ ५ ॥ ॥ ६ ॥ il 2 11 श्रीः ग्रन्थमुद्रणकाले मुद्रितपत्र संशोधकस्य श्री कल्किसिंह - सुहृत्तमस्य प्र-भ-अण्णङ्गरार्यस्य मम विज्ञापनम् .. श्रीमान् कल्किर्नरहरिरयं मत्प्रियस्सत्कवीन्द्रः प्रख्यातोऽस्ति प्रथितविभवस्संस्कृताङ्गादिवाण्याम् | ल कणीटे च द्रविडनिगमान्तादिविद्यासु विद्वान यद्वीशः कलिजिदनघो वादिभीकृत्कुलेन्दुः शठरिपु-मुखसूक्तीरद्य गीर्वाणवाण्या सुललित तमशैल्या हृद्यपद्यावळीभिः । रचयति कलिहन्ता कल्किसिंहः कवीन्द्रो गुणगणरमणीया भाति रत्नावळीयम् काञ्च्यां महासदसि पण्डितमण्डलीनां सेयं मयैव पठिता नितरां प्रशस्ता । दिव्यावतारविभवं च सहस्रगाथा- रत्नावळी प्रकटयत्यहहास्य विष्णोः लक्षोपलक्ष- शुभ-संस्कृतपद्यमाला- कर्तु हरेर्न रहरेः परमस्य पुंसः । ॥ २ ॥ ॥ ३ ॥ गीतागुरोरियमुदारगुणैव दिव्या रत्नावळी विजयतां सकलात्म-मुक्तयै (iii) धन्योऽहं सुहृदां वरस्य नृहरे श्रीकल्किसिंहात्मनः कैर्येss नियोजितश्च कृपया पत्रादिसंशोधने । मुद्रायन्त्र - समीपगोऽत्र निवसन् काञ्च्यां किलाध्यक्षतां प्राप्तस्संस्कृत-वेद-पाठभवने ऽस्म्यण्णङ्गरार्यस्सुधीः 11 8 11 11| 9 11 प्र-भ- अण्णङ्गरार्यः (काच्यां श्रीवेद-वेदान्त-वैजयन्ती - पाठशालाध्यक्षः) श्रीः श्रीमते कोपाय नमः ॥ उपोद्धातः ॥ १. श्री शठारिमुनि माहात्म्य सङ्ग्रहः. श्री सूनीळादिनायको भगवान् वैकुण्ठनायकः परात्पर श्रीमन्नारायण- स्वावदेव प्रथमाचार्य एवं सृष्टिस्थिति लयकारणभूतोऽखिलहेयप्रत्य- नीकस्म कल कल्याणगुणाकरः करुणानिधिर्नित्यमुक्तानुभाव्योऽपि लीलाविभूत्यां समारितनानुजिघृक्षया स्वयमसकृदवतीर्य गीताचार्यादिरूपेण परमार्थोप- देशान् प्रकाशयन क्रमेण दिव्य सूविर्यानप्यवतार्य कलियुगेऽत्र चतुस्सहस्रपद्या- स्मक द्राविडदिव्यप्रबन्धानपि तत्तन्मुखेन प्रकाशयामास । तेषु च दिव्य- मूरिषु महानुभावः कश्चिदिह शठारिमुनिरूपेणावतीर्णो वेदचतुष्टयसाररूपं दिव्य-प्रबन्ध-चतुष्टयं प्राचीकशत्। स एव शठारिरद्य देवालयादिषु स्वम हिमभूम्ना पेण पूज्यत श्रीशठकोपनाम्ना सुवर्णादिनिर्मितगोपुर विशेषाकारेण श्रीमन्नारायण चरणारविन्द युगळात्मकस्सन्नचकहस्तगो गोष्ठीषु सकलभक्त- कसूचि विराजतंतमाम् ॥ अस्य च महानुभावस्य स्मारकमिदं पद्यं ( तनियन्) स्म्प्रदायानुसारेण भक्तैर्नित्यनुसन्धेयम् - (v) " माता पिता युवतयस्तनया विभूति- सर्वं यदेव नियमेन मदन्वयानाम् । आद्यस्य नः कुलपतेर्वकुळाभिरामं श्रीमत्तदङ्घियुगळं प्रणमामि मूर्ध्ना ॥ 11 *
- अस्मिन् पये - आद्यः कुलपतिः प्रथमाचार्यः श्रीमन्नारायण एव; तस्याङ्घ्रियुगळमेव श्रीशठार्याख्यं वकुळा मिरामं “श्रीमन्तौ हरिचरणौ’- इत्युक्तरीत्या श्रीविशिष्टं चेति सुव्यक्तम् । इदमेव व्याख्यानं सम्प्रदायानु- सारेण स्वरसतमम् । श्रीयादवाद्रौ श्रीमन्नारायणसम्पत्कुमारयोश्चरणारविन्द’ युगळमध्ये (घटककृत्यविलम्ब कलानिवारणार्थ ) श्रीसान्निध्यं चानेन सङ्गततमं प्रकाशते । तदिदं च परमं रहस्यं श्रीयादवगिरौं समवतीर्णेन श्रीकल्किसिंहेन भग- वता मयैवाद्य विशदीकृतम् ॥ इतः पूर्वमन्ययैव व्याख्यातमिदं शठारि- स्मारकं पद्यम्; तत्र च व्याख्याने कुलपतिश्शठारिरिति तस्याङ्घ्रियुगलमेव वकु- काभिरामं श्रीविशिष्टं चेति प्रतिपादितम् । वकुळधवळमालावक्षसं किल वदन्ति श्रीशठारिं महान्तः ॥ T इदं च पद्यं श्रीयामुनार्यविरचितं, तत्कृते स्तोत्ररत्ने (आळवन्दार्- स्तोत्रमिति सुप्रसिद्धे) प्रकाशततमाम् । अस्य पद्यस्य तात्पर्य मयोक्तमेव स्वरस- तम मिति “यन्मूर्ध्नि मे श्रुतिशिरस्सु च भाति” इत्याद्युत्तर श्लोकानुसन्धान- तोऽपि सुव्यक्तं भवति || अरविन्द विलोचनस्य पादारविन्दात्मक श्रीशठारि- रेव हि देवालयेषु भक्तमूर्ध्नि विराजते, श्रुतिशिरस्सु च द्वयमन्त्रादिवाच्यः प्रतिभाति ॥ श्रीशठारि - चरित्र सारामृतम्- श्रीमान् शठारिनामा मुनिवर्योऽयं ताम्रपर्णी नदीतीरे (तिन्नवेल्लि - जिल्ला न्तर्गते) श्रीकुरुकापुराख्ये (तिरुक्कुरुकुर - आळ्वार तिरुनकरि) दिव्यक्षेत्रे तिरु- (vi) वळुनाडाह्वये कारियार इति द्राविडनामधेयतः प्रसिद्धस्य महात्मनः पुत्र- त्वेन चतुर्थवर्णे कलियुगारम्भात् ४३ त्रिचत्वारिंशे दिने प्रमादिवत्सरे वृषभ- मासे पूर्णिमातिथौ शुक्रवासरे विशाखा नक्षत्रे कर्कटलग्ने विष्वक्सेनांशभूत स्समवतीर्ण इति प्राचीन सम्प्रदायसिद्धोऽयमर्थः ॥ कारियार - महाशयेन मलैयाळदेशीये तिरुवणुपरिशारम् - इति प्रसिद्धे क्षेत्रे निवसतः तिरुत्राळ्मार्बन- नाम्नः कन्यका उडैयनङ्गैयार्-नाम्नी परिणीता । सा च क्रमेण तिरुक्कुरुङ्गुड- क्षेत्राधिपस्य भगवतः प्रसादाद्वर्भवती प्रासूत तनयमेनं शठारि - नामानम् ॥ आजन्मतश्च शिशुरयं निमीलिताक्ष एवं स्तन्यपानरहितोऽपि सम्पुष्ट एव दृष्ट- स्सकललोक विस्मयकरः स्वयं मौनी च योगध्यानैकनिरतः । द्वादशे दिने तत्र नगरे भागवतः पोलिन्दु निनू पिरान - स्वामिनो देवालये मारन् - इति नामकरणतोऽ नुगृहीतस्सन् तत्रैव चिचा-वृक्षस्याधस्तले डोलायां लालितोऽभूदयं बालकः । क्रमेण च पद्मासने समुपविष्टो योगध्यान- निरतोऽयं ज्ञानमुद्रां स्वदक्षिणहस्ततः प्रदर्शयन् मौनी निमीलिताक्ष एव तत्र षोडशवत्सरानवात्सीत् । एवं च माता- पित्रादयोऽतीव चिन्ताक्रान्तास्तमिमं बालकमेवानवरतं पश्यन्ति स्म । अत्रा- न्तरे मधुरकविर्नाम कश्चिन्महानुभाव उत्तरदेशयात्रां कुर्वन् दक्षिणदिशि कञ्चिद्दिव्यतेजोविशेषं निशि भास्वरं पश्यन् क्रमेण निशास्त्रेव तेजोऽनुसारी यात्रां चरन्नत्रागत्य कुरुकापुरे तेजःपुञ्जमेन शठारिमवलोक्य मौनिनं ज्ञान- द्रान्वितं योगनिष्ठमत्यन्तविस्मितस्सन् प्रबोध्य चैनं क्रमेण भक्तिप्रकर्षयुक्त- रशरणं प्रपद्य तदनुग्रहादेव तदुपदिष्टं प्रबन्धचतुष्टयं द्राविडपद्यात्मकमुपलभ्य जगति प्रकाशयामास ॥ (vii) (१) तिरुविरुत्तम् — (ऋग्वेदसारः) (२) तिरुवा शिरियम – (यजुर्वेदसारः) ते च प्रबन्धाश्चत्वारः क्रमेणामी – अस्मिन् प्रबन्धे प्रकृतिसम्बन्ध - नाशापेक्षा वर्णिता ॥ अत्र- श्रीभगवतस्सौन्दर्याद्यनुभवः प्रतिपादितः ॥ पद्यसङ्ख्या १०० (३) पेरिय-तिवन्दादि - (अथर्ववेदसारः) ८७ अत्र - उत्कटप्रीतिरूपो भक्तिप्रकर्षः प्रकाशितः ॥ (४) तिरुवाय्मोळि - (सामवेदसारः ) ११०२ अस्मिन् चरमे प्रबन्धे परभक्ति - परज्ञान- परमभक्ति- पूर्विका मोक्षरूप- निरतिशयानन्द-फलप्राप्तिम्सुविशदं वर्णिता ॥ पद्यसङ्ख्या. आहत्य १२९६ २. सहस्र गाथात्मक - तिरुत्रायमोळि प्रबन्धस्य विभागक्रमः ॥ सहस्रगाथात्मकोऽयं द्राविड दिव्य प्रबन्धो ऽन्तादि पद्यरूपः श्रीशठारि- मुनिवर्यैश्शतकक्रमेण दशया विभक्तोऽस्ति । प्रत्येकमेकैकमपि शतकं दशक- क्रमेण च दशधा विभक्तमस्ति । एकैकस्मिन्नपि दशके दश पद्यानि मुख्य- तात्पर्यपराणि, अन्ते च श्रीशठारिनामाङ्कितं दशकपठन फलश्रुतिविधायकमेकं पद्यमित्येकादश पद्यानि सन्ति । एवं च - एकैकस्मिन्नपिशतके दशोत्तरैकशतपद्यानि सन्ति । आहत्य च प्रबन्धेऽस्मिन् एकशताधिकमेकसहस्रं पद्यानां सङ्खयेति प्रायेण सिद्धं भवति । वस्तुतस्तु १९०२ पद्यानि सन्ति ॥(viii) एकैकमपि दशकमेकविषयकमिति निर्णीतम् । एवमेवैकैकमपि शतक - मेकविषयकमिति ग्रन्थकर्तुरभिप्रायेणैव तत्र तत्र सुव्यक्तम् ॥ ३. अस्य दिव्य प्रबन्धस्य वैभवम् ॥ अस्य च दिव्यप्रबन्धस्य वैभवमन्या दृशं सकललोकोज्जीवनकरं सर्वचे- तनपापहरं सर्वमोक्षप्रदं च वर्णाश्रम-जातिलिङ्गादिभेदं विनैव सर्वेष्वपि चेत- नेषु भक्तियुकेत्यन्तकरुणानिधि श्रीभूनादिनायको भगवानखिलले यं प्रत्य नीकस्सकलकल्याणगुणाकरस्सदेिवाधिदेवः परात्परो वैकुण्टनायकः पर- व्यूह - विभवान्तर्याम्यचवतारादि - माहात्म्यपरिपूर्णो विश्वरूप-विराडूप-विभुस्व- रूपादिसकलविध स्वरूपरूपगुणविभूत्या दिविशिष्टः स्वयमेव सृष्टि-स्थिति लय- कारणभूतो लीलाविभूत्या मसकृदवतीय सर्वमोक्षदीक्षावरश्चेत नवशीकरणत- सर्वभोगरी गीताचार्यः प्रथमाचार्य एव विश्वस्य पतिरिति निश्चित्य श्री- शठारिमुनिरयं श्रीकृष्ण-निर्याण समनन्तरमेव जातः स्वयं च गोपीजनानुकरणं कर्तुमुद्युक्तः पुरुषोत्तमं श्रीमन्नारायणमेव स्त्रीप्रायाणां सर्वचेतनानामपि नित्य- यौवनशालिनमेकं नायकं मन्वानः स्वयमपि तस्य प्रियतम - नायिकात्वं स्वस्मि- नारोप्य पक्षिगण - मधुकर- मेघादिद्वारतस्तमेव नायकं भगवन्तं प्रति विरहसन्तप्त चितस्य स्वात्मनस्सन्देशान् प्रेषयन्, क्रमेण तत्र तत्र दिव्यस्थलेषु प्रत्यक्षमच रूपेणावतो भगवतः कैङ्कर्यरुचिमात्मीयां प्रकटयन, विभवावतारेषु भगवतोऽति मानुषचेष्टितान्यपि तानि तानि स्मारंस्मारमतीव मोहितश्च सुचिरं क्रमेण च पुनः प्रत्रोधमुपलभ्य भगवद्गुणानुभवामृत सेवनमेव धारक पोषक भोग्यत्वेन प्रति पाद्य तत्र तत्र भगवत्सम्भाषणेष्वेव प्रवृत्त साक्षादेव सम्बोध्य तं स्वस्य दुर्दशां तस्मै निवेद्य सुविशदं परमोत्कृष्ट - भकिप्रकर्ष - परिपूर्णस्तमेव शरणं प्रपद्य क्रमेण स्वस्य नायिकादशायामेव तदीयकृपापरवाहस्य पात्रभूतस्सर्वावयवसंश्लेषमत्रैव (ix) सम्प्राप्य तत्तायुज्य निरतिशयानन्दानुमान के मोज्यादि- मार्गतः परमे पदे श्रीवैकुण्ठनगरे प्राप्तायं मुनि इति प्रबन्धेऽमित् तेनैव स्वानुभवात्मकोसको दान्तसारामृतं प्रतिपादितं विस्तरेणेति विदान्तु धीमन्तः ॥ अत्यदिव्यप्रत्यय वैमन्याहरी मन्त्राः पूर्वाचार्यैरस्य व्याख्या- नानि सुबहूनि कृतानि सन्ति । तत्र च मुद्रितानि सुप्रख्यातानि पञ्च व्याख्यानानि (1) ६००० (?) ९,००० (३) १२,००० (4) २४,००० (5) ३६,००० ग्रन्यपरिमितानि विद्यन्ते स्वरसतमानि ॥ ४. अत्रत्य - शतकार्थ- सङ्ग्रहः ॥ (श्रीवादिकेसरिरीत्या ) १. प्रथम शतके - रक्षकत्वम्- (उत्तरवीधि कृष्णसूरिरीत्या ) भगवत्कैर्यमेव पुरुषार्थः ॥ २. द्वितीयशन के प्रोग्यत्वम्- तदेकभोग्यत्वमेव पुरुषार्थः ॥ ३. तृतीयशतके - तदेकानुमत्रः- अर्चावतारविषये वाचिकैर्यम् ॥ ४. चतुर्थशतके - तदेकप्रियता- भगवच्चरणयुगळमेव शरणम् ॥ ५. पञ्चमशतके - तस्य निरपायोपायत्वम् स एव सिद्धोपाय इति प्रतिपादनम् ॥ ६. पके - आयरन कारः- सोरायची कारकः । (लक्ष्नी पुरुषकारपूर्वकं शरणवरणम्) | ७. सप्तमशन के विरोधित्वावर्णनम् - बाह्यसंश्लेषापेक्षा ॥ ८. अधमरान के विरोधिनिवृत्तिप्रकार:- अहङ्कार-ममका रत्यागः ॥ ९. नवमशतके - फलस्वरूपवर्णनम् - भगवतः - सौशील्या दिगुणानुभवः ॥ १०. दशमशतके - फलप्राप्तिः- 2 अर्चिरादिनाद्वारा मोक्षप्राप्तिः || (K) ( अत्र मम कारिकाः ॥ ) रक्षकत्वं च भोग्यत्वं तदेकानुभवोऽनिशम् । तदेकप्रियता चापि निरपायाऽप्युपायता || उपायवरणे रीतिस्वरूपं च विरोधिनाम् । तन्निवृत्तिप्रकारश्च पलं तत्प्राप्तिरित्यपि ॥ शतकानान्तु तात्पर्य वादिकेसरिकीर्तितम् || प्रथमे शतके भाति कैयस्य पुमर्थता । तदेकभोग्यतायास्तु द्वितीये पुरुषार्थता ॥ १ ॥ तृतीये ऽवतारेषु कै वाचिकं स्मृतम् । चतुर्थ भगवत्पादद्वयं हि शरणं स्मृतम् ॥ २ ॥ पञ्चमे शतके विष्णोस्सिद्धोपायत्वमुच्यते । षष्ठे तु स्वीकृतिस्तस्य लक्ष्मीपुरुषकारतः ॥ ३ ॥ सप्तमे बाह्यसंश्लेषकाङ्का श्रीपरमात्मना । अष्टमे ऽहंममेत्यस्य द्वयस्य त्याग उच्यते 11 8 11 नवमे श्रीशकल्याणगुणानुभव उच्यते । अर्चिरादिगतेर्मोक्षप्राप्तिश्च दश स्मृता एवमुत्तरवीधि-श्रीकृष्णसूरीन्द्रकीर्तितम् । सहस्रगाथा तात्पर्य शतकानामनुक्रमात् ॥ ५ ॥ ॥ ६ ॥ (xi) ( शतकानां योजनक्रमः) चतुष्के चादिमे भाति याथात्म्यं सिद्धरूपिणः । परावरात्मनो विष्णोः श्रीपतेः परमात्मनः ॥ १ ॥ चतुष्के चान्तिमे भाति साध्यं चानिष्टवारणम् । मध्यद्वये तु वरण चोपायस्यानपायिनः ॥ २ ॥ ( अर्थ पञ्चकरीत्या शतकानां योजनम् II) प्राप्यस्वरूपमेवोक्तं प्रथमे शतकद्वये । प्राप्तस्वरूपमेत्रोक्तं द्वितीये शतकद्वये ॥ १ ॥ विरोधिनां निवृत्तिश्च चतुर्थे शतकद्वये ॥ २ ॥ उपायस्वीकृतिश्वोक्ता तृतीये शतकद्वये । प्राप्तेश्च फलसिद्धिस्तु पञ्चमे शतकद्वये । अर्थपञ्चकरीत्यैव शतकानां हि योजनम् ( अत्र सङ्ग्रहकारिका ॥) परस्वरूपं प्रथमद्वयेऽस्ति द्वये द्वितीये किल जीवकृत्यम् । द्वये तृतीये सदुपायचिन्ता विरोधि तुयें ! चरमे च सिद्धिः ॥ एवं श्रीकल्कि सिंहेन रचिता परमात्मना । सहस्रगाथातात्पर्यसाराणां कारिकावळी ॥ 11 3 11 (xii) ५. अस्मिन् प्रबन्धे सङ्कीर्तिता दिव्यदेशाः ॥ (I) चोळमण्डले - (पच ) (1) श्रीरङ्गम्- शतकम्. दशकम् पद्यसंख्या. ७ २ (2) तिरुप्पेर् - ( = श्रीनामपुरी) १ . ८ (3) तिरुक्कुडन्दै- (= श्रीकुम्भपुरी) (4) तिरुविण्णकर्- (श्री दिव्यपुरी) ६ ३ (5) तिरुक्कण्णपुरम् - (श्रीकण्वपुरम् ) ९ (श्रीकृष्ण पुरंवा) १ (II) पाण्डयमण्डले - ( द्वादश) (1) तिरुमालिरुंशोलैमलै (श्रीवनगिरि) २ १० (2) तिरुमोहूर् (श्रीमोहपुरी) १०-७ १ (3) तिरुक्कुरुकूर्- (= श्रीकुरुकापुरम् ) ४ १० (4) तोलैविल्लिमङ्गलम् - (- श्रीवरधन्विमङ्गलपुरम्) (5) शिरीवरमङ्गल - नकर वानमा मलै ( = तोताद्रि) श्री वर मङ्गलपुरम् ॥ (6) (तिरुप्पुळिङ्गुडि (= श्रीपुळिङ्गुडि) } ५ (xiii) ( 7 ) तिरुप्पेरै ( = श्रीबेरपुरी) (8) श्रीवैकुन्दम् ( = श्रीवैकुण्ठपुरम् ) ९ (१) वरगुणमङ्गै - ( वरगुणश्रीपुरी) ( 10 ) तिरुक्कुळन्दै (11) तिरुक्कुरुङ्गुडि- १० (= श्रीकुरङ्गनगरी) (12) तिरुक्कोळूर् (III) मलैयाळदेशे - ( द्वादश) (1) तिरुवनन्तपुरम् - (= अनन्तशयनम्) (2) तिरुवणपरिशारम् (3) तिरुक्काळकरै (4) तिरुमूळिकळम् - (5) तिरुप्पुलियूर्-( कुट्टनाडु) (=श्रीमद्व्याघ्रपुरम्) (6) तिरुच्चेङ्कनूर } (7) तिरु-नावायू (8) तिरुवल्लवाळू (= श्रीसंवृद्धिपुरम् ) ५ (१) तिरुवण्वण्डूर ( = श्री मधुकृत्पुरम् ) ६ م १० < 6 ved. २ ४ २ 10 ४ ( 10 ) तिरुवाट्टारु (xiv) १० ( 11 ) तिरुक्कंडित्तानम् - ( = श्रीकटिस्थानम्) } १० ( 12 ) तिरुवा रक्ळैि- (= श्रीनदीमातृकपुरम्) (IV) उत्तरदेशे - ( पञ्च ) (1) तिरुवेङ्गडम (= श्रीवेङ्कटाद्रिः) (2) तिरुवयोत्ति - ( = अयोध्या) (3) तुवरै- (= द्वारका) (4) वडमधुरै- (=वृन्दावनम्) (5) तिरुप्पार्कडलू ( = क्षीराब्धिः ) (V) परमपदे – (एकं क्षेत्रम् ) } तिरुनाडु - श्रीवैकुण्ठपुरम mr ki g १० ४ ५ ३ سوری ५ ୧ no १ ३-१० अनेकत्र अनेकत्र विशेषतः १० (९-१० ) आहत्य - अत्र सङ्कीर्तिता दिव्यदेशाः पञ्चत्रिंशत् ॥ (३५)
- इति केचित् ॥ (XV)
- वयन्तु श्रीयादवादिमष्टोत्तरशतस्थानसारमप्यत्राङ्गीकृत्य षटत्रिंशदिति प्रतिष्ठापयामः ॥ ६. एतत्प्रबन्धपठनात्सर्वश्रेयः परम्पराऽभिवृद्धिः ॥ (i) शठारिमुनिवर्य - सद्रविडसूक्ति-साहस्रकं तनोति जगतां हितं परममेव सत्यं शुभम् । शृणोति पठतीह यसपदि भक्तियुक्तो जनो भजे भुवि मुक्तिमित्यपि च सत्यमेतद्वचः ॥ (ii) गावासहस्रपठनादखिलात्मनां च श्रेयोऽभिवृद्धिरतुलाऽन्यमिता ध्रुवं स्यात् । अत्राप्यमुत्र परमार्थ- हरिप्रसादात् सिद्धिः करे भवति भक्तिजुषां सुखाय ॥
- अत्रायं विशेषः —— श्रीयादयादि - ( मेलुकोटे ) तिरुनारायणपुरं श्री शठारिमुनिसङ्कीर्तितं वा ? न वा ? इति संशये के चिद्वदन्ति नेति; पुराण- प्रतिपादितमिदं क्षेत्रमित्यपि ते वदन्ति । अन्ये तु - श्रीशठारिहृदयविदा- मग्रगण्यः श्रीभाष्यकारो रामानुजाये एव निर्णीय “ओरुनायकमाय” - इति दशकं (चतुर्थशतके प्रथम दशकं ) तिरुनारायणपुरविषयकमिति स्थिरीकृत्य तत्र समर्पितवानिति - निस्संशया वदन्ति । अत्र द्वितीयः पक्ष एव सत्सम्प्रदाय- सिद्धः, श्रीशठारिहृदयङ्गम इति च वयं श्रीभाष्यकारानुयायिनः ॥ (xvi) श्रीशठारिमुनीन्द्रादि सूरिवर्यैः प्रचोदितः । तैरेव रचितां मन्ये कृतिं रत्नावळीमिमाम् ॥ कल्याणपुर - (बेङ्गळूर) मलेघर श्रीकृष्णसन्निधि-निवासी ॥ श्रीकल्किः ॥ प्र-भ-तोण्डनूर नरसिंहाचार्यः ॥ श्रीमान् विभवावतारः श्रीयादवाद्रौ कृतावतारः ॥ * प्रकाशित। चेयं - रत्नावळी स्वस्तिश्री प्रमोदसंवत्सर - चैत्र शु ४ गुरुवासरे मीन - कृत्तिकानक्षत्रे श्री कल्किसिंहावतार - शुभदिने ||
- अत्र विश्वासरहिताः परिशीलयन्तु सम्यगेव श्रीशठारिरचिंत “पोलिक – पोलिक-पोलिक’ - इति दशकं ( पञ्चमशतके - द्वितीयं दशकं ) श्रीविष्णुपुराण - (IV. 24 ) - श्री भागवत (XII 2. ) - प्रमुख - प्रमाणानुगुणं; “लौ पत्रान्ते विष्णुस्त्यस्यति मेदिनीम्" इति पौराणिकं प्रसिद्धं वचनं च प्रमाणानीतराणि च सुबहून्यस्मिन्नवतारविषये श्री कल्किसिंहप्रकाशि- तानि ॥ श्रीकल्किसिंहजातकस्याप्यन्यादृशं वैभवं विदन्ति दैवज्ञवर्याः ॥