रामदेशिकः

श्रीर् अस्तु।
श्रीनिवास-परब्रह्मणे नमः ।
श्रीगोदा-देवी-विरचित-तिरुप्पावै-पद्यानां संस्कृत-श्लोकाः।

अवतारिका

वैकुण्ठे रमया साकं
कदाचिज् जगतीपतिः ।
संसार-सागरे मग्नान्
जनान् स्मृत्वा व्यचिन्तयत् ॥ १॥

अहो मोह-वशाद् एते
सागरान्तर् निमज्जिताः ।
यया कयाऽपि विधयाप्य्
उद्धरिष्यामि तान् ध्रुवम् ॥ २॥

एवं सञ्चिन्त्य भगवान्
वैष्णवाग्रेसरान् बहून् ।
ससर्ज नौ-समानांस् तान्
आल्वार्-शब्दाभिधान् गुरून् ॥ ३॥

एतेष्व् अन्यतमः सत्त्व-
शीलाद्यैस्-समलङ्कृतः ।
विष्णुचित्ताभिधो+++(=पॆरियाळ्वार्)+++ विष्णु-
कुलदीप इवोत्थितः ॥ ४॥

आसीद् भगवतो धन्वि-
पुरेशस्य
+++(→श्रीविल्लिपुत्तूर्-स्वामिनः)+++ पदाम्बुजे ।
कुर्वन् हि तुलसी-पत्र-
मञ्जर्-अयाद्यैः समर्चनाम् ॥ ५॥

तुलसी-भूमि-खनन-
वेलायां पेटिकागता ।
एकदा बालिका लब्धा
विष्णु-भक्त्त-शिखामणेः ॥ ६॥

दिने दिने स्वच्छ-पक्ष-
कलेव शशिनः शुभा ।
ववृधे यौवनं चापि
तस्याः प्रादुर् अभूद् वयः ॥ ७॥

सर्वदा भगवन्तं तं
रङ्गनाथाह्वयं प्रभुम्
स्वस्य भर्तारम् आचिन्त्य
तद्-व्यग्रा समभूत् सदा ॥ ८॥

अनावृष्टिर् अभूद् वृन्दा-
वने कृष्णापचारतः ।
पूर्वम् एतत् समालोच्य
कर्तुं कात्यायनी-व्रतम् ॥ ९॥

ऐहन्त हन्त ता गोप्यः
साध्यं त्रिंशद् दिनैः शुभम् ।
प्रार्थयन्ते स्म तं कृष्णं
व्रतोपकरणं प्रति ॥ १०॥

अङ्गीकृत्य तदीयां तां
प्रार्थनां सफलां व्यधात्
कृष्णः कमल-पत्राक्षो
भक्तानाम् अभयप्रदः ॥ ११॥

ततस् ताः सङ्गताः स्वासु
नियमं पर्यकल्पयन् ।
या पूर्वं प्रातर् उत्तिष्ठेत्
प्रबोधयतु सापराः ॥ १२॥

इत्थं विधाय नियमं
तथैव प्रातर् उत्थिताः ।
यमुनायां सुखं स्नात्वा
चक्रिरे व्रतम् उत्तमम् ॥ १३॥

पूर्णिमायां मार्गशीर्ष-मासि
पुण्यदिने शुभे ।
आख्यायिकाम् इमां कृत्स्नां
स्मरन्ती मनसा सती ॥ १४॥

गोपिकाभिः कृतं सर्वं
कार्यजातं त्व् अमन्यत
स्वेनैव क्रियमाणं सा
गोदा सर्वाङ्ग-सुन्दरी ॥ १५॥

मत्वा तथैव सा गोदा
प्रोवाचेमां कथां स्मृताम् ।
त्रिंशता रस-पूर्णाभिः
दिव्यैर् द्रमिडसूक्तिभिः ॥ १६॥

अवसानम्

सम्प्रदाय-विदाम् अत्र
वक्तव्यं बहु शिष्यते ।
विशिष्टभाव-विस्पष्ट-
ज्ञानहेतुर् इयं कृतिः ॥

श्रीवीरराघवार्याणां
उत्तमूर्-चक्रवर्तिनाम् ।
सर्वशास्त्र-प्रवीणानाम्
अन्तेवासी ह्ययं जनः ॥

वरदार्य-गुरोः सूनुः
वात्स्यः श्रीरामदेशिकः ।
व्यतानीत् श्लोकरूपेण
गोदादेव्याः कृतिं शुभाम् ॥

श्रीगोदादेव्यै नमः ।