०८

अथ षष्ठांशे अष्टमोध्यायः

श्रीपराशर उवाच

इत्येष कथितःसम्यक् तृतीयः प्रतिसंचरः ।

आत्यन्तिको विमुक्तिर्या लयो ब्रह्मणि शाश्वते ॥ १ ॥

सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।

वंशानुचरितं चैव भवतो गदितं मया ॥ २ ॥

पुराणं वैष्णवं चैतत्सर्वकिल्बिषनाशनम् ।

विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥ ३ ॥

इत्येष इति ॥ या विमुक्तिः, एषः ब्रह्मण्यात्यन्तिको लयस्तृतीयः प्रतिसञ्चर इत्थं कथितः ॥ १-६ ॥

तुभ्यं यथावन्मैत्रेय प्रोक्तं शुश्रुषवेऽव्ययम् ।

यदन्यदपि वक्तव्यं तत्पृच्छाद्य वदामि ते ॥ ४ ॥

मैत्रेय उवाच

भगवन्कथितं सर्वं यत्पृष्टोऽसि मया मुने ।

श्रुतं चैतन्मया भक्त्या नान्यत्प्रष्टव्यमस्ति मे ॥ ५ ॥

विच्छिन्नाःसर्वसंदेहा वैमल्यं मनसः कृतम् ।

त्वत्प्रसादान्मया ज्ञाता उत्पत्तिस्थितिसंक्षयाः ॥ ६ ॥

ज्ञातश्च त्रिविधो राशिः शक्तिश्च त्रिविधा गुरो ।

विज्ञाता सा च कार्त्स्न्येन त्रिविधा भावभावना ॥ ७ ॥

ज्ञात इति ॥ त्रिविधो राशिः सृष्टिपालनप्रलयहेतवो ब्रह्मदक्षादिः, विष्णुमन्वादिः, रुद्रकालान्त-कादिरिति त्रयो राशयः । चतुर्विध इति पाठे भगवता सह पुंप्रधानव्यक्त -कालाख्या हि विष्णुशक्तिः, परेत्याद्युक्ता त्रिविधा शक्तिः ॥ ४-७ ॥

त्वत्प्रसादान्मया ज्ञातं ज्ञेयमन्यैरलं द्विज ।

यदेतदखिलं विष्णोर्जगन्न व्यतिरिच्यते ॥ ८ ॥

कृतार्थोऽहमसंदेहस्त्वत्प्रसादान्महामुने ।

वर्णधर्मादयो धर्मा विदिता यदशेषतः ॥ ९ ॥

प्रवृत्तं च निवृत्तं च ज्ञानं कर्म मयाऽखिलम् ।

प्रसीद विप्रप्रवर नान्यत्प्रष्टव्यमस्ति मे ॥ १० ॥

यदस्य कथनायासैर्योऽर्जितोऽसि मया गुरो ।

तत्क्षम्यतां विशेषोस्ति न सतां पुत्रशिष्ययोः ॥ ११ ॥

त्वत्प्रसादादिति ॥ विष्णोर्न व्यतिरिच्यते तदात्मकत्वेन । पृथक्सिद्ध्यनर्हं ज्ञातमिति शेषः ॥ ८-११ ॥

श्रीपराशर उवाच

एतत्ते यन्मयाऽऽख्यातं पुराणं वेदसंमितम् ।

श्रुतेऽस्मिन्सर्वदोषोत्थः पापराशिः प्रणश्यति ॥ १२ ॥

एतदिति ॥ दोषोत्यः– न केवलं बुद्धिकृतः, रागादिकृतोऽपि ॥ १२ ॥

सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।

वंशानुचरितं कृत्स्नं मयाऽत्र तव कीर्तितम् ॥ १३ ॥

अत्र देवास्तथा दैत्या गन्धर्वोरगराक्षसाः ।

यक्षविद्याधराःसिद्धाः कथ्यन्तेऽप्सरसस्तथा ॥ १४ ॥

मुनयो भावितात्मानः कथ्यन्ते तपसाऽन्विताः ।

चातुर्वण्यं तथा पुंसा विशिष्टचरितानि च ॥ १५ ॥

पुण्याः प्रदेशा मेदिन्याः पुण्या नद्योऽथ सागराः ।

पर्वताश्च महापुण्याश्चरितानि च धीमताम् ॥ १६ ॥

वर्णधर्मादयो धर्मा वेदशास्त्राणि कृत्स्नशः ।

येषां संस्मरमात्सद्यःसर्वपापैः प्रमुच्यते ॥ १७ ॥

उत्पत्तिस्थितिनाशानां हेतुर्यो जगतोऽव्ययः ।

स सर्वभूतःसर्वात्मा कथ्यते भगवान्हरिः ॥ १८ ॥

अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।

पुमान्विमुच्यते सद्यःसिंहत्रस्तैर्मृगैरिव ॥ १९ ॥

यन्नामकीर्तनं भक्त्या विलायनमनुत्तमम् ।

मैत्रेयासेषपापानां धातूनामिव पावकः ॥ २० ॥

कलिकल्मषमत्युग्रं नरकार्त्तिप्रदं नृणाम् ।

प्रयाति विलयं सद्यःसकृद्यत्र च संस्मृते ॥ २१ ॥

हिरण्यगर्भदेवेन्द्ररुद्रादित्याश्विवायुभिः ।

पावकैर्वसुभिः साध्यैर्विश्वेदेवादिभिः सुरैः ॥ २२ ॥

यक्षरक्षोरगैः सिद्धैर्दैत्यगन्धर्वदानवैः ।

अप्सरोभिस्तथा तारा नक्षत्रैः सकलैर्ग्रहैः ॥ २३ ॥

सप्तर्षिभिस्तथा धिष्ण्यैर्धिष्ण्याधिपतिभिस्तथा ।

ब्रह्मणाद्यैर्मनुष्यैश्च तथैव पशुभिर्मृगैः ॥ २४ ॥

सरीसृपैर्विहङ्गैश्च पलाशाद्यैर्महीरुहैः ।

वनाग्निसागरसरित्पातालैः ससुराग्निभिः ॥ २५ ॥

शब्दादिभिश्च सहितं ब्रह्माण्डमखिलं द्विज ।

मेरोरिवाणुर्यस्यैतद्यन्मयं च द्विजोत्तम ॥ २६ ॥

स सर्वः सर्ववित्सर्वस्वरूपो रूपवर्जितः ।

भगवान्कीर्तितो विष्णुरत्र पापप्रणाशनः ॥ २७ ॥

यदश्वमेधावभृथे स्नातः प्राप्नोति वै फलम् ।

मानवस्तदवाप्नोति श्रुत्वैतन्मुनिसत्तम ॥ २८ ॥

प्रयागे पुष्करेचैव कुरुक्षेत्रे तथारऽर्णवे ।

कृतोपवासः प्राप्नोति तदस्य श्रवणान्नरः ॥ २९ ॥

यदग्निहोत्रे सुहुते वर्षेणाप्नोति मानवः ।

महापुण्यफलं विप्र तदस्य श्रवणात्सकृत् ॥ ३० ॥

यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले ।

मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ॥ ३१ ॥

तदाप्नोत्यखिलं सम्यगध्यायं यः शृणोति वै ।

पुराणस्यास्य विप्रर्षे केशवार्पितमानसः ॥ ३२ ॥

यमुनासलिल स्नातः पुरुषो मुनिसत्तम ।

ज्येष्ठामूले सिते पक्षे द्वादश्यां समुपोषितः ॥ ३३ ॥

समभ्यर्च्याच्युतं सम्यङ्मथुरायां समाहितः ।

अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥ ३४ ॥

आलोक्यर्द्धिमथाऽन्येषामुन्नीतानां स्ववंशजैः ।

एतत्किलोचुरप्येषां पितरः सपितामहाः ॥ ३५ ॥

कच्चिदस्मत्कुले जातः कालिन्दीसलिलाप्लुतः ।

अर्चयिष्यति गोविन्दं मथुरायामुपोषितः ॥ ३६ ॥

वैशिष्ट्यप्रदर्शनाय कार्येन पुराणाङ्गान्युक्तानीति ज्ञापनार्थं पुनस्तान्यन्वाह- सर्गश्चेति ॥ १३-३६ ॥

ज्येष्ठामूले सिते पक्षे केनैवं वयमप्युत ।

परामृद्धिमवाप्स्यामस्तारिताःस्वकुलोद्भवैः ॥ ३७ ॥

ज्येष्ठामूले सिते पक्षे समभ्यर्च्य जनार्दनम् ।

धन्यानां कुलजः पिण्डान्यमुनायां प्रदास्यति ॥ ३८ ॥

तस्मिन्काले समभ्यर्च्य तत्र कृष्णं समाहितः ।

दत्त्वा पिण्डं पितृभ्यश्च यमुनासलिलाप्लुतः ॥ ३९ ॥

यदाप्नोति नरः पुण्यं तारयन्स्वपितामहान् ।

श्रुत्वाऽध्यायं तदाप्नोति पुराणस्यास्य शक्तितः ॥ ४० ॥

एतत्संसारभीरूणां परित्राणमनुत्तमम् ।

श्राव्याणां परमं श्राव्यं पवित्राणामनुत्तमम् ॥ ४१ ॥

दुःस्वप्ननाशनं नॄणां सर्वदुष्टनिबर्हणम् ।

मङ्गलं मङ्गलानां च पुत्रसंपत्प्रदायकम् ॥ ४२ ॥

इदमार्षं पुरा प्राह ऋभवे कमलोद्भवः ।

ऋभुः प्रियव्रतायाह स च भागुरयेऽब्रवीत् ॥ ४३ ॥

भागुरिस्तंभमित्राय दधीचाय स चोक्तवान् ।

सारस्वताय तेनोक्तं भृगुःसारस्वतेन च ॥ ४४ ॥

भृगुणा पुरुकुत्साय नर्मदायै स चोक्तवान् ।

नर्मदा धृतराष्ट्राय नागायापूरणाय च ॥ ४५ ॥

ताभ्यां च नागराजाय प्रोक्तं वासुकये द्विज ।

वासुकिः प्राह वत्साय वत्सश्चाश्वतराय वै ॥ ४६ ॥

कंबलाय च तेनोक्तमेलापुत्राय तेन वै ॥ ४७ ॥

पातालं समनुप्राप्तस् ततो वेदशिरा मुनिः ।

प्राप्तवानेतदखिलं स च प्रमतये ददौ ॥ ४८ ॥

दत्तं प्रमतिना चैतज्जातुकर्णाय धीमते ।

जातुकर्णेन चैवोक्तमन्येषां पुण्यकर्मणाम् ॥ ४९ ॥

ज्येष्ठामूल इति ॥ केनैवं वयमप्युतेति । केन वा पुरुषेण एवं मथुरायां कृतगोविन्दपूजनेन वयं तारिताः परामृद्धिम् – अपवर्गर्धिम अवाप्स्यामः ॥ ३७-४९ ॥

पुलस्त्यवरदानेन ममाप्येतत्स्मृतिं गतम् ।

मयाऽपि तूभ्यं मैत्रेय यथावत्कथितं त्विदम् ॥ ५० ॥

त्वमप्येतच्छिनीकाय कलेरन्ते वदिष्यसि ॥ ५१ ॥

इत्येतत्परमं गुह्यं कलिकल्मषनाशनम् ।

यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ५२ ॥

समस्ततीर्थस्नानानि समस्तामरसंस्तुतिः ।

कृता तेन भवेदेतद्यः शृणोतिदिनेदिने ॥ ५३ ॥

कपिलादानजनितं पुण्यमत्यन्तदुर्लभम् ।

श्रुत्वैतस्य दशाध्यायानवाप्नोति न संशयः ॥ ५४ ॥

यस्त्वेतत्सकलं शृणोति पुरुषः कृत्वा मनस्यच्युतं सर्वं सर्वमयं समस्तजगतामाधारमात्मा श्रयम् । ज्ञानज्ञेयमनादिमन्तरहितं सर्वामराणां हितं स प्राप्नोति न संशयोऽस्त्यविकलं यद्वाजिमेधे फलम् ॥ ५५ ॥

यत्रादौ भगवांश्चराचरगुरुर्मध्ये तथान्ते च स ब्रह्मज्ञानमयोऽच्युतोऽखिलजगन्मध्यान्तसर्गप्रभुः । तत्सर्वं पुरुषः पवित्रममलं शृण्वन्पठन्वाचयन्प्राप्नोत्यस्ति न तत्फलं त्रिभुवनेष्वेकान्तसिद्धिर्हरिः ॥ ५६ ॥

पुलस्येति ॥ ममाप्येतत्स्मृतिं गतमिति मह्यं सारस्वतेन चेति पूर्वमुक्तमुपजीव्योच्यते । आद्ये कृतयुगे सर्वपुराणानां संग्रहरूपस्य ब्रह्मसंज्ञस्य कर्तुर्ब्रह्मणो दक्षादिपुरकुत्सान्तः संप्रदायः । पराशरस्य त्रेतायां महद्विष्णु-पुराणं कुर्वतः प्रागुक्तकालदैर्ध्यात्तद्विच्छेदे पुनः पराशरर्षिदृष्टमेव तत्पुराणं ब्रह्मणैव ऋभ्वादिजातुकर्णान्तसंप्रदायान्त-रेण पुनस्त्रैलोक्ये प्रवर्तितम् । इदानीं त्वाविंशतियुगारंमे मैत्रेयपृष्टेन पराशरेण प्राग्जन्मनि सारस्वतमुखा -च्च्युतमिह जन्मनि वसिष्ठपुलस्त्यवरदानेनेदं स्मृतं स्वल्पग्रन्थसंग्रहितं मैत्रेयायोक्तम् । अतः संप्रदायाविच्छेदोक्तिरविरुद्धा । अस्य गर्भस्थस्यैव जन्मान्तर श्रुतवेदस्मरणवत्पुराणार्थ स्मरणमप्युपपन्नम् । षड्वंशे युगे व्यासत्वसिद्ध्या तदाद्यत्य सद्भावाद्यक्ता पुलस्त्यवरात् पुराणसंहिताकर्तृत्वसिद्धिः ॥ ५०-५६ ॥

यस्मिन्न्यस्तमनिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः । मुक्तिं चेतसि यःस्थितो मलधियां पुंसां ददात्यव्ययः किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ ५७ ॥

यस्मिन्निति ॥ मतिः – श्रवणमननरूपं ज्ञानं, चिन्तनं धारणा, आत्मनि मनोनिवेशनं ध्यानं, भगवति चेतस्स्थितिस्समाधिः ॥ ५७ ॥

यज्ञैर्यज्ञविदो यजन्ति सततं यज्ञेश्वरं कर्मिणो यं वै ब्रह्ममयं परावरमयं ध्यायन्ति च ज्ञानिनः ।

यं संचिन्त्य न जायते न म्रियते नो वर्धते हीयते नैवासन्न च सद्भवत्यति ततः किं वा हरेः श्रूयताम् ॥ ५८ ॥

यज्ञैरिति ॥ न जायते इति । शरीरपरिग्रहो जन्म, तत्त्यागो मरणम् । वृद्धिह्रासौ ज्ञानतः । नैवासन्न च सदिति कारणत्वकार्यत्वनिरासः । ततः हरेः, अति अतिक्रमेण, किं वा श्रूयताम् ? तदधिकं न किंचित् श्रूयत इत्यर्थः ॥ ५८ ॥

कव्यं यः पुतृरूपधृग्विधिहुतं हव्यं च भुंक्ते विभुर्देवत्वे भगवाननादिनिधनः स्वाहास्वधासंज्ञिते । यस्मिन्ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां निष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिः ॥ ५९ ॥

स्वनामादिद्वारा हरिरेव श्रोतव्य इत्याह – काव्यमिति ॥ मानिनां प्रमाणवतां, मानानि निष्ठायै-परिच्छेदाय न प्रभवन्ति न समर्थानि भवन्ति ॥ ५९ ॥

नान्तोस्ति यस्य न च यस्य समुद्भवोऽस्ति वृद्धिर्न यस्य परिणामविवर्जितस्य ।

नापक्षयं च समुपैत्यविकारि वस्तु यस्तं नतोऽस्मि पुरुषोत्ममीशमीड्यम् ॥ ६० ॥

अथ शास्त्रं समापयिष्यन्नीश्वरपुरुषप्रधानव्यक्तानि मंगलाय प्रणमति–नान्तोऽस्तीत्या दिचतुर्भिः ॥ नान्तोऽस्तीति ॥ तत्रायं प्रथमः श्लोकः शुभाश्रयत्वेनोक्तदिव्य विग्रहविशिष्टेश्वर विषयः। कालोऽपीश्वरेऽन्तर्भूतः ६०

तस्यैव योऽनुगुणभुग्बहुधैक एव सुद्धोऽप्यशुद्ध इव भाति हि मूर्तिभेदैः ।

ज्ञानान्वितःसकल(स)तत्त्वविभूतिकर्ता तस्मै नमोऽस्तु पुरुषाय सदाऽव्ययाय ॥ ६१ ॥

द्वितीयेन श्लोकेन तस्य पुरुषरूपं नमस्करोति – तस्यैवेति ॥ यः पुरुषः, तस्यैवानुगुणभुक् – शेषभूत इत्यर्थः । एकः – देवादिभेदरहितः ज्ञानैक स्वरूपः स्वतश्शुद्धोऽपि प्राकृतदेहेष्वात्मभ्रमात्तद्धर्म युक्ततया भानादशुद्ध इव भाति । ज्ञानान्वितः ज्ञानधर्मकः । तत्त्वादीनां महादादीनां विभूतेः-विस्तरस्य कर्मद्वारा कर्ता । सकलतत्त्वविभूति कर्तेति च पाठः ॥ ६१ ॥

ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो भोगप्रदानपटवे त्रिगुणात्मकाय ।

अव्याकृताय भवभावनकारणाय वन्दे स्वरूपभवनाय सदाऽजराय ॥ ६२ ॥

प्रधानस्वरूपमाह – ज्ञानेति ॥ ज्ञानप्रवृत्तिनियमाः सत्त्वादीनां कार्याणि नियमः-स्तम्भो ज्ञानसंकोचश्च । एषामैक्यम् एकत्र लयः, तद्रूपाय । गुणसाम्यावस्थायां हि तत्वात् तत्तत्कार्याणि न भवन्ति। अव्याकृताय-अनुद्भूत महादाद्यवम्नाय, प्रधानायेत्यर्थः । भवभावनकारणाय भवः संसारः, तद्भावनस्य कर्मणः कारणाय । स्वरूपभवनाय – स्वरूपेण भवनं यस्य तत् स्वरूपभवन, स्वतस्सिद्धाय; आदिरहितायेत्यर्थः ॥ ६२ ॥

व्योमानिलाग्निजलभूरचनामयाय शब्दादिभोग्यविषयोपनयक्षमाय ।

पुंसःसमस्तकरणैरुपकारकाय व्यक्ताय सूक्ष्मबृहदात्मवते नतोऽस्मि ॥ ६३ ॥

तस्यैव व्यक्ताख्यं रूपमाह–व्योमेति ॥ सूक्ष्मबृहदात्मवते – सूक्ष्मम्— महदादि, बृहत्-पृथिव्यादि, आत्मा । अत्र आत्मशब्दः स्वरूपवचनः ॥ ६३ ॥

इति विविधमजस्य यस्य रूपं प्रकृतिपरात्ममयं सनातनस्य ।

प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां सिद्धिम् ॥ ६४ ॥

अथैवमुपपादितात्स्वेतरसमस्त चिदचिद्वस्तुशरीरात्पुरुषोत्तमात् सर्वपुंसां परमपुरुषार्थं मोक्षमाशासानः पुराणं पूरयति- इतीति ॥ इति – उक्तप्रकारेण । प्रकृतिपरात्ममयं प्रकृतिर्व्यक्ता व्यक्तात्मिका, तस्याः परम् अप्राकृतदिव्यशरीरम्, आत्मा- पुरुषः । प्रकृतिपरात्मवत इति च पाठः । अत्र प्रकृतिपुरुषयोः परस्माद्भेदः, तयोर्जगद्ब्रह्मसामाना -धिकरण्यनिबन्धनं तद्रूपत्वम् अशेषपुंसामिति निर्देशाद् आत्मनां परस्परभेदः, भगवतो

ऽपजन्मजरादिकसिद्धिप्रदेष्टृत्ववचनेन स एव मोक्षप्रद इत्याद्युक्तमित्यनुसन्धेयम् ॥ ६४ ॥

इति श्रीभगवद्रामानुजयतीश्वरचरण सरोज चञ्चरीक श्रीविष्णु चित्तार्यप्रसा दिते ।

इति श्रीविष्णुमहापुराणेव्याख्याने षष्ठांशेऽष्टमोऽध्यायः ॥ ८ ॥

समाप्तोऽयं षष्ठांशः

तत्वेन यश्चिदचिदीश्वरतत्स्वभाव-भोगापवर्गतदुपायगतीरुदारः ।

संदर्शयन्निरमिमीत पुराणरत्नं तस्मै नमो मुनिवराय पराशराय ॥

इति श्रीविष्णुचित्तार्यवर्यानुगृहीत – व्याख्या सहित

श्रीविष्णुपुरणं समाप्तम् ॥

अस्मद्गुरुपरंपराभ्यो नमः