०५

अथ षष्ठांशे पञ्चमोऽध्यायः

श्रीपराशर उवाच

आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः ।

उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ १ ॥

आध्यात्मिकोऽपि द्विविधश्शारीरो मानसस्तथा ।

शारीरो बहुभिर्भेदैर्भिद्यते श्रुयतां च सः ॥ २ ॥

॥ १,२ ॥

शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः ।

गुल्मार्शः श्वययुश्वासच्छर्द्यादिभिरनेकधा ॥ ३ ॥

तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञितैः ।

भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥ ४ ॥

शिरोरोगेति ॥ प्रतिश्यायः-पीनसः । श्वयथुः-शोफः ॥ ३, ४ ॥

कामक्रोधभयद्वेषलोभमोहविषादजः ।

शोकासूयावमानेर्ष्यामात्सर्यादिमयस्तथा ॥ ५ ॥

मानसोऽपि द्विजश्रेष्ठ तापो भवति नैकधा ।

इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ ६ ॥

मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।

सरीसृपाद्यैश्च नृणां जायते चाधिभौतिकः ॥ ७ ॥

शीतवा तोष्णवार्षांबुवैद्युतादिसमुद्भवः ।

तापो द्विजवरश्रेष्ठैः कथ्यते चाधिदैविकः ॥ ८ ॥

कामकोधेति ॥ द्वेषः- अप्रीतिः । मोहो मूर्च्छा । विषादः-सत्वसंक्षयः । शोकः- प्रियविरहज ईर्ष्या-परसंपदक्षमा ॥ ५-८ ॥

गर्भजन्मजराज्ञानमृत्युनारकजं तथा ।

दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तम ॥ ९ ॥

गर्भेति ॥ नारकजं-नरकजम् । स्यान्नारकस्तु नरक इत्यमरः ॥ ९ ॥

सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते ।

उल्बसंवेष्टितो भुग्नपृष्ठग्रीवास्थिसंहतिः ॥ १० ॥

अत्यम्लकटुतीक्ष्णोष्णलवणैर्मातृभोजनैः ।

अत्यन्ततापैरत्यर्थं वर्धमानातिवेदनः ॥ ११ ॥

प्रसारणाकुञ्चनादौ नाङ्गानां प्रभुरात्मनः ।

शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः ॥ १२ ॥

निरुच्छ्वासः सचैतन्यः स्मरञ्जन्मशतान्यधः ।

आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः ॥ १३ ॥

सुकुमारेति ॥ उल्बम्-गर्भवेष्टनचर्म ॥ १०-१३ ॥

जायमानः पुरीषासृङ्मूत्रशुक्लाविलाननः ।

प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ १४ ॥

जायमान इति ॥ प्राजापत्येन-ब्रह्मणा नियुक्तेन गात्रसंकोचकेन, तस्माज्यायान् सगर्भः कनीयांसं सूतियोनिमजानानो हिनस्ति ब्रह्मणा हि स कृत इति श्रुतेः ॥ १४ ॥

अधोमुखो वै क्रियते प्रबलैः सूतिमारुतैः ।

क्लेशान्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः ॥ १५ ॥

मुर्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना ।

विज्ञानभ्रंशमाप्नोति जातश्च मुनिसत्तम ॥ १६ ॥

अधोमुख इति ॥ सूतिमारुतैः-सूत्यर्थं गर्भप्रेरकैः ॥ १५, १६ ॥

कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः ।

पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा ॥ १७ ॥

कण्डूयनेऽपि चाशक्तः परिवर्तेप्यनीश्वरः ।

स्नानपानादिकाहारमप्याप्नोति परेच्छया ॥ १८ ॥

अशुचिप्रस्तरे सुप्तः कीटद्रंशादिभिस्तथा ।

भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥ १९ ॥

कंटकैरिति ॥ तुन्नाङ्गः–व्यथितदेहः । पूतिव्रणात्-दुर्गन्धव्रणात; योरित्यर्थः ॥ १७-१९ ॥

जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणी च ।

बालभावे यदाप्नोति ह्याधिभौतादिकानि च ॥२० ॥

जन्मेति ॥ कण्डूयनेत्यादिनोक्तानि जन्मनोऽनन्तराणि । कीटदंशादिभिर् बालभावे यदाप्नोति तदप्य-नेकमिति शेषः ॥ २० ॥

अज्ञानतमसाच्छन्नो मूढान्तःकरणो नरः ।

न जानाति कुतः कोहं क्वाहं गन्ता किमात्मनः ॥ २१ ॥

कामान्धत्वादाघिक्याद्यौवने अज्ञानजं दुःखं विशिष्याह – अज्ञानेत्यादिना ॥ २१ ॥

केन बन्धेन बद्धोहं कारणं किमकारणम् ।

किं कार्यं किमकार्यं वा किं वाच्यं किं च नोच्यते ॥ २२ ॥

केनेति ॥ कार्य-कारणजन्यम् ॥ २२ ॥

को धर्मः कश्च वाऽधर्मः कस्मिन्वर्तेऽथ वा कथम् ।

किं कर्तव्यमकर्तव्यं किं वा किङ्गुणदोषवत् ॥ २३ ॥

एवं पशुसमैर्मुढैरज्ञानप्रभवं महत् ।

अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः ॥ २४ ॥

को धर्म इति ॥ क वा-कस्मिन्वा वर्ते तत्सर्वं च कथमिति न जानातीति पूर्वेणान्वयः ॥ २३,२४ ॥

अज्ञानं तामसो भावः कार्यारंभप्रवृत्तयः ।

अज्ञानिनां प्रवर्तन्ते कर्मलोपास्ततो द्विज ॥ २५ ॥

नरकं कर्मणां लोपात्फलमाहुर्मनीषिणः ।

तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ २६ ॥

अज्ञानमिति ॥ अज्ञानं तामसो भावस् तमसो विकारः । तेनाज्ञानिनां तदनुगुणकार्यारम्भेषु प्रवृत्तयो भवन्ति । अतः कर्मलोपाः-वैदिककर्मलोपाः प्रवर्तन्ते ॥ २५, २६ ॥

जराजर्जरदेहश्च शिथिलावयवः पुमान् ।

विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ २७ ॥

जरेति ॥ बलिस्नायुशिरावृत इति । बलिस्त्वक्तरंगः । रक्तवहा नाडी सिरा । सैव बन्धनी स्नायुः ॥ २७ ॥

दूरप्रनष्टनयनो व्योमान्तर्गततारकः ।

नासाविवरनिर्यातलोमपुञ्जश्चलद्वपुः ॥ २८ ॥

प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः ।

उत्सन्नजठराग्नित्वादल्पाहारोऽप्लचेष्टितः ॥ २९ ॥

कृच्छ्राच्चङ्क्रमणोत्थानशयनासनचेष्टितः ।

मन्दीभवच्छ्रोत्रनेत्रःस्रवल्लालाविलाननः ॥ ३० ॥

दूरेति ॥ दूरप्रनष्टनयनः-अघिकप्रनष्टनयनशक्तिः । व्योमान्तर्गततारकः- दृग्गोलकाकाश निमग्नकनीनकः ॥ २८-३० ॥

अनायत्तैः समस्तैश्च करणेर्मरणोन्मुखः ।

तत्क्षणेऽप्यनुभूतानामस्मर्ताऽखिलवस्तुनाम् ॥ ३१ ॥

अनायत्तैरिति ॥ अनायत्तैः-प्रवृत्यक्षमैः ॥ ३१ ॥

सकृदुच्चारिते वाक्ये समुद्भूत महाश्रमः ।

श्वासकाशसमुद्भूतमहायासप्रजागरः ॥ ३२ ॥

अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी ।

भृत्यात्मपुत्रदाराणामवामानास्पदी कृतः ॥ ३३ ॥

प्रक्षीणाखिलशौचश्च विहाराहारसस्पृहः ।

हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥ ३४ ॥

अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् ।

संस्मरन्यौवने दीर्घं निश्वसत्यतितापितः ॥ ३५ ॥

एवमादीनि दुःखानि जरायामनुभूय वै ।

मरणे यानि दुःखानि प्राप्नोति शृणु तान्यपि ॥ ३६ ॥

श्लथद्ग्रीवाङ्घ्रिहस्तोऽथ व्याप्तो वेपथुना भृशम् ।

मुहुर्ग्लानिः परवशो मुहुर्ज्ञानलवान्वितः ॥ ३७ ॥

हिरण्यधान्यतनयभार्याभृत्यगृहादिषु ।

एते कथं भविष्यन्तीत्यतीव ममताकुलः ॥ ३८ ॥

मर्मभिद्भिर्भहारोगैः क्रकचैरिव दारुणैः ।

शरैरिवान्तकस्योग्रैश्छद्यमानासुबन्धनः ॥ ३९ ॥

परिवर्तितताराक्षो हस्तपादं मुहुः क्षिपन् ।

संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ॥ ४० ॥

सकृदिति ॥ कासः- श्लेष्मा ॥ ३२-४० ॥

निरुद्धकण्ठो दोषौघैरुदानश्वासपीडितः ।

तापेन महता व्याप्तस्तृषा चार्त्तस्तथा क्षुधा ॥ ४१ ॥

क्लेशादुत्क्रान्तिमाप्नोति यमकिङ्करपीडितः ।

ततश्च यातनादेहं क्लेशेन प्रतिपद्यते ॥ ४२ ॥

एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् ।

शृणुष्व नरके यानि प्राप्यन्ते पुरुषैर्मृतैः ॥ ४३ ॥

याम्यकिङ्करपाशादिग्रहणं दण्डताडनम् ।

यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ॥ ४४ ॥

निरुद्धे ते ॥ दोषः वातादिः । उदानेति । उदानः कण्ठस्थवायुः, उरः स्थानमुदानस्य नासा-नोभिगलांश्चरेत् । वाक् प्रवृत्तिप्रयत्नोर्जाबलवर्णस्मृतिक्रियः ॥ अस्य गलसंचारित्वात् । उदानः कण्ठदेशस्थ इत्यमरः ॥ ४१-४४ ॥

करंभवालुकावह्नियन्त्रशस्त्रासिभीषणे ।

प्रत्येकं नरके याश्च यातना द्विज दुःसहाः ॥ ४५ ॥

क्रकचैः पाठ्यमानानां मूषायां चापि दह्यताम् ।

कुठारैः कृत्यमानानां भूमौ चापि निखन्यताम् ॥ ४६ ॥

शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् ।

गृध्रैः संभक्ष्यमाणानां द्वीपिभिश्चोपभूज्यताम् ॥ ४७ ॥

क्वाथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे ।

उच्चान्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ ४८ ॥

नरके यानि दुःखानि पापहेतूद्भवानि वै ।

प्राप्यन्ते नारकैर्विप्र तेषां संख्या न विद्यते ॥ ४९ ॥

न केवलं द्विजश्रेष्ठ नरके दुःखपद्धतिः ।

स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ॥ ५० ॥

पुनश्च गर्भे भवति जायते च पुनः पुनः ।

गर्भे विलीयते भूयो जायमानोऽस्तमेति वै ॥ ५१ ॥

जातमात्रश्च म्रियते बालभावेऽथ यौवने ।

मध्यमं वा वयः प्राप्य वार्धके वाऽथ वा मृतिः ॥ ५२ ॥

करंभेति ॥ भज्यमानकरंभसमवालुकाः करंभादिभीषणवस्तुभिर्युता यातना दुःसहाः ॥ ४५-५२ ॥

यावज्जीवति तावच्च दुःखैर्नानाविधैः प्लुतः ।

तं तु कारणपक्ष्मौघैरास्ते कार्पासबीजवत् ॥ ५३ ॥

द्रव्यनाशे तथोत्पत्तौ पालने च सदा नृणाम् ।

भवन्त्यनेकदुःखानि तथैवेष्टविपत्तिषु ॥ ५४ ॥

यद्यत्प्रीतिकरं पुंसां वस्तु मैत्रेय जायते ।

तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ॥ ५५ ॥

यावदिति ॥ तन्तुकारणेति । पक्ष्माणि-अंशवः ॥ ५३-५५ ॥

कलत्रपुत्रमित्रार्थगृहक्षेत्रधनादिकैः ।

क्रियते न तथा भूरि सुखं पुंसां यथा सुखम् ॥ ५६ ॥

इति संसारदुःखार्कतापतापितचेतसाम् ।

विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् ॥ ५७ ॥

तदस्य त्रिविधस्याऽपि दुःखजातस्य वै मम ।

गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ॥ ५८ ॥

कलत्रेति ॥ असुखं-दुःखम् ॥ ५६-५८ ॥

निरस्तातिशयाह्लादसुखभावैकलक्षणा ।

भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ ५९ ॥

निरस्तेति ॥ निरस्तातियशाह्लादसुखभावैकलक्षणा- सुखान्तरस्यातिशयो निरस्तो येन तन्निरस्तातिशयम् । आह्लादरूपं सुखम् आह्लादसुखम् । आह्लादो मोहसंभेदः । सुखान्तरा- नुभवाक्षमत्वांपादकोत्कर्षवत्सुखम्। भाव-शब्देन सुखस्य दुःखनिवृत्तिरूपता व्यावर्त्यते । एवं निरतिशयाह्लादरूपसुखत्वमेव भगवत्प्राप्तिस्वरूपमित्युक्तम् । एकान्ता दुःखासंभिन्ना आत्यन्तिकी अन्तमतीत्य वर्तमाना नित्या । अत्र भगवच्छन्देन प्राप्यस्य हेयप्रत्यनीकांशेष-

कल्याणगुणात्मकत्वं वक्ष्यमाणं सूचयता तत्प्राप्तेर्निरस्तातिशयेत्याद्युच्यमानं वैशिष्ट्यं प्रतिपादितम् ॥ ५९ ॥

तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः ।

तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने ॥ ६० ॥

तस्मादिति ॥ यस्माद्भगवत्प्राप्तिरेव तापत्रयनिवृत्तिहेतुस् तस्मात्तत्प्राप्तये यत्नः कर्तव्य इति, बुद्धे क्षेमप्रापणमिति मोक्षोपायज्ञानमविधेयमिति वदतो निरस्यति ; प्राप्त्युपायं च दर्शयति-ज्ञानं च कर्म चेति । अत्र ज्ञानमेव साक्षात् प्राप्त्युपायः, कर्म तु तदङ्गत्वेन । न तु विपर्ययः, समुच्चयो वा ब्रह्मविद्यामधिष्ठाय, इयाज सोऽपि सुबहून् इति हि वक्ष्यति ॥ ६० ॥

आगमोत्थं विवेकाच्च द्विधा ज्ञानं तदुच्यते ।

शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥ ६१ ॥

आचारे कर्मस्वरूपमुक्तम् । ज्ञानं द्विधा विभज्य दर्शयति — आगमोत्थमिति ॥ विवेकजं–विवेकाद्यो-गाज्जन्यम्। तत्रागमोत्थं ज्ञानं शब्दब्रह्मेति, विवेकजं परब्रह्मेति च मन्वादिभिरुच्यत इत्याह – शब्दब्रह्मेति ॥ ६१ ॥

अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ।

यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे विवेकजम् ॥ ६२ ॥

अथ ब्रह्मविषयमिदं ज्ञानद्वयं प्रशंसति, कुदृष्टिनिरसनाय तस्य ज्ञानद्वयस्य वैषम्यं च दर्शयति-अन्धंतम इति ॥ अज्ञानम् आगमश्रवणात्पूर्वम् । आत्मनामविद्याख्यकर्मतिरोहित स्वरूपत्वादात्मपरमात्मयाथात्म्यस्याप-रिज्ञानम् । अन्यथाज्ञानं वा । तच्च ज्ञानविरोघित्वा -दन्धं तम इव । आगमजन्यं ज्ञानं श्रोत्रेन्द्रियगृहीतागमजन्य-त्वादिन्द्रियोद्भवमित्युच्यते । तच्चाज्ञानतमोविरोधित्वाद्दीपवदिति । अत आगयोत्थं ज्ञानं तमसि दीपवदन्यथाज्ञानसंव-

लितमल्पं च । अथ अज्ञानतन्मूला विद्यारूपसर्वतमोनिरसनत्वाद् आगमोत्यादपि विशदतमप्रत्यक्षरूपत्वाच्च विवेकजं ज्ञानं सूर्यवदित्युच्यते ॥ ६२ ॥

मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम ।

तदेतच्छ्रूयतामत्र संबन्धे गदतो मम ॥ ६३ ॥

उक्तेऽर्थे मनुवचनं प्रमाणयति । मनुरपीति ॥ अत्र संबन्धे-मोक्षतत्साधनसंबन्धे ॥ ६३ ॥

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ६४ ॥

विद्यातः पुरुषार्थो न कर्मणा इति मनुवचनमेवोदाहरति-द्वे इति ॥ परं च यत्, ब्रह्मेति शेषः । शब्दब्रह्मणि-शास्त्रजन्यज्ञाने । निष्णातः- निपुणः । परं ब्रह्म-प्रत्यक्षरूपं विवेकजं ज्ञानं लभते ॥ ६४ ॥

द्वे वै विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः ।

परया त्वक्षरप्राप्तिर्ऋग्वेदादिमयाऽपरा ॥ ६५ ॥

मनुवचनमूलश्रुतिमुदाहरति-द्वे विधे इति ॥ विद्ये-आगमविवेकोत्थे । परया-विवेकोत्थया। अक्षरस्य–परब्रह्मणः प्राप्तिर् यया तदक्षरमधिगम्यते इति श्रुतेः । अनेन वाक्यार्थज्ञानात्कर्मणो वा मोक्षं वदन्तो निरस्ताः । वाक्यार्थज्ञानान्मोक्षं वदतस् तच्छास्त्रैर्वि -प्रतिषिद्धं बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेत इति सूत्रविरोधः, प्रत्यक्षविरोधश्च । अत्र प्रकरणे स्वोक्तस्यार्थस्य वेदविदग्रेसरमनुवचनप्रामाणिकादागमविवेकजपदयो-

रेकायानाद्युक्तोऽर्थो न विवक्षित इति वेदितव्यम् ॥ ६५ ॥

यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् ।

अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम् ॥ ६६ ॥

अथ परविद्योपास्यस्य प्राप्यभूतस्य ब्रह्मणस्वरूपमाह – यत्तदिति ॥ यथाह श्रुतिर् यत्तदद्वेश्यम् इत्यादिना । श्रुतिव्यतिरिक्तैः प्रमाणैर् न व्यज्यत इति अव्यक्तम्, वेदाहमेतं नावेदविन्मनुते तं बृहन्तम् इति । अजरमजमित्यादिना षड्भावविकारराहित्यमुक्तम् । अचिन्त्यमनिर्देश्यमिति वाङ्मानसागोचरत्वम् । अरूपं – देवमनुष्यादिरूपरहितम् ; अन्यथा रूपवत्त्वश्रुत्यादिविरोधात् ॥ ६६ ॥

विभु सर्वगतं नित्यं भूतयोनिरकारणम् ।

व्याप्य व्याप्तं यतः सर्वं यद्वै पश्यन्ति सूरयः ॥ ६७ ॥

विभ्विति ॥ विभु-सर्वगतं वितत्य व्यापि । विभुत्वं नियन्तृत्वं वा । अकारणं- स्वयं कारणरहितम् । व्याप्यव्यापकरूपेणावस्थितं सर्वं जगद्यतः । भूतयोनिरिति जीवामिप्रायम् । अत्र परविद्या विषयस्याक्षरस्य भूतयो-नित्वविभुत्वादिविशेषणैः परविद्या निर्गुणब्रह्म -निषयेत्येतन्निरस्तं, यद्वै पश्यन्ति सदा पश्यन्ति इति श्रुतेः ॥ ६७ ॥

तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकांक्षिभिः ।

श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ ६८ ॥

तद्ब्रह्मेति ॥ धाम-तेजोमयं तद्विष्णोः परमं पदम् इति श्रुतिवाक्योदितं सूक्ष्मं तत्परं ब्रह्म मोक्ष-कांक्षिमिर्द्ध्येयम् ॥ ६८ ॥

तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ।

वाचको भगवच्छब्दस्तस्याद्यस्याक्षयात्मनः ॥ ६९ ॥

उक्तगुणविशिष्टं तदेव ब्रह्म भगवच्छब्दवाच्यमित्याह-तदेवेति ॥ इदं च वचनं ध्यानक्रियाभ्य । भगवान् सर्वव्यापी च भगवान् नारायणो भगवान् प्रजापति, वासुदेवाय धीमहि ओमित्यात्मानं युञ्जीत नमो रुचाय ब्राह्मये इत्यादिवेदान्तसारोद्धाररूपं द्वादशाक्षर -चिन्तका इति पूर्वमुक्तं मंत्रविशेषमभिप्रेत्यामि- हितम् । सकलहेयप्रत्यनीक कल्याण -गुणात्मकं जगत्कारणं परविद्याधिगम्पमुक्तं परब्रह्मैव भगवच्छब्दवाच्यं नान्य दित्यवधारयति तदेवेति । मनुरपि ततस्त्वयंभूर्भगवान् इत्यादिना जगत्कारणमेव भगवच्छब्द -वाच्यमित्याह । अथ ब्रह्मणस्वरूपगुणविभवैरनन्तस्य याथात्म्यवचनसमर्थोऽयं शब्द इत्याह-वाचक इति ॥ ६९ ॥

एवं निगदितार्थस्य तत्तत्त्वं तस्य तत्त्वतः ।

ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम् ॥ ७० ॥

एवमिति ॥ एवं भगवच्छब्देनाभिहित निगदित भूतयोनित्वाद्यर्थस्य तस्य- ब्रह्मणस् तत्वं-स्वरूपं येन-विवेक जज्ञानेन तत्त्वतो यद् ज्ञायते-दृश्यते, तत्पुष्कलसाक्षात्काररूपं परम् । अन्यदुदेशतः शास्त्रजं परोक्षरूपम परमित्युपसंहरति ॥ ७० ॥

अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विज ।

पूजायां भगवच्छब्दः क्रियते ह्युपचारतः ॥ ७१ ॥

सर्वकारणे परे ब्रह्मणि भगवच्छन्दो मुख्यः, अन्यत्रोपचारत इति वक्ष्यन् मुक्ते तावदुपवारत इत्याह-अशब्देति ॥ मुक्तो ह्यशब्दगोचरः, नामरूपाद्विमुक्तः न शब्दगोचरे यस्य, यच्च वाचामविषये, अगोचरं वचसाम् (इत्यादिभ्यः) उपनिषत्प्रसिद्धया । तस्येति मुक्तस्य परामर्शः । ब्रह्मत्वं च ब्रह्मसाग्यात् । पूजायां निमित्तभूतायां तस्योपचारतो भगवच्छब्दः क्रियते । अस्य श्लोकस्य भगवद्विषयत्वे व्याहृतिस्यात् । तत्र शब्दोऽयं नोपचारेण त्वन्यत्र खुपचारत इत्यनन्तरं वक्ष्यमाणत्वात्, तदेव भगवद्वाच्यमित्या देरुक्तत्वाच्च ॥ ७१ ॥

शुद्धे महाविभूत्वाख्ये परे ब्रह्मणि शब्दते ।

मैत्रेय भगवच्छब्दःसर्वकारणकारणे ॥ ७२ ॥

परमकारणे परे ब्रह्मणि शब्दोऽयमनुपचारतः शब्द्यत इत्याह-शुद्ध इति ॥ शुद्धिः-मलप्रत्यनीकत्वम् । महाविभूत्याख्ये-महाविभूतिसंज्ञे । महाविभूतिर्हि ब्रह्मणः ॥ ७२ ॥

संभर्तेति तथा भर्ता भकारोऽर्थद्वयान्वितः ।

नेता गमयता स्रष्टा गकारार्थस्तथा मुने ॥ ७३ ॥

अन्यत्र मुख्यत्वासंभवज्ञापनाय भगवच्छब्दं निर्षति संभर्तेति ॥ संभरणं-प्रकृतेः कार्ययोग्यताकरणम् । मर्ता- स्वामी, पोषकश्च । नेता गोप्ता । गमयिता – आत्मानं रामयिता, संहर्तेत्यर्थः । स्रष्टा-आत्मान-मुद्गमयिता । एवं गुपेर् गुप्त्यर्थत्वाद् गत्यर्थत्वाद् गमेश्च गकारो निरुक्तः । ज्ञानार्थत्वाद्वा गमेर्गकारः । तदैक्षतेति संकल्परूपेक्षणस्य कर्तेत्यर्थः । गमयिता ज्ञापयितेति वा गकारः । तथा ह्येकायननिरुक्तं भ इत्ये-तस्माद्भकाराद्भर्ता संभर्तेति द्वो धात्वर्थौ गम्येते । ग इति पुनरस्माद्गशब्दाद्गमयिता नेता स्रष्टा परत्र गमने वा ।

पुनरव्यय इत्यतो गः । सोऽसौ भर्तृसंभर्तृनेतृगमनवानेतद्वान् भगवानित्येव भवतीति । तथाऽथर्वशिरसि – यस्सर्वान्भगवानी क्षत्यात्मज्ञानान्निरीक्षायति योगं गमयति तस्मादुच्यते स भगवान् इति ॥ ७३ ॥

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।

ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ ७४ ॥

अथ समुदायनिरुक्तिः– ऐश्वर्यस्येति ॥ समग्रपदं सर्वत्र संबध्यते । भगः षाड्गुण्यं, तद्वान् भगवा-नित्यभिप्रायः ॥ ७४ ॥

वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि ।

स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ ७५ ॥

वकारार्थमाह-वसन्तीति ॥ भूतात्मनि- भूतशरीरे, अखिलात्मनि-अखिलत्यामभूते भूतानि वसन्ति तत्रेति जगदाधारत्वमुक्तम्, सदायतना इत्यादि श्रुतेः । स च भूतेष्वित्यन्तरात्मत्वम् ऐतदात्म्पमिदं सर्षम् – इति श्रुतेः । अतो वः । मतुपो वसतेश्च तन्त्रेणायं वकारः ॥ ७५ ॥

एवमेष महाञ्छब्दो मैत्रेय भगवानिति ।

परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ ७६ ॥

एवमिति ॥ एवमुक्तप्रकारेणावयवार्थयोगादयं शब्दो वासुदेवस्यैव ॥ ७६ ॥

तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।

शब्दोऽयं नोपचारेण त्वन्यत्र ह्युपचारतः ॥ ७७ ॥

रूढिशक्त्याऽपि तस्यैवेत्याह – तत्रेति ॥ तत्र भगवान् इति शब्दो वृद्धैः प्रयुज्यते पूज्ये इति नैघण्टुकप्रसिद्धया अयं शब्दो लोके पूज्यपदार्थस्योक्तौ या परिभाषा तथा समन्वितोऽपि विष्णौ नियतः नारायणविष्ण्वादिशब्दवत् । नोपचारेण-तस्य सर्वकारणतया सर्वगुणपरिपूर्णतया परमपूज्यतया चायं शब्दो नौपचारिकः । अन्यत्र – जीवविशेषे त्वापेक्षिकपूज्यत्वादमुख्यः ॥ ७७ ॥

उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ।

वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ ७८ ॥

अन्यत्रोपचारतः प्रवृत्तौ ज्ञान विशेषो निमित्तमित्याह-उत्पत्तिमिति ॥ ७८ ॥

ज्ञानशक्तिबलैश्वयवीर्यतेजांस्यशेषतः ।

भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ ७९ ॥

अथ भगवतोऽन्वयविशेषणभूतानां सत्यकामत्वादीनां गुणान्तराणामुक्तेषु गुणेष्वन्तर्भावं व्यतिरेक-विशेषणानां सत्त्वादिगुणानां भगवानित्यत्र नकारवाच्यत्वं चाह-ज्ञानशक्तीति ॥ अशेषतः-अशेषैः स्वविस्तारभूतै- र्गुणान्तरैस्सह । नकारस्यार्थमाह विना हेयैरिति । गुणादिमिः-त्रिगुणतत्कार्यक्लेशादिभिः । निखिल हेयप्रत्यनीकत्वं

समस्त कल्याणगुणात्मकत्वं च उभयलिंग कृत्स्नं भगवच्छब्दवाच्यमित्य नुसंधेयमिति । एवं भगवत्प्राप्तिसाधनपर विद्यां-गत्वेनोक्त श्रीमद्वादशाक्षरमन्त्रे भगवच्छन्दो निरुक्तः । वेदशाखाभेदप्रकरणे प्रणवार्थ उक्तः ॥ ७९ ॥

सर्वाणि तत्र भूतानि वसन्ति परमात्मनि ।

भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ॥ ८० ॥

अथ वासुदेवशब्दार्थमाह – सर्वाणीति ॥ भूतानि – जीवा वसनात्सर्वभूतानां वसुत्याद्देवयोनितः । वासुदेवस्ततो ज्ञेय इत्युद्योगपर्वणि वसनाद्देवनाच्चैव वासुदेवं ततो विदुर् इति मोक्षधर्मे । देवनाद्योत-नाद्वेति वा देवः । वासुश्चासौ देवश्च वासुदेवः । वसन्त्यस्मिन् देवे भूतानीत्येकायननिरुक्तम् ॥ ८० ॥

खाण्डिक्यजनकायाह पृष्टः केशिध्वजः पुरा ।

नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ॥ ८१ ॥

उक्तमेव वासुदेवशब्दनिर्वचनं ज्ञाननिष्ठैर्जनकादिभिरपि परिगृहीतमित्याह-खाण्डिक्येति ॥ ८१ ॥

भूतेषु वसते सोंऽतर्वसंत्यत्र च तानि यत् ।

धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ ८२ ॥

भूतेष्विति । नैरुक्तं देवशब्दनिर्वचनं दर्शयति-धातेति । दधातेर्वकारः । निरुक्तस्यांशद्वयस्या नुवादः वासुदेवस्तत इति ॥ ८२ ॥

स सर्वभूतप्रकृतिं विकारान्गुणादिदोशांश्च मुने व्यतीतः ।

अतीतसर्वावरणोऽखिलात्मा तेनास्तृतं यद्भुवनान्तराले ॥ ८३ ॥

अथ विद्याद्वयविषयभूतद्वादशाक्षरप्रतिपाद्यतया दर्शितमर्थं बुद्धिस्थेम्ने प्रपञ्चयति-स सर्वेत्यादिचतुर्भिः ॥ स सर्वेति ॥ सर्वभूतप्रकृतिः – अव्यक्तम् । विकाराः – महदाद्याः । गुणाः- सत्त्वाद्याः । अदिशब्देन तत्कार्यदुःखा-ज्ञानादय उक्ताः । व्यतीतः-तेभ्यो ‘विलक्षणः, कर्मकृततत्संबन्धरहितश्च । अनेनाचितस्तत्संसृष्टाच्चेतनाच्च व्यावृत्तिः ॥ अतीतसर्वावरण इति मुक्तात् । मुक्तो हि संसारदशायाम विद्यायावृतः । अखिलात्मेति नियाद् व्यावृत्तिः । अखिलात्मत्वमुपपादयति-तेनास्तृतमिति । यत्सदसद्वस्तुजातम् अस्तृतम्-अन्तर्बहिश्च व्याप्तम् ॥ ८३॥

समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशावृतभूतवर्गः ।

इच्छागृहीताभिमतोरुदेहःसंसाधिताशेषजगद्धितो यः ॥ ८४ ॥

समस्तेति ॥ अत्रात्मशब्दः स्वभाववचनः । निजेच्छया गृहीताभिमतपूज्यदेहः । यद्वा, जगद्धितायाव-तारकालेष्विच्छया गृहीततत्तत्कार्योचितानेकदेहः ॥ ८४ ॥

तेजोबलैश्वर्यमहावबोध सुवीर्यशक्त्यादिगुणैकराशिः ।

परः पराणां सकला न यत्र क्लेशादयःसंति परावरेशे ॥ ८५ ॥

तेजोबलेति ॥ भगवानितिशब्दस्थन कारस्यार्थमपि विस्तरेणाह-न यत्रेति । क्लेशाः- अविद्यास्मितादयः । आदिशब्देन कर्मविपाकाशया उक्ताः । आशयो वासना ॥ ८५ ॥

स ईश्वरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपः प्रकटस्वरूपः ।

सर्वेश्वरःसर्वदृक्सर्वविच्च समस्तशक्तिः परमेश्वराख्यः ॥ ८६ ॥

स इति ॥ व्यूहविभवादिरूपेण च व्यष्टिसमष्टिरूपः । पररूपेणाव्यक्तरूपः । व्यूहादिरूपेण व्यक्त-रूपः। एवं सर्वावस्थचिदचित्स्वरूपत्वेऽपि सर्वेश्वरः न तु परवशः । सर्वदक्-तच्चक्षुर्देवहितं चक्षुर्देवा-नामुत, त्रैलोक्यस्यैकचक्षुष इतिवत् । यद्वा यस्सर्वज्ञस्सर्वविदितिवत्, सर्वं वेत्ति, तच्च सर्वप्रकारेण वेत्तीति । अथवा कारणमन्तरेण करणैश्च जानातीति । विदऌ लाभे इत्यतो वेत्तीति वा। समस्तशक्तिः- स परस्सर्वशक्तीनां समस्ताः शक्तयश्चैता इति ॥ ८६ ॥

संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् ।

संदृश्यते वाप्यवगम्यते वा तज्ज्ञानमज्ञानमतोन्यदुक्तम् ॥ ८७ ॥

अथ परविद्यां प्रशंसन्नुपसंहरति-संज्ञायत इति ॥ स ज्ञायते येनेति च पाठः । स इत्युक्तलक्षणः पुरुषोत्तमः परामृश्यते । तदिति हेतौ । यस्माद्भगवत्प्राप्तिरेव तापत्रयस्य भेषजं तस्मात्स येन-आगमोत्थेन ज्ञानेन । ज्ञायते-येन विवेकजेन संदृश्यते, येन च दर्शनसमाना -कारेण भक्तिरूपापन्नेन गम्यते; तदेव ज्ञानम् । अज्ञान-मतोऽन्यद् भगवद्व्यतिरिक्तविषय -मज्ञानम् -अविद्यारूपं बन्धकमित्यर्थः । अस्तदोषमिति विकारास्पदाचिद्विषयाद्वया- वृत्तिः। शुद्धमिति तत्संसृष्टचेतनविषयात् । परं निर्मलमिति हेयार्हमुक्तविषयात्, एकरूपमिति सूरिविषयात्, तेषामनेकरूपत्वात् । तमेव विद्वान्, तमेवं विदित्वा नान्यः पंथा इत्यादिश्रुतिभिरित्थमुक्तमिति ॥ ८७ ॥

इति श्रीविष्णुमहापुराणे षष्ठांशे पञ्चमोऽध्यायः ॥ ५ ॥