अथ षष्ठांशे द्वितीयोऽध्यायः
श्रीपराशर उवाच
व्यासश्चाह महाबुद्धिर्यदत्रैव हि वस्तुनि ।
तच्छ्रूयतां महाभाग गदतो मम तत्त्वतः ॥ १ ॥
व्यासश्चेति ॥ अत्र वस्तुनि अल्पयत्नेन पुण्यस्कन्धप्राप्तौ ॥ १ ॥
कस्मिन्कालेऽल्पको धर्मो ददानि सुमहत्फलम् ।
मुनीनां पुण्यवादोऽभूत्कैश्चासौ क्रियते सुखम् ॥ २ ॥
कस्मिन्निति ॥ पुण्यवादः पुण्यविषयविचारः ॥ २ ॥
संदेहनिर्णयार्थाय वेदव्यासं महामुनिम् ।
ययुस्ते संशयं प्रष्टुं मैत्रेय मुनिपुङ्गवाः ॥ ३ ॥
दृदृशुस्ते मुनिं तत्र जाह्नवीसलिले द्विज ।
वेदव्यासं महाभागमर्धस्नातं सुतं मम ॥ ४ ॥
स्नानावसानं ते तस्य प्रतीक्षन्तो महर्षयः ।
तस्थुस्तीरे महानद्यास्तरुषण्डमुपाश्रिताः ॥ ५ ॥
संदेहनिर्णयार्थायेति ॥ संशयं संशयितमर्थं प्रष्टुम् ॥ ३५॥
मग्नोऽथ जाह्नवीतोयादुत्थायाह सुतो मम ।
शुद्रःसाधुः कलिःसाधुरित्येवं शृण्वतां वचः ।
तेषां मुनीनां भूयश्च ममज्ज स नदीजले ॥ ६ ॥
मग्न इति ॥ शूद्रस्साधुः कलिः साधुरिति वचनम् ॥ ६ ॥
साधुसाध्विति चोत्थाय शूद्र धन्योसि चाब्रवीत् ॥ ७ ॥
साधुसाध्विति ॥ साधुसाधु शुद्र धन्योऽसीत्युक्तिर् हृदयसन्निधेः प्रत्यक्षोक्तिरिव भातीति ॥ ७ ॥
निमग्नश्च समुत्थाय पुनः प्राह महामुनिः ।
योषितः साधु धन्यास्तास्ताभ्यो धन्यतरोऽस्तिकः ॥ ८ ॥
ततः स्नात्वा यथान्यायमाचान्तं च कृतक्रियम् ।
उपतस्थुर्महाभागं मुनयस्ते सुतं मम ॥ ९ ॥
कृतसंवन्दनांश्चाह कृतासनपरिग्रहान् ।
किमर्थ मागता यूयमिति सत्यवतीसुतः ॥ १० ॥
निमग्नश्चेति ॥ ताभ्यः – योषिद्भ्यः । कलौ साधुत्वं शूद्रे धन्यत्वं योषितां धन्यतरत्वं चेति तद्गुण-रतम्याद्विरग्य त्रिधोक्तिः ॥ ८-१० ॥
श्रीपराशर उवाच
तमूचुःसंशयं प्रष्टं भवन्तं वयमागताः ।
अलं तेनास्तु तावन्नः कथ्यतामपरं त्वया ॥ ११ ॥
कलिःसाध्विति यत्प्रोक्तं शूद्रः साध्विति योषितः ।
यदाह भगवान्त्साधु धन्याश्चेति पुनः पुनः ॥ १२ ॥
तत्सर्वं श्रोतुमिच्छामो न चेद्गुह्यं महामुने ।
तत्कथ्यतां ततो हृत्स्थं पृच्छामस्त्वां प्रयोजनम् ॥ १३ ॥
तमिति ॥ तेन–प्राग्विवक्षितेनार्थेन, अलमस्तु-तन्निवृत्तिरस्तु ॥ ११-१३ ॥
श्रीपराश उवाच
इत्युक्तो मुनिभिर्व्यासः प्रहस्येदमथाब्रवीत् ।
श्रूयतां भो मुनिश्रेष्ठा यदुक्तं साधुसाध्विति ॥ १४ ॥
व्यास उवाच
यत्कृते दशभिर्वर्षैस्त्रेतायां हायनेन तत् ।
द्वापरे तच्च मासेन ह्यहोरात्रेण तत्कलौ ॥ १५ ॥
तपसो ब्रह्मचर्यस्य जपादेश्च फलं द्विजाः ।
प्राप्नोति पुरषस्तेन कलिःसाध्विति भाषितम् ॥ १६ ॥
इत्युक्त इति ॥ प्रहस्येति – घिगस्त्वितिवत् । स्वप्रश्नोत्तरं दत्तमप्यबुद्ध्वा पुनः पृच्छतो मुनीन् प्रति हासः ॥ १४-१६ ॥
ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥ १७ ॥
ध्यायन्निति ॥ कृते चित्तशुद्धिसंभवाद्ध्यानेन फलप्राप्तिः । त्रेतायां तदभावेऽपि चित्तशुद्ध्या यज्ञैः फलसिद्धिः । द्वापरे तयोरभावेऽपि आचारशुद्ध्याऽर्चनेन सिद्धिः, सन्ध्याहीनोऽशुचिर्नित्यम् इत्यादिवच-नात् । कलौ तु तेषामभावेऽपि भगवन्नामसंकीर्तनेनैव फलसिद्धिरिति कलेस्साधुत्वम् ॥ १७ ॥
धर्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ ।
अल्पायासेन धर्मज्ञास्तेन तुष्टोऽस्म्यहं कलेः ॥ १८ ॥
एतदेव विवृणोति । धर्मेति ॥ खल्पायासेन-संकीर्तनादिना ॥ १८ ॥
व्रतचर्यापरैर्ग्राह्या वेदाः पूर्वं द्विजातिभिः ।
ततःस धर्मसंप्राप्तैर्यष्टव्यं विधिवद्धनैः ॥ १९ ॥
वृथा कथा वृथा भोज्यं वृथेज्या च द्विजन्मनाम् ।
पतनाय ततो भाव्यं तैस्तु संयमिभिः सदा ॥ २० ॥
व्रतचर्येति । व्रतचर्येत्यादि शूद्रसाधुत्वस्य उपोद्धातः ॥ १९,२० ॥
असम्यक्करणे दोषस्तेषां सर्वेषु वस्तुषु ।
भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः ॥ २१ ॥
असम्यक्करण इति ॥ इच्छैव प्राप्तिकरी यस्य तदिच्छाप्राप्तिकरम्, इच्छया प्राप्यं न ॥ २१ ॥
पारतन्त्र्यं समस्तेषु तेषां कार्येषु वै यतः ।
जयन्ति ते निजांल्लोकान्क्लेशेन महताद्विजाः ॥ २२ ॥
अत्र हेतुः –पारतन्त्र्यमिति ॥ पारतन्त्र्य – विधिपारतन्त्र्यम् ॥ २२ ॥
द्विजशुश्रूषयैवैष पाकयज्ञाधिकारवान् ।
निजाञ्जयति वै लोकाञ्छूद्रो धन्यतरस्ततः ॥ २३ ॥
भक्ष्याभक्ष्येषु नास्यास्ति पेयापेयेषु वै यतः ।
नियमो मुनिशार्दूलास्तेनासौ साध्वितीरितः ॥ २४ ॥
द्विजशुश्रूशयैवेति ॥ पाकयज्ञाधिकारवान्–शूदस्याप्यमन्त्र कपक्कहोमादिष्वधिकारः । अस्मै साधु-चरितमिति शेषः ॥ २३,२४ ॥
स्वधर्मस्याविरोधेन नरैर्लब्धं धनं सदा ।
प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि ॥ २५ ॥
स्वधर्मस्येति ॥ स्वधर्मस्येति स्त्रीसाधुत्वस्य प्रस्तावः । नरैः-पुंभिः ॥ २५ ॥
तस्यार्जने महाक्लेशः पालने च द्विजोत्तमाः ।
तथा सद्विनियोगेन विज्ञातं गहनं नृणाम् ॥ २६ ॥
एवमन्यैस्तथा क्लेशैः पुरुषा द्विजसत्तमाः ।
निजाञ्जयन्ति वै लोकान्प्राजापत्यादिकान्क्रमात् ॥ २७ ॥
योषिच्छुश्रूषणाद्भर्तुः कर्मणा मनसा गिरा ।
तद्धिता शुभमाप्नोति तत्सालोक्यं यतो द्विजाः ॥ २८ ॥
तस्येति ॥ गहनं–क्लेशः ॥ २६-२८ ॥
नातिक्लेशेन महता तानेव पुरुषो यथा ।
तृतीयं व्याहृतं तेन मया साध्विति योषितः ॥ २९ ॥
एतद्वः कथितं विप्रा यन्निमित्तमिहागताः ।
तत्पृच्छत यथाकामं सव वक्ष्यामि वः स्फुटम् ॥ ३० ॥
ऋषयस्ते ततः प्रोचुर्यत्प्रष्टव्यं महामुने ।
अस्मिन्नेव च तत्प्रश्ने यथावत्कथितं त्वया ॥ ३१ ॥
श्रीपराशर उवाच
ततः प्रहस्य तानाह कृष्णद्वैपायनो मुनिः ।
विस्मयोत्फुल्लनयनांस्तापसांस्तानुपागतान् ॥ ३२ ॥
मयैष भवतां प्रश्रो ज्ञातो दिव्येन चक्षुषा ।
ततो हि वः प्रसंगेन साधुसाध्विति भाषितम् ॥ ३३ ॥
स्वल्पेन हि प्रत्यनेन धर्मःसिध्यति वै कलौ ।
नरैरात्मगुणांभोभिः क्षलिताखिलकिल्बिषैः ॥ ३४ ॥
शुद्रैश्च द्विजशुश्रूषातत्परैर्द्विजसत्तमाः ।
तथा स्त्रीभिरनाया सात्पतिशुश्रूषयैव हि ॥ ३५ ॥
ततस्त्रितयमप्येतन्मम धन्यतरं मतम् ।
धर्मसंपादने क्लेशो द्विजातीनां कृतादिषु ॥ ३६ ॥
भवद्भिर्यदभिप्रेतं तदेतत्कथितं मया ।
अपृष्टेनापि धर्मज्ञाः किमन्यत्क्रियतां द्विजाः ॥ ३७ ॥
श्रीपराशर उवाच
ततःसंपूज्य ते व्यासं प्रशशंसुः पुनः पुनः ।
यथागतन्द्विजा जग्मुर्व्यासोक्तिकृतनिश्चयाः ॥ ३८ ॥
भवतोऽपि महाभाग रहस्यं कथितं मया ।
अत्यन्तदुष्टस्य कलेरयमेको महान्गुणः ॥ ३९ ॥
यच्चाहं भवता पृष्टो जगतामुपसंहृतिम् ।
प्राकृतामन्तरालां च तामप्येष वदामि ते ॥ ४० ॥
नेति ॥ तानेवेति पुरुषो यथा प्राजापत्यादिकान् प्राप्नोति तथा योषितानेव प्राप्नोतीत्यर्थः ॥ २९-४० ॥
इति श्रीविष्णुमाहपुराणे षष्ठांशे द्वितीयोऽध्यायः ॥ २ ॥