श्रीविष्णुपुराणम्
श्रीमते रामानुजाय नमः
अथ षष्ठांशे प्रथमोऽध्यायः
मैत्रेय उवाच
व्याख्याता भवता सर्गवंशमन्वन्तरस्थितिः ।
वंशानुचरितं चैव विस्तरेण महामुने ॥ १ ॥
व्याख्यातेति ॥ प्रथमांशे सर्ग उक्तः । द्वितीयादिषु वंशमन्वन्तरवंशानुचरितरूपा स्थितिरुक्ता ॥ १ ॥
श्रोतुमिच्छाम्यहं त्वत्तो यथावदुपसंहृतिम् ।
महाप्रलयसंज्ञां च कल्पान्ते च महामुने ॥ २ ॥
श्रोतुमिति ॥ अथ कल्पान्ते उपसंहृति-महाप्रलयसंज्ञामुपसंहृतिं च श्रोतुमिच्छामि ॥ २ ॥
श्रीपराशर उवाच
मैत्रेय श्रूयतां मत्तो यथावदुपसंहृतिः ।
कल्पान्ते प्राकृते चैव प्रलयो जायते यथा ॥ ३ ॥
मैत्रेयेति ॥ प्राकृते, प्रलय इति शेषः । द्विपरार्धक इति वक्ष्यमाणे यथोपसंहृतिर्जायते तथा यथावत्-परमार्थतः श्रयताम् ॥ ३ ॥
अहोरात्रं पितॄणां तु मासोऽब्दस्त्रिदिवौकसाम् ।
चतुर्युगसहस्रे तु ब्रह्मणो वै द्विजोत्तम ॥ ४ ॥
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
दिव्यैर्वर्षसहस्रैस्तु तद्द्वादशभिरुच्यते ॥ ५ ॥
अहोरात्रमिति ॥ मानुषो मासः पितृणामहोरात्रम्, अब्दो देवानाम, दिव्ये चतुर्युगसहस्रे द्वे ब्रह्मणोऽहोरात्रम् ॥ ४, ५ ॥
चतुर्युगाण्यशेषाणि सदृशानि स्वरूपतः ।
आद्यं कृतयुगं मुक्त्वा मैत्रेयान्त्यं तथा कलिम् ॥ ६ ॥
चतुर्युगानीति ॥ स्वरूपतः – परिमाणधर्माधर्मादिभिः । यथोक्तं हरिवंशे- कृते धर्मश्चतुष्पात्स्याद-धर्मः पादभागथा । द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मस्ततः स्थितः ॥ द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुछ्रितः । कलावधर्मश्चतुष्पात्स्याद्धर्मः पादशेषगः ॥ इति । अयमर्थः- कृते-कृतयुगे आदौ पादभाक् । अथ कृतान्ते क्रमेणाधर्मः पादभाग्भवति ततस्त्रेतायाम् ॥ ६ ॥
आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यथा ।
क्रियते चोपसंहारस्तथांऽते च कलौ युगे ॥ ७ ॥
मैत्रेय उवाच
कलेःस्वरूपं भगवन्विस्तराद्वक्तुमर्हसि ।
धर्मश्चतुष्पाद्भगवान् यस्मिन् विप्लवमृच्छति ॥ ८ ॥
श्रीपराशर उवाच
कलेःस्वरूपं मैत्रेय यद्भवाञ्छ्रोतु मिच्छति ।
तन्निबोध समासेन वर्तते यन्महामुने ॥ ९ ॥
आद्य इति ॥ ब्रह्मणा -चतुर्मुखशरीरकेण भगवता, भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहित इति वचनात् । आद्यन्तयोर्युगयोः सृष्टिसंहारादेव विशेषः ॥ ७-९ ॥
वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् ।
न सामऋग्यजुर्धर्मविनिष्पादनहैतुकी ॥ १० ॥
वर्णाश्रमेति ॥ वर्णाश्रमेत्यादिस्मार्तप्रवृत्तिविषयं सामर्ग्यजुरिति श्रोतप्रवृत्तिविषय- त्रयीप्रतिपाद्याग्निहोत्रादि-धर्मविनिष्पादनं यस्याः प्रवृत्तेर् हेतुः-प्रयोजनं सा तथोक्ता । सा च नेत्यर्थः ॥ १० ॥
विवाहा न कलौ धर्म्या न शिष्यगुरुसंस्थितिः ।
न दांपत्यक्रमो नैव वह्निदेवात्मकः क्रमः ॥ ११ ॥
विवाहा इति ॥ दांपत्यक्रमः- दंपत्योधर्मः, दंपती एव दांपत्यम् । वह्निदेवात्मकः-वह्नौ देवयज्ञ-क्रियात्मकः । क्रमः-अनुष्ठानम् ॥ ११ ॥
यत्र कुत्र कुले जातो बली सर्वेश्वरः कलौ ।
सर्वेभ्य एव वर्णेभ्यो योग्यः कन्यावरोधने ॥ १२ ॥
यत्र कुत्रेति ॥ वर्णेभ्यः-वर्णानां धनी योग्यः, न तु वृत्तविद्यादिमान् ॥ १२ ॥
येन केन च योगेन द्विजातिर्दीक्षितः कलौ ।
यैव सैव च मैत्रेय प्रायश्चित्तं कलौ क्रिया ॥ १३ ॥
येनेति ॥ येन केन च श्रुतिस्मृतिभ्यामनुकल्पतयोक्तेन, योगेन-प्रकारेण दीक्षितो भवति ॥ १३॥
सर्वमेव कलौ शास्त्रं यस्य यद्वचनं द्विज ।
देवता च कलौ सर्वा सर्वःसर्वस्य चाश्रमः ॥ १४ ॥
सर्वमेवेति ॥ देवता च सर्वा – अवैदिकी काल्यादिः । सर्वः सर्वस्य चाश्रमः- ब्रह्मचर्यवैराग्यादि-रहितस्यापि ॥ १४ ॥
उपवासस्तथाऽयासौ वित्तोत्सर्गस्तपः कलौ ।
धर्मो यथाभिरुचितैरनुष्ठनैरनुष्ठितः ॥ १५ ॥
वित्तेन भविता पुंसां स्वल्पेनाढ्यमदः कलौ ।
स्त्रीणां रूपमदश्चैवं केशैरेव भविष्यति ॥ १६ ॥
उपवास इति ॥ आयासः – तीर्थयात्रादिकायक्लेशः । उपवासादिस्स्वाभिरुचिता- नुष्ठानानुष्ठितो धर्मों भवति ॥ १५,१६ ॥
सुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते ।
कलौ स्त्रियो भविष्यन्ति तदा केशैरलङ्कृताः ॥ १७ ॥
परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः ।
भर्ता भविष्यति कलौ वित्तवानेव योषिताम् ॥ १८ ॥
सुवर्णमणीति । केशैः-प्रशस्तैः सुवर्णादिभूषण सहपाठात् ॥ १७,१८ ॥
यो वै ददाति बहुलं स्वं स स्वामी सदा नृणाम् ।
स्वामित्वहेतुःसंबन्धो न चाभिजनता तथा ॥ १९ ॥
य इति ॥ स्वामित्वहेतुरिति । बह्वर्थदानादिना संबन्ध एव स्वामित्वहेतुर् भावी, न त्वभिजनः स्वामित्वहेतुसंबन्धो भविता अभिजन इति पाठे स्वामित्वहेतुर्वसुदानादि सम्बन्धः स एवाभिजनः न तु महा-कुलीनत्वम् । हीनवर्णोऽप्यर्थदो महाकुलीन वत्सेव्य इत्यर्थः ॥ १९ ॥
गृहान्ता द्रव्य्संघाता द्रव्यान्ता च तथा मतिः ।
अर्थाश्चात्मोपभोग्यान्ता भविष्यन्ति कलौ युगे ॥ २० ॥
गृहान्ता इति ॥ बुद्धेस्साध्यं धनार्जनम्, न त्वात्मज्ञानादि । तच धनं गृहनिर्माणार्थम्, न तु यागाधानाद्यर्थम् । ते चार्था गृहरूपाः स्वदेहभोगार्थाः, न त्वतिथ्यादिभोगार्थाः ॥ २० ॥
स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः ।
अन्यायादाप्तवित्तेषु पुरुषाः स्पृहयालवः ॥ २१ ॥
स्त्रिय इति ॥ ललितेषु पुरुषेषु स्पृहा यासां तास्तयोक्ताः ॥ २१ ॥
अभ्यर्थितापि सुहृदा स्वार्थमेव निरीक्ष्यते ।
पणार्धार्धाद्धमात्रेऽपि करिष्यन्ति तथा स्पृहाम् ॥ २२ ॥
अभ्यर्थितापीति ॥ अभ्यर्थितापि-अभ्यर्थिता अपि । अत्र आर्षस्संधिः । देवापि यं न पश्यन्तीति-यत् । पणः कपर्दिकाशीतिः, पञ्चगुञ्जातुलितं स्वर्णं वा ॥ २२ ॥
समानपौरुषं चेतो भुवि विप्रेषु वै कलौ ।
क्षीरप्रधानसंबन्धि भावि गोषु च गौरवम् ॥ २३ ॥
अनावृष्टिभयप्रायाः प्रजाः क्षुद्भयकातराः ।
भविष्यन्ति तदा सर्वे गगनासक्तदृष्टयः ॥ २४ ॥
समानपौरुषमिति ॥ समानपौरुषमित्यवरवर्णाश्शूद्रादयः विप्रान् स्वसमानतेजस्कान् मन्यन्त इत्यर्थः । समानपरुषम् इति पाठे सगर्वनिष्ठुरं च चेत इति ॥ २३,२४ ॥
कन्दमूलफलाहारास्तापसा इव मानवाः ।
आत्मानं घातयिष्यन्ति ह्यनावृष्ट्यादिदुःखिताः ॥ २५ ॥
कन्दमूलेति ॥ घातयिष्यन्ति-क्लेशयिष्यन्ति ॥ २५ ॥
दुर्भिक्षमेव सततं तथा क्लेशमनीश्वराः ।
प्राप्स्यन्ति व्याहतसुखप्रमोदा मानवाः कलौ ॥ २६ ॥
अस्नानभोजिनो नाग्निदेवतातिथिपूजनम् ।
करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥ २७ ॥
लोलुपा ह्रस्वदेहाश्च बह्वन्नादनतत्पराः ।
बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ॥ २८ ॥
उभाभ्यामपि पाणिभ्यां शिरःकण्डूयनं स्त्रियः ।
कुर्वन्त्यो गुरुभर्तॄणामाज्ञां भर्त्स्यन्त्यनादराः ॥ २९ ॥
स्वपोषणपराः क्षुद्रा देहसंस्कारवर्जिताः ।
परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ॥ ३० ॥
दुःशीला दुष्टशीलेषु कुर्वन्त्यःसततं स्पृहाम् ।
असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥ ३१ ॥
दुर्भिक्षमिति ॥ प्रमोदः – उल्लासः ॥ २६-३१ ॥
वेदादानं करिष्यन्ति वटवश्चाकृतव्रताः ।
गृहस्थाश्च न होष्यन्ति न दास्यन्त्युचितान्यपि ॥ ३२ ॥
वेदादानमिति ॥ अकृतव्रताः- वेदव्रतरहिताः ॥ ३२ ॥
वानप्रस्था भविष्यन्ति ग्राम्याहारपरिग्रहाः ।
भिक्षवश्चापि मित्रादिस्नेहसंबन्धयन्त्रणाः ॥ ३३ ॥
वानप्रस्था इति ॥ वनवासिनः वानप्रस्थाः ॥ ३३ ॥
अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः ।
हारिणो जनवित्तानां संप्राप्ते तु कलौ युगे ॥ ३४ ॥
योयोऽश्वरथनागाढ्यःस स राजा भविष्यति ।
यश्च यश्चाबलः सर्वः स स भृत्यः कलौ युगे ॥ ३५ ॥
वैश्याः कृषिवणिज्यादि संत्यज्य निजकर्म यत् ।
शूद्रवृत्त्या प्रवर्त्स्यन्ति कारुकर्मोपजीविनः ॥ ३६ ॥
भैक्षव्रतपराः शूद्रा प्रव्रज्यालिङ्गिनोऽधमाः ।
पाषण्डसंश्रयां वृत्तिमाश्रयिष्यन्ति सत्कृताः ॥ ३७ ॥
दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः ।
गोधूमान्नयवान्नाढ्यान्देशान्यास्यन्ति दुःखिताः ॥ ३८ ॥
वेदमार्गे प्रलीने च पाषण्डाढ्ये ततो जने ।
अधर्मवृद्ध्या लोकानामल्पमायुर्भविष्यति ॥ ३९ ॥
अशास्त्रविहितं घोरं तप्यमानेषु वै तपः ।
नरेषु नृपदोषेण बाल्ये मृत्युर्भविष्यति ॥ ४० ॥
भविता योषितां सूतिः पञ्चषट्सप्तवार्षिकी ।
नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ॥ ४१ ॥
अरक्षितार इति ॥ शुल्कव्याजेन–शुल्कमिति व्यपदिश्य शुल्कव्यतिरिक्तैर्दण्डैश्च ॥ ३४-४१ ॥
पलितोद्भवश्च भविता तथा द्वादशवार्षिकः ।
नातिजीवति वै कश्चित्कलौ वर्षाणि विंशतिः ॥ ४२ ॥
अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तःकरणाः कलौ ।
यतस्ततो विनङ्क्ष्यन्ति कालेनाल्पेन मानवाः ॥ ४३ ॥
यदायदा हि मैत्रेय हानिर्धर्मस्य लक्ष्यते ।
तदातदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ ४४ ॥
यदायदा हि पांषडवृद्धिर्मैत्रेय लक्ष्यते ।
तदातदा कलेर्वृद्धिरनुमेया महात्मभिः ॥ ४५ ॥
यदायदा सतां हीनिर्वेदमार्गानुसारिणाम् ।
तदातदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ ४६ ॥
प्रारंभाश्चावसीदन्ति यदा धर्मभृतां नृणाम् ।
तदाऽनुमेयं प्राधान्यं कलेर्मैत्रेय पण्डितैः ॥ ४७ ॥
यदायाद न यज्ञानामीश्वरः पुरुषोत्तमः ।
इज्यते पुरुषैर्यज्ञैस्तदा ज्ञेयं कलेर्बलम् ॥ ४८ ॥
न प्रीतिर्वेदवादेषु पाषण्डेषु यदा रतिः ।
कलेर्वृद्धिस्तदा प्राज्ञैरनुमेया विचक्षणैः ॥ ४९ ॥
कलौ जगत्पतिं विष्णुं सर्वस्रष्टारमीश्वरम् ।
नार्चयिष्यन्ति मैत्रेय पाषण्डोपहता जनाः ॥ ५० ॥
किं देवैः किं द्विजैर्वेदैः किं शौचे नांबुजन्मना ।
इत्येवं विप्रवक्ष्यन्ति पाषण्डोपहता जनाः ॥ ५१ ॥
स्वल्पांबुवृष्टिः पर्जन्यः सस्यं स्वल्पफलं तथा ।
फलं तथाऽल्पसारं च विप्र प्राप्ते कलौ युगे ॥ ५२ ॥
पलितेति ॥ विंशति नातिजीवन्ति कलेरन्ते त्रयोविंशतिमिति चतुर्थोक्त जीवनमितः पूर्वम् ॥ ४२-५२ ॥
शाणीप्रायाणि वस्त्राणि शमीप्राया महीरुहाः ।
शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ॥ ५३ ॥
अणुप्रायाणि धान्यानि चाज्यप्रायं तथा पयः ।
भविष्यति कलौ प्राप्ते ह्यौशीरं चानुलेपनम् ॥ ५४ ॥
शाणीप्रायाणीति ॥ शाणश्शाणी वा शणविकारः । शाटीति पाठे ह्रस्वस्थूलम् ॥ ५३-५४ ॥
श्वश्रूश्वशुरभूयिष्ठा गुरवश्च नृणां कलौ ।
श्यालाद्य हारिभार्याश्च सृहृदो मुनिसत्तम ॥ ५५ ॥
कस्य माता पिता कस्य यथा कर्मानुगः पुमान् ।
इति चोदाहरिष्यन्ति श्वशुरानुगता नराः ॥ ५६ ॥
वाङ्मनःकायगैर्दोषैरभिभूताः पुनः पुनः ।
नराः पापान्यनुदिनं करिष्यन्त्यल्पमेधसः ॥ ५७ ॥
निस्सत्त्वानामशौचानां निर्ह्रीकाणां तथा नृणाम् ।
यद्यद्दुःखाय तत्सर्वं कलिकाले भविष्यति ॥ ५८ ॥
श्वश्रूश्वशुरेति ॥ हारिभार्याः- हारिण्यः हृया भार्याः । बहुव्रीहिर्वा हारिण्यो भार्या येषां ते ते सुहृदः । भर्तॄणां जाराणां च रम्यभार्या हि सुहृदः ॥ ५५-५८ ॥
निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते ।
तदा प्रविरलो धर्मः क्वचिल्लोके निवत्स्यति ॥ ५९ ॥
निस्वाध्यायेति ॥ क्वत् – कीकटादौ ॥ ५९ ॥
तत्राल्पेनैव यत्नेन पुण्यस्कन्धमनुत्तमम् ।
करोति यः कृतयुगे क्रियते तपसा हि सः ॥ ६० ॥
तत्रेति ॥ तत्र–कलौ अल्पेनैव यत्नेन- हरिसंकीर्तनादिना । अनुत्तमं पुण्यस्कन्धं-पुण्यराशि करोति पुरुषः । यः – पुण्यस्कन्धः क्रियते स कृतयुगे तपसा हि कियते ॥ ६० ॥
इति श्रीविष्णुमहापुराणे षष्ठांशे प्रथमोऽध्यायः ॥ १ ॥