अथ पञ्चमांशे सप्तत्रिंशोऽध्यायः
श्रीपराशर उवाच
एवं दैत्यवधं कृष्णे बलदेवसहायवान् ।
चक्रे दुष्टक्षितीशानां तथैव जगतः कृते ॥ १ ॥
क्षितेश्च भारं भगवान्फाल्गुनेन समन्वितः ।
अवतारयामास विभुःसमस्ताक्षौहिणीवधात् ॥ २ ॥
एवमिति ॥ दुष्टक्षितीशानां वधमित्यनुषङ्गः ॥ १, २ ॥
कृत्वा भारावतरमं भुवो हत्वाऽखिलान्नृपान् ।
शापव्याजेन विप्राणामुपसंहृतवान्कुलम् ॥ ३ ॥
कृत्वेति ॥ शापेति । उपसंहारे शापो व्याजमात्रं स्वेच्छैव हेतुः । यथोक्तम् भवितव्यं तथा तद्धि – मेतन्महात्मना इत्यादिना । कुलं – खम् ॥ ३ ॥
उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मनः ।
सांशो विष्णुमयं स्थानं प्रविवेश मुने निजम् ॥ ४ ॥
मैत्रेय उवाच
स विप्रशापव्याजेन संजह्रे स्वकुलं कथम् ।
कथं च मानुषं देहमुत्ससर्ज जनार्दनः ॥ ५ ॥
श्रीपराशर उवाच
विश्वामित्रस्तथा कण्वो नारदश्च महामुनिः ।
पिण्डारके महारीर्थे दृष्ट्वा यदुकुमारकैः ॥ ६ ॥
उत्सृज्येत्यादि ॥ मानुष्यं मर्त्यदेहं, सांशः – ससंकर्षणादिः, विष्णुमयं – विष्णुप्रचुरम् । तत्तेजस्त द्विभूति – तत्परिकरसूरिपूर्णमित्यर्थः । निजं स्थानं – परमव्योमपरमपदादिशब्दवाच्यं स्वासाधारणम् । यथा मौसले दिव्यं स्थानमजरं चाप्रमेयम् इत्यादि । अत्र मानुष्यमिति विशेषणात्, ऊर्ध्वं गच्छन् व्याप्य लोकान् स्वलक्ष्म्या इत्युक्त्तवा, अनन्तरं दिवं प्राप्तमित्यादिना वसुप्रभृतिभिर्देवैः प्रत्युद्गमनादिकमुत्तवा, ततो राजन् भगवानुग्रधन्वेत्यादिना
स्वस्थानप्रवेशमभिधाय, भुजैश्चतुर्भिस्समुपेतं ममेदमिति मौसलोक्तप्रकारेण स्वसाधारणदिव्य विग्रहवत एव गमनं ज्ञातव्यम् ॥ ४ – ६ ॥
ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः ।
सांबं जांबवतीपुत्रं भूषयित्वा स्त्रियं यथा ॥ ७ ॥
प्रश्रितास्तान्मुनीनूचुः प्रणिपातपुरःसरम् ।
इयं स्त्री पुत्रकामा वै ब्रूत किं जनयिष्यति ॥ ८ ॥
तत इति ॥ भावि कार्यं – भविष्यत्फलकर्म, तेन प्रचोदिताः ॥ ७, ८ ॥
श्रीपराशर उवाच
दिव्यज्ञानोपपन्नास्ते विप्रलब्धाः कुमारकैः ।
मुनयः कुपिताः प्रोचुर्मुसलं जनयिष्यति ॥ ९ ॥
सर्वयादवसंहारकारणं भुवनोत्तरम् ।
येनाखिलकुलोत्सादौ यादवानां भविष्यति ॥ १० ॥
इत्युक्तास्ते कुमारास्तु आचचक्षुर्यथातथम् ।
उग्रसेनाय मुसलं जज्ञे सास्वस्य चोदरात् ॥ ११ ॥
दिव्यज्ञानेति ॥ दिव्यज्ञानोपपन्नाः – दिव्यस्य भगवदिच्छादेर्ज्ञानोपपन्नाः । यथा मौसल एव भवितव्यं तथा तद्धि दृष्टमेतन्महात्मना । उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ॥ इत्यादि, कुतश्शापो मनीषिणाम् इत्यन्तम् ॥ ९ – ११ ॥
तदुग्रसेनो मुसलमयश्चूर्णमकारयत् ।
जज्ञे तदेरकाचूर्णं प्रक्षिप्तं तैर्महोदधौ ॥ १२ ॥
तदिति ॥ एरका – त्रिधारः तृणविशेषः ॥ १२ ॥
मुसलस्याथ लोहस्य चूर्णितस्य तु यादवैः ।
खण्डं चूर्णितशेषं तु ततो यत्तोमराकृति ॥ १३ ॥
मुसलस्येति ॥ तोमरमत्र वाणशल्यम् ॥ १३ ॥
तदप्यंबुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः ।
घातितस्योदरात्तस्य लुब्धो जग्रह तज्जराः ॥ १४ ॥
तदिति ॥ जरा नाग लुब्धकः ॥ १४ ॥
विज्ञातपरमार्थोपि भगवान्मधुसूदनः ।
नैच्छत्तदन्यथा कर्तुं विधिना यत्समीहितम् ॥ १५ ॥
विज्ञातेति ॥ विधिना समीकृतं स्वसंज्ञानेन कृतम् ॥ १५ ॥
देवैश्च प्रहितो वायुः प्रणिपत्त्याह केशवम् ।
रहस्येवमहं दूतः प्रहितो भगवन्सुरैः ॥ १६ ॥
वस्वश्विमरुदादित्यरुद्रसाध्यादिभिः सह ।
विज्ञापयति शक्रस्त्वां तदिदं श्रूयतां विभो ॥ १७ ॥
देवैद्येति ॥ दूतः – वायुः ॥ १६ १७ ॥
भारावतरणार्थाय वर्षाणामधिकं शतम् ।
भगवानवतीर्णोऽत्र त्रिदशैस्सह चोदितः ॥ १८ ॥
दुर्वृत्ता निहता दैत्या भुवो भारोऽवतारितः ।
त्वया सनाथास्त्रिदशा भवन्तु त्रिदिवे सदा ॥ १९ ॥
तदतीतं जगन्नाथ वर्षाणामधिकं शतम् ।
इदानीं गम्यतां स्वर्गो भवता यदि रोचते ॥ २० ॥
देवैर्विज्ञाप्यते देव तथाऽत्रैव रतिस्तव ।
तत्स्थीयतां यथाकालमास्थेयमनुजीविभिः ॥ २१ ॥
श्रीभगवानुवाच
यत्त्वमात्थाखिलं दूत वेद्म्येतदहमप्युत ।
प्रारब्ध एव हि मया यादवानां परिक्षयः ॥ २२ ॥
भारावतरणार्थायेति ॥ अवतीर्णो वर्षाणामधिकं शतमत्र स्थित इति शेषः ॥ १८ – २२ ॥
भुवो नाद्यापि भारोऽयं यादवैरनिबर्हितैः ।
अवतार्य करोम्येतत्सप्तरात्रेण सत्वरः ॥ २३ ॥
यथा गृहीतमंभोधेर्दत्त्वाऽहं द्वारकाभुवम् ।
यादवानुपसंहृत्य यास्यामि त्रिदशालयम् ॥ २४ ॥
मनुष्यदेहमुत्सृज्य संकर्षणसहायवान् ।
प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथाऽमरैः ॥ २५ ॥
भुव इति ॥ भुवो भारो नाद्याप्यवतारित इति शेषः । एतत् गमनम् ॥ २३ – २५ ॥
जरासंधादयो येऽन्ये निहता भारहेतवः ।
क्षितेस्तेभ्यः कुमारोऽपि यदूनां नापचीयते ॥ २६ ॥
तदेतं सुमहाभारमवतार्य क्षितेरहम् ।
यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान् ॥ २७ ॥
श्रीपराशर उवाच
इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम् ।
मैत्रेय दिव्यया गत्या देवराजान्तिकं ययौ ॥ २८ ॥
जरासंधादय इति ॥ क्षितेर्भारहेतवो येऽन्ये जरासंधादयो निहताः तेभ्यः यदूनां संबन्धी शिशुरपि नापचितो युद्धे । कुमार इति पाठे, तेभ्योऽप्यधिको यदूनां संबन्धी कुभारः – भूभारः न क्षीयते ॥ २६ – २८ ॥
भगवानप्यथोत्पातान्दिव्यभौमान्तरिक्षजान् ।
ददर्श द्वारकापुर्यां विनाशाय दिवानिशम् ॥ २९ ॥
तान्दृष्ट्वा यादवानाह पश्यध्वमतिदारुणान् ।
महोत्पाताञ्छमायैषां प्रभासं याम मा चिरम् ॥ ३० ॥
श्रीपराशर उवाच
एवमुक्ते तु कृष्णेन यादवप्रवरस्ततः ।
महाभागवतः प्राह प्रणिपत्योद्धवो हरिम् ॥ ३१ ॥
भगवन्यन्मया कार्यं तदाज्ञापय सांप्रतम् ।
मन्ये कुलमिदं सर्वं भगवान्संहरिष्यति ॥ ३२ ॥
नाशायास्य निमित्तानि कुलस्याच्युत लक्षये ॥ ३३ ॥
श्रीभगवानुवाच
गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया ।
यद्बदर्याश्रमं पुण्यं गन्धमादनपर्वते ।
नरनारायणस्थाने तत्पवित्रं महीतले ॥ ३४ ॥
मन्मना मत्प्रसादेन तत्र सिद्धिमवाप्स्यसि ।
अहं स्वर्गं गमिष्यामि ह्युपसंहृत्य वै कुलम् ॥ ३५ ॥
द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति ।
मद्वेश्म चैकं मुक्त्वा तु भयान्मत्तो जलाशये ।
तत्र सन्निहितश्चाहं भक्तानां हितकाम्यया ॥ ३६ ॥
भगवानिति ॥ ग्रहर्क्षवैकृतं दिव्य उत्पातः, उल्कानिपातनिर्घातपरिवेषादिरान्तरिक्षः, चरस्थिरजो भौमः ॥ २९ – ३६ ॥
श्रीपराशर उवाच
इत्युक्तः प्रणिपत्यैनं जगामाशु तपेवनम् ।
नरनारायणस्थानं केशवेनानुमोदितः ॥ ३७ ॥
ततस्ते यादवाःसर्वे रथानारुह्य शीघ्रगान् ।
प्रभासं प्रययुःसार्धं कृष्णरामादिभिर्द्विज ॥ ३८ ॥
प्रभासं समनुप्राप्ताः कुकुरान्धकवृष्णयः ।
चक्रुस्तत्र महापानं वासुदेवेन चोदिताः ॥ ३९ ॥
पिबतां तत्र चैतेषां संघर्षेण परस्परम् ।
अतिवादेन्धनो जज्ञे कलहाग्निः क्षयावहः ॥ ४० ॥
मैत्रेय उवाच
स्वंस्वं वै भुञ्जतां तेषां कलहः किंनिमित्तकः ।
संघर्षो वा द्विजश्रेष्ठ तन्ममाख्यातुमर्हसि ॥ ४१ ॥
श्रीपराशर उवाच
मृष्टं मदीयमन्नं ते न मृष्टमिति जल्पताम् ।
मृष्टामृष्टकथा जज्ञे संघर्षकलहौ ततः ॥ ४२ ॥
ततश्चान्योन्यमभ्येत्य क्रिधसंरक्तलोचनाः ।
जघ्नुः परस्परं ते तु शस्त्रैर्दैवबलात्कृताः ॥ ४३ ॥
क्षीणशस्त्राश्च जगृहुः प्रत्यासन्नामथैरकाम् ॥ ४४ ॥
एरका तु गृहीता वै वज्रभूतेव लक्ष्यते ।
तया परस्परं जघ्नुःसंप्रहारे सुदारुणे ॥ ४५ ॥
प्रद्युम्नसांबप्रमुखाः कृतवर्माऽथ सात्यकिः ।
अनिरुद्धादयश्चान्ये पृथुर्विपृथुरेव च ॥ ४६ ॥
चारुवर्मा चारुकश्च तथाऽक्रूरादयो द्विज ।
एरकारूपिभिर्वज्रैस्ते निजघ्नुः परस्परम् ॥ ४७ ॥
इत्युक्त’ इति ॥ अनुमोदितः – तत्त्वोपदेशपादुकाप्रदानादिनाऽनुगृहीतः । यादवत्वेऽपि भगवत् – स्वातन्त्र्य प्रदर्शनार्थं सात्वतविद्यासंतानायोद्धवो राजसंतानाय वज्रश्च शेषितौ ॥ ३७ – ४७ ॥
निवारयामास हरिर्यादवांस्ते च केशवम् ।
सहायं मेनिरेऽरीणां प्राप्तं जघ्नुः परस्परम् ॥ ४८ ॥
कृष्णोऽपि कुपितस्तेषामेरकामुष्टिमाददे ।
वधाय सोऽपि मुसलं मुष्टर्लौहमभूत्तदा ॥ ४९ ॥
निवारयामासेति ॥ माध्यस्त्यात्केशवो युध्यमानान् निवारयामास । ते च तम् अरीणां – स्वविपक्षाणां सहायं प्राप्तं मेनिरे । अतस्तमनादृत्यान्योन्यं च जप्नुः ॥ ४८, ४९ ॥
जघान तेन निःशेषान्यादवानाततायिनः ।
जघ्नुस्ते सहसाऽभ्येत्य तथाऽन्येपि परस्परम् ॥ ५० ॥
ततश्चार्णवमध्येन जैत्रोऽसौ चक्रिणो रथः ।
पश्यतो दारुकस्याथ प्रायादश्वैर्धृतो द्विज ॥ ५१ ॥
चक्रं गदा तथा शार्ङ्ग तूणी शङ्खोऽसिरेव च ।
प्रदक्षिणं हरिं कृत्वा जग्मुरादित्यवर्त्मना ॥ ५२ ॥
क्षणेन नाभवत्कश्चिद्यादवानामघातितः ।
ऋते कृष्णं महात्मानं दारुकं च महामुने ॥ ५३ ॥
चङ्क्रम्यमाणौ तौ रामं वृक्षमूले कृतासनम् ।
ददृशाते मुखाच्चास्य निष्क्रामन्तं महोरगम् ॥ ५४ ॥
निष्क्रम्य स मखात्तस्य महाभोगो भुजङ्गमः ।
प्रययावर्णवं सिद्धैः पुज्यमानस्तथोरगैः ॥ ५५ ॥
ततोऽर्घ्यमादाय तदा जलधिःसंमुखं ययौ ।
प्रविवेश ततस्तोयं पूजितः पन्नगोत्तमैः ॥ ५६ ॥
दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः ।
इदं सर्वं समाचक्ष्व वसुदेवोग्रसेनयोः ॥ ५७ ॥
जघानेति ॥ आततायी — वधोद्यतः ॥ ५० – ५७ ॥
निर्याणं बलभद्रस्य यादवानां तथा क्षयम् ।
योगो स्थित्वाऽहमप्येतत्परित्यक्ष्ये कलेवरम् ॥ ५८ ॥
वाच्यश्च द्वारकावासी जनः सर्वस्तथाऽऽहुकः ।
यथेमां नगरीं सर्वां समुद्रः प्लावयिष्यति ॥ ५९ ॥
तस्माद्भवद्भिः सर्वैस्तु प्रतीक्ष्यो ह्यर्जुनागमः ।
न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे ॥ ६० ॥
तेनैव सह गन्तव्यं यत्र याति स कौरवः ॥ ६१ ॥
गत्वा च ब्रूहि कैन्तेयमर्जुनं वचनान्मम ।
पालनीयस्त्वया शक्त्या जनोऽयं मत्परिग्रहः ॥ ६२ ॥
त्वमर्जुनेन सहितो द्वारवत्यां तथा जनम् ।
गृहीत्वा यादि वज्रश्च यदुराजो भविष्यति ॥ ६३ ॥
श्रीपराशर उवाच
इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः ।
प्रदक्षिणं च बहुशः कृत्वा प्रायाद्यथोदितम् ॥ ६४ ॥
निर्याणमिति ॥ योगेन देहत्यागो लोकसंग्रहार्थः ॥ ५८ – ६४ ॥
स च गत्वा तदाचष्ट द्वारकायां तथाऽर्जुनम् ।
आनिनाय महाबुद्धिर्वज्रं चक्रे तथा नृपम् ॥ ६५ ॥
स चेति ॥ द्वारवत्यां स्थितमिति शेषः ॥ ६५ ॥
भगवानपि गोविन्दो वासुदेवात्मकं परम् ।
ब्रह्मात्मनि समारोप्य सर्वभूतेष्वधारयत् ।
(निष्प्रपञ्चे महाभाग संयोज्यात्मानमात्मनि ।
तुर्यावस्थस्सलीलं च शेते स्म पुरुषोत्तमः ॥) ६६ ॥
भगवानपीति ॥ सर्वभूतेषु स्थितम् अत एव वासुदेवात्मकं ब्रह्म आत्मन्यधारयत् – आत्मानं ब्रह्म अभावयत् इत्यर्थः ॥ ६६ ॥
संमानयन्द्विजवचो दुर्वासा यदुवाच ह ।
योगयुक्तोऽभवत्पादं कृत्वा जानुनि सत्तम ॥ ६७ ॥
संमानयन्निति ॥ द्विजवचः – विप्रशापवचः । दुर्वासा यदुवाच तच्च संमानयन् पादं लुब्धकदृश्यं स्वस्तिकासनेन जानुनि कृत्वा योगं चक्रे । श्रीकृष्णो हि, मच्छिष्टेन सर्वाङ्गं लिम्पेति दुर्वाससो वचनात् विप्रो.. च्छिष्टं पादेन न स्प्रष्टव्यमिति पादवर्जं सर्वाने लिप्ते, पादौ न लिप्ताविति क्रुद्रेन दुर्वाससा तत्रैव पादे विद्धो भवेति सप्त इत्युक्तं भारते ॥ ६७ ॥
आययौ स जरा नाम तदा तत्र स लुब्धकः ।
मुसलावशेषलोहैकसायकन्यस्ततोमरः ॥ ६८ ॥
स तत्पादं मृगाकरमवेक्ष्यारादवस्थितः ।
तले विव्याध तेनैव तोमरेण द्विजोत्तम ॥ ६९ ॥
ततश्च ददृशे तत्र चतुर्बाहुधरं नरम् ।
प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः ॥ ७० ॥
अजानता कृतमिदं मया हरिणशङ्कया ।
क्षम्यतां मम पापेन दग्धं मां त्रातुमर्हसि ॥ ७१ ॥
आययाविति ॥ मुसलावशेषलोहम् एकसायके न्यस्तं तोमरं यस्य स तथोक्तः । अक्षराधिक्यमार्षम् ॥ ६८ – ७१ ॥
श्रीपराशर उवाच
ततस्तं भगवानाह न तेऽस्तु भयमण्वपि ।
गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गं सुरास्पदम् ॥ ७२ ॥
श्रीपराशर उवाच
विमानमागतं सद्यस्तद्वाक्यसमनन्तरम् ।
आरुह्य प्रययौ स्वर्गं लुब्धकस्तत्प्रसादतः ॥ ७३ ॥
तत इति ॥ गच्छ त्वमित्यादिना लोकसंग्रहार्थं योगेन वदेहं त्यजन्नपि भगवानात्मनो निरतिशय – मैश्वर्यं प्रकटयितुम् अनर्हमपि लुब्धकं सशरीरमेव स्वर्गमगमयदित्यभिप्रेतम् ॥ ७२, ७३ ॥
गते तस्मिन्स भगवान्संयोज्यात्मानमात्मनि ।
ब्रह्मभूतेऽव्ययेऽचिन्त्ये वासुदेवमयेऽमले ॥ ७४ ॥
अजन्मन्यमरे विष्णावप्रमेयेऽखिलात्मनि ।
तत्याज मानुषं देहमतीत्य त्रिविधां गतिम् ॥ ७५ ॥
गत इति ॥ गत इत्यादिश्लोकद्वयस्यैकान्वयः । तस्मिन् – लुब्धके स्वर्गं गते सति भगवान् श्रीकृष्णः ब्रह्मभूत इत्याद्युक्त विशेषणविशिष्टे आत्मनि – स्वस्मिन् आत्मानं – मनः संयोज्य, त्रिविधां – सात्त्विकराजसतामसरूपेण त्रिविधां गतिमतीत्य ॥ ७४, ७५ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तत्रिंशोध्यायः ॥ ३७ ॥