३४

अथ पञ्चमांशे चतुस्त्रिंशोऽध्यायः

मैत्रेय उवाच

चक्रे कर्म महच्छौरिर्बिभ्राणो मानुषीं तनुम् ।
जिगाय शक्रं शर्वं च सर्वान्देवांश्च लीलया ॥ १ ॥

॥ १ ॥

यच्चान्यदकरोत्कर्म दिव्यचेष्टाविघातकृत् ।
तत्कथ्यतां महाभाग परं कौतूहलं हि मे ॥ २ ॥

श्रीपराशर उवाच

गदतो मम विप्रर्षे श्रूयतामिदमादरात् ।
नरावतारे कृष्णेन दग्धा वाराणसी यथा ॥ ३ ॥

यच्चान्यदकरोदिति । दिव्यचेष्टाविघातकृत् – दिव्यानां शर्वादीनां चेष्टांविघातकृत् ॥ २ – ३ ॥

पौण्ड्रको वासुदेवस्तु वासुदेवोऽभवद्भुवि ।
अवतीर्णस्त्वमित्युक्तो जनैरज्ञानमोहितैः ॥ ४ ॥

पौंड्रक इति । पौण्ड्कः–पुण्ड्रदेशेशः ॥ ४ ॥

स मेने वासुदेवोऽहमवतीर्णो महीतले ।
नष्टस्मृतिस्ततःसर्वं विष्णुचिह्नमचीकरत् ॥ ५ ॥

स इति ॥ अचीकरत् — अकारयत् ॥ ५ ॥

दूतं च प्रेषयामास कृष्णाय सुमहात्मने ।
त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम चात्मनः ॥ ६ ॥

वासुदेवात्मकं मूढ त्यक्त्वा सर्वमशेषतः ।
आत्मनो जीवितार्थाय ततो मे प्रणति व्रज ॥ ७ ॥

इत्युक्तःसंप्रहस्यैनं दूतं प्राह जनार्दनः ।
निजचिह्नमहं चक्रं समुत्सृक्ष्ये त्वयीति वै ॥ ८ ॥

वाच्यश्च पैण्ड्रको गत्वा त्वया दूत वचो मम ।
ज्ञातस्त्वद्वाक्यसद्भावो यत्कार्यं तद्विधीयताम् ॥ ९ ॥

गृहीतचिह्नवेषोहमागमिष्यामि ते पुरम् ।
उत्स्रक्ष्यामि च तच्चक्रं निजचिह्नमसंशयम् ॥ १० ॥

आज्ञापूर्वं च यदिदमागच्छेति त्वयोदितम् ।
संपादयिष्ये श्वस्तुभ्यं समागम्याविलंबितम् ॥ ११ ॥

दूतं चेति ॥ इत्युक्त्तवा दूतं च प्रेषयामासेति, इत्युक्तो दूतेनोक्त इति तंत्रेणेतिशब्दो योज्यः ॥ ६ – ११ ॥

शरणं ते समभ्येत्य कर्तास्मि नृपते तथा ।
यथा त्वत्तो भयं भूयो न मे किञ्चिद्भविष्यति ॥ १२ ॥

इत्युक्तेऽपगते दूते संस्मृत्याभ्यागतं हरिः ।
गरुत्मन्तमथारुह्य त्वरितस्तत्पुरं ययौ ॥ १३ ॥

ततस्तु केशवोद्योगं श्रुत्वा काशीपतिस्तदा ।
सर्वसैन्यपरीवारः पार्ष्णिग्राह उपाययौ ॥ १४ ॥

ततो बलेन महता काशीराजबलेन च ।
पौण्ड्रको वासुदेवोऽसौ केशवाभिमुखो ययौ ॥ १५ ॥

तं ददर्श हरिर्दूरादुदारस्यन्दने स्थितम् ।
चक्रहस्तं गदाशार्ङ्गबाहुं पाणिगतांबुजम् ॥ १६ ॥

शरणमिति ॥ शरणमित्यादि प्रणतिं व्रजेत्यस्योत्तरम् । समभ्येत्य ते शरणं – हिंसां कर्तास्मि; शीर्णाद्धि शत्रोर्न भूयो भयं भवेदिति भावगर्भम् ॥ १२ – १६ ॥

स्रग्धरं पीतवसनं सुपर्मरचितध्वजम् ।
वक्षस्थले कृतं चास्य श्रीवत्सं ददृशे हरिः ॥ १७ ॥

स्रग्धरमिति ॥ सुपर्णरचितध्वजं – सुपर्णरचनोपेतध्वजम् ॥ १७ ॥

किरीटकुण्डलधरं नानारत्नोपशोभितम् ।
तं दृष्ट्वा भावगंभीरं जहास गरुडध्वजः ॥ १८ ॥

किरीटेति ॥ कृत्रिममपि मत्सारूप्यं सत्यमिव भातीति भावगम्भीरं जहास ॥ १८ ॥

युयुधे च बलेनास्य हस्त्यश्वबलिना द्विज ।
निस्त्रिंशासिगदाशूलशक्तिकार्मुकशालिना ॥ १९ ॥

क्षणेन शार्ङ्गनिर्मुक्तैः शरैररिविदारणैः ।
गदाचक्रनिपातैश्च सूदयामास तद्बलम् ॥ २० ॥

काशीराजबलं चैवं क्षयं नीत्वा जनार्दनः ।
उवाच पैण्ड्रकं मूढमात्मचिह्नोपलक्षितम् ॥ २१ ॥

श्रीभगवानुवाच

पौण्ड्रकोक्तं त्वया यत्तु दूतवक्त्रेण मां प्रति ।
समुत्सृजेति चिह्नानि तत्ते संपादयाम्यहम् ॥ २२ ॥

चक्रमेतत्समुत्सृष्टं गदेयं ते विसर्जिता ।
गरुत्मानेष चोत्सृष्टःसमारोहतु ते ध्वजम् ॥ २३ ॥

युयुध इति ॥ हस्त्यश्वबलिना – हस्त्यश्वैर्बलवता ॥ १९ – २३ ॥

श्रीपराशर उवाच

इत्युच्चार्य विमुक्तेन चक्रेणासौ विदारितः ।
पातितो गदया भग्नो ध्वजश्चास्य गरुत्मता ॥ २४ ॥

इत्युच्चार्येति ॥ चक्रेण विदारितः, गदया पातितः ॥ २४ ॥

ततो हाहाकृते लोके काशीपुर्यधिपो बली ।
युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ॥ २५ ॥

ततः शार्ङ्गधनुर्मुक्तैश्छित्त्वा तस्य शिरः शरैः ।
काशीपुर्यां स चिक्षेप कुर्वंल्लोकस्य विस्मयम् ॥ २६ ॥

हत्वा त पौड्रकं शौरि काशीराजं च सानुगम् ।
पुनर्द्वारवतीं प्राप्तो रेमे स्वर्गगतो यथा ॥ २७ ॥

तच्छिरः पतितं तत्र दृष्ट्वा काशीपतेः पुरे ।
जनः किमेतदित्याह च्छिन्नं केनेति विस्मितः ॥ २८ ॥

ज्ञात्वां तं वासुदेवेन हतं तस्य सुतस्ततः ।
पुरोहितेन सहितस्तोषयामास शङ्करम् ॥ २९ ॥

अविमुक्ते महाक्षेत्रे तोषितस्तेन शङ्करः ।
वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ॥ ३० ॥

तत इति ॥ अपचितिः – पूजा ॥ २५ – ३० ॥

स वव्रे भगवन्कृत्या पितृहन्तुर्वधाय मे ।
समुतिष्ठतु कृष्णस्य त्वत्प्रसादान्महेश्वर ॥ ३१ ॥

स वव्र इत्यादि ॥ पितृहन्तुः – जायमानो मातुरागर्भो हन्तीत्यादिमन्त्रलिङ्गात्, पित्रोररण्यो – र्हन्तुरग्नेः – कृष्णस्य–कृष्णवर्णज्वालत्वेनाभिचारे ध्येयस्य मे – मदीयस्य शत्रोंः नाशाय कृत्या समुत्तिष्ठत्वित्यर्थः । अनन्तरमेतद्वि – वृणोति—तस्यैवाग्निर्विनाशनीति । यद्वा मे पितृहन्तुः कृष्णस्य वधाय कृत्या समुत्तिष्ठत्विति ॥ ३१ ॥

श्रीपराशर उवाच

एवं भविष्यतीत्युक्ते दक्षिणाग्नेरनन्तरम् ।
महाकृत्या समुत्तस्थौ तस्यैवाग्नेर्विनाशनी ॥ ३२ ॥

ततो ज्वालाकरालास्या ज्वलत्केशकपालिका ।
कृष्णकृष्णेति कुपिता कृत्या द्वारवरीं ययौ ॥ ३३ ॥

तामवेक्ष्य जनस्त्रासाद्विचलल्लोचनो मुने ।
ययौ शरण्यं जगतां शरणं मधुसूदनम् ॥ ३४ ॥

काशीराजसुतेनेयमाराध्य वृषभध्वजम् ।
उत्पादिता महाकृत्येत्यवगम्याथ चक्रिणा ॥ ३५ ॥

एवं भविष्यतीति ॥ तस्यैतवाग्नेर्विनाशिनीति । तस्य दक्षिणाग्नेरेव विनाशिनीति । अनेन कृत्यायाः क्रौर्यमुच्यते। तस्यैवात्मविनाशिनीति पाठे, तस्यैव – अभिचरत एव ॥ ३२ – ३५ ॥

जहि कृत्यामिमामुग्रां वह्निज्वालाजटालकाम् ।
चक्रमुत्सृष्टमक्षेषु क्रीडासक्तेन लीलया ॥ ३६ ॥

तदग्निमालाजटिलज्वालोद्गारातिभीषणाम् ।
कृत्यामनुजगामाशु विष्णुचक्रं सुदर्शनम् ॥ ३७ ॥

जहीति ॥ जहीत्युत्सृष्टं चक्रम् अक्षक्रीडासक्तेन भगवता ॥ ३६, ३७ ॥

चक्रप्रतापनिर्दग्धा कृत्या माहेश्वरी तदा ।
ननाश वेगिनी वेगात्तदप्यनुजगाम ताम् ॥ ३८ ॥

कृत्या वाराणसीमेव प्रविवेश त्वरान्विता ।
विष्णुचक्रप्रतिहतप्रभावा मुनिसत्तम ॥ ३९ ॥

ततः काशीबलं भूरि प्रमथानां तथा बलम् ।
समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ ॥ ४० ॥

शस्त्रास्त्रमोक्षचतुरं दग्ध्वा तद्बलमोजसा ।
कृत्यागर्भामशेषां तां तदा वाराणसीं पुरीम् ॥ ४१ ॥

सभूभृद्भृत्यपौरां तु साश्वमातङ्गमानवाम् ।
अशेषगोष्ठकोशां तां दुर्निरिक्ष्यां सुरैरपि ॥ ४२ ॥

ज्वालापरिष्कृताशेषगृहप्राकारचत्वराम् ।
ददाह तद्धरेश्चक्रं सकलामेव तां पुरीम् ॥ ४३ ॥

अक्षीणामर्षमत्युग्रं साध्यसाधनसस्पृहम् ।
तच्चक्रं प्रस्फुरद्दीप्ति विष्णोरभ्याययौ करम् ॥ ४४ ॥

चक्रप्रतापेति ॥ ननाश – पलायांबभूव नाशः पलायने मृत्यौ इति वैजयन्ती ॥ ३८ – ४४ ॥ ३

इति श्रीविष्णुमहापुराणे पञ्जमांशे चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥