३१

श्रीविष्णुपुराणम्

अथ पञ्चमांशे एकत्रिंशोऽध्यायः

श्रीपराशर उवाच

संस्तुतो भगवानित्थं देवराजेन केशवः ।
प्रहस्य भावगंभीरमुवाचेन्द्रं द्विजोत्तम ॥ १ ॥

संस्तुत इति । भावगंभीरं – सूचितार्थगहनम् ॥ १ ॥

श्रीकृष्ण उवाच

देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते ।
क्षन्तव्यं भवतैवेदमपराधं कृतं मम ॥ २ ॥

पारिजाततरुश्चायं नीयतामुचितास्पदम् ।
गृहीतोऽयं मया शक्र सत्यावचनकारणात् ॥ ३ ॥

देवराज इति ॥ अपराधकृतं – कृतापराधमित्यर्थः ॥ २, ३ ॥

वज्रं चेदं गृहाण त्वं यदत्र प्रहितं त्वया ।
तवैवैतत्प्रहरणं शक्र वैरिविदारणम् ॥ ४ ॥

वज्रं चेति ॥ तवैव योग्यमिति शेषः ॥ ४॥

इन्द्र उवाच

विमोहयसि मामीश मर्त्योऽहमिति किं वदन् ।
जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम् ॥ ५ ॥

विमोहयसीति ॥ नैव सूक्ष्मविदः सूक्ष्मरूपं न विद्मः ॥ ५ ॥

योऽसि सोऽसि जगत्त्रणप्रवृत्तौ नाथ संस्थितः ।
जगतः शल्यनिष्कर्षं करोष्यमुरसूदन ॥ ६ ॥

नीयतां पारीजातोऽयं कृष्ण द्वारवतींपुरीम् ।
मर्त्यलोके त्वया त्यक्ते नायं संस्थास्यते भुवि ॥ ७ ॥

देवदेव जगन्नाथ कृष्ण विष्णो महाभुज ।
शङ्खचक्रगदापाणे क्षमस्वैतद्व्यतिक्रमम् ॥ ८ ॥

य इति ॥ शल्यनिष्कर्षं – कंटकोद्धारम् ॥ ६ – ८ ॥

श्रीपराशर उवाच

तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः ।
प्रसक्तैः सिद्धगन्धर्वैः स्तूयमानः सुरर्षिभिः ॥ ९ ॥

ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः ।
हर्षमुत्पादयामास द्वारकावासिनां द्विज ॥ १० ॥

अवतीर्याथ गरुडात्सत्यभामा सहायवान् ।
निष्कुटे स्थापयामास पारिजातं महातरुम् ॥ ११ ॥

यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ।
वास्यते यस्य पुष्पोत्थगन्धेनोर्वी त्रियोजनम् ॥ १२ ॥

तथेति ॥ प्रसक्तैः – अनुबद्वैः ॥ ९ – १२ ॥

ततस्ते यादवाःसर्वे देहबन्धानमानुषान् ।
ददृशुः पादपे तस्मिन् कुर्वन्तो मखदर्शनम् ॥ १३ ॥

किङ्करैः समुपानीतं हस्त्यश्वादि ततो धनम् ।
विभज्य प्रददौ कृष्णो बान्धवानां महामतिः ॥ १४ ॥

तत इति ॥ मुखदर्शनम्——अभिमुखदर्शनम् । अमानुषान्– प्राचीनान् । ददृशुः—ज्ञातवन्तः ॥ १३, १४ ॥

कन्याश्च कृष्णे जग्राह नरकस्य परिग्रहान् ॥ १५ ॥

ततः काले शुभे प्राप्ते उपयेमे जनार्दनः ।
ताः कन्या नरकेणासन्सर्वतो यास्समाहृताः ॥ १६ ॥

एकस्मिन्नेव गोविन्दः काले तासां महामुने ।
जग्राह विधिवत्पाणीन्पृथग्गेहेषु धर्मतः ॥ १७ ॥

षोडशस्त्रीसहस्राणि शतमेकं ततोऽधिकम् ।
तावन्ति चक्रे रूपाणि भगवान्मधुसूदनः ॥ १८ ॥

एकैकमेव ताः कन्या मेनिरे मधुसूदनः ।
ममैव पाणिग्रहणं मैत्रेय कृतवानिति ॥ १९ ॥

निशासु च जगत्स्रष्टा तासां गेहेषु केशवः ।
उवास विप्र सर्वासां विश्वरूपधरो हरिः ॥ २० ॥

कन्याश्चेति ॥ परिग्रहान्– स्वभूतान् ॥ १५ – २० ॥

इति श्रीविष्णुमहापुराणे पञ्चमांश एकत्रिंशोऽध्यायः ॥ ३१ ॥