अथ पञ्चमांशे त्रिंशोऽध्यायः
श्रीपराशर उवाच
गरुडो वारुणं छत्रं तथैव मणिपर्वतम् ।
सभार्यं च हृषीकेशं लीलयैव वहन्ययौ ॥ १ ॥
ततश्शंखमुपाध्मासीत्स्वर्गद्वारगतो हरिः ।
उपतस्थुस्तथा देवाःसार्घ्यहस्ता जनार्दनम् ॥ २ ॥
स देवैरर्चितः कृष्णो देवमातुर्निवेशनम् ।
सिताभ्रशिखराकारं प्रविश्य ददृशेऽदितिम् ॥ ३ ॥
स तां प्रणम्य शक्रेण सह ते कुण्डलोत्तमे ।
ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥ ४ ॥
ततः प्रीताजगन्माता धातारं जगतां हरिम् ।
तुष्टावादितिरव्यग्रा कृत्वा तत्प्रवणं मनः ॥ ५ ॥
अदितिरुवाच
नमस्ते पुण्डरीकाक्ष भक्तानामभयङ्कर ।
सनातनात्मन् सर्वात्मन् भूतात्मन् भूतभावन ॥ ६ ॥
॥ १ – ६ ॥
प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक ।
त्रिगुणातीत निर्द्वद्व शुद्धसत्त्व हृदि स्थित ॥ ७ ॥
सितदीर्घादिनिः शेषकल्पनापरिवर्जित ।
जन्मादिभिरसंस्पृष्ट स्वप्नादिपरिवर्जित ॥ ८ ॥
संध्यारात्रिरहो भूमिर्गगनं वायुरंबु च ।
हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाऽच्युत ॥ ९ ॥
प्रणेतरिति ॥ गुणात्मक – कल्याणगुणात्मक ॥ ७ – ९ ॥
सर्गस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् ।
ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वर ॥ १० ॥
सर्गेति ॥ कर्तृपतिः––कर्तॄणां ब्रह्मादीनां पतिः ॥ १० ॥
देवा दैत्यास्तथा यक्षा राक्षसाः सिद्धपन्नगाः ।
कूष्माण्डाश्च पिशाचाश्च गन्धर्वा मनुजास्तथा ॥ ११ ॥
पशवश्च मृगाश्चैव पतङ्गाश्च सरीसृपाः ।
वृक्षगुल्मलता बह्व्यःसमस्तास्तृणजातयः ॥ १२ ॥
देवा इति ॥ देवा इत्यादिना तृणजातय इत्यन्तेन भगवतो देवतिर्यगादिचतुर्विध चेतनात्मत्वमुच्यते ॥ ११,१२ ॥
स्थूला मध्यास्तथा सूक्ष्माःसूक्ष्मात्सूक्ष्मतराश्च ये ।
देहभेदा भवान् सर्वे ये केचित्पुर्गलाश्रयाः ॥ १३ ॥
स्थूला इति ॥ स्थूला इत्यादिना पुर्गलाश्रया इत्यन्तेन तस्यैव तद्देहात्मकत्वमुच्यते । ये केचित्पुर्ण – आश्रयाः देहमेदाः ते सर्वे भवानित्यन्वयः । पुर्गलो जीवः । यया कौर्मे – अहंकारोऽमिमानश्च कर्ता मन्ता च स्मृतः । आत्मा च पुर्गलो जीवो यतस्सर्वाः प्रसूतयः ॥ इति ॥ पूरणाद्गलनांद्देहे पुर्गलाः परमाणवः प्राहताः ॥ १३ ॥
माया तवेयमज्ञातपरमार्थाऽतिमोहिनी ।
अनात्मन्यात्मविज्ञानं यया मूढो निरुद्ध्यते ॥ १४ ॥
मायेति ॥ अज्ञातपरमार्था – अज्ञातः परमार्यो ब्रह्म यस्या हेतोस्सा अज्ञातपरमार्था । अतिमोहिनी इयं गुणात्मिका माया तब – त्वदीया । मायाकार्यमाह – अनात्मनीति । अस्यास्य पूर्वेणान्वयः ॥ १४ ॥
अस्वे स्वमिति भावोऽत्र यत्पुंसामुपजायते ।
अहं ममेति भावो यत्प्रायेणैवाभिजायते ।
संसारमातुर्मायायास्तवैतन्नाथ चेष्टितम् ॥ १५ ॥
यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् ।
ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ॥ १६ ॥
अस्वे स्वमिति ॥ अस्त्रे स्वमिति भावः – ज्ञाननुपजायत इति यत् एतत्तव त्वदीयायाः संसार – र्मायायाः चेष्टितम् ॥ १५,१६ ॥
ब्रह्माद्याःसकला देवा मनुष्याः पशवस्तथा ।
विष्णुमाया महावर्तमोहान्धतमसाऽऽवृताः ॥ १७ ॥
ब्रह्माद्या इति ॥ मायैव महावर्तः, तत्कृतो मोह एवा धतमसं, तेनावृताः ॥ १७ ॥
आराध्य त्वामभीप्संते कामानात्मभवक्षयम् ।
यदेते पुरुषा माया सैवेयं भगवंस्तव ॥ १८ ॥
मया त्वं पुत्रकामिन्या वैरिपक्षजयाय च ।
आराधितो न मोक्षाय मायाविलसितं हि तत् ॥ १९ ॥
आराध्येति ॥ कामानमीप्सन्त इति यत, तत्तव मायैव – मायाचेष्टितमित्यर्थः ॥ १८, १९ ॥
कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमादपि ।
जायते यदपुण्यानां सोऽपराधः स्वदोषजः ॥ २० ॥
कौपीनेति ॥ कौपीनाच्छादनप्राया – तद्बहला, तद्विषयेत्यर्थः । स्वदोषो – दुष्कर्म ॥ २० ॥
तत्प्रसीदाखिलजगन्मायामोहकराव्यय ।
अज्ञानं ज्ञानसद्भावभूतं भूतेश नाशय ॥ २१ ॥
नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ।
नन्दहस्ताय ते विष्णो शङ्खहस्ताय ते नमः ॥ २२ ॥
एतत्पश्यामि ते रूपं स्थूलचिह्नोपलक्षितम् ।
न जानामि परं यत्ते प्रसीद परमेश्वर ॥ २३ ॥
तदिति ॥ मायया मोहो—मायामोहः । ज्ञानसद्भावभूत – सम्यग्ज्ञानवरूप । ज्ञानसद्भावभूतमिति पाठे ज्ञानमपि विज्ञानतयाऽवभासमानमज्ञानमिति ॥ २१ – २३ ॥
श्रीपराशर उवाच
अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् ।
माता देवि त्वमस्माकं प्रसीद वरदा भव ॥ २४ ॥
अदिदिरुवाच
एवमस्तु यथेच्छा ते त्वमशेषैः सुरासुरैः ।
अजेयः पुरुषव्याघ्र सर्त्यलोके भविष्यसि ॥ २५ ॥
श्रीपराशर उवाच
ततः कृष्णस्य पत्नी च शक्रेण सहिताऽदितिम् ।
सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥ २६ ॥
अदित्येति ॥ प्रहस्य–हासेन गोहयित्वा, अरणिः – जन्मभूः ॥ २४ – २६ ॥
अदितिरुवाच
मत्प्रसादान्न ते सुभ्रु जरा वैरूप्यमेव वा ।
भविष्यत्यनवद्याङ्गि सुस्थिरं नवयौवनम् ॥ २७ ॥
श्रीपराशर उवाच
अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् ।
यथावत्पूजयामास बहुमानपुरःसरम् ॥ २८ ॥
शची च सत्यभामायै पारिजातस्य पुष्पकम् ।
न ददौ मानुषीं मत्वा स्वयं पुष्पैरलङ्कृता ॥ २९ ॥
ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् ।
दवोद्यानानि हृद्यानि नन्दनादीनि सत्तम ॥ ३० ॥
ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् ।
नित्याह्लादकरं ताम्रबालपल्लवशोभितम् ॥ ३१ ॥
मथ्यमानेऽमृते जातं जातरूपोपमत्वचम् ।
पारिजातं जगन्नाथः केशवः केशिसूदनः ॥ ३२ ॥
तुतोष परमप्रीत्या तरुराजमनुत्तमम् ।
तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तम ।
कस्मान्न द्वारकामेष नीयते कृष्ण पादपः ॥ ३३ ॥
मत्प्रसादादिति ॥ सर्वकालमनवद्याङ्गी भविष्यति ॥ २७ – ३३ ॥
यदि चेत्त्वद्वचः सत्यं त्वमत्यर्थं प्रियेति मे ।
मद्गेहनिष्कुटार्थाय तदयं नीयतां तरुः ॥ ३४ ॥
न मे जांबवती तादृगभीष्टा न च रुक्मिणी ।
सत्ये यथा त्वभित्युक्तं त्वया कृष्णासकृत्प्रियम् ॥ ३५ ॥
सत्यं तद्यदि गोविन्द नोपचारकृतं मम ।
तदस्तु पारिजातोऽयं मम गेहविभूषणम् ॥ ३६ ॥
बिभ्रती पारिजातस्य केशपक्षेण मञ्जरीम् ।
सपत्नीनामहं मध्ये शोभेयमिति कामये ॥ ३७ ॥
श्रीपराशर उवाच
इत्युक्तस्स प्रहस्यैनां पारिजातं गरुत्मति ।
आरोपयामास हरिस्तमूचुर्वनरक्षिणः ॥ ३८ ॥
भो शची देवराजस्य महिषी तत्परीग्रहम् ।
पारिजातं न गोविन्द हर्तुमर्हसि पादपम् ॥ ३९ ॥
उत्पन्नो देवराजाय दत्तःसोऽपि ददौ पुनः ।
महिष्यै सुमहाभाग देव्यै शच्यै कुरूहलात् ॥ ४० ॥
शचीविभूषणार्थाय देवैरमृतमन्थने ।
उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥ ४१ ॥
देवराजो मुखप्रेक्षी यस्यास्तस्याः परिग्रहम् ।
मैढ्यात्प्रार्थयसे क्षेमी गृहीत्वैनं हि को व्रजेत् ॥ ४२ ॥
यदीति ॥ निष्कुटः –गृहोद्यानग ॥ ३४ – ४२ ॥
अवश्यमस्य देवेन्द्रो निष्कृतिं कृष्ण यास्यति ।
वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः ॥ ४३ ॥
तदलं सकलैर्देवैर्विग्रहेण तवाच्युत ।
विपाककटु यत्कर्म तन्न शंसंति पण्डिताः ॥ ४४ ॥
श्रीपराशर उवाच
इत्युक्ते तैरुवाचैतान् सत्यभामाऽतिकोपिनी ।
का शची पारिजातस्य को वा शक्रःसुराधिपः ॥ ४५ ॥
सामान्यःसर्वलोकस्य यद्येषोऽमृतमन्थने ।
समुत्पन्नस्तरुः कस्मादेको गृह्णाति वासवः ॥ ४६ ॥
यथा सुरा यथैवेन्दुर्यथा श्रीर्वनरक्षिणः ।
सामान्यःसर्वलोकस्य पारिजातस्तथा द्रुमः ॥ ४७ ॥
भर्तृ बहुमहागर्वाद्रुणद्ध्येनमथो शची ।
तत्कथ्यतामलं क्षान्त्या सत्वा हारयति द्रुमम् ॥ ४८ ॥
कथ्यतां च द्रुतं गत्वा पौलोम्या वचनं मम ।
सत्यभामा वदत्येतदितिगर्वोद्धताक्षरम् ॥ ४९ ॥
यदि त्वं दयिता भर्तुर्यदि वश्यः पतिस्तव ।
मद्भर्तुर्हरतो वृक्षं तत्कारय निवारणम् ॥ ५० ॥
जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् ।
पारिजातं तथाऽप्येनं मानुषी हारयामि ते ॥ ५१ ॥
श्रीपराशर उवाच
इत्युक्ता रक्षिणो गत्वा शच्याः प्रोचुर्यथोदितम् ।
श्रुत्वा चोत्साहयामास शची चक्रं सुराधिपम् ॥ ५२ ॥
ततःसमस्तदेवानां सैन्यैः परिवृतो हरिम् ।
प्रययौ पारिजातार्थमिन्द्रो योद्धुं द्विजोत्तम ॥ ५३ ॥
ततः परिघनिस्त्रिंशगदाशूलवरायुधाः ।
बभूवुस्त्रिदसाःसज्जाः शक्रे वज्रकरे स्थिते ॥ ५४ ॥
ततो निरिक्ष्य गोविन्दो नागराजोपरि स्थितम् ।
शक्रं देवपरिवारं युद्धाय समुपस्थितम् ॥ ५५ ॥
चकार शङ्खनिर्घोषं दिशश्शब्देन पूरयन् ।
मुमोच शरसंघातान् सहस्रायुतशः शितान् ॥ ५६ ॥
ततो दिशो नभश्चैव दृष्ट्वा शरशतैश्चितम् ।
मुमुचुस्त्रिदशाःसर्वे ह्यस्त्रशस्त्राम्यनेकशः ॥ ५७ ॥
एकैकमस्त्रं शस्त्रं च दैवैर्मुक्तं सहस्रशः ।
चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥ ५८ ॥
पाशं सलिलराजस्य समाकृष्योरगाशनः ।
चकार खण्डशश्चञ्च्वा बालपन्नगदेहवत् ॥ ५९ ॥
यमेन प्रहितं दण्डं गदाविक्षेपखण्डितम् ।
पृथिव्यां पातयामास भगवान् देवकीसुतः ॥ ६० ॥
अवश्यमिति ॥ यास्यति — करिष्यति ॥ ४३ – ६० ॥
शिबिकां च धनेशस्य चक्रेण तिलशो विभुः ।
चकार शौरिरर्कं च दृष्टिदृष्टहतौजसम् ॥ ६१ ॥
नीतोऽग्निः शीततां बाणैर्द्राविता वसवो दिशः ।
चक्रविच्छिन्नशुलाग्रा रुद्रा भुवि निपातिताः ॥ ६२ ॥
शिबिकां चेति ॥ दृष्टहतौजसं दृष्टत्वादेव हतौजसम् ॥ ६१, ६२ ॥
साध्या विश्वेऽथ मरुतो गन्धर्वाश्चैव सायकैः ।
शार्ङ्गिणा प्रेरितैरस्ता व्योम्नि शाल्मलितूलवत् ॥ ६३ ॥
गरुत्मानपि तुण्डेन पक्षाभ्यां च नखाङ्कुरैः ।
भक्षयंस्ताडयन् देवान् दारयंश्च चचार वै ॥ ६४ ॥
ततः शतसहस्रेण देवेन्द्रमधुसूदनौ ।
परस्परं ववर्षाते धाराभिरिव तोयदौ ॥ ६५ ॥
ऐरावतेन गरुडो युयुधे तत्र संकुले ।
देवैः समस्तैर्युयुधे शक्रेण च जनार्दनः ॥ ६६ ॥
भिन्नेष्वशेषबाणेषु शस्त्रेष्वस्त्रेषु च त्वरन् ।
जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम् ॥ ६७ ॥
ततो हाहाकृतं सर्वं त्रैलोक्यं द्विजसत्तम ।
वज्रचक्रकरौ दृष्ट्वा देवाराज जनार्दनौ ॥ ६८ ॥
क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान्हरिः ।
न मुमोच तदा चक्रं शक्रं तिष्ठेति चाब्रवीत् ॥ ६९ ॥
प्रणष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् ।
सत्यभामाऽब्रवीद्वीरं पलायनपरायणम् ॥ ७० ॥
साध्येति ॥ अस्ताः – निरस्ता इत्यर्थः ॥ ६३ – ७० ॥
त्रैलोक्येश न ते युक्तं शचीभर्तुः पलायनम् ।
पारिजातस्रगाभोगा त्वामुपस्थास्यते शची ॥ ७१ ॥
कीदृशं देवराज्यं ते पारिजातिस्रगुज्ज्वलाम् ।
अपश्यतो यथापूर्वं प्रणयाभ्यागतां शचीम् ॥ ७२ ॥
अलं शक्र प्रयासेन न व्रीडां गन्तुमर्हसि ।
नीयतां पारिजातोऽयं देवाःसंतु गतव्यथाः ॥ ७३ ॥
परिगर्वावलेपेन बहुमानपुरःसरम् ।
न ददर्श गृहं यातामुपचारेण मां शची ॥ ७४ ॥
स्त्रीत्वादगुरुचित्ताऽहं स्वभर्तृश्लाघनापरा ।
ततः कृतवती शक्र भवता सह विग्रहम् ॥ ७५ ॥
तदलं पारीजातेन परस्वेन हृतेन मे ।
रूपेण गर्विता सा तु भर्त्रा का स्त्री न गर्विता ॥ ७६ ॥
त्रैलोक्येति ॥ स्रगाभोगा – आभुज्यत इत्या – भोगः स्रक् आभोगों यस्यास्सा स्रगाभोगा ॥ ७१ – ७६ ॥
श्रीपराशर उवाच
इत्युक्तो वै निववृते देवराजस्तया द्विज ।
प्राह चैनामलं चण्डि सख्युः खेदोक्तिविस्तरैः ॥ ७७ ॥
न चापि सर्गसंहारस्थितिकर्ताऽखिलस्य यः ।
जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥ ७८ ॥
इतीति ॥ हे चण्डि–उग्रे । खेदोक्तिविस्तरैः – मत्खेद विषयैरुक्तिविस्तरैः, अलम् ॥ ७७, ७८ ॥
यस्माज्जगत्सकलमेतदनादिमध्याद्यस्मिन्यतश्च न भविष्यति सर्वभूतात् ।
तेनोद्भवप्रलयपालनकारणेन व्रीडा कथं भवति देवि निराकृतस्य ॥ ७९ ॥
यस्मादिति ॥ सकलं जगत् यस्माद्भवति, यस्मिन् भवति, यतो न भविष्यति, इत्यमुद्भवादिकारणेन तेन ॥ ७९ ॥
सकलभुवनसूतिर्मूर्तिरल्पाल्पसूक्ष्मा विदितसकलवेद्यैर्ज्ञायते यस्य नान्यैः ।
तमजमकृतमीशं शाश्वतं स्वेच्छयैनं जगदुपकृतिमर्त्यं को विजेतुं समर्थः ॥ ८० ॥
सकलभुवनेति ॥ मूर्तिः–रूपम् । अल्पाल्पसूक्ष्मा अतिसूक्ष्मतरा ॥ ८० ॥
इति श्रीपिष्णुमहापुराणे पञ्चमांसे त्रिंशोध्यायः ॥ ३० ॥