२९

अथ पञ्चमांशे एकोनत्रिंशोऽध्यायः

श्रीपराशर उवाच

द्वारवत्यां स्थिते कृष्णे शक्रस्त्रिभुवनेश्वरः ।
आजगामाथ मैत्रेय मत्तैरावतपृष्ठगः ॥ १ ॥

प्रविश्य द्वारकां सोऽथ समेत्य हरिणा ततः ।
कथयामास दैत्यस्य नरकस्य विचोष्टितम् ॥ २ ॥

त्वया नाथेन देवानां मनष्यत्वेऽपि तिष्ठता ।
प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥ ३ ॥

तपस्विव्यमनार्थाय सोऽरिष्टो धेनुकस्तथा ।
प्रवृत्तो यस्तथा केशी ते सर्वे निहतास्त्वया ॥ ४ ॥

कंसः कुवलयापीडः पूतना बालघातिनी ।
नाशं नीतास्त्वया सर्वे येऽन्ये जगदुपद्रवाः ॥ ५ ॥

इदानीं भौमवधप्रसंगेन हरे महश्रमार्या नभं यक्तृमिन्द्रगमाद्यादिकमाह द्वारवत्यामिति ॥ १ – ५॥

युष्मद्दोर्दडसंभूतिपरित्राते जगत्त्रये ।
यज्वयज्ञांशसंप्राप्त्या तृप्तिं यान्ति दिवौकसः ॥ ६ ॥

सोऽहं सांप्रतमायातो यन्निमित्तं जनार्दन ।
तच्छुत्वा तत्प्रतीकारप्रयत्नं कर्तुमर्हसि ॥ ७ ॥

भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः ।
करोति सर्वभूतानामुपघातमरिन्दम ॥ ८ ॥

देवसिद्दसुरादीनां नृपाणां च नजार्दन ।
हृत्वा तु सोऽसुरः कन्या रुरुधे निजमन्दिरे ॥ ९ ॥

छत्रं यत्सलिलस्रावि तज्जहार प्रचेतसः ।
मदंरस्य तथा शृङ्गं हृतवान्मणिपर्वतम् ॥ १० ॥

अमृतस्त्राविणी दिव्ये मन्मातुः कृष्णकुञ्जले ।
जहार सोऽसुरोऽदित्या वाञ्छत्यैरावतं गजम् ॥ ११ ॥

दुर्नीतमेतद्गोविन्द मया तस्य निवेदितम् ।
यदत्र प्रतिकर्तव्यं तत्स्वयं परिमृश्यताम् ॥ १२ ॥

श्रीपराशर उवाच

इति श्रुत्वा स्मितं कृत्वा भगवान्देवकीसुतः ।
गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥ १३ ॥

युष्मदिति ॥ संभूतिः – सत्ता ॥ ६ – १३ ॥

संचिन्त्यागतमारुह्य गरुडं गगनेचरम् ।
सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥ १४ ॥

आरुह्यैरावतं नागं शक्रोऽपि त्रिदिवं ययौ ।
ततौ जगाम कृष्णश्च पश्यतां द्वारकौकसाम् ॥ १५ ॥

संचिन्त्येति ॥ सत्यभामा समारोपणं तस्याः भूम्यंशत्वात् त्वःपुत्रं त्वदनुज्ञया हनिष्यामीति वरदानात्त – दनुज्ञया भौमं हन्तुम्, तथा नारददत्तपारिजातपुष्पप्रीतरुक्मिणीर्ष्यया कुद्धसत्यभामासांत्वने तुभ्यं तं तरुमेव दास्यामीति हरिवंशोक्तां प्रतिज्ञां च कर्तुम् ॥ १४, १५ ॥

प्राग्ज्योतिषपुरस्यापि समन्ताच्छतयोजनम् ।
आचिता मौरवैः पाशैः क्षुरान्तैर्भूर्द्विजोत्तम ॥ १६ ॥

ताञ्चिच्छेद हरिः पाशान्क्षिप्त्वा चक्रं सुदर्शनम् ।
ततो मुरःसमुत्तस्थौ तं जघान च केशवः ॥ १७ ॥

मुरस्य तनयान्सप्त सहस्रांस्तांस्ततो हरिः ।
चक्रधाराग्निनिर्दग्धांश्चकार शलभानिव ॥ १८ ॥

हत्वासुरं हयग्रीवं तथा पञ्चजनं द्विज ।
प्राग्ज्योतिषपुरं धीमांस्त्वरावान्समुपाद्रवत् ॥ १९ ॥

नरकेनास्य तत्राभून्महासैन्येन संयुगम् ।
कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान्सहस्रशः ॥ २० ॥

शस्त्रास्त्रवर्षं मुञ्चन्तं तं भौमं नरकं बली ।
क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥ २१ ॥

हते तु नरके भूमिर्गृहीत्वाऽदितिकुण्डले ।
उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ॥ २२ ॥

पृथ्व्युवाच

यदाऽहमुद्धृता नाथ त्वया सूकरमूर्तिना ।
त्वत्स्पर्शसंभवः पुत्रस्तदाऽयं मय्यजायत ॥ २३ ॥

सोऽयं त्वयैव दत्तो मे त्वयैव विनिपातितः ।
गृहाण कुण्डले चेमे पालयास्य च संततिम् ॥ २४ ॥

भारावतरणार्थाय ममैव भगवानिमम् ।
अंशेन लोकमायातः प्रसादसुमुखः प्रभो ॥ २५ ॥

प्राग्ज्योतिषपुरस्येति ॥ मौरवैः – मुरसंज्ञरक्षः कृतैः ॥ १६ – २५ ॥

त्वं कर्ता च विकर्ता च संहर्ता प्रभवोऽप्ययः ।
जगतान्त्वं जगद्रूपःस्तूयतेऽच्युत किं तव ॥ २६ ॥

व्यापी व्याप्यं क्रियाकर्ता कार्यं च भगवान्यथा ।
सर्वभूतात्मभूतस्य स्तूयते तव किं तथा ॥ २७ ॥

परमात्मा च भूतात्मा त्वमात्मा चाव्ययो भवान् ।
यथातथा स्तुतिर्नाथ किमर्थं ते प्रवर्तते ॥ २८ ॥

त्वमिति ॥ कर्ता—निमित्तकारणम् । विकार्ता–विशेषेण कर्ता, पोषकः । प्रभवोद्भवः प्रभवस्य जन्मनः उपादानम् । तव संबंधि किं स्तूयते ॥ २६ – २८ ॥

प्रसीद सर्वभूतात्मन्नरकेण तु यत्कृतम् ।
तत्क्षम्यतामदोषाय त्वत्सुतस्त्वन्निपातितः ॥ २९ ॥

श्रीपराशर उवाच

तथेति चोक्त्वा धरणीं भगवान् भूतभावनः ।
रत्नानि नरकावासाज्जग्राह मुनिसत्तम ॥ ३० ॥

कन्यापुरे स कन्यानां षोडशातुलविक्रमः ।
शताधिकानि ददृशे सहस्राणि महामुने ॥ ३१ ॥

चतुर्दंष्ट्रान्गजांश्चाग्र्यान् षट्सहस्रांश्च दृष्टवान् ।
कांभोजानां तथाऽश्वानां नियुतान्येकविंशतिम् ॥ ३२ ॥

ताः कन्यास्तांस्तथा नागांस्तानश्वान् द्वारकां पुरीम् ।
प्रापयामास गोविन्दःसद्यो नरककिङ्करैः ॥ ३३ ॥

ददृशे वारुणं च्छत्रं तथैव मणिपर्वतम् ।
आरोपयामास हरिर्गरुडे पतगेश्वरे ॥ ३४ ॥

आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् ।
अदित्याः कुण्डले दातुं जगाम त्रिदशालयम् ॥ ३५ ॥

प्रसीदेति ॥ अदोषाय – धर्मस्थापनाय ॥ २९ – ३५ ॥

इति श्रीविष्णुमहापुराणे पञ्चमांश एकोनत्रिंशोऽध्यायःयः ॥ २९ ॥