अथ पञ्चमांशेऽष्टाविंशोऽध्यायः
श्रीपराशर उवाच
चारुदेष्णं सुदेष्णं च चारुदेहं च वीर्यवान् ।
सुषेणं चारुगुप्तं च भद्रचारुं तथा परम् ॥ १ ॥
चारुविन्दं सुचारुं च चारुं च बलिनां वरम् ।
रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा ॥ २ ॥
॥ १,२ ॥
अन्याश्च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः ।
कालिन्दी मित्रविन्दा च सत्या चाग्नजिती तथा ॥ ३ ॥
देवी जाम्बवती चापि रोहिणी कामरूपिणी ।
मद्रराजसुता चान्या सुशीला शीलमण्डना ॥ ४ ॥
सत्राजिती सत्यभामा लक्ष्मणा चारुहासिनी ।
षोडशासन् सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥ ५ ॥
प्रद्युम्नोऽपि महावीर्यो रुक्मिणस्तनयां शुभाम् ।
स्वयंवरे तां जग्राह सा च तं तनयं हरेः ॥ ६ ॥
तस्यामस्याभवत्पुत्रो महाबलपराक्रमः ।
अनिरुद्धो रणेऽरुद्धवीर्योदधिररिन्दमः ॥ ७ ॥
तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः ।
दौहित्राय ददौ रक्मी तां स्पर्धन्नपि चक्रिणा ॥ ८ ॥
तस्या विवाहे रामाद्या यादवा हरिणा सह ।
कल्याणार्थं ततःसर्वे ये चान्ये भूभृतस्तथा ।
रुक्मिणी नगरं जग्मुर्नाम्ना भोजकटं द्विज ॥ ९ ॥
विवाहे तत्र निर्वृत्ते प्रद्युम्नस्य महात्मनः ।
कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥ १० ॥
अन्या इति ॥ मित्रविन्दा – सत्या – जांबवती – रोहिणी – सुशीला – सत्यभामा – लक्ष्मणाख्यास्सत प्रधानाः। आसां कालिन्द्यादीनि क्रमाद्विशेषणानि । इयं लक्ष्मणा चतुर्थेंशे चारुहासिनीत्युक्ता ॥ ३ – १० ॥
अनक्षज्ञो हली द्युते तथाऽस्य व्यसनं महत् ।
तज्जयामो बलं कस्माद्द्युते नैनं महाबलम् ॥ ११ ॥
श्रीपराशर उवाच
तथेति तानाह नृपान्रुक्मी बलमदान्वितः ।
सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥ १२ ॥
सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः ।
द्वितीयेऽपि पणे चान्यत्सहस्रं रुक्मिणा जितः ॥ १३ ॥
ततो दशसहस्राणि निष्काणां पणमाददे ।
बलभद्रोऽजयत्तानि रुक्मी द्युतविदां वरः ॥ १४ ॥
ततो जहास स्वनवत्कलिङ्गाधिपतिर्द्विज ।
दन्तान् विदर्शयन्मूढो रुक्मी चाह मदोद्धतः ॥ १५ ॥
अविद्योऽयं मया द्यूते बलभद्रः पराजितः ।
भुधैवाक्षावलेपान्धो योऽवमेनेऽक्षकोविदान् ॥ १६ ॥
दृष्ट्वा कलिङ्गराजानं प्रकाशदशनाननम् ।
रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥ १७ ॥
अनक्षज्ञ इति ॥ तथा – तथाऽपि । व्यसनम् – आसङ्गः ॥ ११ – १७ ॥
ततः कोपपरीतात्मा निष्ककोटिं समाददे ।
ग्लहं जग्राह रुक्मी च तदर्थेऽक्षानपातयत् ॥ १८ ॥
अजयद्बलदेवस्तं प्राहोच्चैर्विजितं मया ।
मयेति रुक्मी प्राहोच्चैरलीकोक्तेरलं बल ॥ १९ ॥
तत इति ॥ ग्लहं–पणम् । तदर्थे – कोटिग्लहार्थे तथेत्यनुक्त्तवाऽक्षानपातयत् ॥ १८, १९ ॥
त्वयोक्तोऽयं ग्लहःसत्यं न मयैषोऽनुमोदितः ।
एवं त्वया चेद्विजितं विजितं न मया कथम् ॥ २० ॥
श्रीपराशर उवाच
अथान्तरिक्षे वागुच्चैः प्राह गंभीरनादिनी ।
बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥ २१ ॥
त्वयेति ॥ त्वयोक्तस्य पणबन्धस्योभयानुमत्या भाव्यतया तथा विनाऽप्यन्यतरजय श्वेदितरस्यापि स एवं जयः किं न स्यादिति भावः ॥ २०,२१ ॥
जितं बलेन धर्मेण रुक्मिणा भाषितं मृषा ।
अनुक्त्वाऽपि वचः किञ्चित्कृतं भवति कर्मणा ॥ २२ ॥
जितमिति ॥ अनुक्त्या – ग्लहानुज्ञावचनमकृत्वाऽप्यक्षपातनादिना कर्मणा तद्वचनं कृतं भवति अनुमतिमूल क्रियानुष्ठान दर्शनात् अनुमतिस्सिद्वैवेति भावः ॥ २२ ॥
ततो बलः समुत्थाय कोपसंरक्तलोचनः ।
जघानाष्टापदेनैव रुक्मिणं स महाबलः ॥ २३ ॥
कलिङ्गराजं चादाय विस्फुरन्तं बलाद्बलः ।
बभञ्ज दन्तान्कुपितो यैः प्रकाशैर्जहास सः ॥ २४ ॥
तत इति ॥ अष्टापदेन – द्यूतफलकेन ॥ २३, २४ ॥
आकृष्य च महास्तंभं जातरूपमयं बलः ।
जघान तान्ये तत्पक्षे भूभृतः कुपितो भृशम् ॥ २५ ॥
ततो हाहाकृतं सर्वं पलायनपरं द्विज ।
तद्राजमण्डलं भीतं बभूव कुपिते बले ॥ २६ ॥
बलेन निहतं दृष्ट्वा रुक्मिणं मधुसूदनः ।
नोवाच किञ्चिन्मैत्रेय रुक्मिणीबलयोर्भयात् ॥ २७ ॥
ततोऽनिरुद्धमादाय कृतदारं द्विजोत्तम ।
द्वारकामाजगामाथ यदुचक्रं च केशवः ॥ २८ ॥
आकृष्येति ॥ पश्चरूपं–पश्चवर्णम् । विचित्रिनमिति च पाठः ॥ २५ – २८ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशेऽष्टाविंशोध्यायः ॥ २८ ॥