२५

अथ पञ्चमांशे पञ्चविंशोऽध्यायः

श्रीपराशर उवाच

वने विचरतस्तस्य सह गोपैर्महात्मनः ।
मानुषच्छद्मरूपस्य शेषस्य धरणीधृतः ॥ १ ॥

॥ १ ॥

निष्पादितोरुकार्यस्य कार्येणोर्वीप्रचारिणः ।
उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥ २ ॥

अभीष्टा सर्वदा यस्य मदिरे त्वं महौजसः ।
अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ ३ ॥

इत्युक्ता वारुणी तेन सन्निधानमथाकरेत् ।
वृन्दावनसमुत्पन्नकदं बतरुकोटरे ॥ ४ ॥

निष्पादितेति ॥ कार्येण – देवानाम् ॥ २ – ४ ॥

विचरन् बलदेवोऽपि मदिरागन्धमुत्तमम् ।
आघ्राय मदिरातर्षमवापाथ वराननः ॥ ५ ॥

ततः कदंबात्सहसा मद्यधारां स लाङ्गली ।
पतन्तीं वीक्ष्य मैत्रेय प्रययौ परमां मुदम् ॥ ६ ॥

पपौ च गोपगोपीभिः समुपेतो मुदाऽन्वितः ।
प्रगीयमानो ललितं गीतवाद्यविशारदैः ॥ ७ ॥

स मत्तोऽत्यन्तघर्मांभःकणिकामौक्तिकोज्ज्वलः ।
आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः ॥ ८ ॥

तस्य वाचं नदी सा तु मत्तोक्तामवमत्य वै ।
नाजगाम ततः क्त्रुद्धो हलं जग्राह लाङ्गली ॥ ९ ॥

विचरन्निति ॥ तर्षं – तृष्णाम् ॥ ५ – ९ ॥

गृहीत्वा तां हलान्तेन चकर्ष मदविह्वलः ।
पापे नायासि नायासि गम्यतामिच्छयाऽन्यतः ॥ १० ॥

साकृष्टा सहसा तेन मार्गं संत्यज्य निम्नगा ।
यत्रास्ते बलभद्रोऽसौ प्लावयामास तद्वनम् ॥ ११ ॥

शरीरिणी तदाऽभ्येत्य त्रासविह्वललोचना ।
प्रसीदेत्यब्रवीद्रामं मुञ्च मां मुसलायुध ॥ १२ ॥

ततस्तस्याः सुवचनमाकर्ण्य स हलायुधः ।

सोऽब्रवीदवजानासि मम शौर्यबले नदि ।
सोऽहं त्वां हलपातेन नयिष्यामि सहस्रधा ॥ १३ ॥

श्रीपराशर उवाच

इत्युक्तयाऽतिसंत्रासात्तया नद्य प्रसादितः ।
भूभागे प्लाविते तस्मिन्मुमोच यमुनां बलः ॥ १४ ॥

ततः स्नातस्य वै कान्तिरजायत महात्मनः ॥ १५ ॥

गृहीत्वेति ॥ नायासि नायासीति कोपाद्वीप्सा । गम्यतां शक्तिरस्ति चेत् ॥ १० – १५ ॥

अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् ।

वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् ।
समुद्राभे तथा वस्त्रे नीले लक्ष्मीरयच्छत ॥ १६ ॥

कृतावतंसः स तदा चारुकुंडलभूषितः ।
नीलांबरधरःस्रग्वी शुशुभे कान्तिसंयुतः ॥ १७ ॥

इत्थं विभूषितो रेमे तत्र रामस्तथा व्रजे ।
मासद्वयेन यातश्च स पुनर्द्वारकां पुरीम् ॥ १८ ॥

रेवतीं नाम तनयां रैवतस्य महीपतेः ।
उपयेमे बलस्तस्यां जज्ञाते निशितोल्मुकौ ॥ १९ ॥

अवतंसेति ॥ अवतंसेत्यादि अयच्छतेत्यन्तमेकं वाक्यम् ॥ उत्पलं – महोत्पलम् । यथा हरिवंशे मीवचनम् जातरूपमयं चैकं कुण्डलं वज्रभूषणम् । आदिपद्मं च पद्माक्ष दिव्यं श्रवणभूषणम् ॥ धेहीमा प्रतिगृह्णीष्व पौराणीं भूषणक्रियाम् । संगृह्य तमलङ्कारं ताश्च तिस्रः स्त्रियो वभौ ॥ इति । तदेवमंत्र वारुणी – कान्तिलक्ष्म्यस्तिस्रश्शक्तयो रामस्य देव्य इत्युक्तम् ॥ १६ – १९ ॥

इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चविंशोध्यायः ॥ २५ ॥