श्रीविष्णुपुराणम्
अथ पञ्चमांशे एकविंशोऽध्यायः
श्रीपराशर उवाच
तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् ।
देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर्हरिः ।
मोहाय यदुचक्रस्य विततान स वैष्णवीम् ॥ १ ॥
ताविति ॥ मायां– योगमायाम् ॥ १ ॥
उवाच चांब हे तात चिरादुत्कण्ठितेन मे ।
भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च ॥ २ ॥
कुर्वतां याति यः कालो मातापित्रोरपूजनम् ।
तत्खण्डमायुषो व्यर्थमसाधूनां हि जायते ॥ ३ ॥
गुरुदेवद्विजातीनां मातापित्रोश्च पूजनम् ।
कुर्वतां सफलः कालो देहिनां तात जायते ॥ ४ ॥
उवाचेति ॥ मे–मया ॥ २४ ॥
तत्क्षन्तव्यमिदं सर्वमतिक्रमकृतं पितः ।
कंसवीर्यप्रतापाभ्यामावयोः परवश्ययोः ॥ ५ ॥
श्रीपराशर उवाच
इत्युक्त्वाऽथ प्रणम्योभौ यदुवृद्धाननुक्रमात् ।
यथावदभिपूज्याथ चक्रतुः पौरमाननम् ॥ ६ ॥
कंसपत्न्यस्ततः कंसं परिवार्य हतं भुवि ।
विलेपुर्मातरश्चास्य दुःखशोकपरिप्लुताः ॥ ७ ॥
बहुप्रकारमस्वस्थाः पश्चात्तापातुरो हरिः ।
ताःसमाश्वासयामास स्वयमस्राविलेक्षणः ॥ ८ ॥
उग्रसेनं ततो बन्धान्मुमोच मधुसूदनः ।
अभ्यसिंचत्तदैवैनं निजराज्ये हतात्मजम् ॥ ९ ॥
राज्येऽभिषिक्तः कृष्णेन यदुसिंहःसुतस्य सः ।
चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः ॥ १० ॥
कृतौर्ध्वदैहिकं चैनं सिंहासनगतं हरिः ।
उवाचाज्ञापय विभो यत्कार्यमविशङ्कितः ॥ ११ ॥
तदिति ॥ अतिक्रमकृतमिदं सर्व क्षन्तव्यम् । अतिक्रमकारणमाह – कंसवीर्येति ॥ ५ – ११ ॥
ययातिशापाद्वंशोऽयमराज्यार्होऽपि सांप्रतम् ।
मयि भृत्ये स्थिते देवानाज्ञापयतु किं नृपैः ॥ १२ ॥
ययातीति ॥ कि नृपैराज्ञप्तैः ॥ १२ ॥
श्रीपराशर उवाच
इत्युक्त्वा सोऽस्मरद्वायुमाजगाम च तत्क्षणात् ।
उवाच चैनं भगवान्केशवः कार्यमानुषः ॥ १३ ॥
गच्छेदं ब्रूहि वायो त्वमलं गर्वोण वासव ।
दीयतामुग्रसेनाय सुधर्मा भवता सभा ॥ १४ ॥
कृष्णो ब्रवीति राजार्हमेतद्रत्नमनुत्तमम् ।
सूधर्माख्यसभा युक्तमस्यां यदुभिरासितुम् ॥ १५ ॥
श्रीपराशर उवाच
इत्युक्तः पवनो गत्वा सर्वमाह शचीपतिम् ।
ददौ सोऽपि सुधर्माख्यां सभां वायोः पुरन्दरः ॥ १६ ॥
वायुना चाहृतां दिव्यां सभां ते यदुपुङ्गवाः ।
बुभुजुःसर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः ॥ १७ ॥
इतीति ॥ कार्यमानुषः ––धर्मसंस्थापनादिकार्येण मानुषः ॥ १३ – १७ ॥
विदिताखिलविज्ञानौ सर्वज्ञानमयावपि ।
शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ सदूत्तमौ ॥ १८ ॥
विदितेति ॥ मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः इत्यमरः । क्रमः – पारंपर्यम् ॥ १८ ॥
ततःसांदीपनिं काश्यमवन्तीपुरवासिनम् ।
विद्यार्थं जग्मतुर्बालौ कृतोपनयनक्रमौ ॥ १९ ॥
वेदाभ्यासकृतप्रीति संकर्षणजनार्दनौ ।
तस्य शिष्यत्वमभ्येत्य गुरुवृत्तिपुरौ हि तौ ।
दर्शयाञ्चक्रतुर्वीरावाचारमखिले जने ॥ २० ॥
तत इति ॥ काश्यं—वारणासीजातम् ॥ १९, २० ॥
सरहस्यं धनुर्वेदं ससंग्रहमधीयताम् ।
अहोरात्रचतुःषष्ट्या तदद्भुतमभूद्द्वूज ॥ २१ ॥
सरहस्यमिति ॥ रहस्यम् – अस्त्रमन्त्रोपनिषत् । संग्रहः – अनप्रयोगसंस्थानाद्युपदेशः । अधीयताम् – अधीतवन्तौ । आर्षत्वात्साधुः ॥ २१ ॥
सांदीपनिरसंभाव्यं तयोः कर्मातिमानुषम् ।
विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥ २२ ॥
सांगांश्च चतुरो वेदान्सर्वशास्त्राणि चैव हि ।
अस्त्रग्राममशेषं च प्रोक्तमात्रमवाप्य तौ ॥ २३ ॥
ऊचतुर्व्रियतां या ते दातव्या गुरुदक्षिणा ॥ २४ ॥
सांदीपनिरिति ॥ असंभाव्यम् अन्येषु । कर्म – शस्त्रास्त्राणां शीघ्रधारणशीघ्रप्रयोगा दिकम् ॥ २२ – २४ ॥
सोऽप्यतीन्द्रियमालोक्य तयोः कर्म महामतिः ।
अयाचत सृतं पुत्रं प्रभासे लवणार्णवे ॥ २५ ॥
गृहीतास्त्रौ ततस्तौ तु सार्घ्यहस्तो महोदधिः ।
उवाच न मया पुत्रो हृतःसांदीपनेरिति ॥ २६ ॥
दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् ।
जग्राह योऽस्ति सलिले ममैवासुरसूदन ॥ २७ ॥
श्रीपराशर उवाच
इत्युक्त्वोन्तर्जलं गत्वा हत्वा पञ्चजनं च तम् ।
कृष्णो जग्राह तस्यास्थिप्रभवं शङ्खमुत्तमम् ॥ २८ ॥
यस्य नादेन दैत्यानां बलहानिरजायत ।
देवानां ववृधे तेजो यात्यधर्मश्च संक्षयम् ॥ २९ ॥
तं पाञ्चजन्यमापूर्य गत्वा यमपुरं हरिः ।
बलदेवश्च बलवाञ्जित्वा वैवस्वतं यमम् ॥ ३० ॥
स इति ॥ अतीन्द्रियं – दिव्यम् ॥ २५ – ३० ॥
तं बालं यातनासंस्थ यथापूर्वशरीरिणम् ।
पित्रे प्रदत्तवान्कृष्णो बलश्च बलिनां वरः ॥ ३१ ॥
मथुरां च पुनः प्राप्तावुग्रसेनेन पालिताम् ।
प्रहृष्टपुरुषस्त्रीकामुभौ रामजनार्दनौ ॥ ३२ ॥
तमिति ॥ यथापूर्वशरीरिणं कृत्वेति शेषः ॥ ३१ – ३२ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांश एकविंशोध्यायः ॥ २१ ॥