अथ पञ्चमांशे अष्टादशोऽध्यायः
श्रीपराशर उवाच
चिन्तयन्निति गोविन्दमुपगम्य स यादवः ।
अक्रुरोस्मीति चरणौ ननाम शिरसा हरेः ॥ १ ॥
सोऽप्येनं ध्वजवज्राब्जकृतचिह्नेन पाणिना ।
संस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वजे ॥ २ ॥
कृतसंवन्दनौ तेन यथावद्बलकेशवौ ।
ततः प्रवीष्टौ संहृष्टौ तमादायात्ममन्दिरम् ॥ ३ ॥
॥ १ – ३ ॥
सह ताभ्यां तदाऽक्रूरः कृतसंवन्दनादिकः ।
भुक्तभोज्यो यथान्याय्यमाचचक्षे ततस्तयोः ॥ ४ ॥
यथा निर्भत्सितस्तेन कंसेनानकदुन्दुभिः ।
यथा च देवकी देवी दानवेन दुरात्मना ॥ ५ ॥
उग्रसेने यथा कंसःस दुरात्मा च वर्तते ।
यं चैवार्थं समुद्दिश्य कंसेन तु विसर्जितः ॥ ६ ॥
तत्सर्वं विस्तराच्छ्रुत्वा भगवान्देवकीसुतः ।
उवाचाखिलमप्येतज्ज्ञातं दानपते मया ॥ ७ ॥
सहेति ॥ कृतसंवादनादिकः ( कृतसंवादादिकः) सुसत्कृतः ॥ ४ – ७॥
करिष्ये तन्माहभाग यदत्रौपयिकं मतम् ।
विचिन्त्यं नान्यथैतत्ते विद्धि कंसं हतं मया ॥ ८ ॥
अहं रामश्च मथुरां श्वो यास्यावःसह त्वया ।
गोपवृद्धाश्च यास्यन्ति ह्यादायोपायनं बहु ॥ ९ ॥
निशेयं नीयतां वीर न चिन्तां कर्तुमर्हसि ।
त्रिरात्राभ्यन्तरे कंसं निहनिष्यामि सानुगम् ॥ १० ॥
श्रीपराशर उवाच
समादिश्य ततो गोपानक्रूरोऽपि च केशवः ।
सुष्वाप बलभद्रश्च नन्दगोपगृहे ततः ॥ ११ ॥
ततः प्रभाते विमले कृष्णरामौ महाद्युती ।
अक्रूरेण समं गन्तुमुद्यतौ मथुरां पुरीम् ॥ १२ ॥
करिष्य इति । औपयिकं — युक्तम् ॥ ८ – १२ ॥
दृष्ट्वा गोपीजनःसास्रः श्लथद्वलयबाहुकः ।
निशश्वासातिदुःखार्तः प्राह चेदं परस्परम् ॥ १३ ॥
मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति ।
नगरस्त्रीकलालापमधु श्रोत्रेण पास्यति ॥ १४ ॥
दृष्टेति ॥ श्लथद्वलयत्वं विरहकार्यात् ॥ १३,१४ ॥
विलासिवाक्यपानेषु नागरीणां कृतास्पदम् ।
चित्तमस्य कथं भूयो ग्राम्यगोपीषु यास्यति ॥ १५ ॥
सारं समस्तगोष्ठस्य विधिना हरता हरिम् ।
प्रहृतं गोपयोषित्सु निर्घृणेन दुरात्मना ॥ १६ ॥
विलासेति ॥ विलासवाक्यपानेषु ग्राम्यगोपीषु – अविदग्धगोपीषु ॥ १५ – १६॥
भावगर्भस्मितं वाक्यं विलासललिता गतिः ।
नागरीणामतीवैतत्कटाक्षेक्षितमेव च ॥ १७ ॥
भावगर्भेति ॥ भावगर्भस्मितमिति वाक्यविशेषणम् । नागरीणामेतद्वाक्यादिकम् अतीव – पूजितम् । भूतमस्मदीयं वाक्यादिकम् । अतिक्रान्तमिति वा ॥ १७ ।
ग्राम्यो हरिरयं तासां विलासनिगडैर्युतः ।
भवतीनांपुनः पार्श्वं कया युक्त्या समेष्यति ॥ १८ ॥
ग्राम्य इति ॥ ग्राम्यः – ग्रामे भवः, यतः – यन्त्रितः । अग्राम्यत्वादपूर्वत्वेन नागरीणां बिलासादि भनीयं भवति ॥ १८ ॥
एषैष रथमारुह्य मथुरां याति केशवः ।
क्रूरेणाक्रूरकेणात्र निर्घृणेन प्रतारितः ॥ १९ ॥
एषैष इति ॥ अक्रूरकेणेति कुत्सायो कप्रत्ययः । अत्र – व्रजे । निराशेन – निरनुरागेण ॥ १९ ॥
किं न वेत्ति नृशंसोऽयमनुरागपरं जनम् ।
येनैवमक्ष्णोराह्लादं नयत्यन्यत्र नो हरिम् ॥ २० ॥
एष रामेण सहितः प्रयात्यत्यन्तनिर्घृणः ।
रथमारुह्य गोविन्दस्त्वर्यतामस्य वारणे ॥ २१ ॥
किमित्यादि । अयं स्वयं निरनुरागोऽस्तु; अनुरागपरमपि जनं किं न वेत्ति येनानुरक्तानामस्माकम – गोराह्लादकर हरिमन्यत्र नयति ॥ २०, २१ ॥
गुरूणामग्रतो वक्तुं किं ब्रवीथ न नः क्षमम् ।
गुरवःकिं करिष्यन्ति दग्धानां विरहाग्निना ॥ २२ ॥
नदङ्गोपमुखा गोपा गन्तुमेते समुद्यताः ।
नोद्यमं कुरुते कश्चिद्गोविन्दविनिवर्तने ॥ २३ ॥
गुरूणामित्यादि ॥ त्वर्यतामस्य वारणे इति नो गुरूणामग्रतो वक्तुं न क्षममिति किं ब्रवीथ किं – किमर्थम् । बिरहाग्निना दग्धानां गुरवः किं करिष्यन्ति ॥ २२,२३ ॥
सुप्रभाताऽद्य रजनी मथुरावासयोषिताम् ।
पास्यन्त्यच्युतवक्त्राब्जं यासां नेत्रालिपङ्क्तयः ॥ २४ ॥
सुप्रभातेति ॥ मथुरा आवासो यासां ताः मथुरावासाः ॥ २४ ॥
धन्यास्ते पथि ये कृष्णमितो यान्त्यनिवारिताः ।
उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ॥ २५ ॥
मथुरानगरीपौरनयनानां महोत्सवः ।
गोविन्दावयवैर्दृष्टैरतीवाद्य भविष्यति ॥ २६ ॥
को नु स्वप्नस्सभाग्याभिर्दृष्टस्ताभिरधोक्षजम् ।
विस्तारिकांतिनयना या द्रक्ष्यन्त्यनिवारिताः ॥ २७ ॥
अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् ।
उत्कृत्तान्यद्य नेत्राणि विधिनाऽकरुणात्मना ॥ २८ ॥
धन्या इति ॥ ये अनिवारिता इतो यान्ति, या अनिवारिता इतो यान्ति ते धन्याः ताः धन्याः । ते दि पथि कृष्णं पश्यन्तः, ता हि पथि कृष्णं पश्यन्त्यः, पुलकाश्चितं स्वदेहमुद्वहिष्यन्ति ॥ २५ – २८ ॥
अनुरागेण शैथिल्यमस्मासु व्रजिते हरौः ।
शैथिल्यमुपयान्त्याशु करेषु बलयान्यपि ॥ २९ ॥
अक्रूरः क्रूरहृदयश्शीघ्रं प्रेरयते हयान् ।
एवमार्तासु योषित्सु कृपा कस्य न जायते ॥ ३० ॥
एष कृष्णरथस्योच्चैश्चक्ररेणुर्निरीक्ष्यताम् ।
दूरीभूतो हरिर्येन सोऽपि रेणुर्नलक्ष्यते ॥ ३१ ॥
श्रीपराशर उवाच
इत्येवमतिहार्देन गोपीजननिरीक्षितः ।
तत्याज व्रजभूभागं सह रामेण केशवः ॥ ३२ ॥
गच्छन्तो जवनाश्वेन रथेन यमुनातटम् ।
प्रप्तमध्याह्नसमये रामाक्रूरजनार्दनाः ॥ ३३ ॥
अनुरागेणेति ॥ हरौ अस्मासु शैथिल्यं व्रजति सति अस्माकं करेषु वलयान्यपि शैथिल्यमुपयान्ति ॥ २९ – ३३ ॥
अथाह कृष्णमक्रूरो भवद्भ्यां तावदास्यताम् ।
यावत्करोमि कालिन्द्या आह्निकार्हणमंभसि ॥ ३४ ॥
श्रीपराशर उवाच
तथेत्युक्तस्ततस्नातःस्वाचान्तःस महामतिः ।
दध्यौ ब्रह्म परं विप्र प्रविष्टो यमुनाजले ॥ ३५ ॥
फणासहस्रमालाढ्यं बलभद्रं ददर्श सः ।
कुन्दमालाङ्गमुन्निद्रपद्मपत्रायतेक्षणम् ॥ ३६ ॥
वृतं वासुकिरंभाद्यैर्महद्भिः पवनाशिभिः ।
संस्तूयमानमुद्गन्धिवनमालाविभूषितम् ॥ ३७ ॥
दधानमसिते वस्त्रे चारुरूपावतंसकम् ।
चारुकुण्डलिनं भान्तमन्तर्जलतले स्थितम् ॥ ३८ ॥
तस्योत्संगे घनश्याममाताम्रायतलोचनम् ।
चतुर्बाहुमुदाराङ्गं चक्राद्यायुधभूषणम् ॥ ३९ ॥
पीते वसानं वसने चित्रमाल्योपशोभितम् ।
शक्रचापतडिन्मालाविचित्रमिव तोयदम् ॥ ४० ॥
श्रीवत्सवक्षसं चारु स्फुरन्मकरकुण्डलम् ।
ददर्श कृष्णमक्लिष्टं पुण्डरीकावतंसकम् ॥ ४१ ॥
सनन्दनाद्यैर्मुनिभिः सिद्धयोगैरकल्मषैः ।
संचिन्त्यमानं तत्रस्थैर्नासाग्रन्यस्तलोचनैः ॥ ४२ ॥
बलकृष्णौ तथाऽक्रूरः प्रत्यभिज्ञाय विस्मितः ।
अचिन्तयद्रथाच्छीघ्रं कथमत्रागताविति ॥ ४३ ॥
विवक्षोस्तंभयामास वाचं तस्य जनार्दनः ।
ततो निष्क्रम्य सलिलाद्रथमभ्यागतः पुनः ॥ ४४ ॥
ददर्श तत्र चैवोभौ रथस्योपरि निष्ठितौ ।
रामकृष्णौ यथापूर्वं मनुष्यवपुषाऽन्वितौ ॥ ४५ ॥
निमग्नश्च पुनस्तोये ददर्श च तथैव तौ ।
संस्तूयमानौ गन्धर्वैर्मुनिसिद्धमहोरगैः ॥ ४६ ॥
अथेति ॥ आह्निकार्हणं – नित्यं माध्यान्हिकाराधनम् ॥ ३४ – ४६ ॥
ततो विज्ञातसद्भावःस तु दानपतिस्तदा ।
तुष्टाव सर्वविज्ञानमयमच्युतमीश्वरम् ॥ ४७ ॥
तत इति ॥ सर्वविज्ञानमयं – सर्वस्य विज्ञान प्रचुरं, सर्वज्ञमित्यर्थः ॥ ४७ ॥
अक्रूर उवाच
सन्मात्ररूपिणोऽचिन्त्यमहिम्ने परमात्मने ।
व्यापिने नैकरूपैकस्वरूपाय नमो नमः ॥ ४८ ॥
सन्मात्ररूपिण इति ॥ सन्मात्ररूपिणे । मात्रचा सत्ताविरोध्यपक्षयादीनां व्यावृत्तिः, न त्वविरोधिन यत्वादीनाम् । नैकरूपैकस्वरूपाय कार्पावस्थायामनेकरूपाय कारणावस्थायामेकरूपाय ॥ ४८ ॥
सर्वरूपाय तेऽचिन्त्यहविर्भूताय ते नमः ।
नमो विज्ञानपाराय पराय प्रकृतेः प्रभोः ॥ ४९ ॥
सर्वरूपायेति ॥ विज्ञानपाराध – विज्ञानस्य पाराय, विज्ञानपर्यवसानाय । अस्मात्परं ज्ञेयं नास्तीत्यर्थः । अविज्ञातपारायेति वा पाठः ॥ ४९ ॥
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥ ५० ॥
भूतात्मेति ॥ भूतात्मा – शब्दादिसहितपञ्च भूतशरीरकः । पञ्चभूतानामात्मेति वा । एवमेकादशे – यात्मा । एष्वेव बुद्ध्यहंकारयोरन्तर्भावः । प्रधानात्मा – अव्यक्तात्मा । आत्मा – समष्टिव्यष्टिमुक्तरूपः । परमात्मा – आनन्दमयः । पञ्चघेति । त्रिविधं ब्रह्ममेतदितिवत् ॥ ५० ॥
प्रसीद सर्व सर्वात्म्न क्षराक्षरमयेश्वर ।
ब्रह्मविष्णुशिवाख्याभिः कल्पनाभिरुदीरितः ॥ ५१ ॥
प्रसीदेति ॥ उक्तप्रकारेण क्षराक्षरमयब्रह्मेति आख्या – संज्ञा, सैव कल्पना ॥ ५१ ॥
अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन ।
अनाख्येयाभिधानं त्वां नतोस्मि परमेश्वर ॥ ५२ ॥
अनाख्येयेति ॥ अनाख्येयस्वरूपात्मन्– अनन्ततया सामस्त्येनाभिधातुमशक्यं स्वरूपं निरूपकगुण – येस्यात्मनः सोऽनाख्येयस्वरूपात्मा, तत्संबुद्धिः । अनाख्येयप्रयोजन – उभयविभूत्यानन्दात्मकं प्रयोजनमान – दाख्यातुमशक्यं यस्य सः, तथाभूत । अनाख्येयाभिधानम् – अनन्तनामधेयत्वात्परमकारणत्वाच्च ॥ ५२ ॥
न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः ।
तद्ब्रह्म परमं नित्यमविकारि भवानजः ॥ ५३ ॥
कर्मोपाधिकनामरूपव्याकरणाविषयत्वेन जीववत्सुरपशुमनुनादिकल्पना नेत्याह – न यत्रेति ॥ शब्द – जातिगुणक्रिया द्रव्यैर्वस्तुनो विशेषणं कल्पना । आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म इति श्रुतिः । ते – नामरूपे । अन्तरा – नामरूपास्पृष्टं यत् तद्ब्रह्मेति ॥ ५३ ॥
न कल्पनामृतेऽर्थस्य सर्वस्याधिगमो यतः ।
ततः कृष्णाच्युतानन्तविष्णुसंज्ञाभिरिड्यते ॥ ५४ ॥
तथापि जगदुपकारायोपासकानुग्रहाय च स्वेच्छा गृहीत देवादिविविधरूपनामा ब्रह्मादिभिस्ततन्नामभिः स्तूयस इत्याह – न कल्पनामिति ॥ कृष्णादिनामग्रहणं भगवदवतार । दिष्वन्येषामपि नाम्नामुपलक्षणम् । मोक्षधर्मे चतुर्मुखस्यानिरुद्धोपासनमुक्तम् यस्यावताररूपाणि समर्चन्ति दिवौकसः इति चास्मिन् पुराणे ॥ ५४ ॥
सर्वार्थास्त्वमज विकल्पनाभिरेतैर्दैवाद्यैर्भवति हि यैरनन्तविश्वम् ।
विश्वात्मा त्वमिति विकारहीनमेतत्सर्वस्मिन्न हि भवतोऽस्ति किञ्चिदन्यत् ॥ ५५ ॥
सर्वार्था इति ॥ यैरेतैर्देवाद्यैर्विकल्पनाभूतैरर्थैर्विश्व भवति ते सर्वार्थास्त्वं विकारहीन मेतदात्मवस्तु च त्वम् । अतो विश्वात्मा त्वमिति सर्वस्मिन् भत्रतोऽन्यन्न किंचिदस्तीति योजना ॥ ५५ ॥
त्वं ब्रह्मा पशुपतिर्यमा विधाता धाता त्वं त्रिदशपतिःसमीरणोऽग्निः ।
तोयेशो धनपतिंरतकस्त्वमेको भिन्नार्थैर्जगदभिपासि शक्तिभेदैः ॥ ५६ ॥
त्वं ब्रह्मेति ॥ भिनार्थै – भिन्नकार्यैः । शक्तिभेदैः – ब्रह्मादिरूपभेदैः ॥ ५६ ॥
विश्वं भवान्सृजति सूर्यगभस्तिरूपो विश्वेश ते गुणमयोऽयमतः प्रपञ्चः ।
रूपं परं सदिति वाचकमक्षरं यज्ज्ञानात्मने सदसते प्रणतोऽस्मि तस्मै ॥ ५७ ॥
विश्वमिति ॥ सूर्यगभस्तिरूपो भूत्वा वृष्टिद्वारा विश्वं सृजति । प्रपञ्चश्च ते शेषभूतः । सदिति पदं यस्य वाचकं तत्सदिति वाचकम् । अक्षरं यत्परं रूपम् – ॐ तत्सदिति हि गीतम् । ज्ञानात्मने – ज्ञानस्व – रूपाय । सदसते – चिदचिदधिष्ठात्रे । तस्मै रूपाय नम इत्यन्वयः ॥ ५७ ॥
ओं नमो वासुदेवाय नमःसंकर्षणाय च ।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥ ५८ ॥
ओमिति ॥ ॐ नमो वासुदेवायेत्यादिः चतुर्व्यूहमन्त्रः ॥ ५८ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशेऽष्टाशोऽध्यायः ॥ १८ ॥