१५

अथ पञ्चमांशेपञ्चदशोऽध्यायः

श्रीपराशर उवाच

ककुद्मति हतेऽरिष्टे धेनुके विनिपातिते ।
प्रलंबे निधनं नीते धृते गोवर्धनाचले ॥ १ ॥

दमिते कालिये नागे भग्नेतुङ्गद्रुमद्वये ।
हतायां पूतनायां च शकटे परिवर्तिते ॥ २ ॥

ककुद्मतीति । ककुद्मति – वृषभे ॥ १, २ ॥

कंसाय नारदः प्राह यथावृत्तमनुक्रमात् ।
यशोदादेवकीगर्भपरिवृत्ताद्यशेषतः ॥ ३ ॥

कंसायेति ॥ गर्भपरिवर्तः – – अपत्यव्यत्ययः ॥ ३ ॥

श्रुत्वा तत्सकलं कंसो नारदाद्देवदर्शनात् ।
वसुदेवं प्रति तदा कोपं चक्रे सुदुर्मतिः ॥ ४ ॥

श्रुत्वेति ॥ देवदर्शनात् – देवानामिव दर्शनं यस्य तस्मात् ॥ ४ ॥

सोऽतिकोपादुपालभ्य सर्वयादवसंसदि ।
जगर्ह यादवांश्चैव कार्यं चैतदचिन्तयत् ॥ ५ ॥

यावन्न बलमारूढौ रामकृष्णौ सुबालकौ ।
तावदेव मया वध्यावसाध्यौ रूढयौवनौ ॥ ६ ॥

चाणूरोऽत्र महावीर्यो मुष्टिकश्च महाबलः ।
एताभ्यां मल्लयुद्धेन मारयिष्याम दुर्मती ॥ ७ ॥

धनुर्महमहायोगव्याजेनानीय तौ व्रजात् ।
तथा तथा यतिष्यामि यास्येते संक्षयं यथा ॥ ८ ॥

श्वफल्कतनयं शूरमक्रूरं यदुपुङ्गवम् ।
तयोरानयनार्थाय प्रेषयिष्यामि गोकुलम् ॥ ९ ॥

वृन्दा वनचरं घोरमादेक्ष्यामि च केशिनम् ।
तत्रैवासावतिबलस्तावुभौ घातयिष्यति ॥ १० ॥

गजः कुवलायापीडो मत्सकाशमिहागतौ ।
घातयिष्यति वा गोपौ वसुदेवसुतावुभौ ॥ ११ ॥

श्रीपराशर उवाच

इत्यालोच्य स दुष्टात्मा कंसो रामजनार्दनौ ।
हन्तुं कृतमतिवीरावक्रूरं वाक्यमब्रवीत् ॥ १२ ॥

कंस उवाच

भो भो दानपते वाक्यं क्रियतां प्रीतये मम ।
इतः स्यन्दनमारुह्य गम्यतां नन्दगोकुलम् ॥ १३ ॥

वसुदेवसुतौ तत्र विष्णोरंशसमुद्भवौ ।
नाशाय किल संभूतौ मम दुष्टौ प्रवर्धतः ॥ १४ ॥

धनुर्महो ममाप्यत्र चतुर्दश्यां भविष्यति ।
आनेयौ भवता गत्वा मल्लयुद्धाय तत्र तौ ॥ १५ ॥

चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम ।
ताभ्यां सहानयोर्युद्धं सर्वलोकोऽत्र पश्यतु ॥ १६ ॥

गजः कुवलयापीडो महामात्रप्रचोदितः ।
स वा हनिष्यते पापौ वसुदेवात्मजौ शिशु ॥ १७ ॥

तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् ।
हनिष्ये पितरं चैनमुग्रसेनं सुदुर्मतिम् ॥ १८ ॥

ततःसमस्तगोपानां गोधनान्यखिलान्यहम् ।
वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् ॥ १९ ॥

त्वामृते यादवाश्चैते द्विषो दानपते मम ।
एतेषां च वधायाहं यतिष्येऽनुक्रमात्ततः ॥ २० ॥

तदा निष्कण्टकं सर्वं राज्यमेतदयादवम् ।
प्रसाधिष्ये त्वया तस्मान्मत्प्रीत्यै वीर गम्यताम् ॥ २१ ॥

स इति ॥ उपालभ्य – विगर्ह्य ॥ ५ – २१॥

यथा च माहिषं सर्पिर्दधि क्षीरं तथा बहु ।
गोपाःसमानयन्त्वाशु तथा वाच्यास्त्वया च ते ॥ २२ ॥

श्रीपराशर उवाच

इत्याज्ञप्तस्तदाऽक्रूरो महाभागवतो द्वज ।
प्रीतिमानभवत्कृष्णं श्वोद्रक्ष्यामीति सत्वरः ॥ २३ ॥

तथेत्यक्त्वा च राजानं रथमारुह्य शोभनम् ।
निश्चक्राम ततः पुर्या मथुराया मधुप्रियः ॥ २४ ॥

यथा चेति ॥ उपहार्य – उपायनीकृत्य । समानयन्त्वाशु चोपहार्य तथातथेति च पाठः ॥ २२ – २४ ॥

इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चदशोऽध्यायः ॥ १५ ॥