१४

अथ पञ्चमांशेचतुर्दशोऽध्यायः

श्रीपराशर वाच

प्रदोषाग्रो कदाचित्तु रासासक्ते जनार्दने ।
त्रासयन्समदो गौष्ठमरिष्टसमुपागमत् ॥ १ ॥

स तोयतोयदच्छायस्तीक्ष्णशृङ्गोऽर्कलोचनः ।
खुराग्रपातैरत्यर्थं दारयन्धरणीतलम् ॥ २ ॥

॥ १, २ ॥

लेलिहानःसनिष्पेषं जिह्वयोष्ठौ पुनःपुनः ।
संरंभाविद्धलाङ्गूलः कठिनस्कन्धबन्धनः ॥ ३ ॥

लेलिहान इति ॥ सनिष्पेषं – सशब्दम् । आविद्धं – वक्रितम् ॥ ३ ॥

उदग्रककुदाभोगप्रमाण दुरतिक्रमः ।
विण्मूत्रलिप्तपृष्ठाङ्गो गवमुद्वेगकारकः ॥ ४ ॥

प्रलंबकण्ठोऽतिमुखस्तरुखाताङ्किताननः ।
पातयन्स गावं गर्भान्दैत्यो वृषभरूपधृक् ॥ ५ ॥

सूदयंस्तापसानुग्रो वनान्यटति यःसदा ॥ ६ ॥

ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः ।
गोपा गोपस्त्रियश्चैव कृष्णकृष्णेति चुक्रुशुः ॥ ७ ॥

सिंहनादं ततश्चक्रे तलशब्दं च केशवः ।
तच्छब्द श्रवणाच्चासौ दामोदरमुपाययौ ॥ ८ ॥

अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः ।
अभ्यधावत दुष्टात्मा कृष्णं वृषभदानवः ॥ ९ ॥

आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलः ।
न चचाल तदा स्थानादवज्ञास्मितलीलया ॥ १० ॥

उदग्रेति ॥ उदग्रः – अतिशायितः, ककुदाभोगः – प्रमाणं च यस्य । उदग्रककुदाभोगः प्रमाणादिति च पाठः ॥ ४ – १०॥

आसन्नं चैव जग्राह ग्राहवन्मधुसूदनः ।
जघान जानुना कुक्षौ विषाणग्रहणाचलम् ॥ ११ ॥

तस्य दर्पबलं भङ्क्त्वा गृहीतस्य विषाणयोः ।
अपींडयदरिष्टस्य कण्ठं क्लिन्नमिवांबरम् ॥ १२ ॥

उत्पाट्य शृङ्गमेकं तु तेनैवाताडयत्ततः ।
ममार स महादैत्यौ मुखाच्छोणितमुद्वमन् ॥ १३ ॥

तुष्टुवुर्निहते तस्मिन् दैत्ये गोपा जनार्दनम् ।
जंभे हते सहस्राक्षं पुरा देवगणा यथा ॥ १४ ॥

आसन्नमिति ॥ ग्राहवत् – प्राह इव ॥ ११ – १४ ॥

इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्दशोध्यायः ॥ १४ ॥