१३

अथ पञ्चमांशे त्रयोदशोऽध्यायः

श्रीपराशर उवाच

गते शक्रे तु गोपालाः कृष्णमक्लिष्टकारिणम् ।
ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम् ॥ १ ॥

वयमस्मान्महाभाग भगवन्महतो भयात् ।
गावश्च भवता त्राता गिरिधारणकर्मणा ॥ २ ॥

॥ १,२ ॥

बालक्रीडेयमतुला गोपालत्वं जुगुप्सितम् ।
दिव्यं च भवतः कर्म किमेतत्तात कथ्यताम् ॥ ३ ॥

कालीयो दमितस्तोये धेनुको विनिपातितः ।
धृतो गोवर्धनश्चायं शङ्कितानि मनांसि नः ॥ ४ ॥

बालक्रीडेति ॥ बालक्रीडा – पूतनावधादि । कर्म – अद्रिधारणादि ॥ ३, ४ ॥

सत्यं सत्यं हरेः पादौ शपामोऽमितविक्रम ।
यथावद्वीर्यमालोक्य न त्वां मन्यामहे नरम् ॥ ५ ॥

सत्यंसत्यमिति ॥ पादौ – पादाभ्याम् ॥ ५ ॥

प्रीतिःसस्त्रीकुमारस्य व्रजस्य त्वयि केशव ।
कर्म चेदमशक्यं यत्समस्तैस्त्रिदशैरपि ॥ ६ ॥

प्रीतिरिति ॥ एकस्मिन् सर्वेषां प्रीतिश्चामानुषत्वशङ्काहेतुः ॥ ६ ॥

बालत्वं चातिवीर्यत्वं जन्म चास्मास्वशोभनम् ।
चिन्त्यमानममेयात्मञ्छङ्कां कृष्ण प्रयच्छति ॥ ७ ॥

बालत्वमिति ॥ अतिवीर्यत्वमिति बालत्वविशेषणम् । अशोभनमिति जन्मविशेषणम् ॥ ७ ॥

देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।
किमस्माकं विचारेण बान्धवोऽसि नमोस्तु ते ॥ ८ ॥

श्रीपराशर उवाच

क्षणं भूत्वा त्वसौ तूष्णीं किञ्चित्प्रणयकोपवान् ।
इत्येवमुक्तस्तैर्गोपैः कृष्णोऽप्याह महामतिः ॥ ९ ॥

श्रीभगवानुवाच

मत्संबन्धेन वो गोपा यदि लज्जा न जायते ।
श्लाघ्यो वाऽहं ततः किं वो विचारेण प्रयोजनम् ॥ १० ॥

यदि वोऽस्ति मयि प्रीतिः श्लाघ्योऽहं भवतां यदि ।
तदात्मबन्धुसदृशी बुद्धिर्वः क्रियातां मयि ॥ ११ ॥

देवो वेति ॥ सर्वथा देवादिष्वन्यतम एवास्माकं बान्धवोऽसि, न गोपालमात्रम् । किं विचारेण नात्र संशयः ॥ ८ – ११ ॥

नाहं देवो न गन्धर्वो न यक्षो न च दानवः ।
अहं वो बान्धवो जातो नैतच्चिन्त्यमितोऽन्यथा ॥ १२ ॥

श्रीपराशर उवाच

इति श्रुत्वा हरेर्वाक्यं बद्धमौनास्ततो वनम् ।
ययुर्गोपा महाभाग तस्मन्प्रणयकोपिनि ॥ १३ ॥

कृष्णस्तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम् ।
तदा कुमुदिनीं फुल्लामामोदितदिगन्तराम् ॥ १४ ॥

वनराजीं तथा कूजन्द्भृङ्गमालामनोहराम् ।
विलोक्य सह गोपीभिर्मनश्चक्रे रतिं प्रति ॥ १५ ॥

नाहमिति ॥ अहं वो बान्धवः केवलं गोपः ॥ १२ – १५ ॥

विना रामेण मधुरमतीव वनिताप्रियम् ।
जगौ कलपदं शौरिस्तारमन्द्रकृतक्रमम् ॥ १६ ॥

रम्यं गीतध्वनिं श्रुत्वा संत्यज्यावसथांस्तदा ।
आजग्मुस्त्वरिता गोप्यो यत्रास्ते मधुसूदनः ॥ १७ ॥

विनेति ॥ कलपदम् – अव्यक्तमधुराक्षरं गेयम । तारमन्द्रकृतक्रमम् । तारमन्द्रौ उच्चोपांशुध्वनि – धर्मो । नानामात्रकृतक्रममिति पाठे द्रुतमध्यविलंबिताख्यत्रिमात्र लयकृतस्यरक्रमम् । नानातन्त्रीकृतक्रममिति पाठे वीणाङ्गध्वनिवन्नियतनिबद्धस्वरक्रमम् ॥ १६, १७ ॥

शनैः शनैर्जगौ गोपी काचित्तस्य लयानुगम् ।
दत्तावधाना काचिच्च तमेव मनसाऽस्मरत् ॥ १८ ॥

काचित्कृष्णेति कृष्णेति प्रोक्त्वा लज्जामुपाययौ ।
ययौ च काचित्प्रेमान्धा तत्पार्श्वमविलंबितम् ॥ १९ ॥

शनैश्शनैरिति ॥ तस्य लयानुगं द्रुतमध्यविलंबिताख्यत्रिलयात्मकताल विश्रान्तिकालानुगुणम् । तालान्तरालवर्ती यः कालोऽसौ लयनाल्लयः इति वचनात् । दत्तावधाना – कृतावधाना ॥ १८, १९ ॥

काचिच्चावसथस्यान्ते स्थित्वा दृष्ट्वा बहिर्गुरुम् ।
तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना ॥ २० ॥

काचिदिति ॥ काचिदावसथस्येत्यनेन गोप्याः कामद्वारा भगवति लय उच्यते । तन्मयत्वेन आत्म – नस्तत्तादात्म्येन ॥ २० ॥

तच्चित्तविमलाह्लादक्षीणपुण्यचया तथा ।
तदप्राप्तिमहादुःखविलीनाशेषपातका ॥ २१ ॥

तच्चित्तेति ॥ तच्चित्तेन—तच्चित्तेन चितेन जातविमलाह्रादेन क्षीणपुण्यचया । वैमल्यं दुःखासंभेदः । अनेन पूर्वसंचितप्रारम्बनिश्शेषकर्मक्षयो मोगादुक्तः ॥ २१ ॥

चिन्तयती जगत्सूतिं परब्रह्मस्वरूपिणम् ।
निरुच्छूवासतया मुक्तिं गताऽन्या गोपकन्यका ॥ २२ ॥

चिंतयन्तीति । परब्रह्म स्वरूपिणि – स्वरूपि परब्रह्मणि । परब्रह्मस्वरूपिणमिति पाठे परब्रह्मभूतमिति । छ्वासतया—पियानुभवरूपध्यानादन्तमग्ने मनसि तद्विनाभूतप्राण देरप्यन्तर्गतत्वान्निरुच्छासत्वम् । दशम्या – प्रियमिति कामशास्त्रे बल्लभसायुज्यमुक्तम् । द्वेषाच्चैद्यादेरिव कामाद्गोपीनां सायुज्यमुपपन्नम् ॥ २२ ॥

गोपीपरिवृतो रात्रिं शरच्चन्द्रमनोरमाम् ।
मानयामास गोविन्दो रासारंभरसोत्सुकः ॥ २३ ॥

गोपीपरिवृत इति ॥ रासारंभेति । रासो नाम अन्योन्यव्यतिषक्तहस्तं गायती स्त्रीपुंसां मण्डलीभूय चानृत्तं रासः । उक्तं च – अनेकनर्तकीयोज्यं चित्रताललयान्वितम् । आचतुष्षष्ठियुगलादासकं मसुणोद्धतम् ॥ २३ ॥

गोप्यश्च वृन्दशः कृष्णचेष्टास्वायत्तमूर्तयः ।
अन्यदेशं गते कृष्णे चेरुर्वृन्दावनान्तरम् ॥ २४ ॥

कृष्णे निबद्धहृदया इदमूचुः परस्परम् ॥ २५ ॥

गोप्यश्चेति । अन्यदेशं गत इति विप्रलंभशृंगारोक्तिः संभोगपोषार्था । कृष्णचेष्टास्वायत्तमूर्तयः इति नोक्तिः । यदाह भरतः प्रियानुकरणं लीला मधुराङ्गविचेष्टितैः इति ॥ २४, २५ ॥

कृष्णोऽहमेष ललितं व्रजाम्यालोक्यतां गतिः ।
अन्या ब्रवीति कृष्णस्य मम गीतिर्निशम्यताम् ॥ २६ ॥

दुष्टकालिय तिष्ठात्र कृष्णोऽहमिति चापरा ।
बाहुमास्फोट्य कृष्णस्य लीलया सर्पमाददे ॥ २७ ॥

अन्या ब्रवीति भो गोपा निःशङ्कैः स्थीयतामिति ।
अलं वृष्टिभयेनात्र धृतो गोवर्धनो मया ॥ २८ ॥

धेनुकोऽयं मयाक्षिप्तो विचरन्तु यथेच्छया ।
गावो ब्रवीति चैवान्या कृष्णलीलानुसारिणी ॥ २९ ॥

कृष्णोऽहमिति ॥ ललितं व्रजामीति । सुकुमारोऽङ्गविन्यासो मसृणो ललितं भवेत् इति ॥ २६ – २९ ॥

एवं नानाप्रकारासु कृष्णचेष्टासु तास्तदा ।
गोप्यो व्यग्रास्समं चेरू रम्यं वृन्दावनान्तरम् ॥ ३० ॥

विलोक्यैका भुवं प्राह गोपी गोपवराङ्गना ।
पुलकाञ्चितसर्वाङ्गी विकासिनयनोत्पला ॥ ३१ ॥

एवमिति ॥ व्यग्राः उत्सुकाः ॥ ३०, ३१ ॥

ध्वजबज्राङ्कुशाब्जाङ्करेखावन्त्यालि पश्यत ।
पदान्येतानि कृष्णस्य लीलाललितगामिनः ॥ ३२ ॥

ध्वजवज्रेति ॥ ध्वजवज्राङ्कशब्जरूपरेखावन्ति । आलि— हे सख्यः । आर्षो वचनव्यत्ययः ॥ ३२ ॥

काऽपि तेन समायाता कृतपुण्या मदालसा ।
पदानि तस्याश्चैतानि घनान्यल्पतनूनि च ॥ ३३ ॥

कापीति ॥ घनानि–मद मंथरत्वादल्पान्तराणि, अल्पतनूनि – स्त्रीत्वात् ह्रस्वान्यपृथूनि च ॥ ३३ ॥

पुष्पापचयमत्रोच्चैश्चक्रे दामोदरे ध्रुवम् ।
येनाग्राक्रान्तमात्राणि पदान्यत्र महात्मनः ॥ ३४ ॥

पुष्पापचयमिति ॥ अग्राकान्तमात्राणि – प्रपदमात्राकान्तानि ॥ ३४ ॥

अत्रोपविश्य वै तेन काचित्पुष्पैरलङ्कृता ।
अन्यजन्मनि सर्वात्मा विष्णुरभ्यर्चितस्तया ॥ ३५ ॥

अत्रेति ॥ मृदितस्थलनिपतितपुष्पादिलिङ्गदर्शनेन अनुमानम् ॥ ३५ ॥

पुष्पबन्धनसंमानकृतमानामपास्य ताम् ।
नन्दगोपसुतो यातो मार्गेणानेन पश्यत ॥ ३६ ॥

पुष्पबन्धनेति ॥ मानो गर्वः ॥ ३६ ॥

अनुयातैनमत्रान्या नितंबभरमन्थरा ।
या गन्तव्ये द्रुतं याति निम्नपादाग्रसंस्थितिः ॥ ३७ ॥

हस्तन्यस्ताग्रहस्तेयं तेन याति तथा सखी ।
अनायत्तपदन्यासा लक्ष्यते पदपद्धतिः ॥ ३८ ॥

अनुयातेति ॥ पुरतो याति – गच्छति कृष्णे, ते प्राप्तुं द्रुतं गन्तव्ये सति निम्नपादामसंस्थितिया अनुयाता इयमन्येत्यन्वयः ॥ २७, ३८ ॥

हस्तसंस्पर्शमात्रेण धूर्तेनैषा विमानिता ।
नैराश्यान्मन्दगामिन्या निवृत्तं लक्ष्यते पदम् ॥ ३९ ॥

हस्तसंस्पर्शेति ॥ एषा – अन्या, हस्तसंस्पर्शमात्रेण – मत्कारान्तररहितेन विभानिता । अत्र हेतुः नैराश्यादित्यादि ॥ ३९ ॥

नूनमुक्ता त्वरामीति पुनरेष्यामि तेऽन्तिकम् ।
तेन कृष्णेन येनैषा त्वरिता पदपद्धतिः ॥ ४० ॥

प्रविष्टो गहनं कृष्णः पदमत्र न लक्ष्यते ।
निवर्तध्वं शशाङ्कस्य नैतद्दीधितिगोचरे ॥ ४१ ॥

नूनमिति ॥ त्वरामि – रतोचित स्थानमन्वेष्टुं वरे, अन्विष्य पुनस्तेऽन्तिकमेष्यागीति नूनं कृष्णेन काचिदुक्ता । अत्र लिङ्गं येनेत्यादि ॥ ४०, ४१ ॥

निवृत्तास्तास्तदा गोप्यो निराशाः कृष्णदर्शने ।
यमुनातीरमासाद्य जगुस्तच्चरितं तथा ॥ ४२ ॥

ततो ददृशुरायान्तं विकासिमुखपङ्कजम् ।
गोप्यस्त्रैलोक्यगोप्तारं कृष्णमक्लिष्टचेष्टितम् ॥ ४३ ॥

काचिदालोक्य गोविन्दमायान्तमतिहर्षिता ।
कृष्णाकृष्णेति कृष्णेति प्राह नान्यदुदीरयत् ॥ ४४ ॥

काचिद्भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् ।
विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ॥ ४५ ॥

काचिदालोक्य गोविन्दं निमीलितविलोचना ।
तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ ॥ ४६ ॥

ततः काञ्चित्प्रियालापैः काञ्चिद्भ्रूभङ्गवीक्षितैः ।
निन्येऽनुनयमन्यां च करस्पर्शेन माधवः ॥ ४७ ॥

ताभिः प्रसन्नचित्ताभिर्गोपीभिः सह सादरम् ।
ररास रासगोष्ठीभिरुदारचरितो हरिः ॥ ४८ ॥

निवृत्ता इति ॥ जगुः । तद्द्वानं हि तदपरोक्षदं सर्वेषाम् ॥ ४२ – ४८ ॥

रासमण्डलबन्धोपि कृष्णपार्श्वमनुज्झता ।
गोपीजनेन नैवाभूदेकस्थानस्थिरात्मना ॥ ४९ ॥

रासेति ॥ एकस्थानस्थिरात्मना – कृष्णपार्श्व एकैकस्मिन् स्थाने स्थिरचित्तेन, अत एव कृष्णपार्श्व – मनुज्झता गोपीजनेन रासार्थमण्डलीभावेन बन्धोऽपि नाभूत् । रासमण्डलबद्धोऽपि कृष्ण इति पाठे स्वयममितो मण्डलीभूय स्थितेन गोपीजनेन कृष्णो नैकस्थानोऽभूत् । गोपीमण्डलान्तः शीघ्रसंचारात्तत्तत्पार्श्वस्थ इवाभव – दिव्यर्थः ॥ ४९ ॥

हस्तेन गृह्य चैकैकां गोपीनां रासमण्डले ।
चकार तत्करस्पर्शनिमीलितदृशं हरिः ॥ ५० ॥

हस्तेनेति ॥ हरिरेकां हस्तेन गृह्णाति, सा तस्य करस्पर्शसुखनिमीलिताक्षी भवति । तामन्यस्याः स्वकरस्पर्शपरवशायाः हस्तेन हस्तं योजयति । एवं चापरस्याः तादृश्या हस्तेनेति । हरिहस्तस्पर्शसुखवशात्कृष्णेन गृहीत हस्ताऽइमेवेति सर्वासां बुद्धिमुत्पादयन्नेकमूर्तिरेव हरिरगृहीतहस्त एन रासमण्डले चकार । हरिरेवमेताभिः रासमण्डलं बबन्धेति रामवित्संप्रदायः । अन्ये तु द्वयोर्द्वयोर्मध्ये हरिरेकैकमूर्तिरातस्थावित्याहः ॥ ५० ॥

ततः प्रववृते रासश्चलद्वलयनिस्वनः ।
अनुयातशरत्काव्यगोयगीतिरनुक्रमात् ॥ ५१ ॥

कृष्णः शरच्चन्द्रमसं कौमुदीं कुमुदाकरम् ।
जगौ गोपीजनस्त्वेक कृष्णनाम पुनःपुनः ॥ ५२ ॥

परिवृत्तिश्रमेणैका चलद्वलयलापिनीम् ।
ददौ बाहुलतां स्कन्धे गोपी मधुनिघातिनः ॥ ५३ ॥

काचित्प्रविलसद्बाहुं परिरभ्य चुचुंब तम् ।
गोपीगीतस्तुतिव्याजान्निपुणा मधुसूदनम् ॥ ५४ ॥

तत इति ॥ अनुयातेति । शरद्वर्णनादिरूपं कविकृतं गेयं यत् तस्य या गीतिः सा अनुयाता येन रासेन ॥ ५१ – ५४ ॥

गोपीकपोलसंश्लेषमभिगम्य हरेर्भुजौ ।
पुलकोद्गमसस्याय स्वेदांबुघनतां गतौ ॥ ५५ ॥

रासगेयं जगौ कृष्णो यावत्तारतरध्वनिः ।
साधु कृष्णेति कृष्णेति तावत्ता द्विगुणं जगुः ॥ ५६ ॥

गोपीति ॥ गोपीकपोलपुलकोद्गमसस्याय स्त्रेदाम्बुमद्धरिभुजद्वयं घनतां ययौ । अनेनेतरेतरानुराग उक्तः ॥ ५५, ५६ ॥

गतेऽनुगमनं चक्रुर्वलनं संमुखं ययुः ।
प्रतिलोमानुलोमाभ्यां भेजुर्गौपाङ्गना हरिम् ॥ ५७ ॥

स तथा सह गोपीभी ररास मधुरूदनः ।
यथाऽब्दकोटिप्रतिमः क्षणस्तेन विनाऽभवत् ॥ ५८ ॥

ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृभिस्तथा ।
कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ॥ ५९ ॥

गत इति ॥ वलने — आवृत्तौ । प्रतिलोमानुलोमाभ्यां – गतिप्रवृत्तिनिवृत्तिभ्याम् ॥ ५७ – ५९ ॥

सोऽपि कैशोरकवयो मानयन्मधुसूदनः ।
रेमे ताभिरमेयात्मा क्षपासुक्षपिताहितः ॥ ६० ॥

स इति ॥ कैशोरकं कौमारकम् । मानयन् – संभावयन् ॥ ६० ॥

तद्भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः ।
आत्मस्वरूपरूपोऽसौ व्यापी वायुरिव स्थितः ॥ ६१ ॥

यथा समस्तभूतेषु नभोऽग्निः पृथिवी जलम् ।
वायुश्चात्मा तथैवासौ व्याप्य सर्वमवस्थितः ॥ ६२ ॥

अथ कृष्णस्य सर्वव्यापनादीश्वरत्वेनापहतपाप्मत्वात् गोपीसंभोगेऽपि जीववन्न लेप इत्याह – तद्भर्तु – ष्वितिद्वयेनं । आत्मस्वरूपरूपः – जीवस्वरूप शरीरः । अत्र पूर्वश्लोकेनास्य सर्वचेतनशरीरत्वमुक्तम् । उत्तरेण सर्वा – चेतनशरीरत्वम् ॥ ६१ – ६२ ॥

इति श्रीविष्णुमहापुराणे पञ्चमांशे त्रयोदशोध्यायः ॥ १३ ॥