१०

अथ पञ्चमांशेदशमोऽध्यायः

श्रीपराशर उवाच

तयोर्विहरतोरेवं रामकेशवयोर्व्रजे ।
प्रावृड्व्यतीता विकसत्सरोजा चाभवच्छरत् ॥ १ ॥

॥ १ ॥

अवापुस्तापमत्यर्थं शफर्यः पल्वलोदके ।
पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही ॥ २ ॥

अथ वर्ण्यमानशरद् दृष्टान्तव्या जेनात्मविद्यामाह – अवापुरित्यादिना ॥ अवापुरिति । शफर्य ः – दमत्स्याः ॥ २ ॥

मयुरा मौनमातस्थुः परित्यक्तमदा वने ।
असारतां परिज्ञाय संसारस्येव योगिनः ॥ ३ ॥

मयूरा इति ॥ मौनम्——–अनुक्तिर्मुनिवृत्तिश्च ॥ ३ ॥

उत्सृज्य जलसर्वस्वं विमलाःसितमूर्तयः ।
तत्यजुश्चांबरं मेघा गृहं विज्ञानिनो यथा ॥ ४ ॥

शरत्सूर्यांशुतप्तानि ययुः शोषं सरांसि च ।
बह्वालंबममत्वेन हृदयानीव देहिनाम् ॥ ५ ॥

उत्सृज्येति ॥ जलसर्वस्वं कृत्स्नं जलम, अहंमानादि जडभावं च । मलं – कार्ष्ण्यं, रागादि ॥ तं – शुभ्रे शुद्धं च । विग्रहं – विरोधम् । गृहं विज्ञानिनो यथा इति च पाठः ॥ ४, ५ ॥

कुमुदैः शरदंभांसि योग्यतालक्षणं ययुः ।
अवबोधैर्मनांसीव समत्वममलात्मनाम् ॥ ६ ॥

कुमुदैरिति ॥ योग्यतालक्षणम् –योग्यतात्मकं संबन्धं ययुः । योग्यो हि निर्मलजलस्य सितकुमुदानों संबन्धः । अमलात्मनाम् – अमलमनसाम् ॥ ६ ॥

Kriऽhna gopal Sharma, [08 – 08 – 2022 19ः43]

अन्तर्धानमिति ॥ ततः – गोवर्धनात् ॥ ४९ ॥

तारकाविमले व्योम्नि रराजाखण्डमण्डलः ।
चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा ॥ ७ ॥

शनकैः शनकैस्तीरं तत्यजुश्च जलाशयाः ।
ममत्वं क्षेत्रपुत्रादिरूढमुच्चैर्यथा बुधाः ॥ ८ ॥

तारकेति ॥ तारकाविमले तारकाभिर्विमले । अखण्डमण्डलः पौर्णमास्याम् । चरमदेहात्मा – चरम – दृश्य आत्मा ॥ ७,८ ॥

पूर्वं त्यक्तैः सरोंभोभिर्हंसा योगं पुनर्ययुः ।
क्लेशैः कुयोगिनो शेषैरन्तरायहता इव ॥ ९ ॥

पूर्वमिति ॥ अन्तरायाः – विघ्नाः ॥ ९ ॥

निभृतोऽभवदत्यर्थं समुद्रःस्तिमितोदकः ।
क्रमावाप्तमहायोगो विश्चलात्मा यथा यतिः ॥ १० ॥

निमृत इति ॥ कमावाप्तमहायोगः क्रमेण मन्त्रस्पर्श भावाभावाख्य योग चतुष्कानन्तरं लम्भ महायोगः ॥ १० ॥

सर्वत्रातिप्रसन्नानि सलिलानि तथाऽभवन् ।
ज्ञाते सर्वगते विष्णौ मनांसीव सुमेधसाम् ॥ ११ ॥

बभूव निर्मलं व्योम शरदा ध्वस्ततोयदम् ।
योगाग्निदग्धक्लेशौघं योगिनामिव मानसम् ॥ १२ ॥

सूर्यांशुजनितं तापं निन्ये तारापतिः शमम् ।
अहंमानोद्भवं दुःखं विवेकस्सुमहानिव ॥ १३ ॥

नभसोऽब्दं भुवः पङ्कं कालुष्यं चांभसः शरत् ।
इन्द्रियाणीन्द्रियार्थेभ्यः प्रत्याहार इवाहरत् ॥ १४ ॥

सर्वत्रेति ॥ सर्वत्र – देशे शत्रुमित्रादिषु च ॥ ११ – १४ ॥

प्राणायाम इवांभोभिः सरसां कृतपूरकैः ।
अभ्यस्यतेऽनुदिवसं रेचकाकुंभकादिभिः ॥ १५ ॥

प्राणायाम इत्यादि ॥ प्राणयामो हि कृतपूरकेर्योगिभिः आकुंभकरेचकप्रधानाभिर्वायु – नयन क्रियामि रम्यस्यते, पूरकः पूरणं वायोः कुंभकस्स्थापनं क्वचित् । बहिर्निस्सरणं तस्य रेचकः परिकीर्तितः ॥ इति वचनात् । अयमर्थः सरसां योगिस्थानीयानां प्राणायामः सस्यार्थं कुल्यादिभिः पूर्व कृतपूरकैः श्वासस्थानीयैरंभोभिः कारणैः पश्चात्स्थापनरेचकादिक्रियाभि – रभ्यस्यते ॥ १५ ॥

विमलांबरनक्षत्रे काले चाभ्यागते व्रजे ।
ददर्शेन्द्रमहारंभायोद्यतांस्तान्व्रजौकसः ॥ १६ ॥

विमलेति ॥ महः उत्सवः ॥ १६ ॥

कृष्णस्तानुत्सुकान्दृष्ट्वा गोपानुत्सवलालसान् ।
कौतूहलादिदं वाक्यं प्राह वृद्धान्महामतिः ॥ १७ ॥

कोऽयं शक्रमहो नाम येन वो हर्ष आगतः ।
प्राह तं नन्दगोपश्च पृच्छन्तमतिसादरम् ॥ १८ ॥

नन्दगोप उवाच

मेघानां पयसां चेशो देवराजः शतक्रतुः ।
तेन संचोदिता मेघा वर्षत्यंबुमयं रसम् ॥ १९ ॥

तद्वृष्टिजनितं सस्यं वयमन्ये च देहिनः ।
वर्तयामोपयुञ्जानास्तर्पयामश्च देवताः ॥ २० ॥

क्षीरवत्य इमा गावो वत्सवत्यश्च निर्वृताः ।
तेन संवर्धितैस्सस्यैस्तुष्टाः पुष्टाः भवन्ति वै ॥ २१ ॥

नासस्या नातृणा भूमिर्न बुभुक्षार्दितो जनः ।
दृश्यते यत्र दृस्यन्ते वृष्टिमन्तो बलाहकाः ॥ २२ ॥

कृष्ण इति ॥ उत्सुकान्– उद्युक्तान् । उत्सवलालसान् – उत्सवकामान् ॥ १७ – २२ ॥

भौममेतत्पयो दुग्धं गोभिः सूर्यस्य वारिदैः ।
पर्जन्यःसर्वलोकस्योद्भवाय भुवि वर्षति ॥ २३ ॥

भोममित्यादि ॥ पर्जन्यो हि भूगतं जलं सूर्यरश्मिभिरात्तं ततो मेघेषु दुग्धं तैर्जगद्भूत्यै वर्षति ॥ २३ ॥

तस्मात्प्रावृषि राजानःसर्वे शक्रं मुदा युताः ।
मखैस्सुरेशमर्चन्ति वयमन्ये च मानवाः ॥ २४ ॥

श्रीपराशर उवाच

नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने ।
रोषाय त्रिदशेन्द्रस्य प्राहदामोदरस्तदा ॥ २५ ॥

न वयं कृषिकर्तारो वाणिज्याजीविनो न च ।
गावोऽस्मद्दैवतं तात वयं वनचरा यतः ॥ २६ ॥

आन्वीक्षिकी त्रयी वार्ता दण्डनितिस्तथा परा ।
विद्या चतुष्टयं चैतद्वार्तमात्रं शृणुष्व मे ॥ २७ ॥

कृषिर्वणिज्या तद्वच्च तृतीयं पशुपालनम् ।
विद्या ह्येका महाभाग वार्ता वृत्तित्रयाश्रया ॥ २८ ॥

तस्मादिति ॥ प्रावृषि गताया मिति शेषः, शरदः प्रस्तुतत्वात् । यत्तु नभसि नभस्ये वा द्वादश्या – मिन्द्रिमहारंभ इति गर्गादिनोक्तं, तनु गोवर्धनोद्धारोत्तरकालविषयं कल्यम् । एतद्वरिवंशे कृष्ण प्रतीन्द्रोक्तिः ये चेमे वार्षिका मासाश्चत्वारो विहिता मम । एषां तेऽर्धं प्रदास्यामि शरत्कालं हि पश्चिमम् ॥ अद्यप्रभृति मासौ द्वौ ज्ञास्यन्ति मम मानवाः । वर्षार्धे च ध्वजे नित्यं ततः पूजामवाप्स्यसि ॥ इति । यत्तु हरिवंश एव ततः प्रवर्तते पुण्या शरत्सुप्तोत्थिते त्वयि इत्यादीन्द्रवाक्यं, तद्भगवत्प्रबोधानन्तरशरच्छेषप्रसङ्गार्थम् २४ – २८॥

कर्षकाणां कृषिर्वृत्तिः पण्यं विपणीजीविनाम् ।
अस्माकं गौः परा वृत्तिर्वार्ताभेदैरियं त्रिभिः ॥ २९ ॥

कर्षकाणामिति ॥ अस्माकमित्यादि । गौरिति जात्यभिप्रायमेकवचनम् । सा परावृत्तिरिति पाठे परा वृत्तिर्या पाशुपाल्यवृत्तिः । त्रिमिर्मेदैरुपलक्षितेय वार्ता ॥ २९ ॥

विद्यया यो यया युक्तस्तस्य सा दैवतं महत् ।
सैव पूज्याऽर्चनीया च सैव तस्योपकारिका ॥ ३० ॥

यो यस्य फलमश्नन्वै पूजयत्यपरं नरः ।
इह च प्रेत्य चैवासौ न तदाप्नोति शोभनम् ॥ ३१ ॥

विद्ययेति ॥ पूज्या मान्या ॥ ३०, ३१ ॥

कृष्यान्ता प्रथिता सीमा मीमान्तं च पुनर्वनम् ।
वनान्ता गिरयस्सर्वे ते चास्माकं परा गतिः ॥ ३२ ॥

कृष्यान्ता इति ॥ देशस्थितिरियम् । सेति गिरयः परामृश्यन्ते ।गतिशब्दसमभिव्याहारात् स्त्रीत्वमे – च । कृष्यन्ताः प्रथितास्सीमाः ते चारमाकं परा गतिरिति च पाठः ॥ ३२ ॥

न द्वारबन्धावरणा न गृहक्षेत्रिणस्तथा ।
सुखिनस्त्वखिले लोके यथा वै चक्रचारिणः ॥ ३३ ॥

श्रूयन्ते गिरयश्चैव वनेऽस्मिन्कामरूपिणः ।
तत्तद्रूपं समास्थाय रमन्ते स्वेषु सानुषु ॥ ३४ ॥

यदा चैते प्रबाध्यन्ते तेषां ये काननौकसः ।
तदा सिंहादिरूपैस्तान्घातयन्ति महीधराः ॥ ३५ ॥

गिरीयज्ञस्त्वयं तस्माद्गोयज्ञश्च प्रवर्त्यताम् ।
किमस्माकं महेन्द्रेण गावश्शैलाश्च देवताः ॥ ३६ ॥

न द्वारेति ॥ द्वारबंधैः – गृहैरावरणं येषां ते तथोक्ताः प्रामस्थाः । यदा, आवरणगृहैकवासाजः। गृहक्षेत्रिण इति गृहकेदारादिक्षेत्रसंवारनियताः कर्षकाः । अयमन्वयः – यथा गिरेर्बलेन तृणजबादि – देशेषु खैरं चक्रवता शकटेन चरन्तो वयं सुखिनः, न तथा द्वारबंधावरणाः – न तथा गृहक्षेत्रिण इति ॥ ३३ – ३६ ॥

मन्त्रयज्ञपरा विप्रास्सीरयज्ञाश्च कर्षकाः ।
गिरिगोयज्ञशीलाश्च वयमद्रिवनाश्रयाः ॥ ३७ ॥

तस्माद्गोवर्धनः शैलो भवद्भिर्विविधार्हणैः ।
अर्च्यतां पूज्यतां मेध्यान्पशुन्हत्वा विधानतः ॥ ३८ ॥

मन्त्रयज्ञेति ॥ मन्त्रयज्ञपराः –मन्त्रप्रकाशितदेवतायज्ञपराः ॥ ३७, ३८ ॥

सर्वघोषस्य संदोहो गृह्यतां मा विचार्यताम् ।
भोज्यन्तां तेन वै विप्रास्तथा ये चाभिवाञ्छकाः ॥ ३९ ॥

तत्रार्चिते कृते होमे भोजितेषु द्विजातिषु ।
शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः ॥ ४० ॥

एतन्मम मतं गोपाःसंप्रीत्या क्रियते यदि ।
ततः कृता भवेत्प्रीतिर्गवामद्रेस्तथा मम ॥ ४१ ॥

श्रीपराशर उवाच

इति तस्य वचः श्रुत्वा वन्दाद्यास्ते व्रजौकसः ।
प्रीत्युत्फुल्लमुखा गोपाःसाधुसाध्वित्यथाब्रुवन् ॥ ४२ ॥

शोभनं ते मतं वत्स यदेतद्भवतोदितम् ।
तत्करिष्यामहे सर्वं गिरियज्ञः प्रवर्त्यताम् ॥ ४३ ॥

तथा च कृतवन्तस्ते गिरियज्ञं व्रजौकसः ।
दधिपायसमांसाद्यैर्ददुः शैलबलिं ततः ॥ ४४ ॥

द्विजांश्च भोजयामासुस्शतशोऽथ सहस्रशः ॥ ४५ ॥

गावश्शैलं ततश्चकुरर्चितास्ताः प्रदक्षिणम् ।
वृषभाश्चातिनर्दन्तःसतोया जलदा इव ॥ ४६ ॥

गिरिमूर्धनि कृष्णोऽपि शैलोऽहमिति मूर्तिमान् ।
बुभुजेऽन्नं बहुतरं गोपवर्याहृतं द्विज ॥ ४७ ॥

स्वेनैव कृष्णो रूपेण गोपैस्सह गिरेश्शिरः ।
अधिरुह्यार्चयामास द्वितीयामात्मनस्तनुम् ॥ ४८ ॥

सर्वघोषस्येति ॥ सदोहः – सम्यग्दुग्धम् ॥ ३९ – ४८ ॥

अन्तर्धानं गते तस्मिन्गोपा लब्ध्वा ततो वरान् ।
कृत्वा गिरीमखं गोष्ठं निजमभ्याययुः पुनः ॥ ४९ ॥

अन्तर्धानमिति ॥ ततः – गोवर्धनात् ॥ ४९ ॥

इति श्रीविष्णुमहापुराणे पञ्चमांशे दशमोऽध्यायः ॥ १० ॥