०१

॥ श्रीमते रामानुजाय नमः ॥

श्रीविष्णुपुराणम्

अथ पञ्चमांशे प्रथमोऽध्यायः

मैत्रेय उवाच

नृपाणां कथितःसर्वो भवता वंशविस्तरः ।
वंशानुचरितं चैव यथावदनुवर्णितम् ॥ १ ॥

नृपाणामिति ॥ उक्तश्चतुर्थेंशे लोकज्ञापकधर्मप्रवर्तकः क्षत्रवंशः ॥ १ ॥

अंशावतारो ब्रह्मर्षे योऽयं यदुकुलोद्भवः ।
विष्णोस्तं विस्तरेणाहं श्रोतुमिच्छामि तत्त्वतः ॥ २ ॥

अंशावतार इति ॥ विष्णोः – व्यापकस्य नारायणस्य, अन्तर्वहिश्च तत्सर्वं व्याप्य नारायणः स्थितः इति श्रुतेः ॥ २ ॥

चकार यानि कर्माणि भगवान् पुरुषोत्तमः ।
अंशांशेनावतीर्योर्व्यां तत्र तानि मुने वद ॥ ३ ॥

चकारेति ॥ भगवान् पुरुषोत्तमः परव्यूह विभवादिषु सर्वत्र स्वरूपरूपगुणादिभिः परिपूर्ण एव सन् इच्छा गृहीत परिच्छिन्न देवमनुष्यादिदेहतया अंश इति अंशांश इति च व्यदिश्यते; कृष्णाद्यवतारेष्वपि विश्वरूप – दर्शनाद्यतिमानुषप्रवृत्तौ सर्वेश्वर्यस्य व्यक्तत्वात् ॥ ३ ॥

श्रीपारशर उवाच

मैत्रेय श्रूयतामेतद्यत्पृष्टोऽहमिह त्वया ।
विष्णोरंशांशसंभूतिचरितं जगतो हितम् ॥ ४ ॥

देवकस्य सुतां पूर्वं वसुदेवो महामुने ।
उपयेमे महाभागां देवकीं देवतोपमाम् ॥ ५ ॥

मैत्रेयेति ॥ संभूतिश्वरितं च संभूतिचरितम् ॥ ४,५ ॥

कंसस्तयोर्वररथं चोदयामास सारथिः ।
वसुदेवस्य देवक्या संयोगे भोजनन्दनः ॥ ६ ॥

कंस इति ॥ वररथं कल्याणरथम् वधूश्च वरश्च वरौ, तयो रथम् इति वा ॥ ६ ॥

आथान्तरिक्षे वागुच्चैः कंसमाभाष्यसादरम् ।
मेघगंभीरनिर्घोषं समाभाष्येदमब्रवीत् ॥ ७ ॥

यामेतां वहसे मूढ सह भर्त्रा रथे स्थिताम् ।
अस्यास्तवाष्टमो गर्भः प्राणानपहरिष्यति ॥ ८ ॥

श्रीपराशर उवाच

इत्याकर्ण्य समुत्पाट्य खड्गं कंसो महाबलः ।
देवकीं हन्तुमारब्धो वसुदेवोऽब्रवीदिदम् ॥ ९ ॥

अथेत्यादि । अत्र वाक्च्छन्देनाशरीरी वक्ता लक्ष्यते । आभाष्यसादरमिति समासपदम्। आभाष्यार्थे यथा सादरः स्यात्तया तं समाभाष्य – आमंत्र्य ॥ ९ ॥

न हन्तव्या महाभाग देवकी भवताऽनघ ।
समर्पयिष्ये सकलान्गर्भानस्योदरोद्भवान् ॥ १० ॥

न हन्तव्येति ॥ अस्वोदरोद्भवानित्यार्षस्सन्धिः । यदा अस्य तवेत्यन्वयः । अथवा अस्य मम उदरोद्भवान् इति था । अङ्गादङ्गात् इति श्रुतः पुमान् पुंसोऽधिके शुके इत्यादिस्मृतिवचनाच ॥ १०

श्रीपराशर उवाच

तथेत्याह ततः कंसो वसुदेवं द्विजोत्तम ।
न घातयामास च तां देवकीं तस्य गौरवात् ॥ ११ ॥

एतस्मिन्नेवकाले तु भूरिभारावपीडिता ।
जगाम धरणी मेरौ समाजं त्रिदिवौकसाम् ॥ १२ ॥

स ब्रह्मकान्सुरान्सर्वान्प्रणिपत्याथ मेदिनि ।
कथयामास तत्सर्वं खेदात्करुणभाषिणी ॥ १३ ॥

तथेति ॥ तथेत्यङ्गीकृत्य कंसः देवकी न घातयामास । स्वार्थे णिच् ॥ ११ – १३ ॥

भूमिरुवाच

अग्निःसुवर्णस्य गुरुर्गवां सूर्यः परो गुरुः ।
ममाप्यखिल लोकानां कुरुर्नारायणोगरुः ॥ १४ ॥

प्रजापतिपतिर्ब्रह्म पूर्वेषामपि पूर्वजः ।
कलाकाष्ठानिमेषात्मा कालश्चाव्यक्तमूर्तिमान् ॥ १५ ॥

अग्निरित्यादि ॥ नारायणोगुरुरिति ॥ अगुरुः – गुरुरहितः । अत्र गुरुशब्दः कारणवाची,

अग्नेरपत्यं प्रथमं हिरण्यं
भूर्तेष्णवी सूर्यसुताश्च गावः ।
लोकास्रयस् तेन भवन्ति दत्ता
यः कांचनं गां च महींच दद्यात् ॥
इति संवर्त्तस्मृतेः ॥ १४,१५ ॥

तदंशभूतःसर्वैषां समूहो वःसुरोत्तमाः ॥ १६ ॥

आदित्या सरुतःसाध्या रुद्रा वस्वश्विवह्नयः ।
पितरो ये च लोकानां स्रष्टारोऽत्रिपुरोगमाः ॥ १७ ॥

एते तस्याप्रमेयस्य विष्णो रूपं महात्मनः ॥ १८ ॥

यक्षराक्षसदैतेय पिशाचोरगदानवाः ।
गन्धर्वाप्सरसश्चैव रूपं विष्णोर्महात्मनः ॥ १९ ॥

तदंशभूत इति ॥ तदंशभूतः – तच्छरीरभूतः । उत्तरत्र रूपं विष्णोर्महात्मनः, सर्वं विष्णुमयं जगत् इत्यादेदर्शनात् ॥ १६ – १९ ॥

ग्रहर्क्षतारकाचित्रगगनाग्निजलानिलाः ।
अहं च विषयाश्चैव सर्व विष्णुमयं जगत् ॥ २० ॥

तथा चानेकरूपस्य यस्य रूपाण्यहर्निशम् ।
बाध्यबाधकतां यान्ति कल्लोला इव सागरे ॥ २१ ॥

तत्सांप्रतममी दैत्याः कालनेमिपुरोगमाः ।
मर्त्यलोकं समाक्रम्य बाधन्तेऽहर्निशं प्रजाः ॥ २२ ॥

कालनेमिर्हतो योऽसौ विष्णुना प्रभविष्णुना ।
उग्रसेनसुतः कंसः संभूतः स महासुरः ॥ २३ ॥

अरिष्टो धेनुकः केशी प्रलंबो नरकस्तथा ।
सुंदोऽसुरस्तथात्युग्रो बाणश्चापि बलेः सुतः ॥ २४ ॥

तथान्ये च महावीर्या नृपाणां भवनेषु ये ।
समुत्पन्ना दुरात्मानस्तान्न संख्यातुमुत्सहे ॥ २५ ॥

ग्रहर्क्षेति ॥ ऋक्षाणि – नक्षत्राणि । तारकाः – अश्विन्यादयः ॥ २० – २५ ॥

अक्षौहिण्योऽत्र बहुला दिव्यमूर्तिधराःसुराः ।
महाबलानां दृप्तानां दैत्येन्द्रणां ममोपरि ॥ २६ ॥

तद्भूरिभारपीडार्ता न शक्नोम्यमरेश्वराः ।
बिभर्तुमात्मानमहमिति विज्ञापयामि वः ॥ २७ ॥

क्रियतां तन्महाभागा मम भारावतारणम् ।
यथा रसातलं नाहं गच्छेयमतिविह्वला ॥ २८ ॥

इत्याकर्ण्य धरावाक्यमशेषैस्त्रिदशेश्वरैः ।
भुवो भारावतारार्थं ब्रह्मा प्राह प्रचोदितः ॥ २९ ॥

ब्रह्मोवाच

यथाह वसुधा सर्वं सत्यमेव दिवौकसः ।
अहं भवो भवन्तश्च सर्वे नारायणात्मकाः ॥ ३० ॥

अक्षौहिण्य इति ॥ अक्षौहिण्याः सप्ततिरष्टशतान्येक विंशतिसहस्रम् द्विरदास्तथा रथास्तत्तिपश्चगुणकास्तुरङ्ग कनराः ॥ २६ – ३० ॥

विभूतयश्च यास्तस्य तासामेव परस्परम् ।
आधिक्यन्यूनताबाध्यबाधकत्वेन वर्तते ॥ ३१ ॥

तदागच्छत गच्छामः क्षीराब्धेस्तटमुत्तमम् ।
तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥ ३२ ॥

सर्वथैव जगत्यर्थे स सर्वात्मा जगन्मयः ।
सत्त्वांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥ ३३ ॥

श्रीपराशर उवाच

इत्युक्त्वा प्रययो तत्र सह देवैः पितामहः ।
समाहितमनाश्चैवं तुष्टाव गरुडध्वजम् ॥ ३४ ॥

विभूतय इत्यादि ॥ तासामेवाधिक्यन्यूनता परस्परं बाध्यबाधकत्वेन वर्तते – बाध्यबाधकत्वे हेतुरिव्यर्थः ॥ ३१ – ३४ ॥

ब्रह्मोवाच

द्वे विद्ये त्वमनाम्नाय परा चैवापरा तथा ।
त एव भवतो रूपे मूर्तामूर्तात्मिके प्रभो ॥ ३५ ॥

द्वे ब्रह्मणी त्वणीयोतिस्थूलात्मन्सर्व सर्ववित् ।
शब्दब्रह्मपरं चैव ब्रह्म ब्रह्ममयस्य यत् ॥ ३६ ॥

द्वे विदे इत्यादिश्लोकद्वयमेकं वाक्यम् ॥ द्वे विद्ये इति ॥ अनाम्नाय आम्नायापरिच्छेद्य । द्वे विद्ये इति – शब्दजन्यं विवेकजन्यं च ज्ञानमुच्यते ॥ आगमोत्थं विवेकाच्च द्विधा । ज्ञानं तथोच्यते । शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् इति हि वक्ष्यति। ब्रह्मपरम् – ब्रह्मविषयम्, शब्दब्रह्म – आगमोत्थं ज्ञानम्। परं चैव – ब्रह्मविवेकजं ज्ञानम् । ब्रह्मविषये विवेकजशब्द ब्रह्मविषयागमजज्ञानात्मिके परापरे द्वे विधे इत्यन्वयः। त्वद्रूपे इत्यर्थः। ते – उपनिषठप्रसिद्धे मूर्तामूर्तात्मिके, द्वे ब्रह्मणी – प्रकृतिपुरुषौ, भवत एव रूपे । अणीयोतिस्थूलात्मन् – वणीय सामतिस्थूलानां चात्मभूत । अथवा अनाम्नाय इत्यनादिरक्रतुरितिवध्ययनादिविधेरवश्यं भवतो रूपे – निरूपके, मूर्तामूर्तात्मिके–मूर्तामूर्तब्रह्मविषयतया तदात्मिके शब्द ब्रह्मपर ब्रह्मरूपे द्वे ब्रह्मशब्दवाच्ये मूर्तामूर्तात्मिके – परावररूपे द्वे विद्ये त्वम्, ते एव भवतो रूपे इत्यन्वयः ॥ ३५,३६ ॥

ऋग्वेदस्त्वं यजुर्वेदःसामवेदस्त्वथर्वणः ।
शिक्षा कल्पो निरुक्तं च च्छन्दो ज्योतिषमेव च ॥ ३७ ॥

इतिहासपुराणे च तथा व्याकरणं प्रभो ।
मीमांसा न्यायशास्त्रं च धर्मशास्त्राण्यधोक्षज ॥ ३८ ॥

कर्मप्रतिपादकऋग्वेदाद्यागमोऽपि त्वद्रूपमित्याह – ऋग्वेद इत्यादिना ॥ ३७,३८ ॥

आत्माऽत्मदेहगुणवद्विचाराचारि यद्वचः ।
तदप्याद्यपते नान्यदध्यात्मात्मस्वरूपवत् ॥ ३९ ॥

ब्रह्मप्रतिपादकोपनिषद्भागोऽपि त्वद्रूपमित्याह – आत्मात्मेति ॥ अत्र प्रथमेनात्मशब्देन जीवपरावुच्येते । द्वितीयेन सूक्ष्मशरीरम् । देहः स्थूलशरीरम् । गुणवदव्यक्तम् । एवमुभयात्मोभयदेहान्यक्तविषयं विचारमाचरद्यदुप – निषद्वाक्यं तच्च त्वत्तो नान्यत् ॥ ३९ ॥

त्वमव्यक्तमनिर्देश्यम् अचिन्त्यानामवर्मवत् ।
अपाणिपादरूपं च शुद्धं नित्यं परात्परम् ॥ ४० ॥

यथात्मानं – देहमधिकृत्य वर्तमानतया अध्यात्मनो जीवस्य स्वरूपं त्वत्तो नान्यत् । तद्वन्मुकोऽपि त्वद्रूपमित्याह—त्वमव्यक्तमिति ॥ अव्यक्तम् – बाह्येन्द्रियागोचरम् । अनिर्देश्यम् इतरसजातीयतया । अचिन्त्यं मनसा । अनाम – देवमनुष्यादिनामरहितम् । अवर्ण – पीतशुक्लादि वर्णहीनम् । शुद्धं – क्लेशकर्मादिनिर्मुक्तम् । परं पदं – मुक्तस्वरूपं गुणप्रवृत्त्या परं पदम् । तस्यागुणं महदित्युक्तम् । परविषयो वा अयं श्लोकः । शुद्धं नित्यं परं पदं चेति च पाठः ॥ ४० ॥

शृणोष्यकर्णः परिपश्यसि त्वमचक्षुरूपो बहुरूपरूपः ।
अपादहस्तो जवनो ग्रहीता त्वं वेत्सि सर्वं न च सर्ववेद्यः ॥ ४१ ॥

अथ परमेवाह – शृणोषीत्यादिना ॥ अचक्षुरूपः –अचक्षुररूपश्च, चक्षुस्वरूपरहितो वा । बहुरूप – रूपः–स्वेच्छागृहीतबहूविधरूपः। अनेन करणनिरपेक्ष सर्वकार्य सामर्थ्यमुक्तम्, अपाणिरादः इत्यादिश्रुतेः ॥४१॥

अणोरणीयांसमसत्स्वरूपं त्वां पश्यतो ज्ञाननिवृत्तिरग्र्या ।
धीरस्य धीरस्य बिभर्ति नान्यद्वरेण्यरूपात्परतः परात्मन् ॥ ४२ ॥

अणोरिति ॥ अणोः— जीवादणीयांसम् । असत्स्वरूपम् – दृश्यरूपरहितम् । घीः अस्य यस्योपासकस्य घीः वरेण्यरूपा स्वत्तोऽन्यन्न बिभर्ति – न विषयीकरोति, तस्य त्वां पश्यतः, अग्र्या – आत्यन्तिकी, अज्ञाननिवृत्तिः – कर्मनिवृत्तिः । यद्वा पूर्वार्धमेकं वाक्यम् । तस्य स्पष्टोऽर्थः । वीर्यस्य – यस्य धीः – संकल्पः, सर्वं बिभर्ति, तस्मात् त्वत्तोऽन्यन्नास्तीति ॥ ४२ ॥

त्वं विश्वनाभिर्भुवनस्य गोप्ता सर्वाणि भूतानि तवान्तराणि ।
यद्भूतभव्यं यदणोरणीयः पुमांस्त्वमेकः प्रकृतेः परस्तात् ॥ ४३ ॥

त्वमिति ॥ नामिराधारः आन्तराणि – अन्तस्थानि, यदणोरणीयः यद्भूतं भव्यम्, प्रकृतेः परस्तात् पुमान् यः, तत्सर्वं त्वमेक एव ॥ ४३ ॥

एकश्चतुर्धा भगवान्हुताशो वर्चोविभूतं जगतो ददाति ।
त्वं विश्वतश्चक्षुरनन्तमूर्ते त्रेधा पदं त्वं निदधासि धातः ॥ ४४ ॥

यथाऽग्निरेको बहुधा समिध्यते विकारभेदैरविकाररूपः ।
तथा भवान्सर्वगतैकरूपी रूपाण्यशेषाण्यनुपुष्यतीश ॥ ४५ ॥

एक इत्यादि ॥ चतुर्धा–त्रेतौपासनात्मना, वैद्युत जाठरनिर्मन्थ्यवाडवात्मना वा, यो हुताशो जगतो वर्चः – तेजः, विभूतिम् – अणिमादिं ददाति, सोऽपि त्वम्, त्रेधा पदं – त्रिविक्रमत्वे त्रिषु लोकेषु पदं निदधासि । यद्वा स इमान् लोकान् विचक्रमेधो देवानधोवाचम् इति श्रुत्युक्तप्रकारेण । अथवा उपासनार्थ गिरित्रये सन्निधत्ते समारोहणे विष्णुपदे गयशिरसीति हि नेरुकाः ॥ ४४,४५ ॥

एकं तवाग्र्यं परमं पदं यत्पश्यन्ति त्वां सूरयो ज्ञानदृश्यम् ।
त्वत्तो नान्यत्किञ्चिदस्ति स्वरूपं यद्वा भूतं यच्च भव्यं परात्मन् ॥ ४६ ॥

एकमिति । अग्र्यम् – अप्राकृतम् एकम् – अद्वयं तत्र परमं पदं यत्तदपि त्वमेवेति । यद्वा तव परमं पदं यत्तदेकं केवलमग्र्यम् – अप्राकृतम् ॥ ४६ ॥

व्यक्ताव्यक्तस्वरूपस्त्वं समष्टिव्यष्टिरूपवान् ।
सर्वज्ञःसर्ववित्सर्वशक्तिज्ञानबलर्धिमान् ॥ ४७ ॥

अन्यूनश्चाप्यवृद्धिश्च स्वाधीनो नादिमान्वशी ।
क्लमतन्द्रीभयक्रोधकामादिभिरसंयुतः ॥ ४८ ॥

चेतनाचेतनयोः कार्यकारणभावावस्थाद्यमपि त्वमेवेत्याह – व्यक्तेति ॥ यद्वा समष्टि विदुरव्यक्तं व्यष्टिव्यक्तमिहोच्यते इति वा । अथवा समष्टिर्वासुदेवः, व्यष्टिस्संकर्षणादिः । सर्वज्ञस्सर्वदृगिति च पाठः । सर्वज्ञस्सर्व दृगिति । सर्वश्वासौ ज्ञश्च सर्वदृक् – सर्वद्रष्टा । यद्वा करणैः सर्वतश्च ज्ञाता । सर्वशक्तिज्ञानबलर्द्धिमान् सामान्यविषयं ज्ञानं सर्वज्ञानम् ॥ ४७ – ४८ ॥

निरवद्यः परः प्राप्तेर्निरधिष्ठोऽक्षरः क्रमः ।
सर्वेश्वरः पराधारो धाम्नां धामात्मकोऽक्षयः ॥ ४९ ॥

निरवद्य इति । परः प्राप्तेः – प्राप्तेः परः, दुष्प्राप इत्यर्थः । निरधिष्ठः – निराधारः, कमः – अप्रति – बंधमहोत्साहः । वृत्तिसर्गतायनेषु क्रमः इति सूत्रे वृत्तिरप्रतिबंनः सर्ग उत्साहः, तायनं स्थि (र) ततेति दर्शनात् । क्रम इति कर्तरि द्वयोरर्थयोयुत्पत्तिः । सर्वेश्वर पराधार – सर्वेषामीश्वर परेषामाधार । सर्वेषामीश्वराणां पराधारेति वा । धान्नां धामात्मक – ज्योतिषां ज्योतिः । पाठान्तरे सर्वेश्वरेत्यादि संबुद्धिः ॥ ४९ ॥

सकलावरणातीतनिरालंबनभावन ।
महाविभूतिसंस्थान नमस्ते पुरुषोत्तम ॥ ५० ॥

सकलेत्यादि । आवरणानि –प्रकृत्यादीनि, कर्माणि वा । निरालंबनभावन – अशरण्यभावन । महाविभूतिसंस्थान – त्रिपाद्विभूतौ संस्थान स्थितिर्यस्य तथोक्त ॥ ५० ॥

नाकारणात्कारणाद्वा कारणाकारणान्न च ।
शरीरग्रहणं वापिन् धर्मत्राणाय केवलम् ॥ ५१ ॥

श्रीपराशर उवाच

इत्येवं संस्तवं श्रुत्वा मनसा भगवानजः ।
ब्रह्माणमाह प्रीतेन विश्वरूपं प्रकाशयन् ॥ ५२ ॥

श्रीभगवानुवाच

भोभो ब्रह्मंस्त्वया मत्तःसह देवैर्यदिष्यते ।
तदुच्यतामशेषं च सिद्धमेवावधार्यताम् ॥ ५३ ॥

श्रीपराशर उवाच

ततो ब्रह्मा हरेर्दिव्य विश्वरूपमवेक्ष्य तत् ।
तुष्टाव भूयो देवेषु साध्वसावनतात्मसु ॥ ५४ ॥

ब्रह्मोवाच

नमो नमस्तेस्तु सहस्रकृत्वःसहस्रबाहो बहुवक्त्रपाद ।
नमोनमस्ते जगतः प्रवृत्तिविनाशसंस्थानकराप्रमेय ॥ ५५ ॥

नाकारणादित्यादि ॥ कारण – प्रयोजन सुखम। अकारणम् – अप्रयोजनं दुःखम् । कारणाकारण – मिश्रम् । एतदुक्तं भवति – न नारकिवदधर्म कलानुभवाय तव शरीरग्रहणम् । न च स्वर्गिवत् धर्मफलानुभवार्थम् । नापि मनुष्यादिव दुभयफलानुभवार्थम्। किं तु केवलं धर्मत्राणायेति । यद्वा कस्य – मुखस्य आरणत्वात् प्रापक – त्वात् कारणं धर्मः, तद्विरुद्धमकारणमधर्मः, तदुभयं कारणाकारणम् । एभ्यः कमात् तिर्यग्देवनराणां जन्म ।
तुम तु नैवम् अकर्मवश्यत्वात् । किंतु केवलमिच्छया धर्मत्राणायेति । इच्छागृहीताभिमतोरुदेह न सा कर्मनिमित्तजा इति च वक्ष्यति ॥ ५१ – ५५ ॥

सूक्ष्मातिसूक्ष्मातिबृहत्प्रमाण गरीयसामप्यतिगौरवात्मन् ।
प्रधानबुद्धीन्द्रियवत्प्रधान मूलात्परात्मन् भगवन्प्रसीद ॥ ५६ ॥

एषा मही देव महीप्रसूतैर्महासुरैः पीडितशैलबन्धा ।
परायणं त्वां जगतामुपैति भारावतारार्थमपारसार ॥ ५७ ॥

एते वयं वृत्ररिपुस्तथाऽयं नासत्यदस्त्रौ वरुणस्तथैव ।
इमे च रुद्रा वसवस्ससूर्यास्समीरणाग्निप्रसुखास्तथाऽन्ये ॥ ५८ ॥

सुरास्समस्तास्सुरनाथ कार्यमेभिर्मया यच्च तदीश सर्वाम् ।
आज्ञापयाज्ञां परिपालयन्तस्तवैव तिष्ठाम सदास्तदोषाः ॥ ५९ ॥

सूक्ष्मेते ॥ प्रधानस्य–प्रकृतेः बुद्धीन्द्रियवाः पुंसश्च प्रधान – शेषिभूत । तेन मूलभूनादव्यक्तात् परात्मन् । तत्प्रधानेति पाठे, अव्यक्तभ्य बुद्ध्याद्यन्तःकरणस्य चक्षुगदेवणादेव प्रधान – मूलभूत जीवादुत्कृष्ट । प्रधानमूलमिति पाठे, प्रधानमूलभूतस्त्वमित्यर्थः ॥ ५६ – ५९ ॥

श्रीपराशर उवाच

एवं संस्तूयमानस्तु भगवान्परमेश्वरः ।
उज्जहारात्मनः केशौ सितकृष्णौ महामुने ॥ ६० ॥

उवाच च सुरानेतौ मत्केशौ वसुधातले ।
अवतीर्य भुवो भारक्लेशहानिं करिष्यतः ॥ ६१ ॥

सुराश्च सकलाःस्वांशैरवतीर्य महीतले ।
कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर्महासुरैः ॥ ६२ ॥

ततः क्षयमशेषास्ते दैतेया धरमीतले ।
प्रयास्यन्ति न संदेहो मद्दृक्पातविचूर्णिताः ॥ ६३ ॥

एवमिति ॥ केशौ तेजसी । कः – आत्मा तस्मिन् शेत इति केशः । मोक्षधर्मे केशवनामनिर्वचने सूर्यस्य तपतो लोकानग्नेस्सोमस्य चैव हि । अंशवों ये प्रकाशंते मम ते केशसंज्ञिताः ॥ इति ॥ ६० – ६३ ॥

वसुदेवस्य या पत्नी देवकी देवतोपमा ।
तत्रायमष्टमो गर्भो मत्केशो भविता सुराः ॥ ६४ ॥

अवतीर्य च तत्रायं कंसं घातयिता भुवि ।
कालनेमिं समुद्भूतमित्युक्त्वाऽन्तर्दधे हरिः ॥ ६५ ॥

अदृश्याय ततस्तस्मै प्रणिपत्य महामुने ।
मेरुपृष्ठं सुरा जग्मुरवतेरुश्च भूतले ॥ ६६ ॥

कंसाय चाष्टमो गर्भो देवक्या धरणीधरः ।
भविष्यतीत्याचचक्षे भगवान्नारदो मुनिः ॥ ६७ ॥

कंसोऽपि तदुपश्रुत्य नारदात्कुपितस्ततः ।
देवकीं वसुदेवं च गृहे गुप्तावधारयत् ॥ ६८ ॥

वसुदेवेन कंसाय तेनैवोक्तं यथा पुरा ।
तथैव वसुदेवोऽपि पुत्रमर्पितवान् द्विज ॥ ६९ ॥

वसुदेवस्येति ॥ तस्यायमिति पाठे तस्यायमित्यार्षस्सन्धिः ॥ ६४ – ६९ ॥

हिरण्यकशिपोः पुत्राःषड्गर्भा इति विश्रुताः ।
विष्णुप्रयुक्ता स्तान्निद्रा क्रमाद्गर्भानयोजयत् ॥ ७० ॥

हिरण्यकशिपोरिति ॥ षङ्गर्भाः – प्राग्जन्मनाम्ना कीर्तिमत्सुषेणाद्याः । ते हि पूर्वं हिरण्यकशिपोर्भ्रातुः लालनेम्यसुरस्य पुत्रास्तं हिरण्यकशिपुमनादृत्य ब्रह्मार्चनात्कुपितेन तेन भाविजन्मनि पितैव वो निहनिष्यतीति समुद्रे शायिता इति श्रीहरिवंशे । तेन हिरण्यकशिपोः पुत्रा इत्युपचारः । गर्भानयोजयत् – देवकी जठरे मैत्वेनायोजयत् ॥ ७० ॥

योगनिद्रा महामाया वैष्णवी मोहितं यया ।
अविद्यया जगत्सर्वं तामाह भगवान्हरिः ॥ ७१ ॥

श्रीभगवानुवाच

निद्रे गच्छ ममादेशात्पातालतलसंश्रयान् ।
एकैकत्वेन षड्गर्भान्देवकीजठरं नय ॥ ७२ ॥

हतेषु तेषु कंसेन शेषाख्योंऽशस्ततो मम ।
अंशांशेनादरे तस्यास्सप्तमः संभविष्यति ॥ ७३ ॥

योगनिद्रेति ॥ योगनिद्रा – योग एव निद्रा । भगवतः समाधिविशेषो योगः । अयं निद्रायत

इत्यन्येषां व्यामोहकत्वादस्य निद्रात्वम् । सेव विचित्र कार्यकारित्वान्महामाया, ज्ञानविरोधित्वाद्विद्या ॥ ७१ – ७३ ॥

गोकुले वसुदेवस्य भार्याऽन्या रोहिणी स्थिता ।
तस्यास्स संभूतिसमं देवि नेयस्त्वयोदरम् ॥ ७४ ॥

गोकुल इति ॥ तस्याः संभूतिसममिति क्रियाविशेषणम् । गर्भाधान प्रसवकालाविरोधेन नेय इत्यर्थः । प्रागेव हि वसुदेवनिषिक्तगर्भायाः पश्चाद्गोकुलं गताया रोहिण्या जहरे सप्तमासावस्थितं वायुरूपं गर्भमपसार्य तत्र देवकीगर्भं साप्तमासिकं संक्रामयेति हरिवंशे उक्तम् । तस्या उदरं नेय इत्यन्वयः ॥ ७४ ॥

सप्तमो भोजराजस्य भयाद्रोधोपरोधतः ।
देवक्याः पतितो गर्भ इति लोको वदिष्यति ॥ ७५ ॥

गर्भसंकर्षणात्सोऽथ लोके संकर्षणेति वै ।
संज्ञामवाप्स्यते वीरः श्वेताद्रिशिखरोपमः ॥ ७६ ॥

ततोऽहं संभविष्यामि देवकीजठरे शुभे ।
भर्गं त्वया यशोदाया गन्तव्यमविलंबितम् ॥ ७७ ॥

सप्तम इति ॥ रोधोवरोधतः —रुध्यतेऽस्मिन्निति रोधो निरोधस्थानम् ॥ ७५ – ७७ ॥

प्रावृट्काले च नभसि कृष्णाष्टम्यामहं निशि ।
उत्पत्स्यामि नवम्यां तु प्रसूतिं त्वमवाप्स्यसि ॥ ७८ ॥

यशोदाशयने मां तु देवक्यास्त्वामनिन्दिते ।
मच्छक्तिप्रेरितमतिर्वसुदेवो नयिष्यति ॥ ७९ ॥

कंसश्च त्वामुपादाय देवि शैलशिलातले ।
प्रक्षेप्स्यत्यन्तारिक्षे च संस्थानं त्वमवाप्स्यसि ॥ ८० ॥

प्रावृट्काल इति ॥ नभसि — श्रावणे मासि । नवम्याम् – कृष्णाष्टम्या निशाशेषे नैवम्यप्यस्तीति भावः ॥ ७८ – ८० ॥

ततस्त्वां शतदृक्छक्रः प्रणम्य मम गौरवात् ।
प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥ ८१ ॥

तत इति ॥ शतदृक् – सहस्रदृक् । शतसहस्रादिशब्दा बह्वर्थवाचिनोऽपि दृश्यन्ते ॥ ८१ ॥

त्वं च शुंभनिशुंभादीन्हत्वा दैत्यान्सहस्रशः ।
स्थानैरनेकैः पृथिवीमशेषां मण्डयिष्यसि ॥ ८२ ॥

त्वं भूतिः सन्नतिः क्षान्तिः कान्तिर्द्यौः पृथिवी धृतिः ।
लज्जापुष्टी रुषा या तु काचिदन्या त्वमेव सा ॥ ८३ ॥

त्वं चेति ॥ स्थानैः योगपीठाख्यायतनैर्विन्ध्य जालंधराद्यैः ॥ ८२, ८३ ॥

ये त्वामार्येति दुर्गेति वेदगर्भांबिकेति च ।
भद्रेति भद्रकालीति क्षेमदा भग्यदेति च ॥ ८४ ॥

य इति ॥ आर्यादिनामाष्टकं दुर्गामन्त्रविशेषोद्धारार्थम् ॥ ८४ ॥

प्रातश्चैवापराह्ने च स्तोष्यन्त्यानम्रमूर्तयः ।
तेषां हि प्रार्थितं सर्वं मत्प्रसादाद्भविष्यति ॥ ८५ ॥

प्रातरिति ॥ मप्रसादादिति । न हि शक्तेः शक्तिमन्तमन्तरेण सामर्थ्यमिति भावः ॥ ८५ ॥

सुरामांसोपहरैश्च भक्ष्यभोज्यैश्च पूजिता ।
नॄणामशेषकामांस्त्वं प्रसन्ना संप्रदास्यसि ॥ ८६ ॥

सुरेति ॥ सुरामांसाद्युपहारस्तु तत्तदधिकारविशेषशूद्रादेः, न सर्वेषाम् ॥ ८६ ॥

ते सर्वे सर्वदा भद्रे मत्प्रसादादसंशयम् ।
असंदिग्धा भविष्यन्ति गच्छ देवि यथोदितम् ॥ ८७ ॥

ते सर्व इति ॥ ते सर्वे कामाः असंदिग्धाः – अव्यभिचरितावाप्तयः स्युः । अत्र संशयो नास्ति ॥८७॥

इति विष्णुमहापुराणे पञ्चमांशे प्रथमोऽध्यायः ॥ १ ॥